रसरत्नाकर - प्रकरण ३.१२

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


समुखविमुखसूते जारणार्थं प्रवक्ष्ये विविधसुलभयोगैर्भोजनं गंधकस्य ।
तदनु च घनचूर्णैर्भोजनं पाचनं स्यात्निखिलसूतविभूत्यै वार्तिकानां सुखाय ॥१२.१॥
{मेर्चुरः: जारण ओफ़् सुल्फ़ुर्}
गंधकं सूक्ष्मचूर्णं तु सप्तधा बृहतीद्रवैः ।
भावयेद्वाथ वृन्ताकरसेनैव तु सप्तधा ॥१२.२॥
पलैकं पारदं शुद्धं काचकूप्यन्तरे क्षिपेत् ।
कर्षकं भावितं गंधं कर्पूरं माषमात्रकम् ॥१२.३॥
क्षिप्त्वा तत्र मुखं रुद्ध्वा मृदा कूपीं च लेपयेत् ।
दीपाग्निना दिनं पच्यान्मुखमुद्घाटयेत्पुनः ॥१२.४॥
जीर्णे गंधं च कर्पूरं दत्त्वा तद्वच्च जारयेत् ।
एवं शतगुणे जीर्णे गंधकं जारयेद्रसे ॥१२.५॥
{मेर्चुर्यः: जारण ओफ़् सुल्फ़ुर्}
कासीसं चैव सौराष्ट्री सज्जीक्षारेण मोदकम् ।
शिग्रुतोयेन संयुक्तं कृत्वा भाव्यमनेन वै ॥१२.६॥
सप्ताहं चूर्णितं गंधं तं गंधं जारयेत्पुनः ।
इष्टिकागर्तमध्ये तु सम्यक्शुद्धरसं क्षिपेत् ॥१२.७॥
मुखं स्वच्छेन वस्त्रेण छादयेत्तस्य पृष्ठतः ।
दशांशं गंधकं दत्त्वा श्रावकेण निरोधयेत् ॥१२.८॥
पृष्ठे लघुपुटं देयं जीर्णे गंधं पुनः क्षिपेत् ।
एवं शतगुणं जार्यं गंधकं पारदे शनैः ॥१२.९॥
{मेर्चुर्यः: जारण ओफ़् पक्वबीज}
तं रसं तप्तखल्वे तु क्षिपेद्वस्त्रेण गालितम् ।
पादांशकं पक्वबीजं दत्त्वाम्लैर्मर्दयेद्दिनम् ॥१२.१०॥
तं क्षिपेच्चारणायन्त्रे जंबीररससंयुतम् ।
तं यंत्रं धारयेद्घर्मे जारितो जायते रसः ॥१२.११॥
{मेर्चुर्यः: जारण ओफ़् पक्वबीज}
सविडं कलयेद्यंत्रे दिनैकं तु पुटे पचेत् ।
जारितं स्यात्पुनर्बीजं दत्त्वा जार्यं च पूर्ववत् ।
जारयेच्च पुनस्तद्वदेवं जार्यं समं क्रमात् ॥१२.१२॥
{मेर्चुर्यः: सारणा wइथ्पक्वबीज}
जारितं सारणायन्त्रे क्षिपेत्तैलं वसान्वितम् ।
द्रावितं नालमूषायां पक्वबीजरसान्वितम् ॥१२.१३॥
तद्यंत्रे धारयेदेवं सारितो जारयेद्रसः ।
सारितं तत्पुनर्मर्द्यं पूर्ववद्बिडसंयुतम् ॥१२.१४॥
जारयेत्कच्छपे यंत्रे जीर्णे बीजे तु सारयेत् ।
पूर्ववत्सारणायन्त्रे बीजेन द्विगुणेन वै ॥१२.१५॥
पुनस्तं जारयेत्तद्वत्तथैव प्रतिसारयेत् ।
त्रिगुणेन तु बीजेन पूर्ववज्जारयेत्पुनः ॥१२.१६॥
{मेर्चुर्यः: मुखः: ~बन्धन}
तद्रसं तालकं तुल्यं तैलं धत्तूरसंभवम् ।
दिव्यौषधीगणद्रावं सर्वं मर्द्यं दिनावधि ॥१२.१७॥
वज्रमूषान्धितं पच्यात्करीषाग्नौ दिनावधि ।
पुनर्दिव्यौषधीद्रावैर्मर्द्यं पाच्यं दिनावधि ।
इत्येवं च पुनः कुर्यात्सूतो बद्धमुखो भवेत् ॥१२.१८॥
{रसबन्धनम्}
तं रसं धौतमाक्षीकं तीक्ष्णं शुल्बं रसः शशी ।
समांशं देवदाल्युत्थद्रवैर्मर्द्यं दिनावधि ॥१२.१९॥
त्रिदिनं मधुसर्पिर्भ्यां मर्दितं गोलकीकृतम् ।
वज्रमूषागतं रुद्ध्वा शोष्यं तीव्राग्निना धमेत् ॥१२.२०॥
खदिराङ्गारयोगेन खोटबद्धो भवेद्रसः ।
तत्खोटं टंकणैः काचैः शोधयेद्वै धमन्धमन् ॥१२.२१॥
तेजःपुञ्जो रसो बद्धो बालार्कसदृशो भवेत् ॥१२.२२॥
{सिल्वेर्=> गोल्द्}
तद्रसं सिक्थकेनैव वेष्टयित्वा प्रपूजयेत् ।
शतांशं तु द्रुते तारे क्रामणेनैव संयुतम् ॥१२.२३॥
तत्तारं जायते स्वर्णं जांबूनदसमप्रभम् ।
अष्टानवतिभागं स्यादित्येवं वेधको मतः ॥१२.२४॥
{मेर्चुर्यः: मुखकरण}
अथ वक्ष्ये रसेन्द्रस्य वासितस्य मुखं क्रमात् ।
येन व्योमादिवैक्रान्तं चरत्याश्वभिषेचितम् ॥१२.२५॥
अम्लवेतसजंबीरबीजपूरकभूखगैः ।
त्रिदिनं मर्दयेत्सूतं भूनागैश्च दिनत्रयम् ।
तप्तखल्वे दिनं मर्द्यं सूतस्येत्थं मुखं भवेत् ॥१२.२६॥
{मेर्चुर्यः: मुखकरण}
मध्यगर्तसमायुक्तं कारयेदिष्टिकाद्वयम् ।
धान्याभ्रं गंधकं शुद्धं प्रत्येकं दशनिष्ककम् ॥१२.२७॥
यामं जम्बीरजैर्द्रावैर्मर्द्यं तेनैव लेपयेत् ।
गर्तद्वयं समांशेन ह्यधोगर्तं सुशोधितम् ॥१२.२८॥
विंशनिष्कं क्षिपेत्सूतं ऊर्ध्वं देयापरेष्टिका ।
लिप्त्वा मृल्लवणैः संधिं दीप्ताग्निं ज्वालयेदधः ॥१२.२९॥
अविच्छिन्नं दिवारात्रौ यावत्सप्तदिनावधि ।
स्वांगशीतं समुद्धृत्य रसं किट्टविवर्जितम् ।
इत्येवं तु त्रिधा कुर्याद्रसस्य तु मुखं भवेत् ॥१२.३०॥
{मेर्चुर्यः: मुखकरण}
वंशनालान्धितं सूतं भाण्डे गोमूत्रपूरिते ।
त्रिसप्ताहं पचेच्चुल्ल्यां सूतस्येत्थं मुखं भवेत् ॥१२.३१॥
{परल्लेल्बेत्wईन्संस्कारसन्द्रितुअल्}
समुखे निर्मुखे सूते वक्ष्यते जारणं क्रमात् ।
खल्वपीतं रसो लिङ्गं मर्दनं मार्जनं स्मृतम् ॥१२.३२॥
नानौषधीरसैः स्नानं सत्त्वैर्बीजैः प्रपूजनम् ।
स्वर्णादिरत्नजातैश्च उपहारं प्रकल्पयेत् ॥१२.३३॥
नैवेद्यं रञ्जनं दिव्यं सारणा स्याद्विसर्जनम् ।
वेधनं देहलोहेषु सम्यक्पूजाविधेः फलम् ॥१२.३४॥
यावद्दिनानि वह्नौ तु धारणे जार्यते रसः ।
तावद्युगसहस्राणि शिवलोके महीयते ॥१२.३५॥
यत्किंचिद्रसराजस्य साधनार्थे व्ययो भवेत् ।
तत्सर्वं कोटिगुणितं दत्ते श्री भैरवी ध्रुवम् ॥१२.३६॥
साधकानां सुधीराणां इह लोके परत्र च ।
अतो भूपैर्वार्तिकेन्द्रैः साध्यः स्याद्भुक्तिमुक्तिदः ॥१२.३७॥
{अभ्रः: प्रेपरतिओन्फ़ोर्चारण}
अर्कक्षीरेण धान्याभ्रं दिनं मर्द्यं निरुध्य च ।
कपोताख्ये पुटे पच्यात्क्षीरैर्यामं विमर्दयेत् ॥१२.३८॥
रुद्ध्वाधः पूर्ववत्पच्यादेवं वारचतुष्टयम् ।
त्रिधा च मूलकद्रावै रम्भाकन्दद्रवैस्त्रिधा ॥१२.३९॥
अपामार्गकाकमाचीमीनाक्षीभृङ्गराण्मुनिः ।
पुनर्नवा मेघनादो विदारिश्चित्रकं तथा ॥१२.४०॥
क्रमादेषां द्रवैरेव मर्दनं पुटपाचनम् ।
एकैकेनैकवारं च दत्त्वा तद्भावयेत्पुनः ॥१२.४१॥
शतावरी तालमूली कदली तण्डुलीयकम् ।
अर्कः पुनर्नवा शिग्रुर्यवचिञ्चा ह्यनुक्रमात् ॥१२.४२॥
प्रतिद्रवैर्दिनैकं तु भावितं चारणे हितम् ॥१२.४३॥
{अभ्रः: वोर्बेरेइतुन्गौफ़् चारण}
अर्कक्षीरैस्तु धान्याभ्रं यामं मर्द्यं निरुध्य च ।
कपोताख्ये पुटे पच्यादेवं वारांश्चतुर्दश ॥१२.४४॥
कदली मुसली शिग्रुर्वन्ध्याङ्कोल्लार्कपीलुकम् ।
नागवल्ली कुबेराक्षी भूम्यपामार्गतुम्बरुः ॥१२.४५॥
एषामेकद्रवं ग्राह्यं कांजिके व्योमसंयुतम् ।
सर्वमेतत्क्षिपेद्भाण्डे तन्मध्ये पाचयेत्त्र्यहम् ॥१२.४६॥
पूर्वाभ्रं दोलिकायन्त्रे समुद्धृत्याथ शोषयेत् ।
कासीसं तुवरी सिन्धुष्टंकणं च समं समम् ॥१२.४७॥
सर्वमेतद्दशांशं तु क्षिप्त्वा तस्मिन्विमर्दयेत् ।
दिनैकं तप्तखल्वे तु क्षिप्त्वा तस्मिन्विमर्दयेत् ॥१२.४८॥
दिनैकं तप्तखल्वे तु तदभ्रं चारणे हितम् ॥१२.४९॥
{अभ्रः: प्रेपरतिओन्फ़ोर्चारण}
शतवारं द्रुतं नागं मुण्डीद्रावे विनिक्षिपेत् ।
तेन द्रावेण धान्याभ्रं मर्दितं सप्तधा पुटेत् ।
मर्द्यं मर्द्यं निरुध्याथ कपोताख्ये पुटे पचेत् ॥१२.५०॥
तत्तुल्यं गंधकं दत्त्वा पूर्वोक्तैर्मुण्डिकाद्रवैः ॥१२.५१॥
सस्तन्यैर्बीजपूरोत्थैर्द्रावैर्भाव्यं दिनावधि ।
एतदभ्रं तु सूतस्य चारणे परमं हितम् ॥१२.५२॥
{सिद्धमूली}
व्याघ्रपादी हंसपादी कदल्यग्निकुमारिकाः ।
बृहती लाङ्गली वज्री खण्डजारीन्द्रवारुणी ॥१२.५३॥
वन्ध्याकर्कोटकी मूषा सर्पाक्षी शङ्खपुष्पिका ।
मण्डूकी अग्निमथनो विख्याता सिद्धमूलिका ॥१२.५४॥
एताः समस्ता व्यस्ता वा चोक्तस्थाने नियोजयेत् ॥१२.५५॥
{मेर्चुर्यः: समुखः: चारण ओफ़् अभ्र}
अथातः समुखे सूते पूर्वाभ्रं षोडशांशकम् ।
दत्त्वा मर्द्यं तप्तखल्वे सिद्धमूलीद्रवैर्दिनम् ॥१२.५६॥
ततस्तं चारणायंत्रे जंबीररससंयुतम् ।
घर्मे धार्यं दिनैकं तु चरत्येव न संशयः ॥१२.५७॥
{मेर्चुर्यः: लक्ष ।कोटिवेधिन्}
चारितं बन्धयेद्वस्त्रे दोलायंत्रे दिनावधि ।
सिद्धमूलीद्रवैर्युक्तैः पातनाज्जीर्यते ह्यलम् ॥१२.५८॥
अजीर्णं चेत्पचेद्यंत्रे कच्छपाख्ये दिनावधि ।
अष्टमांशं विडं दत्त्वा चरत्येव न संशयः ॥१२.५९॥
अनेन क्रमयोगेन चार्यं जार्यं पुनः पुनः ।
जीर्णे शतगुणे सम्यक्सहस्रांशेन विध्यति ॥१२.६०॥
सहस्रगुणिते जीर्णे लक्षवेधी भवेद्रसः ।
तद्वल्लक्षगुणे जीर्णे कोटिवेधी भवेद्रसः ॥१२.६१॥
कृष्णाभ्रं वा सुवर्णं वा यथाशक्त्या तु जारयेत् ।
पूर्ववत्क्रमयोगेन फलं स्यादुभयोः समम् ॥१२.६२॥
{मेर्चुर्यः: फ़ोर्प्रोदुच्तिओनोफ़् सिल्वेर्}
अनेनैव क्रमेणैव तारं वा श्वेतमभ्रकम् ।
जारयेत्तु यथाशक्त्या तारकर्मणि शस्यते ॥१२.६३॥
{मेर्चुर्यः: मुखबन्धन, कोटिवेधिन्}
पूर्ववत्पक्वबीजेन सारणादि यथाक्रमम् ।
कर्तव्यं रसराजस्य वेधनं क्रामणं तथा ॥१२.६४॥
चंद्रार्कं जारयेत्सर्वं ताम्रं वा तारकर्मणि ।
एवं शतगुणे जीर्णे सहस्रांशेन वेधयेत् ॥१२.६५॥
सहस्रगुणिते जीर्णे पूर्ववत्सारणात्रयम् ।
कृत्वा जार्यं पुनस्तद्वच्चारयेच्च त्रिधा पुनः ॥१२.६६॥
इत्येवं च पुनः सार्यं पुनः सार्यं च जारयेत् ।
मुखबन्धादिवेधान्तं कारयेत्पूर्ववद्रसे ॥१२.६७॥
तेनैव लक्षभागेन दिव्यं भवति कांचनम् ।
यदा लक्षगुणे जीर्णे त्रिधा सार्यं च जारयेत् ॥१२.६८॥
इत्येवं सप्तधा कार्यं बन्धयेच्च ततो मुखम् ।
पूर्ववत्क्रामणान्तं च कृतोऽसौ जायते रसः ॥१२.६९॥
कोटिवेधी तु चंद्रार्के सत्यं शंकरभाषितम् ॥१२.७०॥
{मेर्चुर्यः: निर्मुखः: चारण}
अथ निर्मुखसूतस्य वक्ष्ये चारणजारणे ।
शुद्धसूते तु वैक्रांतं मारितं षोडशांशकम् ॥१२.७१॥
क्षिप्त्वा मर्द्यं तप्तखल्वे सिद्धमूलीरसैस्त्र्यहम् ।
संस्कारेण ह्यनेनैव निर्मुखश्चरति ध्रुवम् ॥१२.७२॥
{मेर्चुर्यः: चारणः: निर्मुख}
अथवा तप्तखल्वे तु भूलतासंयुतं रसम् ।
मर्दयेत्त्रिदिनं पश्चात्पात्यं पातनयन्त्रके ॥१२.७३॥
संस्कारेण ह्यनेनापि निर्मुखं चरति क्षणात् ॥१२.७४॥
{मेर्चुर्यः: जारणः: निर्मुख}
अस्यैव जारणायोग्यो व्योमसंस्कार उच्यते ।
धान्याभ्रमम्लवर्गेण दोलायंत्रे त्र्यहं पचेत् ।
स्नुहीक्षीरैस्ततो मर्द्यं यामैकं चान्धितं धमेत् ॥१२.७५॥
कपोताख्यपुटैकेन तमादायाथ मर्दयेत् ।
मूलकं कदलीकन्दं मीनाक्षी काकमाचिका ॥१२.७६॥
मुनिरार्द्रकवर्षाभूमेघनादापामार्गकम् ।
एरण्डश्च द्रवैरेषां पृथग्देयं पुटं लघु ॥१२.७७॥
दोलायंत्रे ततः पच्याद्वज्रीक्षीरैर्दिनावधि ।
वचा निम्बं धूमसारं कासीसं च सुचूर्णितम् ॥१२.७८॥
अभ्रस्य षोडशांशेन प्रत्येकं मिश्रयेत्ततः ।
मर्दयेत्ताम्रखल्वे तु चणकाम्लैर्दिनावधि ॥१२.७९॥
नवसारैरयःपात्रं लेपयेत्तत्र निक्षिपेत् ।
पारदं साधितं साभ्रं चणकाम्लं च कांजिकम् ॥१२.८०॥
मृद्वग्निना पचेच्चुल्ल्यां रसश्चरति तत्क्षणात् ।
जारयेत्पूर्वयोगेन ततश्चार्यं च जारयेत् ॥१२.८१॥
मात्रा युक्तिर्यथापूर्वं सेयं निर्मुखजारणा ।
कृष्णाभ्रकं सुवर्णं च जार्यं स्याद्धेमकर्मणि ॥१२.८२॥
तारं वा श्वेतमभ्रं वा जार्यं स्यात्तारकर्मणि ।
सारणादिक्रामणान्तं यथापूर्वं तु जारयेत् ॥१२.८३॥
कर्तव्यं सूतराजे तु तद्वद्भवति कांचनम् ।
श्वेतेन जारयेत्श्वेतं यथाबीजं तथाङ्कुरम् ॥१२.८४॥
प्रोक्तं यथा सुगमसाधितपीतगंधं कृष्णाभ्रहेमरजतं सितमभ्रकं च ।
संसार्य तद्रसवरे वरवार्तिकेन्द्रः कुर्यान्महाकनकभारसहस्रसंख्यम् ॥१२.८५॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP