TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण १.४

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ४
{मूर्छन}
अथातः शुद्धसूतस्य मूर्च्छना विधिरुच्यते ।
मेघनादो वचा हिंगु शूरणैर्मर्दयेद्रसम् ॥४.१॥
नष्टपिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद्बहिः ।
पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्निना ॥४.२॥
ऊर्ध्वलग्नं समारुह्य दृढं वस्त्रेण बन्धयेत् ।
ऊर्ध्वाधो गन्धकं तुल्यं दत्त्वा सौम्यानले पचेत् ॥४.३॥
जीर्णे गन्धे पुनर्देयं षड्भिर्वारैः समं समम् ।
षड्गुणे गन्धके जीर्णे मूर्छितो रोगहा भवेत् ॥४.४॥
{मेर्चुर्यः: मूर्छन}
गन्धकं मधुसारं च शुद्धसूतं समं समम् ।
यामैकं पाचयेत्खल्वे काचकुप्यां निवेशयेत् ॥४.५॥
रुद्ध्वा द्वादशयामं तं वालुकायन्त्रगं पचेत् ।
स्फोटयेत्स्वांगशीतं तं तदूर्ध्वं गन्धकं त्यजेत् ॥४.६॥
अधःस्थं रसमादाय सर्वरोगेषु योजयेत् ।
{मेर्चुर्यः: फ़ोर्मुलतिओन्}
शुद्धं सूतं द्विधा गन्धं सूतार्द्धं सैन्धवं क्षिपेत् ॥४.७॥
द्रवैः सितजयन्त्याश्च मर्दयेद्दिवसत्रयम् ।
कृत्वा गोलं च संशोष्य क्षिप्त्वा मूषां निरुन्धयेत् ॥४.८॥
शोषयित्वा धमेत्किंचित्सुतप्तां तां जले क्षिपेत् ।
तस्माद्रसं समुद्धृत्य त्रिकण्टरसभावितम् ॥४.९॥
योजयेत्सर्वरोगेषु धमेद्वा भूधरे पचेत् ।
{मेर्चुर्यः: फ़ोर्मुलतिओन्}
रसार्धं गन्धकं मर्द्यं घृतैर्युक्तं तु गोलकम् ॥४.१०॥
कृत्वा तं बन्धयेद्वस्त्रे दोलायन्त्रगतं पचेत् ।
गोमूत्रान्तः कृतं यामं नरमूत्रैर्दिनत्रयम् ॥४.११॥
शोषयेच्च पुनर्वस्त्रे बद्ध्वावेष्ट्य सदा दृढम् ।
शुष्कं निरुध्य मूषायां ततस्तुषाग्निना पचेत् ॥४.१२॥
ऊर्ध्वभागमधः कृत्वा अधोभागं च ऊर्ध्वगम् ।
इत्यादिपरिवर्तेन स्वेदयेद्दिवसत्रयम् ॥४.१३॥
पश्चादुद्धृत्य तं सूतं योगवाहं रुजापहम् ॥४.१४॥
{मेर्चुर्यः: फ़ोर्मुलतिओन्}
सद्योजातस्य बालस्य विष्ठां पालाशबीजकम् ।
चाण्डाली रुधिरं सूतं सूतपादं च टङ्कणम् ॥४.१५॥
जयन्त्या मर्दयेद्द्रावैर्दिनैकं तत्तु गोलकम् ।
पेषयेत्सहदेव्याथ लेपयेत्ताम्रसंपुटम् ॥४.१६॥
तन्मध्ये गोलकं क्षिप्त्वा द्वियामं स्वेदयेल्लघु ।
वालुकायन्त्रमध्ये तु समुद्धृत्य ततः पुनः ॥४.१७॥
चित्रकैः सहदेव्या च गन्धकैर्लेपयेद्बहिः ।
सम्पुटं बन्धयेद्वस्त्रे मृदालेप्य च शोषयेत् ॥४.१८॥
तं रुद्ध्वान्धमूषायां ध्माते सम्पुटमाहरेत् ।
सूक्ष्मचूर्णं हरेद्रोगान्योगवाहो महारसः ॥४.१९॥
सम्पुटं सूततुल्यं स्याच्छास्त्रदृष्टेन कर्मणा ॥४.२०॥
{मेर्चुर्यः: फ़ोर्मुलतिओन्}
धत्तूरकद्रवैर्मर्द्यं दिनं गन्धं ससूतकम् ।
अन्धमूषे दिनं स्वेद्यं भूधरे मूर्छितो भवेत् ॥४.२१॥
कृत्वा षडङ्गुलां मूषां सुपक्वां मृन्मयीं दृढाम् ।
मूषागर्भं विलेप्याथ मूलैर्बहुलपत्रकैः ॥४.२२॥
तन्मध्ये सूतकं क्षिप्त्वा मूषां पूर्यात्तु तद्द्रवैः ।
रुद्ध्वा सलवणैर्यन्त्रैश्चुल्यां दीप्ताग्निना पचेत् ॥४.२३॥
सप्ताहान्ते समुद्धृत्य यवमानं ज्वरापहम् ।
{मेर्चुर्यः: मूर्छन}
काशीशं सैन्धवं सूतं तुल्यं तुल्यं विमर्दयेत् ॥४.२४॥
काशीशस्यास्य भागेन दातव्या फुल्लतूरिका ।
स्तोकस्तोकं क्षिपेत्खल्वे त्रियामं चैव मूर्छयेत् ॥४.२५॥
प्रत्येकं शतनिष्कं स्यादूनं नैवाधिकं भवेत् ।
स्थालीसम्पुटयन्त्रेण दिनं चण्डाग्निना पचेत् ॥४.२६॥
ऊर्ध्वलग्नं ततश्चुल्ल्यां मूर्छितं चाहरेत्सूतम् ।
{मेर्चुर्यः: मूर्छन}
कुरण्टकरसैर्भाव्यं आतपे मर्दयेद्रसम् ॥४.२७॥
लताकरञ्जपत्रैर्वाङ्गुष्ठाग्रेन विमर्दयेत् ।
दिनैकं मूर्छितं सम्यक्सर्वरोगेषु योजयेत् ॥४.२८॥
{हैरण्यगर्भक}
अथ सूतस्य शुद्धस्य मूर्छितस्याप्ययं विधिः ।
सूततुल्यं घृतं जीर्णं द्वाभ्यां तुल्यं च गन्धकम् ॥४.२९॥
रविक्षीरैर्दिनं मर्द्यं अन्धयित्वा च भूधरे ।
पुटकेन भवेत्सिद्धो रसो हैरण्यगर्भकः ॥४.३०॥
{वैक्रान्तबद्धरस}
कटुतुम्ब्युद्भवे कन्दे वन्ध्यायाः क्षीरकन्दके ।
अपक्वैकं समादाय तद्गर्भे पिण्डिका ततः ॥४.३१॥
दशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् ।
स्तोकं स्तोकं क्षिपेद्गन्धं पाषाणे तं तु कुट्टयेत् ॥४.३२॥
याममात्रे भवेत्पिण्डी रसं कन्दे विनिक्षिपेत् ।
अध ऊर्ध्वं भस्म वैक्रान्तं दत्त्वा निष्कार्द्धमात्रकम् ॥४.३३॥
ततः कन्दस्य मज्जाभिर्मुखं बद्ध्वा मृदा दृढम् ।
लिप्तं अङ्गुलमानेन सर्वतः शोष्य गोलकम् ॥४.३४॥
पाचयेद्भूधरे यन्त्रे तत उद्धृत्य पुनः पचेत् ।
ऊर्ध्वभागमधः कुर्यादित्येवं परिवर्तयेत् ॥४.३५॥
क्रमेण चालयेदूर्ध्वं बहिर्युग्मोपलैः पचेत् ।
ततो भिन्नस्तु संग्राह्यो बद्धः स्याद्दाडिमोपमम् ।
नाम्ना वैक्रान्तबद्धोऽयं सर्वरोगेषु योजयेत् ॥४.३६॥
{गन्धबद्धपारद}
अथवा गन्धपीठीनां वस्त्रे बद्ध्वा तु गन्धकम् ।
तुल्यं दत्त्वा निरुन्ध्याथ सम्पुटे लोहजे दृढे ॥४.३७॥
पुटयेद्भूधरे तावद्यावज्जीर्यति गन्धकम् ।
एवं पुनः पुनर्देयं यावद्गन्धस्तु षड्गुणम् ॥४.३८॥
इत्येवं गन्धके बद्धः सूतः स्यात्सर्वरोगहृत् ।
{गन्धबद्धपारद (२)}
मूषा जम्बीरविस्तारा दैर्घ्येण षोडशाङ्गुला ।
अपक्वा सुदृढा कार्या सिकताभाण्डमध्यगा ॥४.३९॥
त्रिभागं वालुका लग्ना पादांशेन बहिः स्थिताः ।
पलैकं चूर्णितं गन्धं मूषामध्ये विनिक्षिपेत् ॥४.४०॥
शुद्धसूतं समं पश्चात्क्षिपेद्गन्धपलं ततः ।
भाण्डं आरोपयेच्चुल्ल्यां मूषामाच्छाद्य यत्नतः ॥४.४१॥
मन्दाग्निना पचेत्तावद्यावन्निर्धूमतां व्रजेत् ।
गन्धधूमे गते पूर्या काकमाचीद्रवैस्तु सा ॥४.४२॥
द्रवे जीर्णे पुनः पूर्या नागवल्लीदलद्रवैः ।
जीर्णे धुस्तूरकद्रावैः पूरयित्वा पुनः पचेत् ॥४.४३॥
यावज्जीर्यति तद्गन्धं काकमाच्यादिभिः पुनः ।
दत्त्वा दत्त्वा पचेत्तद्वद्धुस्तुरादिक्रमाद्रसम् ॥४.४४॥
भित्त्वा मूषां समादाय जराव्याधिहरो रसः ।
योजयेद्गन्धबद्धोऽयं योगवाहेषु सर्वतः ॥४.४५॥
{मेर्चुर्यः: मूर्छनः: तेस्त्}
कज्जलाभो यदा सूतो विहाय घनचापलम् ।
मूर्छितः स तदा ज्ञेयो नानारसगतः क्वचित् ॥४.४६॥
माधुर्यगौरवोपेतः तेजसा भास्करोपमः ।
वह्निमध्ये यदा तिष्ठेत्तदा वृक्षस्य लक्षणम् ॥४.४७॥
स जयति रसराजो मृत्युशङ्कापहारी सकलगुणनिधानः कायकल्पाधिकारी ।
वलिपलितविनाशं सेवनाद्वीर्यवृद्धिं स्थिरमपि कुरुते यः कामिनीनां प्रसङ्गे ॥४.४८॥
इत्येता मारिताः सूता मूर्छिता बद्धं आगताः ।
प्रत्येकं योगवाहः स्यात्तत्तद्योगेषु योजयेत् ॥४.४९॥
मारितं देहसिद्ध्यर्थं मूर्छितं व्याधिनाशनम् ।
रसभस्म क्वचिद्रोगे देहार्थे मूर्छितं क्वचित् ॥४.५०॥
बद्धं द्वाभ्यां प्रयुञ्जीत शास्त्रदृष्टेन कर्मणा ।
{मेर्चुर्यः: स्तोरगे}
दन्ते शृङ्गेऽथवा वंशे रक्षयेत्साधितं रसम् ॥४.५१॥
{मेर्चुर्यः: मेदिच्. प्रोपेर्तिएस्}
पारदं क्रिमिकुष्ठघ्नं बल्यमायुष्यदृष्टिदम् ।
सेवनात्सर्वरोगघ्नं रुच्यं गुरुकषायकम् ॥४.५२॥
सूते गुणानां शतकोटिर्वज्रे चाभ्रे सहस्रं कनके शतैकम् ।
तारे गुणाशीतिस्तदर्धं कान्ते तीक्ष्णे चतुःषष्टिः रवौ तदर्धम् ॥४.५३॥
रसादिभिर्या क्रियते चिकित्सा दैवीति सद्भिः परिकीर्तिता सा ।
सा मानुषी मन्त्रकृता शिफाद्यैः सा राक्षसी शस्त्रकृतादिभिर्या ॥४.५४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:43.5630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

exponential law

  • घातीय नियम 
RANDOM WORD

Did you know?

gharat javalchi vyakti vaarlya nanter, lok ek varsha san saajre ka karat nahit?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.