TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण २.७

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण २.७
वीर्यं स्थिरं योनिमुखेषु येषां स्थूलं दृढं दीर्घतमं च लिङ्गम् ।
तेषां प्रगल्भाः प्रमदाश्च सर्वा भवन्ति तृप्ताः सुरतप्रसङ्गे ॥७.१॥
नागवल्लीदलद्रावैः सप्ताहं शुद्धपारदम् ।
मर्दयेत्तप्तखल्वे तु क्षालयेत्काञ्जिकैस्ततः ॥७.२॥
तत्क्षिपेद्विषकन्दस्य गर्भे निष्कचतुष्टयम् ।
विषेण तन्मुखं रुद्ध्वा स्थूलवाराहमांसके ॥७.३॥
पिण्डं गर्भे निरुध्याथ मुखं सूत्रेण सीवयेत् ।
संध्याकाले बलिं दत्त्वा कुक्कुटं मदिरायुतम् ॥७.४॥
ततश्चुल्ल्यां लोहपात्रे तैले धत्तूरसम्भवे ।
तं विंशतिपले पच्यात्सपिण्डं मन्दवह्निना ॥७.५॥
संध्यामारभ्य यत्नेन यावत्सूर्योदयं तथा ।
हठाज्जागरणं कुर्यादन्यथा तन्न सिध्यति ॥७.६॥
प्रातरुद्धृत्य गुटिकां क्षीरभाण्डे विनिक्षिपेत् ।
तत्क्षीरं शुष्यति क्षिप्रमेतत्प्रत्ययमद्भुतम् ॥७.७॥
दृष्ट्वा तां धारयेद्वक्त्रे वीर्यस्तम्भकरीं रतौ ।
क्षीरं पीत्वा रमेद्रामाः कामाकुलकलान्विताः ॥७.८॥
मुखाद्धस्तं यदा प्राप्ता तदा वीर्यं पतत्यलम् ।
ब्रह्माण्डगुटिका नाम शोषयन्ती महोदधिम् ॥७.९॥
दग्धमङ्कोल्लमूलं तु कर्पूरं कुङ्कुमं तथा ।
रोचना सहदेवी च समं सर्वं प्रपेषयेत् ॥७.१०॥
विषमुष्टिकतैलेन लिप्तलिङ्गो ह्यनेन वै ।
नरो नारीसहस्रैकं गच्छन्वीर्यं न मुञ्चति ॥७.११॥
श्वेतार्कतूलजां वर्तिं कृत्वा सूकरमेदसा ।
यावज्ज्वलति दीपोऽयं तावद्वीर्यं स्थिरं नृणाम् ॥७.१२॥
इन्द्रवारुणिकामूलं पुष्ये नग्नः समुद्धरेत् ।
त्र्यूषणैश्च गवां क्षीरैः पिष्ट्वा कुर्याद्वटीं दृढाम् ॥७.१३॥
छायाशुष्का स्थिता वक्त्रे वीर्यस्तम्भकरी नृणाम् ।
वरमङ्कोलतैलेन नाभिलेपोऽपि वीर्यधृक् ॥७.१४॥
रक्तापामार्गामूलं तु सोमवारेऽभिमन्त्रयेत् ।
भौमे प्राप्तः समुद्धृत्य बन्धेत्कट्यां च वीर्यधृक् ॥७.१५॥
चटकानङ्कुलीतैलैः पादाधः संप्रलेपयेत् ।
न मुञ्चति नरो वीर्यं शय्यां पादेन न स्पृशेत् ॥७.१६॥
डुण्डुभो नाम यः सर्पः कृष्णवर्णस्तमाहरेत् ।
तस्यास्थि धारयेत्कट्यां नरो वीर्यं न मुञ्चति ॥७.१७॥
तन्मुक्ते मुञ्चते वीर्यं सिद्धयोग उदाहृतः ।
सहदेवीयमूलं तु तत्समं पद्मकेसरम् ॥७.१८॥
पिष्ट्वा मध्वाज्यसंयुक्तो लेपो नाभौ तु वीर्यधृक् ।
श्वेतस्य कोकिलाक्षस्य बीजं मूलं समाहरेत् ॥७.१९॥
पिष्टं तण्डुलसम्भूतं बदरीणां फलं समम् ।
जलैः पिष्ट्वा वटी धार्या वीर्यस्तम्भकरी मुखे ॥७.२०॥
नागवल्लीपयःपिष्टं लज्जामूलं प्रलेपयेत् ।
तन्नाभौ वीर्यधृक्पुंसां मूलं वा तुलसीभवम् ॥७.२१॥
मूलेन श्वेतगुञ्जाया वर्तिं कृत्वा प्रदीपयेत् ।
दीपं सूकरतैलेन वीर्यस्तम्भकरं नृणाम् ॥७.२२॥
बीजमीश्वरलिङ्ग्यास्तु सूतं वृश्चिककण्टकम् ।
सर्वं पूगफलस्यान्तः क्षिप्त्वा वेष्ट्यं त्रिलोहकैः ॥७.२३॥
जिह्वोपरि स्थिते तस्मिन्नरो वीर्यं न मुञ्चति ।
श्लेष्मातस्य कुरण्टस्य बीजं फञ्ज्याः समाहरेत् ॥७.२४॥
अजाक्षीरेण तं पिष्ट्वा कर्षं भुक्त्वा तु वीर्यधृक् ।
सूरणं तुलसीमूलं ताम्बूलैः सह भक्षयेत् ॥७.२५॥
न मुञ्चति नरो वीर्यं कर्षैकेन पृथक्पृथक् ।
नखास्थीनि समादाय मार्जारस्य सितस्य वै ॥७.२६॥
श्वेतापराजितामूलं नीलीमूलं श्मशानजम् ।
सर्वं बद्ध्वा कटौ वीर्यं चिरकालं न मुञ्चति ॥७.२७॥
भूलता सिक्थकं तुल्यं लिम्पेत्तैलैः कुसुम्भजैः ।
पादौ वीर्यधरो भूयात्पद्भ्यां शय्यां न संस्पृशेत् ॥७.२८॥
नवनीतेन वा लेप्यं चटकाण्डं च पूर्ववत् ।
इन्द्रवारुणीमूलं उन्मत्ताजस्य मूत्रतः ॥७.२९॥
भावयेत्तेन लेपेन नरो वीर्यं न मुञ्चति ।
दाडिमस्य त्वचश्चूर्णं फलं भल्लातकाक्षयोः ॥७.३०॥
पिष्ट्वा तत्कटुतैलेन लेपः स्यात्पूर्ववत्फलम् ।
कर्पूरं टङ्कणं सूतं मुनिपुष्परसं मधु ॥७.३१॥
मर्दयित्वा लिम्पेत्तेन लिङ्गं यावत्समन्ततः ।
जलैः प्रक्षालयेल्लिङ्गं भजेद्रामां यथोचिताम् ॥७.३२॥
वीर्यं स्तम्भयते पुंसां याममात्रं न संशयः ।
कृष्णधत्तूरतैलेन पारदं घर्षयेद्दिनम् ॥७.३३॥
त्रिलोहैर्वेष्टितं बद्धं तत्कट्यां वीर्यधारकम् ।
स्वर्णं व्योमसत्त्वं तारं ताम्रं च रोचनम् ॥७.३४॥
बीजं वै शरपुङ्खायाः कृष्णधत्तूरबीजकम् ।
सर्वं मर्द्यं वटक्षीरैः कुबेराक्षस्य बीजके ॥७.३५॥
तत्क्षिप्त्वा धारयेद्वक्त्रे वीर्यस्तम्भकरं चिरम् ।
कृकलासस्य पुच्छाग्रं मुद्रिकाकारतां कृतम् ॥७.३६॥
ऊर्णनाभस्य जालेन वेष्टयित्वाथ धारयेत् ।
वामहस्ते कनिष्ठायां नरो वीर्यं न मुञ्चति ॥७.३७॥
स्थलमीनं समादाय शुष्कं चूर्णेन लेपयेत् ।
उल्लिप्तं रक्षयेत्किंचिद्वक्त्रे धार्यश्च वीर्यधृक् ॥७.३८॥
पश्चिमसमुद्रस्य तटे अमरचण्डेश्वरो नाम देवतायतनं तस्याग्रे वालुकामध्ये स्थलमीनास्तिष्ठन्ति ते च वालुकामीनाः कथ्यन्ते ।
शुद्धसूते विनिक्षिप्य स्वर्णं वा नागमेव वा ।
अष्टमांशेन तत्सर्वं मर्दयेत्तप्तखल्वके ॥७.३९॥
शाल्मल्याश्चैव पञ्चाङ्गरसं तत्र विनिक्षिपेत् ।
श्लेष्मान्तस्य फलं पक्वं कोकिलाक्षस्य बीजकम् ॥७.४०॥
तिलपिण्याकचूर्णं तु दत्त्वा तावद्विमर्दयेत् ।
जलौका जायते यावत्ततः कर्पूरटङ्कणम् ॥७.४१॥
कपिकच्छुकरोमाणि वाकुचीतैलकं पटु ।
मागधीं च जलैः पिष्ट्वा तत्सर्वं तप्तखल्वके ॥७.४२॥
क्षिपेत्पूर्वजलौकां च त्रिसप्ताहं विमर्दयेत् ।
सा योज्या कामकाले तु नारीणां योनिगह्वरे ॥७.४३॥
मददर्पहरा तासां मदविह्वलकारका ।
बाल्ये षडङ्गुला योज्या यौवने सा नवाङ्गुला ॥७.४४॥
द्वादशाङ्गुलिका योज्या प्रगल्भानां जलौकिका ।
यो वा तां धारयेन्मूर्ध्नि वीर्यं तस्य स्थिरं भवेत् ॥७.४५॥
पारदादष्टमांशेन सुवर्णं नागमेव वा ।
योजयेत्तप्तखल्वे तु शाल्मलीत्वङ्निजद्रवैः ॥७.४६॥
मुनिपत्त्ररसैर्नीलीमूलद्रावैश्च मर्दयेत् ।
श्लेष्मातकफलं पक्वं कोकिलाक्षस्य बीजकम् ॥७.४७॥
मज्जा सुपक्वा बिल्वस्य क्षिपेत्तत्रैव मर्दयेत् ।
जलौका जायते यावत्ततस्तस्मात्समुद्धरेत् ॥७.४८॥
त्रिसप्ताहं तप्तखल्वे कर्पूराद्यैश्च पूर्ववत् ।
मर्दयेच्च फलं तद्वज्जायते नात्र संशयः ॥७.४९॥
रसादष्टमभागं तु सुवर्णं नागमेव वा ।
योज्यं च त्रिफला भृङ्गी शुण्ठी छागपयो घृतम् ॥७.५०॥
क्षौद्रं गोमूत्रकं चैव सर्वं सप्तदिनावधि ।
मर्दयेत्तदवच्छिन्नं जलौका यावता भवेत् ॥७.५१॥
कर्पूराद्यैः पुनर्मर्द्यं तप्तखल्वे तु पूर्ववत् ।
पूर्ववज्जायते सिद्धिस्तद्वद्योगे न संशयः ॥७.५२॥
त्रिदिनं मर्दयेत्खल्वे सूतं निष्कचतुष्टयम् ।
त्रिफलायास्तु निर्यासं स्तोकं स्तोकं विनिक्षिपेत् ॥७.५३॥
पयश्चैव महाशृङ्ग्या दातव्यं मर्दनक्षमम् ।
जलौका मर्दनाख्येयं जायते सुखदा नृणाम् ॥७.५४॥
रामाणां मदमत्तानां द्राविकाग्नौ घृतं यथा ।
पूर्ववत्क्रमयोगेन वीर्यस्तम्भकरी भवेत् ॥७.५५॥
पारदं मरिचं कुष्ठं तगरं कण्टकारिका ।
अश्वगन्धातिलक्षौद्रसैन्धवश्वेतसर्षपाः ॥७.५६॥
अपामार्गो यवा माषाः पिप्पली च समं जलैः ।
पिष्ट्वा विमर्दयेत्तेन लिङ्गं मासमहर्निशम् ॥७.५७॥
वर्धते हस्तमात्रं तत्स्थौल्येन मुसलोपमम् ।
वराहवसया क्षौद्रैर्लिङ्गं मासं विलेपयेत् ॥७.५८॥
अतिदीर्घं दृढं स्थूलं जायते नात्र संशयः ।
अश्वगन्धा वचा कुष्ठं बृहती च शतावरी ॥७.५९॥
पाचयेत्तिलतैलेन मर्दयेत्तेन पूर्ववत् ।
लिङ्गं स्थूलं दृढं दीर्घं मासमात्रात्प्रजायते ॥७.६०॥
जम्बूसूकरजं तैलं महाराष्ट्री च टङ्कणम् ।
मधुना सह लेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥७.६१॥
मिश्रितं मुसलीचूर्णं माहिषैर्नवनीतकैः ।
तद्भाण्डं धान्यराशौ च स्थितं सप्तदिनैर्हरेत् ॥७.६२॥
तेन प्रलेपयेल्लिङ्गं वर्धते मासमात्रतः ।
पिप्पली मरिचं क्षीरं सिता तुल्यं विमर्दयेत् ॥७.६३॥
मासैकं वृद्धिकृल्लिङ्गे नात्र कार्या विचारणा ।
माहिषं गोघृतं तुल्यं सैन्धवं च समं समम् ॥७.६४॥
अनेन लेपयेल्लिङ्गं स्थूलं स्यान्मासमात्रतः ।
अश्वगन्धापमार्गौ च सारिवाक्षफलं तिलाः ॥७.६५॥
सर्षपेन्द्रयवं तुल्यमजाक्षीरेण पेषयेत् ।
तेन लिङ्गं तु मासैकं मर्दनाद्वृद्धिमाप्नुयात् ॥७.६६॥
मांसीमक्षफलं कुष्ठमश्वगन्धां शतावरीम् ।
तैले पक्त्वा प्रलेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥७.६७॥
रोहीतमत्स्यजं पित्तं जलौका लाङ्गली समम् ।
अनेन लेपयेल्लिङ्गं स्यान्मासान्मुसलोपमम् ।
निशा सिताश्वगन्धा च पारदं मर्दयेत्समम् ।
अनेन मर्दयेल्लिङ्गं योनिकर्णस्तनांस्तथा ।
वर्धन्ते मासमात्रेण नात्र कार्या विचारणा ॥७.६८॥
ओं नमो भगवते उड्डामरेश्वराय सर प्रसर २ कुरु ठ ठः ।
अनेन मन्त्रेण सर्वे वर्धनयोगाः सप्ताभिमन्त्रिताः सिद्धा भवन्ति ।
जाम्बूमार्जारयोः पित्तं यवागूमर्दितं दिहेत् ।
मासैकाद्वर्धते लिङ्गं स्तनौ कर्णौ च मर्दनात् ॥७.६९॥
ओं नमो भगवते उड्डामरेश्वराय सर प्रसर प्रसर निकल निकल निकालय निकालय स्वाहा ठः ठः ॥७.७०॥
गृहगोधा शुनो जिह्वा स्त्रीजरायुः समं समम् ।
पिष्ट्वा धार्यं ताम्रपात्रे सप्ताहात्तं पुनः पचेत् ॥७.७१॥
तिलतैलेन तत्तैलमर्दनाद्वर्धते खलु ।
लिङ्गं स्तनौ च कर्णौ च हस्तौ पादौ न संशयः ।
ओं नमो भगवते उड्डामरेश्वराय सर सर हिलि हिलि स्वाहा ठः ठः ।
अतितरसुखसाध्यैर्योगराजैः प्रसिद्धैः सततसुरतयोग्यं स्तम्भनं वर्धनं च ।
निपुणरसिकरामारञ्जकं मोहकं स्याद्गदितमिह समस्तं भोगिनां सौख्यहेतुः ॥७.७२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:47.4600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

struck moulding

  • = solid moulding 
RANDOM WORD

Did you know?

घर के मंदिर में कौनसी बातों का ध्यान रखना चाहिये?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site