TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण २.६

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण २.६
येषां रामा रमणकुशला रागसक्ताः प्रगल्भाः कामासक्ता हरिणनयनाश्चन्द्रबिम्बाननाश्च ।
तेषां वक्ष्ये मदनसुखदां वीर्यवृद्धिं प्रभूतां मत्ताः सिद्धाः शतमपि दृढास्तादृशास्तोषयन्ति ॥६.१॥
वज्रहेमार्कसूताभ्रलोहभस्म क्रमोत्तरम् ।
सर्वं कन्याद्रवैर्मर्द्यं शाल्मल्याश्च द्रवैस्त्र्यहम् ॥६.२॥
तद्रुद्ध्वा काचकूप्यन्तर्वालुकायां त्र्यहं पचेत् ।
तत्कल्कं मुसलीक्वाथैर्वज्रार्कक्षीरसंयुतैः ॥६.३॥
दिनैकं मर्दयेत्खल्वे रुद्ध्वान्तर्भूधरे पुटेत् ।
यामादुद्धृत्य संचूर्ण्यं सिताकृष्णात्रिजातकैः ॥६.४॥
समैः समं विमिश्र्याथ माषैकं भक्षयेत्सदा ।
मागधी मुसली यष्टी वानरीबीजकं समम् ॥६.५॥
चूर्णं सिताज्यगोक्षीरैः पलार्धं पाययेदनु ।
कामिनीनां सहस्रैकं रममाणो न मुह्यति ।
सेवनाद्दृढकायः स्याद्रसोऽयं मकरध्वजः ॥६.६॥
शुद्धसूतं समं गन्धं रक्तोत्पलदलद्रवैः ।
यामं मर्द्यं पुनर्गन्धं सार्धं तत्र विनिक्षिपेत् ॥६.७॥
पूर्वद्रावैर्दिनं मर्द्यं रसार्धं गन्धकं पुनः ।
दत्त्वा तद्वद्दिनं मर्द्यं काचकूप्यां निरोधयेत् ॥६.८॥
दिनैकं वालुकायन्त्रे पक्वमुद्धृत्य चूर्णयेत् ।
भूकुष्माण्डीकषायेण भावयेद्दिनसप्तकम् ॥६.९॥
छायायां तत्सितातुल्यं निष्कैकं भक्षयेत्सदा ।
शणमूलं सबीजं च मुसली शर्करा समम् ॥६.१०॥
गवां क्षीरैः पलार्धं तु अनु रात्रौ सदा पिबेत् ।
अनन्तं वर्धते वीर्यं रसोऽयं मदनोदयः ॥६.११॥
शुद्धसूतसमं गन्धं बदरीचित्रकद्रवैः ।
मर्द्यं चाङ्कोल्लजैर्द्रावैस्तप्तखल्वे दिनत्रयम् ॥६.१२॥
सद्यो हताजमांसस्य पिण्डे न्यस्तं च सीवयेत् ।
तत्पिण्डं तिलतैलेन लोहपात्रे शनैः पचेत् ॥६.१३॥
यावन्मांसं रक्तवर्णं ततः सूतं समुद्धरेत् ।
त्रिदिनं मुसलीक्वाथैर्भावितं सितया युतम् ॥६.१४॥
निष्कैकं भक्षयेन्नित्यं रसोऽयं मदनेश्वरः ।
विदारीकन्दचूर्णं तु क्षीराज्येन पलं पिबेत् ॥६.१५॥
रमयेत्स्त्रीशतं नित्यं तत्त्यागादन्धतां व्रजेत् ।
मृताभ्रं पारदं स्वर्णं तुल्यं मर्द्यं दिनत्रयम् ॥६.१६॥
मुसलीत्रिफलाक्वाथैर्वाजिगन्धाकषायकैः ।
कदलीकन्दजैर्द्रावैस्तद्गोलं चान्धितं पुटेत् ॥६.१७॥
भूधरे दिनमात्रं तु समुद्धृत्याथ मर्दयेत् ।
दिनैकं पूर्वजैर्द्रावैस्तद्वद्रुद्ध्वा पुटे पचेत् ॥६.१८॥
पुनर्मर्द्यं पुनः पाच्यमेवमष्टपुटैः पचेत् ।
शाल्मलीजातनिर्यासैस्तुल्यं शर्करया सह ॥६.१९॥
खादेन्निष्कद्वयं नित्यं द्रावयेद्वनिताशतम् ।
गोक्षीरैर्मर्कटीबीजं पलार्धं पाययेदनु ॥६.२०॥
सर्वाङ्गोद्वर्तनं कुर्यात्सयवैः शाल्मलीद्रवैः ।
रसः कामकलाख्योऽयं महावीर्यकरो नृणाम् ॥६.२१॥
मृतसूतं त्रयो भागा भागैकं हाटकं मृतम् ।
कदलीकन्दजैर्द्रावैः शाल्मलीजद्रवैर्दिनम् ॥६.२२॥
गोक्षीरैश्च दिनं मर्द्यं क्षणैकं पाचयेद्घृतैः ।
तन्मध्ये शर्करां द्राक्षां धात्रीं रम्भाफलं मधु ॥६.२३॥
गोक्षीरं मुसलीं माषान्कोकिलाक्षस्य बीजकम् ।
सूताच्चतुर्गुणं क्षिप्त्वा मर्द्यं शाल्मलिजैर्द्रवैः ॥६.२४॥
तत्सर्वं दिनमेकं तु कामदेवो रसो भवेत् ।
निष्कमात्रं सदा भक्ष्यं गवां क्षीरं पिबेदनु ॥६.२५॥
मैथुने दृढलिङ्गः स्याद्द्रावयेद्वनिताकुलम् ।
प्रारम्भरजसा स्त्रीणां मर्दयेद्भस्मसूतकम् ॥६.२६॥
मृतं ताम्रं च तारं च गन्धकं च समं दिनम् ।
सितामध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥६.२७॥
रतिकामरसो नाम कामिनीरमणे हितः ।
वानरीमूलगोधूमं कोकिलाक्षस्य बीजकम् ॥६.२८॥
माषाश्चेक्षुरसैः सर्वं लोडितं पाचयेद्घृतैः ।
तेनैव वटकाः कार्या नित्यं खादेद्द्वयं द्वयम् ॥६.२९॥
अनुपानमिदं सिद्धं सेवनाद्रमयेच्छतम् ।
शुद्धसूतसमं गन्धं त्र्यहं कह्लारजैर्द्रवैः ॥६.३०॥
मर्दितं चान्धितं पच्याद्यामं वालुकयन्त्रके ।
रक्तागस्त्यद्रवैर्भाव्यं दिनैकं तु सितायुतम् ॥६.३१॥
निष्कमात्रं सदा खादेद्रसोऽयं मदवर्धनः ।
अजस्य वृषणं क्षीरे पक्वं तिलसितायुतम् ॥६.३२॥
यथेष्टं भक्षयेच्चानु रमयेत्कामिनीशतम् ।
पलद्वयं द्वयं शुद्धं पारदं गन्धकं शुभम् ॥६.३३॥
कर्षैकं मारितं स्वर्णं पलैकं मृतताम्रकम् ।
रौप्यभस्म चतुर्निष्कं सर्वं पञ्चामृतैर्दिनम् ॥६.३४॥
मर्द्यं रुद्ध्वा दिनं पच्याद्भूधरे तं समुद्धरेत् ।
पिष्ट्वा पञ्चामृतैः खादेद्वटिकां बदराकृतिम् ॥६.३५॥
अनङ्गसुन्दरी ख्याता रामाणां रमते शतम् ।
शाल्मलीमूलचूर्णं तु मधुशर्करयान्वितम् ॥६.३६॥
पलैकं भक्षयेच्चानु सिताक्षीरं तु पाययेत् ।
शाल्मल्युत्थैर्द्रवैर्मर्द्यः पक्षैकं शुद्धपारदः ॥६.३७॥
शुद्धगन्धं त्रिसप्ताहं तद्द्रवैर्मर्दयेत्पृथक् ।
समावेतौ पुनर्मर्द्यौ घृतैर्यामचतुष्टयम् ॥६.३८॥
तद्गोलं बन्धयेद्वस्त्रे घृतैर्यामद्वयं पचेत् ।
ततस्तं शाल्मलीद्रावैर्मर्दयेद्दिवसत्रयम् ॥६.३९॥
निक्षिपेत्काचकूप्यन्तर्वालुकायन्त्रगं पचेत् ।
क्षिपेच्छाल्मलिजं द्रावं कूप्या गर्भे दिनावधि ॥६.४०॥
सार्द्रमेव समुद्धृत्य मिश्र्यं तत्सितया समम् ।
निष्कमात्रं सदा खादेद्रसोऽयं कामनायकः ॥६.४१॥
मुसलीं ससितां क्षीरैः पलैकां पाययेदनु ।
कामिनीनां सहस्रं तु क्षोभयेन्निमिषान्तरे ॥६.४२॥
शुद्धसूतत्रयो भागा भागैकं ताम्रचूर्णकम् ।
कृत्वा पिष्टीं निरुध्याथ रम्भाकन्दोदरे पुनः ॥६.४३॥
मृल्लिप्तं शोषितं पच्याद्दिनैकं करीषाग्निना ।
एवं सप्तदिनं पच्यात्कन्दे कन्दे दिनं दिनम् ॥६.४४॥
उद्धृत्य बन्धयेद्वस्त्रे दृढे चैव चतुर्गुणे ।
क्षुद्रशम्बूकमांसाक्तछागीरक्तगतं पचेत् ॥६.४५॥
दोलायन्त्रे त्र्यहं यावद्देयं रक्तं पुनः पुनः ।
गुडूच्या गजपिप्पल्या कदल्या कोकिलाक्षकैः ॥६.४६॥
गोक्षुरीवानरीमूलजातीमूलस्य च द्रवैः ।
पाचयेत्तत्कषायैर्वा दोलायन्त्रे दिनत्रयम् ॥६.४७॥
ततः क्षीरे सितायुक्ते तद्वत्पच्याद्दिनावधि ।
उद्धृत्य मुसलीक्वाथैर्मर्द्यं यामचतुष्टयम् ॥६.४८॥
रसः पूर्णेन्दुनामायं खादेन्मांसं सितायुतम् ।
गोक्षुरो वानरीबीजं गुडूची गजपिप्पली ॥६.४९॥
कोकिलाक्षस्य बीजानि मज्जा कार्पासबीजजा ।
शतावरी च रम्भायाः फलं सर्वं समं भवेत् ॥६.५०॥
सर्वतुल्या सिता योज्या मधुना लोडितं लिहेत् ।
पलार्धमनुपानं स्यात्ततः पेयं गवां पयः ॥६.५१॥
कामिनीनां सहस्रैकं रमते कामदेववत् ।
पद्मबीजं कसेरुं च कन्दं नालं च कर्णिकाम् ॥६.५२॥
मुसली भृङ्गराट्द्राक्षा पक्वं श्लेष्मातकं फलम् ।
विजया मर्कटी माषाः शणबीजानि वै तिलाः ॥६.५३॥
कोकिलाक्षस्य बीजानि भूकुष्माण्डी शतावरी ।
शृङ्गाटं चिर्भिटं फञ्जीबीजानि चाश्वगन्धिका ॥६.५४॥
एतत्सर्वं समं चूर्ण्य पादांशं चाहरेत्पृथक् ।
पादांशस्याष्टमांशेन शुद्धं सूतं विमिश्रयेत् ॥६.५५॥
पारदादष्टमांशं च कर्पूरं तत्र निक्षिपेत् ।
चातुर्जातकमेकैकं कर्पूराद्द्विगुणं भवेत् ॥६.५६॥
सूततुल्या सिता योज्या मर्द्यं रम्भाद्रवैर्दिनम् ।
तद्गोलं डामरे यन्त्रे क्रमवृद्धाग्निना पचेत् ॥६.५७॥
दिनान्ते चोर्ध्वलग्नं तद्ग्राह्यं रम्भाद्रवैर्दृढम् ।
मर्दितं सितया तुल्यं माषैकं भक्षयेत्सदा ॥६.५८॥
रसो मदनकामोऽयं बलवीर्यविवर्धनः ।
दिव्यरूपा भजेद्रामाः कामाकुलकलान्विताः ॥६.५९॥
भागत्रयं तु यत्पूर्वं पृथक्चूर्णं सुरक्षितम् ।
कुलीरमांसच्छागाण्डचटकाण्डानि वै पृथक् ॥६.६०॥
प्रत्येकं चूर्णयेत्तुल्यं सर्वतुल्यं गवां पयः ।
तत्सर्वं चालयन्पच्याद्यावत्पिण्डत्वमागतम् ॥६.६१॥
प्रसार्य काष्ठपात्रान्तश्छायाशुष्कं विचूर्णयेत् ।
अस्य चूर्णस्य कर्पूरं चतुःषष्ट्यंशकं क्षिपेत् ॥६.६२॥
चातुर्जातकचूर्णं तु क्षिपेद्द्वात्रिंशदंशतः ।
सर्वतुल्या सिता योज्या रक्षयेन्नूतने घटे ॥६.६३॥
कर्षद्वयं गवां क्षीरैरनुपानैः सदा पिबेत् ।
निषेकं मारितं चाभ्रं खादेच्छर्करया समम् ॥६.६४॥
शाल्मलीमूलचूर्णं तु भृङ्गराजस्य मूलकम् ।
पलैकं सितया चानु सेवेत कामिनीशतम् ॥६.६५॥
वानरीकोकिलाक्षस्य बीजानि तिलमाषकाः ।
वासागोक्षुरयोर्मूलं सर्वं चूर्णं समं भवेत् ॥६.६६॥
चूर्णतुल्यं मृतं चाभ्रं सर्वतुल्या तु शर्करा ।
एतत्कर्षं गवां क्षीरैः पिबेत्कामाङ्गनायकः ॥६.६७॥
तैलेन पक्वं चटकं खादेत्पूर्वं तु भोजनात् ।
भोजनान्ते पिबेत्क्षीरं रामाणां रमयेच्छतम् ॥६.६८॥
अश्वगन्धाशतावर्योः शाल्मल्याश्चित्रकस्य च ।
मूलं मुसलीजं कन्दं कोकिलाक्षस्य बीजकम् ॥६.६९॥
विदारीपद्मिनीकन्दं वानरीबीजकं समम् ।
एतच्चूर्णं मृताभ्रं तु तुल्यं शर्करया समम् ॥६.७०॥
पलार्धं पाययेत्क्षीरैः खादेत्कुक्कुटमांसकम् ।
क्षीरपानं ततः कृत्वा रमयेत्कामिनीशतम् ॥६.७१॥
धात्रीफलस्य चूर्णं तु भावयेत्तत्फलद्रवैः ।
एकविंशतिवारान्वै शोष्यं पेष्यं पुनः पुनः ॥६.७२॥
तत्पादांशं मृतं लोहं मध्वाज्यशर्करान्वितम् ।
पलैकं भक्षयेन्नित्यं सिताक्षीरं पिबेदनु ॥६.७३॥
धात्रीलोहप्रभावेन रमयेत्कामिनीशतम् ।
पुनर्नवा नागबला वाजिगन्धा शतावरी ॥६.७४॥
गोक्षुरं मुसलीकन्दं मृतं सूतं समं समम् ।
चूर्णं मध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥६.७५॥
तण्डुलं वानरीबीजं चूर्णयेत्सितया समम् ।
आलोडयेद्गवां क्षीरैस्तेन पच्यादपूपिकाम् ॥६.७६॥
तां घृतैर्भक्षयेच्चानु रमयेत्कामिनीकुलम् ।
वानरीबीजचूर्णं तु त्वग्वर्ज्यं माषचूर्णकम् ॥६.७७॥
नालिकेरोदकैर्भाव्यं यामान्ते पेषयेत्ततः ।
विंशत्यंशेन पिष्टस्य मृतमभ्रं विमिश्रयेत् ॥६.७८॥
घृतैस्तद्वटकं पक्त्वा मध्वाज्याभ्यां तु भक्षयेत् ।
क्षीरं सितां चानुपिबेद्रामाणां रमते शतम् ॥६.७९॥
वालुकासम्भवं मत्स्यं सुपक्वं भक्षयेद्घृतैः ।
षण्ढोऽपि जायते कामी वीर्यस्तम्भः प्रजायते ॥६.८०॥
ऊर्णनाभिं समं क्षौद्रैः पिष्ट्वा नाभिं प्रलेपयेत् ।
मुच्यते बद्धषण्ढोऽपि क्षीरैर्वह्निं पिबेदनु ॥६.८१॥
स्वयमग्निरसं चात्र त्रिनिष्कं भक्षयेत्सदा ।
घृताक्ता दलिता माषाः क्षीरेण सह पाचिताः ॥६.८२॥
सिताज्यसंयुता भक्ष्या वीर्यवृद्धिकरा ह्यलम् ।
क्षणे क्षणे भजेद्रामां यथा पारावतो ध्रुवम् ॥६.८३॥
सम्यङ्मारितमभ्रकं कटुफलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारिमुसलीगोकण्टकेक्षुरकाम् ।
रम्भाकन्दशतावरी ह्यजमोदा माषास्तिला धान्यकं यष्टी नागबला कचोरमदनं जातीफलं सैन्धवम् ॥६.८४॥
भार्गीकर्कटशुङ्गिभृङ्गत्रिकटु द्वौ जीरकौ चित्रकं चातुर्जातपुनर्नवागजकणाद्राक्षाशणं वासकः ।
शाल्मल्यङ्घ्रि फलत्रिकं कपिभवं बीजं समं चूर्णयेच्चूर्णांशा विजयासिताद्विगुणिता मध्वाज्यमिश्रंतु तत् ॥६.८५॥
कर्षार्धां गुलिकां विलेह्यमथवा कृत्वा सदा सेवयेत्पेया क्षीरसितानु वीर्यकरणे स्तम्भेऽप्यलं कामिनाम् ।
श्यामावश्यकरः समाधिसुखदः सङ्गेऽङ्गनाद्रावकः क्षीणे पुष्टिकरः क्षयक्षयकरो नानामयध्वंसकः ॥६.८६॥
कासश्वासमहातिसारशमनो मन्दाग्निसंदीपनो ह्यर्शांसि ग्रहणीप्रमेहनिचयश्लेष्मातिसारप्रणुत् ।
नित्यानन्दकवेर्विशेषकवितावाचाविलासोद्भवं दत्ते सर्वं महास्थिरदशां ध्यानावसाने भृशम् ॥६.८७॥
अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरात्सर्वेषां हितकारको निगदितः श्रीनित्यनाथेन वै वृद्धानामपि कामवर्धनकरः प्रौढाङ्गनासंगमे सिद्धोऽयं धनवस्त्वमोघसुखदो भूपैः सदा सेव्यताम् ॥६.८८॥
इत्येतदुक्तं बहुवीर्यवर्धनं रात्रौ सदा क्षीरसितासमन्वितम् ।
भुक्तोत्तरं सेवितमाशु कामिनां विदग्धरामाकुलवश्यकारकम् ॥६.८९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:47.3130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

lack of consideration

  • प्रतिफल का अभाव 
RANDOM WORD

Did you know?

How to make essay about Hindu culture
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.