TransLiteral Foundation

रसरत्नाकर - प्रकरण ३.१०

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ३.१०
लोहैर्महारसवरैर्विडपक्वबीजं कृत्वाथ पारदवरे विधिवच्च जार्यम् ।
योज्यं तथा सकलसारणकर्मयोगे तद्वक्ष्यते विविधबीजविडाधिकारम् ॥१०.१॥
{पक्वबीज (१)}
ताम्रं समं शुद्धं द्रावितं लेपयेत्पुनः ।
साम्लेन ताप्यकल्केन धमेत्स्वर्णावशेषितम् ॥१०.२॥
एवं दशगुणं वाह्यं ताप्यं वा तुत्थसत्त्वकम् ।
पक्वबीजमिदं ख्यातं स्वर्णशेषं समाहरेत् ॥१०.३॥
{पक्वबीज}
नागाभ्रं द्वंद्वितं तुल्यं स्वर्णे वाह्यं द्विषड्गुणम् ।
पूर्ववत्स्वर्णशेषं तु ग्राह्यं स्यात्पक्वबीजकम् ॥१०.४॥
{पक्वबीज (३)}
स्वर्णं पीताभ्रसत्त्वं च तुल्यांशं द्वंद्वितं धमेत् ।
ताप्यं तालकवापेन स्वर्णशेषं समाहरेत् ।
एवं दशगुणं सत्त्वं वाह्यं स्यात्पक्वबीजकम् ॥१०.५॥
{पक्वबीज (४)}
रसकाभ्रकयोः सत्त्वं ताम्रं नागं क्रमोत्तरम् ॥१०.६॥
चूर्णितं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं माक्षिकं तुत्थं अम्लैः पिष्ट्वा पुटे पचेत् ॥१०.७॥
समुद्धृत्य पुनश्चाम्लैर्मर्द्यं रुद्ध्वा पुटे पचेत् ।
एवं पञ्चपुटैः पक्वं द्रुते स्वर्णे तु वाहयेत् ।
धमेद्दशगुणं यावत्तावत्स्यात्पक्वबीजकम् ॥१०.८॥
{बीजः: फ़्रों लेअद्}
लोहस्य कुट्यमानस्य सुतप्तस्य दलानि वै ।
पतन्ति तानि स्वीकृत्य ख्यातोऽयं लोहपर्पटः ॥१०.९॥
लोहपर्पटमाक्षीकं कंकुष्ठं विमलाभ्रकम् ।
मृतशुल्बं शिलासूतं दरदार्कस्नुहीपयः ॥१०.१०॥
एतैः समं नागचूर्णं मर्द्यं रुद्ध्वा पुटे पचेत् ।
पुनर्मर्द्यं पुनः पाच्यं यावद्वारांश्चतुर्दश ॥१०.११॥
एवं शतगुणं वाह्यं शुद्धहेम्नि धमन्धमन् ।
तत्स्वर्णं नागबीजं स्याद्गोरोचननिभं भवेत् ॥१०.१२॥
{बीजः: फ़्रों लेअदः: पक्वः: रञ्जन}
खर्परस्थे द्रुते नागे ब्रह्मबीजदलानि हि ।
क्षिप्त्वाग्निं ज्वालयेच्चण्डं ब्रह्मदण्डेन चालयेत् ॥१०.१३॥
चतुर्यामात्तु तद्भस्म जातं पात्रात्समुद्धरेत् ।
रुद्ध्वा गजपुटे पच्यात्पादांशं गंधकं पुनः ॥१०.१४॥
दत्त्वाम्लमर्दितं पच्यादेवं वारांश्चतुर्दश ।
रक्तवर्णं भवेद्भस्म तद्भागं खर्परे क्षिपेत् ॥१०.१५॥
भागत्रयं शिलाचूर्णं पृथक्पात्रे विनिक्षिपेत् ।
पञ्चाङ्गं वासकाचूर्णं त्वक्चूर्णं चार्जुनस्य वै ॥१०.१६॥
शाककिंशुककोरण्टशिग्रूणां पुष्पमाहरेत् ।
नागिनी नागकन्या च कुमारी चाहिमारकम् ॥१०.१७॥
सर्वेषां प्रतिभागैकं शिलामध्ये विनिक्षिपेत् ।
सर्वं चतुर्गुणैर्मूत्रैश्छागजैः क्वाथमाचरेत् ॥१०.१८॥
पूर्वोक्तनागभूतैश्च खर्परस्थस्य संक्षिपेत् ।
चालयेत्पाचयेच्चुल्ल्यां यावत्सप्तदिनावधि ॥१०.१९॥
यत्नेन मृतनागेन वापो देयो द्रुतस्य च ।
पक्वबीजस्य वारांस्त्रीन्रञ्जितं जायते शुभम् ॥१०.२०॥
{लेअदः: मृतः: अल्छेम्. उसे}
दलानां चैव बीजानां पिष्टीस्तम्भे विशेषतः ।
उच्चाटे क्रामणे योज्यं पूर्वोक्तं मृतनागकम् ॥१०.२१॥
{बीजः: पक्वः: रञ्जन}
मञ्जिष्ठा ब्रह्मपुष्पं च पुष्पं च करवीरकम् ॥१०.२२॥
सर्वासां वृक्षजातीनां रक्तपुष्पाणि चाहरेत् ।
खादिरं देवदारुं च द्विनिशा रक्तचन्दनम् ॥१०.२३॥
सर्वं लाक्षारसैः पिष्ट्वा क्षिप्त्वा तैलं चतुर्गुणम् ।
पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् ।
त्रिसप्तधा पक्वबीजं रञ्जते जायते शुभम् ॥१०.२४॥
{बीजः: पक्व, रञ्जितः: अल्छेम्. उसे}
गर्भद्रावैः प्रयोक्तव्यं तथा सर्वत्र सारणे ।
समेन जारयेत्सूतं द्विगुणेन तु सारयेत् ॥१०.२५॥
त्रिगुणेन ह्यनेनैव कर्तव्यं प्रतिसारणम् ।
सारितं क्रामणेनैव वेधकाले नियोजयेत् ॥१०.२६॥
{बीजः: फ़्रों सिल्वेर्}
विमला तीक्ष्णचूर्णं च सत्त्वं श्वेताभ्रकस्य च ।
रसकं तारमाक्षीकं समभागं विचूर्णयेत् ॥१०.२७॥
चूर्णाच्चतुर्गुणं वङ्गं द्वंद्वमेलापकं धमेत् ।
मर्दयेदम्लयोगेन रुद्ध्वा गजपुटे पचेत् ॥१०.२८॥
एवं पञ्चपुटैः पक्वं ततस्तारे तु वाहयेत् ।
धमन्दशगुणं यावत्तत्तारं तारबीजकम् ॥१०.२९॥
{बीजः: फ़्रों सिल्वेर्}
ताप्येन मारयेद्बंगं यथा तालेन मारितम् ।
तद्द्वात्रिंशगुणं तारे वाहयेत्तालवापतः ।
ताम्रबीजं तु तच्छ्रेष्ठं सारणे रञ्जने हितम् ॥१०.३०॥
{बीजः: फ़्रों सिल्वेर्}
कुटिलं विमला तीक्ष्णं समं चूर्णं प्रकल्पयेत् ।
ध्मातव्यं द्वंद्वलिप्तायां खोटमम्लेन पेषितम् ॥१०.३१॥
पुटितं पञ्चवारं तु तारे वाह्यं शनैर्धमेत् ।
यावद्दशगुणं तत्तु तारबीजं भवेच्छुभम् ॥१०.३२॥
{बीजः: फ़्रों सिल्वेर्}
बंगं श्वेताभ्रसत्त्वं च तारमाक्षिकसत्त्वकम् ।
द्वंद्वमूषागतं धाम्यं त्रितयं चूर्णितं समम् ॥१०.३३॥
वाह्यं दशगुणं तारे तारमाक्षिकवापतः ।
तत्तारं जायते बीजं सर्वकार्यकरक्षमम् ॥१०.३४॥
{तारबीजरञ्जन}
यथाप्राप्तैः श्वेतपुष्पैर्नानावृक्षसमुद्भवैः ॥१०.३५॥
रसं चतुर्गुणं योज्यं कङ्गुणीतैलवापतः ।
पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् ॥१०.३६॥
द्रावितं तारबीजं तु एकविंशतिवारकम् ।
रञ्जितं जायते तत्तु रसराजस्य रञ्जकम् ॥१०.३७॥
{सारणातैल}
ज्योतिष्मतीकरञ्जाक्षकटुतुम्बीसमुद्भवम् ।
तैलमेकं समादाय मण्डूकवसया समम् ॥१०.३८॥
कूर्मसूकरमेषाहिजलूकामत्स्यजापि वा ।
एतेष्वेका वसा ग्राह्या पूर्वतैलं समाहरेत् ॥१०.३९॥
रक्तवर्गं पीतवर्गं कार्यं क्षीरैश्चतुर्गुणैः ।
पुष्पाणां रक्तपीतानां एकैकानां द्रवं हरेत् ॥१०.४०॥
एतद्द्वंद्वविभागं स्यात्पूर्वक्वाथचतुष्टयम् ।
पाटलीकाकतुण्ड्युत्थं महाराष्ट्रीद्रवं तथा ॥१०.४१॥
प्रत्येकं भागमेकैकं पूर्वतैलवसायुतम् ।
योज्यं भागद्वयं तत्र भूलतामलताप्यकम् ॥१०.४२॥
द्वन्द्वमेलापयोरेकं तैलात्षोडशकांशकम् ।
प्रत्येकं योजयेत्तस्मिन्सर्वमेकत्र पाचयेत् ॥१०.४३॥
ग्राह्यं तैलावशेषं तु वस्त्रपूतं सुरक्षयेत् ।
विख्यातं सारणातैलं रसराजस्य कर्मणि ॥१०.४४॥
{क्रामणः: सुब्स्तन्चेस्फ़ोर्~}
नागं वङ्गं मृतं तुल्यमम्लेन च वटीकृतम् ।
क्रामणार्थे प्रयोक्तव्यं वेधकाले रसस्य तु ॥१०.४५॥
{क्रामणः: सुब्स्तन्चेस्फ़ोर्}
सौराष्ट्रीं भावयेद्घर्मे गवां पित्तैः त्रिधाततः ।
तत्सत्त्वं सोमवद्ग्राह्यं क्रामकं योजयेद्रसे ॥१०.४६॥
{क्रामणः: सुब्स्तन्चेस्फ़ोर्~}
मनःशिला विषं ताप्यं महिषीकर्णजं मलम् ।
काकविट्खररक्तं च क्रामणं स्नुक्पयोऽन्वितम् ॥१०.४७॥
{क्रामणः: सुब्स्तन्चेस्फ़ोर्~}
नररक्तार्कदुग्धं च टंकणं भूलता शिला ।
समांशं क्रामकं योज्यं वेधकाले रसस्य तु ॥१०.४८॥
{क्रामणसत्त्व (५)}
इन्द्रगोपं विषं कांतं नररक्तं स्नुहीपयः ।
रसकं दरदं तैलं सर्वमेकत्र मर्दयेत् ।
क्रामकं क्षेपलेपाभ्यां वेधकाले नियोजयेत् ॥१०.४९॥
{क्रामणः: सुब्स्तन्चेस्फ़ोर्~; वेधः: ~}
रसं धान्याभ्रकं सत्त्वं काकवितरितालकम् ।
नयनं सहदेवानां भूनागश्च समं समम् ॥१०.५०॥
पिण्डितं क्रामणे सिद्धं क्षेपे लेपे नियोजयेत् ॥१०.५१॥
{क्रामणसत्त्व (७)}
कदलीकन्दसौवीरं कण्टकारीरसप्लुतम् ।
क्रामणं सर्वधातूनां सर्वद्वंद्वेषु मेलनम् ॥१०.५२॥
क्रामणेन विना सूतो न क्रमेद्देहलोहयोः ।
उक्तस्थानेषु योगेषु तस्मात्सर्वेषु योजयेत् ॥१०.५३॥
{महाविड}
दग्धं शंखं रविक्षीरैर्भावितं शतधातपे ।
ततः पञ्चपुटैः पक्वं रुद्ध्वा रुद्ध्वाथ संपुटे ॥१०.५४॥
तत्समं टंकणं क्षिप्त्वा ह्यम्लवर्गेण भावयेत् ।
राजावर्तं प्रवालं च दरदं गंधकं शिला ॥१०.५५॥
पञ्चानां तु समं चूर्णं शङ्खतुल्यं नियोजयेत् ।
सर्वं तदम्लवर्गेण मर्दयेद्दिवसत्रयम् ॥१०.५६॥
अयं महाविडः ख्यातः खोटानां जारणे हितः ।
मूषालेपं तु सर्वत्र जारणे योजयेत्सदा ॥१०.५७॥
तत्क्षणाज्जरते सूतो वज्रादीनि न संशयः ॥१०.५८॥
{विड (२)}
त्रिक्षारं पञ्चलवणं नवसारं कटुत्रयम् ।
इन्द्रगोपं घनं शिग्रु सूरणं वनसूरणम् ॥१०.५९॥
भावयेदम्लवर्गेण त्रिदिनं ह्यातपे खरे ।
अनेन मर्दितः सूतो भक्षयेदष्टलोहकम् ॥१०.६०॥
{विड (३)}
व्योषं गंधकं कासीसं स्वर्णपुष्पी सुवर्चलम् ।
सर्जी टंकणं सौवीरं सैन्धवं शिग्रुजैर्द्रवैः ।
दशाहं भावयेद्घर्मे विडोऽयं जारणे हितः ॥१०.६१॥
{विड (४)}
दग्धशङ्खं रविक्षीरैर्भावितं शतधातपे ।
ततः पञ्चपुटैः पक्वं जारणे विडमुत्तमम् ॥१०.६२॥
{विड (५)}
त्रिक्षारं पञ्चलवणं अम्लवेतससंयुतम् ।
अनेन मर्दयेत्सूतमभ्रसत्त्वं चरत्यलम् ॥१०.६३॥
{विड (६)}
गोमूत्रं गंधकं घर्मे शतवारं विभावयेत् ।
शिग्रुमूलद्रवैस्तद्वद्दग्धं शङ्खं विभावयेत् ॥१०.६४॥
एतद्गंधकशंखाभ्यां समांशं विषसैन्धवम् ।
एतैर्विमर्दितं सूतं ग्रसते सर्वलोहकम् ॥१०.६५॥
{वह्निमुखो विड (७)}
टंकणं शतधा भाव्यं द्रवैः पालाशवृक्षजैः ।
विडो वह्निमुखो नाम हितः सर्वस्य जारणे ॥१०.६६॥
{विड (८)}
गंधकं नवसारं वा मुखं कांतस्य चातपे ।
शतधा मूत्रवर्गेण भावितं स्याद्विडं पृथक् ॥१०.६७॥
{ज्वालामुखो विडः (९)}
त्रिक्षारं गंधकं तालं भूखगं नवसारकम् ।
सैंधवं च समं सर्वं मूत्रवर्गैर्दिनं पचेत् ॥१०.६८॥
ज्वालामुखो विडो नाम हितः सर्वत्र जारणे ॥१०.६९॥
{विड (१०)}
गंधकं शतधा भाव्यं वनशिग्रुशिफाद्रवैः ।
जम्बीरैर्नवसारं वा भावितं स्याद्विडं पृथक् ॥१०.७०॥
{विडः: वडवानल}
वासकैरंडकदली देवदाली पुनर्नवा ।
वासापालाशनिचुलं तिलं काञ्चनमोक्षकम् ॥१०.७१॥
एतान्समूलानादाय नातिशुष्कान्विखण्डयेत् ।
पञ्चाङ्गं मूलकं दग्ध्वा तिलकाण्डं च तत्समम् ॥१०.७२॥
एतत्क्षारैः पूर्वकल्कं मूत्रवर्गेण भावयेत् ।
वस्त्रपूतं द्रवं पच्यात्मृद्वग्नौ लोहपात्रके ॥१०.७३॥
बाष्पाणां बुद्बुदानां च बहूनां उद्गमो यदा ।
तदा कासीसं सौराष्ट्री क्षारत्रयं कटुत्रयम् ॥१०.७४॥
गंधकं पंचलवणं नवसारं च हिंगुलम् ।
एतेषां निक्षिपेच्चूर्णं तस्मिन्पात्रेऽथ चालयेत् ॥१०.७५॥
गुडपाकं समुत्तार्य लोहसंपुटके क्षिपेत् ।
सप्ताहं भूमिगर्भेऽथ धान्यराशौ तथा पुनः ।
सप्ताहं संस्थितः सिद्धो विडोऽयं वडवानलः ॥१०.७६॥
{विडः: फ़ोर्सत्त्वजारण}
भावयेन्निचुलक्षारं देवदालीदलद्रवैः ।
एकविंशतिवारं तु बिडोऽयं सत्त्वजारणे ॥१०.७७॥
{विडः: तीव्रानल}
देवदालीशिफाबीजं गुंजासैंधवटंकणम् ।
समांशं निचुलक्षारमम्लवर्गेण सप्तधा ॥१०.७८॥
कोशातकीदलरसैर्भावयेद्दिनसप्तकम् ।
तीव्रानलो नाम बिडो विहितो हेमजारणे ॥१०.७९॥
{विडः: फ़ोर्जारण ओफ़् गोल्द्}
मूलकार्द्रकवह्नीनां क्षारं गोमूत्रलोलितम् ।
वस्त्रपूतं द्रवं ग्राह्यं गंधकं तेन भावयेत् ॥१०.८०॥
शतवारं खरे घर्मे विडोऽयं हेमजारणे ॥१०.८१॥
{विडः: फ़ोर्जारण ओफ़् गोल्द्}
त्रिक्षारं पंचलवणं शङ्खं तालं मनःशिला ।
दिनैकमम्लवर्गेण पक्वं स्याद्धेमजारणे ॥१०.८२॥
{विडः: फ़ोर्जारण ओफ़् गोल्द्}
गंधकं नवसारं च जम्बीराम्लेन मर्दयेत् ।
शतवारं खरे घर्मे बिडोऽयं हेमजारणे ॥१०.८३॥
{विडः: फ़ोर्जारण}
कन्याहयारिधत्तूरद्रवैर्भाव्यं तु गंधकम् ।
शतधा तं खरे घर्मे विडोऽयं सर्वजारणे ॥१०.८४॥
अनेन ग्रसते शीघ्रं शुक्तिसंभवसंपुटे ॥१०.८५॥
{विडः: फ़ोरिम्प्रोवेमेन्तोफ़् ग्रासन}
सैंधवं गंधकं तुल्यं ताम्रवल्लीद्रवैः प्लुतम् ।
अनेन बिडयोगेन गगनं ग्रसते रसः ॥१०.८६॥
{सिद्धविड}
शिलागंधकसिन्धूत्थं प्रत्येकं च पलं पलम् ।
पलत्रयं च भूनागं सर्वमेकत्र मर्दयेत् ॥१०.८७॥
शोषयेच्च पुनर्देयं भूनागानां पलत्रयम् ।
तद्वन्मर्द्यं पुनः शोष्यं पाचयेन्मन्दवह्निना ॥१०.८८॥
एवं अष्टगुणं दत्त्वा मर्द्यं पाच्यं विचूर्णयेत् ।
अयं सिद्धविडो योज्यो जारणे हेमकर्मणि ॥१०.८९॥
सम्यक्संस्कृतगंधकाद्युपरसं सत्त्वं ततो व्योमजं पश्चान्माक्षिकसत्त्वहाटकवरं गर्भद्रुतौ द्रावितम् ।
रागै रञ्जितबीजजालं अखिलं बाह्यां द्रुतिं द्वंद्वितां सूते सर्वमिदं क्रमेण विधिना सिद्धैर्बिडैर्जारयेत् ॥१०.९०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:51.1630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जन्म जाणें

  • आयुष्‍य खर्च होणें 
  • सर्व हयात निघून जाणें 
  • जिंदगी खर्च होणें. ‘गेलारे गेला जन्म वाया।’ 
RANDOM WORD

Did you know?

चातुर्मासाचे महत्व स्पष्ट करावे.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site