TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण २.१

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण २.१
जयति स रसराजो मृत्युशङ्कापहारी सकलगुणनिधानं कायकल्पाधिकारी ।
वलिपलितविनाशं सेवितो वीर्यवृद्धिं स्थिरं अपि कुरुते यः कामिनीनां प्रसङ्गम् ॥१.१॥
अथातः सम्प्रवक्ष्यामि देहसिद्धिं सुशोभनाम् ।
यस्याः सिद्धौ मनुष्याणां जायन्ते सर्वसिद्धयः ॥१.२॥
न देहेन विना किंचिदिष्टं अस्ति जगत्त्रये ।
तस्मात्सर्वप्रयत्नेन तस्मिन्यत्नो विधीयताम् ॥१.३॥
शुभनक्षत्रदिवसे वमने रेचने कृते ।
ततो विशेषशुद्ध्यर्थं केतकीस्तनजं द्रवम् ॥१.४॥
त्रिदिनं कुडवैकैकं लोणदोषहरं पिबेत् ।
विडङ्गं च वचा कुष्ठं केतकीस्तनसंयुतम् ॥१.५॥
क्वथितं त्रिदिनं पीतं अम्लदोषहरं परम् ।
श्यामावह्निविडङ्गानि त्र्यूषणं त्रिफला वृषः ॥१.६॥
सैन्धवं देवदारुश्च मुस्ता चैतत्समं समम् ।
घृतैर्लेह्यं तु कर्षैकं सप्ताहात्सर्वदोषजित् ॥१.७॥
एवं विशुद्धदेहस्तु पूजयेद्देवतां गुरुम् ।
कुमारीं योगिनीचक्रं ततः कुर्याद्रसायनम् ॥१.८॥
{रसायन}
निर्वाते भूगृहे वाथ बाह्यचिन्ताविवर्जितः ।
जितेन्द्रियो जितक्रोधः क्षीरशाल्यन्नभुग्भवेत् ॥१.९॥
षष्ट्योदनं यवान्नं च गोधूमं मुद्गयूषकम् ।
जाङ्गलं भक्षयेन्मांसं केवलं क्षीरं एव वा ॥१.१०॥
बलान्नं वाथ भुञ्जीत शाकलोणविवर्जितम् ।
अभ्यङ्गं मस्तुना कुर्यात्स्नानं चैव सुखाम्बुना ॥१.११॥
काकिनीं स्त्रीं भजेन्नित्यं स्वानुकूलां सुयौवनाम् ।
रसेन्द्रे भक्ष्यमाणे तु कामान्धो जायते नरः ॥१.१२॥
मैथुनेन विना तस्य ह्यजीर्णो जायते रसः ।
अजीर्णे कम्पदाहार्ती हिक्का मूर्छा ज्वरोऽरतिः ॥१.१३॥
कासश्वासारुचिच्छर्दिभ्रममोहा भवन्ति हि ।
सेवेत सुभगां तस्माद्दुर्भगां परिवर्जयेत् ॥१.१४॥
अभ्यङ्गं कटुतैलेन काञ्जिकं मदिरां दधि ।
कलिङ्गकारवल्ल्यम्लतैलकूष्माण्डराजिकाः ॥१.१५॥
बिल्वच्छत्राकवार्ताकविदलं काकमाचिकाम् ।
मूलकं लशुनं तीक्ष्णं शीतं उष्णं च वर्जयेत् ॥१.१६॥
रात्रौ जागरणं त्याज्यं दिवास्वापं च मैथुनम् ।
कलहोद्वेगचिन्ताश्च शोकं चैव विवर्जयेत् ॥१.१७॥
आवर्जनाद्भवेच्छूलं निद्रालस्यं ज्वरोऽरतिः ।
त्र्यहं पिबेत्तत्प्रशान्त्यै वारिणा कर्कटीफलम् ॥१.१८॥
शुण्ठीसैन्धवचूर्णं वा मातुलुङ्गाम्लकैर्लिहेत् ।
सौवर्चलं गवां मूत्रैः पिबेद्वा तत्प्रशान्तये ॥१.१९॥
वन्ध्याकर्कोटकीं पुङ्खां पातालगरुडीं जलैः ।
क्वाथयेदष्टगुणितैस्तदष्टांशं ससैन्धवम् ॥१.२०॥
पिबेत्सर्वविकारघ्नं त्रिदिनं शिवभाषितम् ।
मूलं वा कारवल्ल्युत्थं सैन्धवं वा गवां जलैः ॥१.२१॥
त्रिदिनं कर्षमात्रं तु पिबेत्सर्वविकारजित् ।
अपथ्यशीलिनां एतत्कथितं रससेविनाम् ॥१.२२॥
अमुं एव विधिं कुर्याद्रसायनविधौ किल ।
अमृतं विधिसंयुक्तं विधिहीनं तु तद्विषम् ॥१.२३॥
चातुर्जातककर्पूरकङ्कोलं कटुकीफलम् ।
खादेत्ताम्बूलसंयुक्तं रससङ्क्रामणे हितम् ॥१.२४॥
अथात्र वक्ष्यते सम्यगादौ पारदमारणम् ।
समुखस्य रसेन्द्रस्य वासनामुखितस्य वा ॥१.२५॥
क्रमेण जारयेत्स्वर्णं समांशं पूर्ववत्ततः ।
तत्तुल्यं गन्धकं तस्मिन्दत्त्वा दिव्यौषधिद्रवैः ॥१.२६॥
मर्दयेत्त्रिदिनं खल्वे मूषायां चान्धितं ततः ।
करीषाग्नौ दिवारात्रं त्रिरात्रं वा तुषाग्निना ॥१.२७॥
स्वेदितं मर्दयेद्भूयो बीजैर्दिव्यौषधोद्भवैः ।
तुल्यं खल्वे चतुर्यामं वज्रमूषान्धितं धमेत् ॥१.२८॥
भस्मसूतं भवेत्तद्वै योज्यं सर्वरसायने ।
शुद्धसूतं समं स्वर्णं यामं अम्लैर्विमर्दयेत् ॥१.२९॥
प्रक्षाल्य ग्राहयेत्पिष्टीं पिष्ट्यर्धं शुद्धगन्धकम् ।
गन्धार्धं टङ्कणं दत्त्वा सर्वतुल्यां हरिद्रिकाम् ॥१.३०॥
स्त्रीपुष्पेण तु तत्सर्वं मर्द्यं रम्भाद्रवान्वितम् ।
दिनान्ते गोलकं कृत्वा वालुकायन्त्रगं पचेत् ॥१.३१॥
दिनं मन्दाग्निना तं वै समुद्धृत्य विचूर्णयेत् ।
चूर्णांशं गन्धकं दत्त्वा गर्भयन्त्रे त्र्यहं पचेत् ॥१.३२॥
तुषाग्निना लघुत्वेन जायते भस्मसूतकः ।
शुद्धसूतस्त्रिभागः स्याद्भागैकं ताम्रचूर्णकम् ॥१.३३॥
दिनैकं मर्दयेदम्लैः क्षालितं पिष्टिं आहरेत् ।
माक्षिकाद्धौतसत्त्वं च पिष्टितुल्यं प्रकल्पयेत् ॥१.३४॥
तत्सर्वं त्रिदिनं मर्द्यं चक्रमर्ददलद्रवैः ।
तद्गोलं गर्भयन्त्रस्थं त्रिदिनं तुषवह्निना ॥१.३५॥
करीषाग्नौ दिवारात्रं पचेद्वा भस्मतां व्रजेत् ।
शुद्धसूतं व्योमसत्त्वं सुवर्णं च समं समम् ॥१.३६॥
सर्वतुल्यं विडं दत्त्वा मर्द्यं रम्भाद्रवैर्दिनम् ।
बीजैर्दिव्यौषधीनां च तुल्यैर्मर्द्यं दिनद्वयम् ॥१.३७॥
गर्भयन्त्रगतं पच्यान्म्रियते पूर्ववत्पुटे ।
चतुरङ्गुलदीर्घं स्याद्विस्तारे चाङ्गुलत्रयम् ॥१.३८॥
मृन्मयं सम्पुटं कृत्वा छायाशुष्कं च कारयेत् ।
लवणं विंशभागं स्याद्भागं एकं तु गुग्गुलुम् ॥१.३९॥
सर्वं तोयैः प्रपिष्याथ तेनैव सम्पुटोदरम् ।
लिप्त्वा तत्र रसं रुन्ध्याद्गर्भयन्त्रं इदं भवेत् ॥१.४०॥
विमला पारदं शुद्धं तुल्यं निर्गुण्डिकाद्रवैः ।
मर्दयेत्त्रिदिनं तं वै काचकूप्यां निवेशयेत् ॥१.४१॥
काचकूप्या ह्यभावे तु निरुन्ध्याच्छरावसम्पुटे ।
पाचयेद्वालुकायन्त्रे चतुर्यामान्मृतो भवेत् ॥१.४२॥
माक्षिकाद्धौतसत्त्वं तु तत्समं शुद्धगन्धकम् ।
द्वाभ्यां तुल्यं शुद्धरसं दिनं निर्गुण्डिकाद्रवैः ॥१.४३॥
तत्सर्वं मर्दितं गोलं वज्रमूषान्धितं पचेत् ।
दिनैकं वालुकायन्त्रे मृतं स्याद्रक्तवर्णकम् ॥१.४४॥
ऊर्ध्वाधो गन्धकं तुल्यं दातव्यं शुद्धपारदे ।
उदरे पक्वमूषायाः काकमाचीद्रवं पुनः ॥१.४५॥
द्वाभ्यां चतुर्गुणं दत्त्वा तां आच्छाद्य पचेच्छनैः ।
क्रमाग्नौ वालुकायन्त्रे चतुर्यामान्मृतो भवेत् ॥१.४६॥
स्नुह्या वा हेमवल्ल्या वा क्षीरैः शुद्धरसं दिनम् ।
मर्दयेद्गन्धकं तुल्यं गर्भयन्त्रगतं पुटेत् ॥१.४७॥
पूर्ववत्क्रमयोगेन मृतं योगेषु योजयेत् ।
शुद्धसूतसमं गुञ्जालाक्षोर्णामधुटङ्कणम् ॥१.४८॥
तत्सर्वं भृङ्गजैर्द्रावैर्दिनं एकं विमर्दयेत् ।
वज्रमूषान्धितं ध्मातं म्रियते शशिसन्निभम् ॥१.४९॥
द्रवैस्तु कीटमारिण्या ह्यजमोदाद्रवैश्च वा ।
अहिमार्या द्रवैर्वाथ किंवा श्वेताङ्कुलद्रवैः ॥१.५०॥
मर्दयेत्पारदं शुद्धं समगन्धं दिनत्रयम् ।
सम्पुटे मृन्मये रुद्ध्वा करीषाग्नौ दिवानिशि ॥१.५१॥
पचेत्तुषाग्निना वाथ त्रिदिनान्म्रियते ध्रुवम् ।
शुद्धसूतं मृतं वज्रं समांशं तप्तखल्वके ॥१.५२॥
हंसपाद्या द्रवैर्मर्द्यं त्रिदिनान्ते समुद्धरेत् ।
बीजैर्दिव्यौषधीनां च वज्रमूषां प्रलेपयेत् ॥१.५३॥
तत्र पूर्वरसं रुद्ध्वा त्रिदिनं तुषवह्निना ।
पाचयित्वा समुद्धृत्य तत्समं शुद्धपारदम् ॥१.५४॥
एकीकृत्य त्र्यहं मर्द्यं हंसपाद्या द्रवैर्दृढम् ।
तद्गोलं पूर्ववत्पच्यान्मृतं भवति शोभनम् ॥१.५५॥
वज्राभ्राद्यष्टलोहानां रसखण्डे यथोदितम् ।
मारणं वादिखण्डे वा तथा ज्ञेयं रसायने ॥१.५६॥
एवं मृतो रसवरः परमामूतः स्यात्तत्सेवकाः सततं अस्य दृढं तु तेषाम् ।
देहं करोति सहसा सुरसुन्दरीणां क्रीडाक्षमं परमसुन्दरं एव नित्यम् ॥१.५७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:46.4100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दौंडी

  • दवंडी , दवणशीर , दवणशेवती , दवणशेवते , दवणा इ० पहा . 
RANDOM WORD

Did you know?

सुतकात वर्ज्य कार्ये कोणती? गोड सुतक म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site