TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण ३.४

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ३.४
सम्यक्सिद्धमतान्तरैः समुचितैः सत्संप्रदायैः शुभैः ख्यातैर्गन्धकजारणादिविविधैर्योगैः सुसिद्धैः क्रमात् ।
यद्दृष्टं सुलभं सुवर्णकरणं तारस्य संरंजनात् ।
सत्यं सज्जनरक्षणातुरतया संतन्यते तत्त्वतः ॥४.१॥
{गन्धपिष्टि}
दशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् ।
स्तोकं स्तोकं क्षिपेत्खल्वे मर्दकेन शनैः शनैः ॥४.२॥
कुट्टनाज्जायते पिष्टिः सेयं गन्धकपिष्टिका ।
{स्वर्णपिष्टि}
भागत्रयं शुद्धसूतं भागैकं शुद्धहाटकम् ॥४.३॥
अम्लेन मर्दयेद्यामं ख्यातेयं स्वर्णपिष्टिका ।
{सुल्फ़ुरः: षड्गुणजारण}
गन्धपिष्टिं हेमपिष्ट्या समया वेष्टयेद्बहिः ॥४.४॥
वस्त्रेण वेष्टयेद्गाढं सूताख्ये लोहसंपुटे ।
निधाय पोटलीमध्ये सर्वतुल्यं च गन्धकम् ॥४.५॥
क्षिप्त्वा निरोधयेत्संधिं मृल्लोणेन च रोधयेत् ।
भूधराख्ये पुटे पक्त्वा जीर्णे गन्धं पुनः क्षिपेत् ॥४.६॥
षड्गुणे गन्धके जीर्णे शनैर्वस्त्रं निवारयेत् ।
पुनः पुनः समं गन्धं दत्त्वा जार्यं शनैः शनैः ॥४.७॥
निःशेषं नैव कर्तव्यं प्रमादाद्याति सूतकः ।
एवं शतगुणे जीर्णे यन्त्रादुद्धृत्य पिष्टिकाम् ॥४.८॥
{वेधः: सिल्वेर्=> गोल्द्}
तत्तुल्ये संपुटे हेम्नि रुद्ध्वा बाह्ये च वेष्टयेत् ।
कुमारीद्रवपिष्टेन काचेनाङ्गुलमात्रकम् ॥४.९॥
तद्बहिष्टङ्कणेनैव लोणमृत्तिकया ततः ।
वेष्ट्यं अङ्गुलितैलेन सूर्यतापेन शोषितम् ॥४.१०॥
कोष्ठीयन्त्रे गतं धाम्यं वङ्कनाले दृढाग्निना ।
तत्खोटं जायते दिव्यं सिन्दूरारुणसंनिभम् ॥४.११॥
तेन वेधस्तु तारस्य द्रुतस्य शतभागतः ।
देयः संजायते स्वर्णं सिद्धयोग उदाहृतः ॥४.१२॥
{गन्धपिष्टि}
गन्धकं शोधितं चूर्ण्यं सप्तधा कनकद्रवैः ।
भावयेदातपे तद्वन्नारीणां रजसा पुनः ॥४.१३॥
तद्गन्धं कर्षमेकं तु नरपित्तेन लोलितम् ।
पलैकं पारदं शुद्धं आतपे खर्परे क्षिपेत् ॥४.१४॥
तत्पृष्ठे लोलितं गन्धं क्षिप्त्वाङ्गुष्ठेन मर्दयेत् ।
पिष्टिका जायते दिव्या सर्वकामफलप्रदा ॥४.१५॥
{गन्धपिष्टि}
तिलपर्णीरसेनैव सप्तधा शुद्धगंधकम् ।
भावयेत्पेषयेत्तच्च छायाशुष्कं पुनः पुनः ॥४.१६॥
शुद्धं सूतं पलैकं च मूषायां हि निधापयेत् ।
शुद्धस्वर्णस्य गुलिकां निष्कमात्रां विनिक्षिपेत् ॥४.१७॥
तां मूषां वालुकायन्त्रे स्थापयेत्पूर्वगन्धकम् ।
त्रुटिशस्त्रुटिशो दत्त्वा चुल्ल्यां मन्दाग्निना पचेत् ॥४.१८॥
पादांशे गन्धके जीर्णे जायते गन्धपिष्टिका ।
गन्धपिष्टिः पृथग्ग्राह्या स्वर्णस्य गुलिकां विना ॥४.१९॥
{गन्धपिष्टि}
छायायां गन्धकं भाव्यं शतधा मर्कटीद्रवैः ।
घर्मे मृत्खर्परे सूतं क्षिपेत्किंचिच्च गन्धकम् ॥४.२०॥
मर्कटीद्रवसंयुक्तं जीर्णे गन्धे द्रवं पुनः ।
देयं पादांशकं यावद्गन्धकं सद्रवं क्रमात् ॥४.२१॥
जायते पिष्टिका दिव्या सर्वकामफलप्रदा ।
{गन्धपिष्टि}
गन्धकं सूक्ष्मचूर्णं तु काञ्जिकैः क्षालयेत्त्रिधा ॥४.२२॥
त्रिधा जम्बीरजैर्द्रावैर्हंसपाद्याश्च सप्तधा ।
कर्पूरं च पृथग्भाव्यं श्वेताद्रिकर्णिकाद्रवैः ॥४.२३॥
आतपे त्रीणि वाराणि ततो जारणमारभेत् ।
द्विगुञ्जामात्रकर्पूरैर्यन्त्रगर्भं प्रलेपयेत् ॥४.२४॥
तद्गर्भे भावितं गन्धं सार्धनिष्कं प्रदापयेत् ।
शुद्धसूतं पलं चार्धं कर्पूरं पूर्वतुल्यकम् ॥४.२५॥
पूर्वतुल्यं ततो गन्धं क्रमेणाथ प्रदापयेत् ।
श्वेताद्रिकर्णिकामूलं गोमूत्रेण प्रपेषयेत् ॥४.२६॥
आच्छाद्य तेन कल्केन शरावेण निरुध्य च ।
पाचयेन्नलिकायन्त्रे दिनान्ते तं समुद्धरेत् ॥४.२७॥
कर्पूरादि पुनर्देयं तद्वज्जार्यं दिनावधि ।
इत्येवं तु पुनः कुर्याज्जायते गन्धपिष्टिका ॥४.२८॥
{गन्धपिष्टि}
पारदस्य पलैकं तु कर्षैकं शुद्धगन्धकम् ।
स्निग्धखल्वे कराङ्गुल्या देवदालीद्रवे प्लुतम् ॥४.२९॥
मर्दयेदातपे तीव्रे जायते गन्धपिष्टिका ।
{गन्धपिष्टि}
शुद्धसूतं पलैकं तु कर्षार्धं शुद्धगन्धकम् ॥४.३०॥
निधाय ताम्रखल्वे तु तदधोऽग्निं मृदुं क्षिपेत् ।
कराङ्गुष्ठेन संमर्द्य यामाद्भवति पिष्टिका ॥४.३१॥
{गन्धपिष्टिः: स्तम्भन}
तिक्तकोशातकीबीजं चाण्डालीकन्द एव च ।
नारीस्तन्येन सम्पिष्य लेपयेद्गन्धपिष्टिकाम् ॥४.३२॥
निक्षिपेत्सूरणे कन्दे क्षीरकन्दोदरे तथा ।
वन्ध्याकर्कोटकीवज्रकन्दे वा कुडुहुञ्जिके ॥४.३३॥
मुखं कन्दस्य मज्जाभी रुद्ध्वा कन्दं मृदा लिपेत् ।
पुटयेद्भूधरे यन्त्रे करीषाग्नौ दिनावधि ॥४.३४॥
ऊर्ध्वाधः परिवर्तेन यथा कन्दो न दह्यते ।
ततः पिष्टीं समुद्धृत्य स्तम्भिता जायते ध्रुवम् ॥४.३५॥
{गन्धपिष्टिः: स्तम्भितः: जारण}
अथास्या जारणा कार्या स्तनाख्ये लोहसंपुटे ।
निधाय जारयेद्गन्धं तुल्यं तुल्यं तु भूधरे ॥४.३६॥
जीर्णे गन्धे पुनर्देयं यन्त्रे जार्यं च पूर्ववत् ।
एवं शतगुणं जार्यं जीर्णे यन्त्रात्समुद्धरेत् ॥४.३७॥
सर्वासां गन्धपिष्टीनां रञ्जनं स्यात्तु जारणात् ।
{गन्धपिष्टिः: मारण}
दिव्यौषधगणद्रावैः पिष्टिः खल्वे विमर्दयेत् ।
दिनान्ते गोलकं कृत्वा बीजैर्दिव्यगणोद्भवैः ॥४.३८॥
लेपयेद्वज्रमूषां तु गोलं तत्र निरोधयेत् ।
दिनैकं भूधरे पच्यादूर्ध्वाधः परिवर्तयेत् ॥४.३९॥
समुद्धृत्य पुनर्मर्द्यं पूर्वद्रावैस्तु पूर्ववत् ।
पुटान्तं कारयेदेवं दशवारं पुनः पुनः ॥४.४०॥
{गन्धपिष्टिः: वेधः: सिल्वेर्=> गोल्द्}
म्रियते नात्र संदेहो गन्धपिष्ट्यास्ततः पुनः ।
मृतपिष्टिपलैकं तु पेषयेद्वासकद्रवैः ॥४.४१॥
तत्कल्कैर्नागपत्रं तु लेपयित्वा पलाष्टकम् ।
छायाशुष्कं न्यसेत्पिण्डे वासापत्रसमुद्भवे ॥४.४२॥
तं पिण्डं संपुटे रुद्ध्वा पुटेदारण्यकोत्पलैः ।
समुद्धृत्य पुनर्देया पलैका मृतपिष्टिका ॥४.४३॥
वासाद्रावैर्दिनं मर्द्यं तं गोलं वेष्टयेत्पुनः ।
वासापत्रोत्थपिण्डेन रुद्ध्वा गजपुटे पचेत् ॥४.४४॥
एवं पुनः पुनः कुर्याद्रक्तवर्णं मृतं भवेत् ।
तन्नागं पलमात्रं तु यामैकं वासकद्रवैः ॥४.४५॥
मर्दितं लेपयेत्तेन ताम्रपत्रं पलाष्टकम् ।
दिनैकं पाचनायन्त्रे पाचयेन्म्रियते ध्रुवम् ॥४.४६॥
षोडशांशेन तेनैव तारे वेधं प्रदापयेत् ।
तत्तारं जायते स्वर्णं जाम्बूनदसमप्रभम् ॥४.४७॥
यया कया गन्धपिष्ट्या स्तम्भनं जारणं विना ।
पूर्ववत्क्रमयोगेन दिव्यं भवति काञ्चनम् ॥४.४८॥
{वेधः: सिल्वेर्=> गोल्द्}
अर्जुनस्य त्वचो भस्म वासाभस्म समं समम् ।
गृहकन्याद्रवैर्मर्द्यं दिनैकं तेन लेपयेत् ॥४.४९॥
कण्टवेध्यं नागपत्रं रुद्ध्वा लघुपुटे पचेत् ।
उद्धृत्य मर्दयेद्यामं पूर्वद्रावैः सभस्मकैः ॥४.५०॥
रुद्ध्वा गजपुटे पक्त्वा स्वाङ्गशीतं समुद्धरेत् ।
एवं शतपुटैः पाच्यं भस्म द्रावैश्च मर्दयेत् ॥४.५१॥
तेनैव तारपत्राणि मधुलिप्तानि लेपयेत् ।
रुद्ध्वा गजपुटे पक्त्वा पुनर्लिप्त्वा पुटे पचेत् ॥४.५२॥
इत्येवं तु त्रिधा कुर्यात्तारमायाति काञ्चनम् ।
{वेधः: सिल्वेर्=> गोल्द्}
लोहपात्रे द्रुते नागे चूर्णितं रसकं समम् ॥४.५३॥
क्षिप्त्वा चुल्ल्यां पचेद्यामं चाल्यं पाषाणमुष्टिना ।
यामान्ते हिङ्गुलं क्षेप्यं चूर्णितं नागतुल्यकम् ॥४.५४॥
सुसूक्ष्मं मर्दयेत्तावत्दृढं पाषाणमुष्टिना ।
पचेच्चण्डाग्निना तावद्दिनानामेकविंशतिम् ॥४.५५॥
जायते कुङ्कुमाभं तु तारं तेनैव वेधयेत् ।
चतुःषष्टितमांशेन दिव्यं भवति काञ्चनम् ॥४.५६॥
{वेधः: सिल्वेर्=> गोल्द्}
द्रावयेत्खर्परे नागं पादांशं तत्र निक्षिपेत् ।
चिञ्चाश्वत्थत्वचः क्षारं लोहदर्व्या विमर्दयेत् ॥४.५७॥
यामान्ते तत्समुद्धृत्य वज्रीक्षीरैर्दिनावधि ।
मर्द्यं खल्वे समुद्धृत्य मृद्भाण्डान्तर्निरोधयेत् ॥४.५८॥
पचेद्रात्रौ चतुर्यामं चुल्ल्यां चण्डाग्निना पुनः ।
उद्धृत्य मर्दयेत्खल्वे वज्रीक्षीरैर्दिनावधि ॥४.५९॥
रात्रौ पाच्यं दिवा मर्द्यं यावत्षण्मासमेव च ।
यथा न पतते तस्मिञ्जलं धूलिस्तु रक्षयेत् ।
सहस्रांशे धृते शरे वेधे दत्ते सुकाञ्चनम् ॥४.६०॥
{वेधः: सिल्वेर्=> गोल्द्}
शिलागन्धककर्पूरकुङ्कुमं मर्दयेत्समम् ।
जम्बीरोत्थद्रवैर्यामं तत्समं नागपत्रकम् ॥४.६१॥
लिप्त्वा लिप्त्वा पुटैः पच्याद्यावच्छष्टिपुटी भवेत् ॥४.६२॥
तन्नागं विद्युदाभासं जायते तेन वेधयेत् ।
चतुःषष्टितमांशेन तारमायाति काञ्चनम् ।
{वेधः: सिल्वेर्=> गोल्द्}
तीक्ष्णं शुल्बं नागवङ्गौ द्रुतं नागं तु तुत्थकम् ।
चूर्णितं भागमेकैकं द्वौ भागौ हेममाक्षिकम् ॥४.६३॥
वज्रमूषागतं रुद्ध्वा ध्मातं खोटं सुचूर्णितम् ।
सिद्धचूर्णेन संयुक्तं तारमायाति काञ्चनम् ॥४.६४॥
{तारारिष्ट}
शुल्बचूर्णं तीक्ष्णचूर्णं तुल्यं रुद्ध्वा धमेत्हठात् ।
तत्खोटं सिद्धचूर्णं च मर्द्यं पाच्यं च पूर्ववत् ॥४.६५॥
तेनैव मधुयुक्तेन तारपत्राणि लेपयेत् ।
रुद्ध्वा गजपुटे पच्यादेवं वारत्रयं कृते ॥४.६६॥
पीतवर्णं भवेत्तत्तु तारारिष्टं निगद्यते ।
{तारारिष्ट}
वङ्गनागसमं कान्तमथवा ताम्रनागकम् ॥४.६७॥
माक्षिकं शुल्बतीक्ष्णं वा शुल्बनागं सवङ्गकम् ।
एते योगास्तु चत्वारः पृथक्चूर्णानि कारयेत् ॥४.६८॥
पृथग्ध्मातानि खोटानि सिद्धचूर्णयुतानि च ।
मर्दनादिपुटान्तानि तारारिष्टकराणि वै ॥४.६९॥
पूर्ववल्लेपयोगेन प्रत्येकेन तु कारयेत् ।
तारारिष्टस्य तस्यैव स्वर्णीकरणमुच्यते ॥४.७०॥
{वेधः: सिल्वेर्=> गोल्द्}
शुद्धवैक्रान्तभागैकं किंवा वैक्रान्तसत्त्वकम् ।
नागचूर्णं च भागैकमन्धमूषागतं धमेत् ॥४.७१॥
सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् ।
कर्तव्यं पूर्ववत्प्राज्ञैस्तामादाय विमर्दयेत् ॥४.७२॥
मधुना याममात्रं तु तेन लेपं तु कारयेत् ।
शतांशेन तु पत्राणां तारारिष्टस्य यत्नतः ॥४.७३॥
रुद्ध्वा गजपुटे पच्याद्दिव्यं भवति काञ्चनम् ।
{वेधः: सिल्वेर्=> गोल्द्}
मूलपत्रफलं बिल्वाच्छाकवृक्षाच्च तत्त्रयम् ।
शिग्रुमूलं रसं चैतन्मर्दयेत्किंशुकद्रवैः ॥४.७४॥
अनेन नागचूर्णं तु मर्द्यं मर्द्यं पुटे पचेत् ।
एवं शतपुटैः पक्वं जायते पद्मरागवत् ॥४.७५॥
तेनैव तारपत्राणि मधुलिप्तानि लेपयेत् ।
रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥४.७६॥
तत्तारं जायते दिव्यं जाम्बूनदसमप्रभम् ।
{वेधः: सिल्वेर्=> गोल्द्}
राजावर्तं हिंगुलकं कंकुष्ठं च प्रवालकम् ॥४.७७॥
प्रत्येकं कर्षमात्रं स्याद्रसकस्य पलं तथा ।
सूक्ष्मचूर्णं कृतं सर्वं सिद्धचूर्णेन संयुतम् ॥४.७८॥
अन्धमूषागतं ध्मातं मर्दनादिपुटान्तकम् ।
पूर्ववत्कारयेत्पश्चान्मधुना सह मिश्रयेत् ॥४.७९॥
तारारिष्टस्य पत्राणि लेपयित्वा पुटे पचेत् ।
एवं वारत्रयं कुर्याद्दिव्यं भवति काञ्चनम् ॥४.८०॥
{वेधः: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}
माक्षिकं दरदं तुत्थं राजावर्तं प्रवालकम् ।
एतानि समभागानि द्विभागं रसकं भवेत् ॥४.८१॥
मेषीक्षीरेण तत्सर्वं दिनमेकं विमर्दयेत् ।
छायाशुष्कं तु तत्कृत्वा तुल्यांशं मित्रपञ्चकम् ॥४.८२॥
दत्त्वा तु मर्दयेत्खल्वे तारारिष्टं तु लेपयेत् ।
प्रथमं समकल्केन रुद्ध्वा गजपुटे पचेत् ॥४.८३॥
अर्धकल्केन लेप्याथ पादकल्केन वा पुनः ।
एवं पुटत्रयं देयं दिव्यं भवति काञ्चनम् ॥४.८४॥
{वेधः: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}
रसकं नागसंतुल्यं रुद्ध्वा खोटं प्रकारयेत् ।
सिद्धचूर्णेन संयुक्तं पुटान्तं पूर्ववत्कृतम् ॥४.८५॥
तेनैव मधुनोक्तेन तारारिष्टं प्रलेपयेत् ।
रुद्ध्वा रुद्ध्वा पुटे पच्यात्त्रिधा भवति काञ्चनम् ॥४.८६॥
{वेधः: सिल्वेर्=> गोल्द्(wइथ्लेअद्)}
गंधकं तालकं शुल्वं समहिंगुलपेषितम् ।
मातुलुङ्गद्रवैः सार्धं नागपत्राणि तेन वै ॥४.८७॥
लिप्त्वा रुद्ध्वा पुटे पच्यात्पुनस्तेनैव मर्दयेत् ।
एवं षष्टिपुटैः पक्वो नागः स्यात्कुङ्कुमप्रभः ॥४.८८॥
तेन तारस्य पत्राणि मधुलिप्तानि लेपयेत् ।
रुद्ध्वा तीव्राग्निना धाम्यमेवं वारत्रये कृते ॥४.८९॥
तत्तारं जायते दिव्यं जाम्बूनदसमप्रभम् ।
{वेधः: लेअद्=> गोल्द्}
लाङ्गली गिरिकर्ण्यग्निः करवीरजमूलकम् ।
सौवीरं टङ्कणं स्तन्यैः पिष्ट्वा पिण्डं प्रकल्पयेत् ॥४.९०॥
चतुर्धा विमला शुद्धा तेष्वेका पलमात्रकम् ।
द्विपलं पारदं शुद्धं शुद्धं हेमपलत्रयम् ॥४.९१॥
यामैकं मर्दयेत्सर्वं पूर्वपिण्डोदरे क्षिपेत् ।
तत्पिण्डं वज्रमूषायां रुद्ध्वा धाम्यं हठाग्निना ।
तत्खोटं शतमांशेन द्रुतं नागं तु वेधयेत् ॥४.९२॥
तन्नागेन शतांशेन द्रुतं शुल्बं तु वेधयेत् ।
तत्खोटं शतमांशेन द्रुतं नागं तु वेधयेत् ।
जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥४.९३॥
{वेधः: सिल्वेर्=> गोल्द्}
पारदं कुङ्कुमं गन्धं स्त्रीपुष्पेण दिनावधि ।
मर्दयेत्तुल्यतुल्यांशं तेन कल्केन साधयेत् ॥४.९४॥
शुद्धानि तारपत्राणि लिप्त्वा रुद्ध्वा धमेद्धठात् ।
पत्रं कृत्वा पुनर्लेप्यं रुद्ध्वा धाम्यं च पूर्ववत् ॥४.९५॥
इत्येवं सप्तधा कुर्याल्लेपनं द्रावणं क्रमात् ।
ततस्तस्यैव पत्राणि तेन कल्केन लेपयेत् ॥४.९६॥
उद्घाटं द्रावयेत्तं च द्रुतमाज्ये विनिक्षिपेत् ।
सप्ताहं धारयेत्तस्मिन्दिव्यं भवति काञ्चनम् ॥४.९७॥
{वेधः: सिल्वेर्=> गोल्द्}
कुङ्कुमं गन्धकं सूतं मञ्जिष्ठा तत्समं समम् ।
शाकवृक्षफलद्रावैः सुपक्वैर्मर्दयेद्दिनम् ॥४.९८॥
तेन तारस्य पत्राणि प्रलिप्तानि विशोषयेत् ।
आवर्त्य ढालयेत्तस्मिंस्तेन कल्केन भावितम् ॥४.९९॥
एवं पुनः पुनः कुर्यादेकविंशतिवारकम् ।
तत्तारं जायते स्वर्णं सम्यग्द्वादशवर्णकम् ॥४.१००॥
{वेधः: सिल्वेर्=> गोल्द्}
पारदं कान्तपाषाणं गन्धकं रक्तचन्दनम् ।
रुदन्तीद्रवसंयुक्तं दिनमेकं विमर्दयेत् ॥४.१०१॥
तेन तारस्य पत्राणि प्रविलिप्तानि शोषयेत् ।
धामयेदन्धमूषायामेवं कुर्यात्त्रिसप्तधा ॥४.१०२॥
शाकवृक्षस्य मूलं तु भाव्यं तत्पत्रजैर्द्रवैः ।
रक्ताश्वमारजैश्चैव पृथग्भाव्यं त्रिधा त्रिधा ॥४.१०३॥
अनेन पूर्वतारस्य द्रुतस्य प्रतिवापनम् ।
दापयेत्सप्तवारं तु दिव्यं भवति काञ्चनम् ॥४.१०४॥
{सिद्धचूर्ण}
गन्धकं गन्धमूली च रविदुग्धेन मर्दयेत् ।
मृण्मये संपुटे रुद्ध्वा मासं भूमौ विनिक्षिपेत् ॥४.१०५॥
उद्धृत्य तेन तारस्य पत्रलेपं तु कारयेत् ।
पूर्वतारे द्रुते देयः प्रतिवापः पुनः पुनः ॥४.१०६॥
सप्तविंशतिमे वापे तत्तारं काञ्चनं भवेत् ।
{सिद्धचूर्ण}
शुद्धसूतसमं गन्धं खल्वे मर्द्यं दिनावधि ॥४.१०७॥
जायते कज्जली श्रेष्ठा सर्वकार्यकरी शुभा ।
कज्जली टङ्कणं ताप्यं प्रत्येकं कर्षमात्रकम् ॥४.१०८॥
कर्षद्वयं शुद्धगन्धं यामं सर्वं विचूर्णयेत् ।
सिद्धचूर्णमिदं ख्यातं भवेत्पादादिकं पलम् ॥४.१०९॥
यत्र यत्र मिलत्येतत्तत्र चूर्णं पलं पलम् ।
योजयेल्लोहवादेषु तदिदानीं निगद्यते ॥४.११०॥
{वेध, रञ्जनः: सिल्वेर्=> गोल्द्}
ताम्रतीक्ष्णारकान्तानां चूर्णं एकस्य चाहरेत् ।
यथा लोहे पलैकं तु सिद्धचूर्णेन संयुतम् ॥४.१११॥
वज्रमूषागतं रुद्ध्वा ध्मातं खोटं भवेत्तु तत् ।
तुल्यैर्भूनागजीवैर्वा गन्धकेन समेन वा ॥४.११२॥
मर्दयेन्मातुलुङ्गाम्लैः पूर्वखोटं दिनावधि ।
तत्पिण्डं पक्वमूषायां रुद्ध्वा गजपुटे पचेत् ॥४.११३॥
आरण्योपलकैरेवं पुटं दद्याच्चतुर्दश ।
इन्द्रगोपकसंकाशं जायते पूजयेच्छिवम् ॥४.११४॥
क्षौद्रयुक्तेन तेनैव तारपत्राणि लेपयेत् ।
रुद्ध्वा धमेत्पुटेद्वाथ एवं वारत्रये कृते ॥४.११५॥
जायते कनकं दिव्यं सिद्धोऽयं ताररञ्जकः ।
इत्येवं सर्वयोगानामत्रत्यानां पृथक्पृथक् ॥४.११६॥
सिद्धचूर्णेन संयुक्तं कर्तव्यं विधिना बुधैः ।
{वेधः: सिल्वेर्=> गोल्द्}
शुल्बं नागं समं धाम्यं समं वा शुल्ववङ्गकम् ॥४.११७॥
आवर्तते तु तच्चूर्णं सिद्धचूर्णेन पूर्ववत् ।
शुल्बं नागं वङ्गघोषं यथेष्टैकं विचूर्णयेत् ॥४.११८॥
तत्समं तीक्ष्णचूर्णं च त्वन्धमूषागतं धमेत् ।
एतत्खोटं विचूर्ण्याथ सिद्धचूर्णेन संयुतम् ॥४.११९॥
पूर्ववत्क्रमयोगेन तारमायाति काञ्चनम् ।
{??}
शुल्बस्य भागत्रितयमेकैकं नागवङ्गयोः ॥४.१२०॥
समावर्त्य विचूर्ण्याथ सिद्धचूर्णेन पूर्ववत् ।
नागमेकं द्वयं शुल्बं तच्छुल्वेनैव पन्नगम् ॥४.१२१॥
रुद्ध्वा ध्मातं च तच्चूर्ण्य सिद्धचूर्णेन पूर्ववत् ।
सिद्धचूर्णत्रयो भागा भागैकं हेमगैरिकम् ॥४.१२२॥
रुद्ध्वा ध्मातं पुनश्चूर्ण्य सिद्धचूर्णेन पूर्ववत् ।
{वेधः: सिल्वेर्=> गोल्द्}
गन्धकेन हतं शुल्वं माक्षिकं च समं समम् ॥४.१२३॥
हंसपाच्चित्रकद्रावैर्दिनमेकं विमर्दयेत् ।
तेनैव तारपत्राणि लिप्त्वा रुद्ध्वा पुटे पचेत् ॥४.१२४॥
तं उद्धृत्य धमेत्पश्चात्कृत्वा पत्राणि लेपयेत् ।
पूर्वकल्केन रुद्ध्वाथ पुटं दत्त्वा समुद्धरेत् ॥४.१२५॥
इत्येवं दशधा कुर्यात्तारमायाति काञ्चनम् ।
{सिल्वेरः: रञ्जन}
तीक्ष्णं द्वयं त्रयं घोषमारं भागचतुष्टयम् ॥४.१२६॥
नवभागं ताम्रचूर्णं नागं च नवभागकम् ।
अंधमूषागतं ध्मातं तत्खोटं सूक्ष्मचूर्णितम् ॥४.१२७॥
सिद्धचूर्णेन संयुक्तं पूर्ववत्ताररञ्जनम् ।
{??}
मृतनागसमं तुत्थं द्वाभ्यां तुल्यं च माक्षिकम् ॥४.१२८॥
केवलं मृतनागं वा सिद्धचूर्णेन पूर्ववत् ।
{वेधः: सिल्वेर्=> गोल्द्}
नागाभ्रं वाथ वङ्गाभ्रमन्धयित्वा धमेद्धठात् ॥४.१२९॥
तत्खोटं सूक्ष्मचूर्णं तु सिद्धचूर्णेन संयुतम् ।
पूर्ववत्क्रमयोगेन तारमायाति काञ्चनम् ॥४.१३०॥
{वेधः: सिल्वेर्=> गोल्द्}
तीक्ष्णं शुल्बं नागवङ्गं मृतं नागं तु तुत्थकम् ।
चूर्णितं भागमेकैकं द्वौ भागौ हेममाक्षिकम् ॥४.१३१॥
वज्रमूषागतं रुद्ध्वा ध्मातं खोटं सुचूर्णितम् ।
सिद्धचूर्णेन संयुक्तं तारमायाति काञ्चनम् ॥४.१३२॥
{तारारिष्टः: प्रोदुच्तिओन्}
शुल्बचूर्णं तीक्ष्णचूर्णं तुल्यं रुद्ध्वा धमेद्धठात् ।
तत्खोटं सिद्धचूर्णं तु मर्द्यं पाच्यं च पूर्ववत् ॥४.१३३॥
तेनैव मधुयुक्तेन तारपत्राणि लेपयेत् ।
रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥४.१३४॥
पीतवर्णं भवेत्तत्तु तारारिष्टं निगद्यते ।
{तारारिष्टः: प्रोदुच्तिओन्}
वङ्गं नागं समं कान्तमथवा ताम्रनागकम् ॥४.१३५॥
माक्षिकं शुल्बतीक्ष्णं च शुल्वं नागं सवङ्गकम् ।
एते योगास्तु चत्वारः पृथक्चूर्णानि कारयेत् ॥४.१३६॥
पृथग्ध्मातानि खोटानि सिद्धचूर्णयुतानि च ।
मर्दनादिपुटान्तानि तारारिष्टकराणि वै ॥४.१३७॥
{वेधः: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}
पूर्ववल्लेपयोगेन प्रत्येकेन तु कारयेत् ।
तारारिष्टस्य तस्यैव स्वर्णीकरणमुच्यते ॥४.१३८॥
{वेधः: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}
शुद्धवैक्रान्तभागैकं किंवा वैक्रान्तसत्त्वकम् ।
नागचूर्णं तु भागैकमन्धमूषागतं धमेत् ॥४.१३९॥
सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् ।
कर्तव्यं पूर्ववत्प्राज्ञैस्तमादाय विमर्दयेत् ॥४.१४०॥
मधुना याममात्रं तु तेन लेपं तु कारयेत् ।
शतांशेन तु पत्राणां तारारिष्टस्य यत्नतः ॥४.१४१॥
रुद्ध्वा गजपुटे पक्त्वा दिव्यं भवति काञ्चनम् ।
{वेधः: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}
राजावर्तं हिङ्गुलकं कंकुष्ठं च प्रवालकम् ॥४.१४२॥
प्रत्येकं कर्षमात्रं स्याद्रसकस्य पलं तथा ।
सूक्ष्मचूर्णं कृतं सर्वं सिद्धचूर्णेन संयुतम् ॥४.१४३॥
अन्धमूषागतं ध्मातं मर्दनादिपुटान्तकम् ।
पूर्ववत्कारयेत्पश्चान्मधुना सह मिश्रयेत् ॥४.१४४॥
तारारिष्टस्य पत्राणि लेपयित्वा पुटे पचेत् ।
एवं वारत्रयं कुर्याद्दिव्यं भवति काञ्चनम् ॥४.१४५॥
{वेधः: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}
माक्षिकं दरदं तुत्थं राजावर्तं प्रवालकम् ।
एतानि समभागानि द्विभागो रसको भवेत् ॥४.१४६॥
मेषीक्षीरेण तत्सर्वं दिनमेकं विमर्दयेत् ।
छायाशुष्कं तु तत्कृत्वा तुल्यांशं मित्रपंचकम् ॥४.१४७॥
दत्त्वा तु मर्दयेत्खल्वे तारारिष्टं तु लेपयेत् ।
प्रथमं समकल्केन रुद्ध्वा गजपुटे पचेत् ॥४.१४८॥
अर्धकल्केन लेप्योऽथ पादकल्केन वै पुनः ।
एवं पुटत्रये दत्ते दिव्यं भवति कांचनम् ॥४.१४९॥
{वेधः: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}
रसकं नागसंतुल्यं रुद्ध्वा खोटं प्रकारयेत् ।
सिद्धचूर्णेन संयुक्तं पुटान्ते पूर्ववत्कृतम् ॥४.१५०॥
तेनैव मधुनाक्तेन तारारिष्टं प्रलेपयेत् ।
रुद्ध्वा रुद्ध्वा पुटैः पच्यात्त्रिधा भवति काञ्चनम् ॥४.१५१॥
{वेधः: सिल्वेर्=> गोल्द्(wइथ्चोप्पेर्)}
शुल्बपत्राणि तप्तानि आरनाले विनिक्षिपेत् ।
पुनः पाच्यं पुनः क्षेप्यं यावत्तत्रैव शीर्यते ॥४.१५२॥
तत्पत्रमारनालस्थं क्षालयेदारनालकैः ।
पादांशं टङ्कणं दत्त्वा याममम्लेन पेषयेत् ॥४.१५३॥
रुद्ध्वा लघुपुटैः पच्यादेवं शतपुटैः पचेत् ।
मध्वाज्यं टङ्कणः पश्चात्पच्याद्रुद्ध्वा धमेद्धठात् ॥४.१५४॥
तच्छुल्बं कालिकाहीनं जायते शुकतुण्डवत् ।
तच्छुल्बं त्रिगुणं तारे निर्वाप्यं काञ्चनं भवेत् ॥४.१५५॥
{वेधः: सिल्वेर्=> गोल्द्}
शिग्रुपत्रसमैः पत्रैर्मूलैः प्रवालसंनिभैः ।
ज्ञेया दिव्यौषधी सिद्धा नाम्ना सा कीटमारिणी ॥४.१५६॥
तद्द्रवैः पारदो मर्द्यो यावत्सप्तदिनावधि ।
तेनैव तारपत्राणि प्रलिप्तानि विशोषयेत् ॥४.१५७॥
रुद्ध्वा गजपुटे पच्यादेवं कुर्यात्त्रिसप्तधा ।
जायते कनकं दिव्यं पुरा नागार्जुनोदितम् ॥४.१५८॥
{वेधः: सिल्वेर्=> गोल्द्}
शुद्धसूतसमा राजी सूतपादं च गन्धकम् ।
मृद्भाण्डे पाचयेच्चुल्ल्यां धत्तूरद्रवसंयुतम् ॥४.१५९॥
वासाकाष्ठेन तन्मर्द्यं द्रवो देयः पुनः पुनः ।
एवं दिनत्रयं कुर्याज्जायते भस्मसूतकः ॥४.१६०॥
तन्मर्द्यं मातुलुङ्गाम्लैर्दिनमेकं तु तेन वै ।
चतुःषष्टितमांशेन तारपत्राणि लेपयेत् ॥४.१६१॥
रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ।
तत्तारं जायते स्वर्णं महादेवेन भाषितम् ॥४.१६२॥
तारस्य रञ्जनमिदं सुखभोगहेतुं कृत्वा विवेकमतिभिर्भुवने जनानाम् ।
देयं सदा सकलकीर्तिशुभाप्तिसिद्ध्यै नो चेद्वने वसतिरेव परा हि धन्या ॥४.१६३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:49.5070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

mimastra cyanura

  • मिमस्त्रा सायनुरा 
RANDOM WORD

Did you know?

Are the advertisements necessary on your pages?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.