रसरत्नाकर - प्रकरण ३.१७

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


वज्राभ्रसत्ववरहाटकलोहजालं कुर्याद्द्रुतं द्रवभवं किल बंधयोग्यम् ।
नानाविधैः सुगमसंस्कृतयोगराजैस्तद्वक्ष्यते परमसिद्धिकरं नराणाम् ॥१७.१॥
{अभ्रकद्रुति (१)}
शुद्धकृष्णाभ्रपत्राणि पीलुतैलेन लेपयेत् ।
घर्मे शोष्याणि सप्ताहं लिप्त्वा लिप्त्वा पुनः पुनः ॥१७.२॥
त्रिदिनं चाम्लवर्गेण तद्वच्छोष्याणि चाथ वै ।
स्नुह्यर्कार्जुनवज्रीणां कटुतुंब्या समाहरेत् ॥१७.३॥
क्षारं क्षारत्रयं चैतदष्टकं चूर्णितं समम् ।
वज्रकंदं क्षीरकन्दं बृहती कण्टकारिका ॥१७.४॥
वनवृन्ताक एतेषां द्रवैर्भाव्यं दिनत्रयम् ।
अनेन क्षारकल्केन पूर्वपत्राणि लेपयेत् ॥१७.५॥
आतपे कांस्यपात्रे तु स्थाप्यं लेप्यं पुनः पुनः ।
एवं दिनत्रयं कुर्याद्द्रुतिर्भवति निर्मला ॥१७.६॥
{अभ्रकद्रुति (२)}
अम्लवर्गेण पत्राणि क्षिपेद्घर्मे दिनत्रयम् ।
तथान्यान्यभ्रपत्राणि क्षालयेत्क्षीरकंदकैः ॥१७.७॥
क्षारैर्यावद्भवेत्कल्कस्तत्कल्कैः पूर्वपत्रकम् ।
लिप्त्वा लिप्त्वा क्षिपेद्घर्मे कांस्यपात्रे विशोषयेत् ॥१७.८॥
सप्ताहान्नात्र संदेहो रसरूपा द्रुतिर्भवेत् ॥१७.९॥
{अभ्रकद्रुति (३)}
काकाण्डाफलचूर्णं तु मित्रपंचकसंयुतम् ।
एतत्तुल्यं च धान्याभ्रमम्लैर्मर्द्यं दिनावधि ।
अंधमूषागतं ध्मातं द्रुतिर्भवति निर्मला ॥१७.१०॥
{अभ्रकद्रुति (४)}
धान्याभ्रकं सगोमांसं अभ्रपादं च सैंधवम् ।
स्नुह्यर्कपयसा द्रावैर्मुनिभिर्मर्दयेत्त्र्यहम् ॥१७.११॥
तद्गोलं कदलीकंदे क्षिप्त्वा बाह्ये मृदा लिपेत् ।
करीषाग्नौ त्र्यहं पच्याद्द्रुतिर्भवति निर्मला ॥१७.१२॥
{अभ्रकद्रुति (५)}
अगस्त्यपत्रनिर्यासैर्मर्द्यं धान्याभ्रकं दिनम् ।
तद्गोलं निक्षिपेत्कंदे सूरणोत्थे निरुध्य च ॥१७.१३॥
तत्कंदं निखनेद्गोष्ठभूमौ मासात्समुद्धरेत् ।
कंदोदराद्द्रुतिर्ग्राह्या सूततुल्या तु निर्मला ॥१७.१४॥
{अभ्रकद्रुति (६)}
धान्याभ्रकं दिनं मर्द्यमजमार्या द्रवैर्दिनम् ।
स्थापयेन्मृण्मये पात्रे त्र्यहाद्घर्मे भवत्यलम् ॥१७.१५॥
{अभ्रकद्रुति (७)}
सप्ताहं मुनितोयेन धान्याभ्रं सैंधवं शिला ।
मर्दयेद्भावयेद्घर्मे ततो दार्वी सुवर्चलम् ॥१७.१६॥
मरिचं अभ्रपादांशं मूर्वापत्ररसैर्दिनम् ।
मर्दयेद्वज्रवल्ल्युत्थैर्द्रवैर्भाव्यं दिनावधि ॥१७.१७॥
शरावसंपुटे तं तु रुद्ध्वा ध्माते द्रुतिर्भवेत् ॥१७.१८॥
{अभ्रकद्रुति (८)}
धान्याभ्रकं प्रयोक्तव्यं काकिनीबीजतुल्यकम् ।
स्नुहीक्षीरेण सप्ताहं घर्मे ताप्यं द्रुतिर्भवेत् ॥१७.१९॥
{अभ्रकद्रुति (९)}
वज्रवल्लीद्रवैर्मर्द्यं धान्याभ्रं ससुवर्चलम् ।
तुल्यं त्रिदिनपर्यन्तं ततस्तं शरावसंपुटे ॥१७.२०॥
रुद्ध्वा ध्माते द्रवत्येव रसरूपं न संशयः ।
इत्येवं रसरूपं च जायते नैव संशयः ॥१७.२१॥
{अभ्रकद्रुति (१०)}
उदुंबरोद्भवैः क्षीरैरभ्रपत्राणि पाचयेत् ।
स्थाल्यां वा पाचयेदेतान्भवन्ति नवनीतवत् ॥१७.२२॥
ततस्तं वटकं कृत्वा छिद्रमूषां निरुध्य च ।
यामत्रयं धमेद्गाढं अधोभाण्डे द्रुतिः पतेत् ॥१७.२३॥
{अभ्रकद्रुति (११)}
काकोदुंबरिजैः क्षीरैर्मर्द्यं धान्याभ्रकं दिनम् ।
वनमूषकबीजानि त्वग्वर्ज्यान्यभ्रकैः समम् ॥१७.२४॥
मर्दयित्वार्धयामं तं द्राव्यं पातालयंत्रकैः ।
अहोरात्रं पुटं देयं द्रुतिर्भवति निर्मला ॥१७.२५॥
{अभ्रकद्रुति (१२)}
कपितिंदुजातफलैः समं धान्याभ्रकं दृढम् ।
मर्दयेद्दिनमेकं तु काचकूप्यां निवेशयेत् ॥१७.२६॥
नरकेशैर्मुखं रुद्ध्वा कूपिकां लेपयेन्मृदा ।
पुटेत्पातालयंत्रेण दिनान्ते द्रुतिमाप्नुयात् ॥१७.२७॥
{अभ्रकद्रुति (१३)}
धान्याभ्रकसमांशेन चूर्णं गुंजाफलस्य तु ।
स्नुहीक्षीरेण सप्ताहं भावितं धमनाद्भवेत् ॥१७.२८॥
{अभ्रकद्रुति (१४)}
रक्तोत्पलस्य नीलोत्थद्रवैर्मर्द्यं दिनत्रयम् ।
धान्याभ्रकं धमेद्रुद्ध्वा वज्रमूषागतं धमेत् ॥१७.२९॥
वेगीफलस्य चूर्णेन तुल्यं धान्याभ्रकं त्र्यहम् ।
भाव्यं घर्मे स्नुहीक्षीरैर्ध्मातं संपुटगं द्रवेत् ॥१७.३०॥
{अभ्रकद्रुति (१५)}
अथवा छागमूत्रेण भावयेत्कपितिंदुजम् ।
फलचूर्णं तु तच्छुष्कं द्रुते सत्वे प्रवापयेत् ॥१७.३१॥
द्वित्रिवारप्रयोगेण द्रुतिर्भवति निर्मला ॥१७.३२॥
{अभ्रकसत्त्वद्रुति (२)}
नरकेशोद्भवैस्तैलैः सेचयेदभ्रसत्त्वकम् ।
तद्गोलं गोमयैर्लिप्त्वा वज्रमूषान्तरे क्षिपेत् ।
हठाद्ध्माते द्रवत्येव तिष्ठते रसराजवत् ॥१७.३३॥
{अभ्रकसत्त्वद्रुति (३)}
भावयेन्नरमूत्रेण क्षीरकंदस्य चूर्णकम् ।
दशवारं प्रयत्नेन शोष्यं पेष्यं पुनः पुनः ॥१७.३४॥
तेनावापं द्रुते सत्वे दत्त्वा दत्त्वा च संधमेत् ।
यावत्तद्द्रवतां याति तावद्देयं पुनः पुनः ।
लोहं च द्रवते तेन हठाद्ध्माते न संशयः ॥१७.३५॥
{अभ्रकसत्त्वद्रुति (४)}
पंचांगं देवदाल्युत्थं चूर्णं भाव्यं च तद्द्रवैः ।
शोष्यं पेष्यं पुनर्भाव्यं शतवारं प्रयत्नतः ॥१७.३६॥
तच्चूर्णं दशमांशेन द्रुते सत्वे प्रतापयेत् ।
तत्पुनर्जायते बद्धो वापो देयः पुनः पुनः ॥१७.३७॥
{अभ्रकसत्त्वद्रुति (५)}
क्षीरकंदद्रवैर्भाव्यं शतधा क्षीरकंदकम् ।
तद्वापेन द्रवेत्सत्त्वं लोहानि सकलानि च ॥१७.३८॥
{अभ्रकसत्त्वद्रुति (६)}
सर्वं धान्याम्लसंधानैर्भाव्यमभ्रकसत्वकम् ।
निचुलक्षारसंयुक्तं ध्मातं तिष्ठति सूतवत् ॥१७.३९॥
{सुवर्णद्रुति (१)}
इंद्रगोपकचूर्णं तु देवदालीफलद्रवैः ।
भावितं चैकविंशाहाद्द्रुते हेम्नि प्रवापयेत् ॥१७.४०॥
किंचित्किंचित्समं यावत्तावत्तिष्ठति सूतवत् ॥१७.४१॥
{सुवर्णरौप्यद्रुति (२)}
शतधा नरमूत्रेण भावयेद्देवदालिकाम् ।
तच्चूर्णं वापमात्रेण द्रुतिः स्यात्स्वर्णतारयोः ॥१७.४२॥
{तीक्ष्णलोहद्रुति (१)}
सुरदालीभवं भस्म नरमूत्रेण भावितम् ।
त्रिसप्तवारं तं क्षारं वापे तीक्ष्णद्रुतिर्भवेत् ॥१७.४३॥
{तीक्ष्णलोहद्रुति (२)}
मेषशृंगी सकूर्मास्थिशिलाजतुनि वापयेत् ।
सारं द्रुतिर्भवेत्सत्यं आवर्त्यादौ प्रदापयेत् ॥१७.४४॥
{सर्वधातुद्रुति (१)}
गंधकं कांतपाषाणं चूर्णयित्वा समं समम् ।
द्रुते लोहे प्रतीवापो देयो लोहाष्टकं द्रवेत् ॥१७.४५॥
{सर्वधातुद्रुति (२)}
देवदाल्या द्रवैर्भाव्यं गंधकं दिनसप्तकम् ।
तेन प्रवापमात्रेण लोहं तिष्ठति सूतवत् ॥१७.४६॥
{सुवर्णद्रुति (३)}
अतिस्थूलस्य भेकस्य निवार्यान्त्राणि निक्षिपेत् ।
उदरे टंकणं पूर्णं तद्रक्षेद्भांडमध्यगम् ॥१७.४७॥
अष्टाहाद्ग्राहयेत्तस्मात्तैलं पातालयंत्रके ।
तत्तैलं द्राविते स्वर्णे क्षिपेद्द्रुतिमवाप्नुयात् ॥१७.४८॥
{सुवर्णद्रुति (४)}
इंद्रगोपोऽश्वलाला च शशमण्डूकयोर्वसा ।
अस्थीनि च समं पिष्ट्वा द्रुते हेम्नि प्रवापयेत् ॥१७.४९॥
जायते रसरूपं तच्चिरकालं च तिष्ठति ॥१७.५०॥
{सुवर्णद्रुति (५)}
इंद्रगोपं कुलीरास्थि देवदाल्याश्च बीजकम् ।
चूर्णितं भावयेद्द्रावैर्देवदाल्युद्भवैर्दिनम् ॥१७.५१॥
अनेन द्राविते हेम्नि वापो देयः पुनः पुनः ।
तिष्ठते रसरूपं तच्चिरकालं शिवोदितम् ॥१७.५२॥
{तीक्ष्णलोहद्रुति (३)}
तीक्ष्णचूर्णं च सप्ताहं पक्वधात्रीफलद्रवैः ।
लोलितं भावयेद्घर्मे क्षीरकन्दद्रवैः पुनः ॥१७.५३॥
सप्ताहं भावयेत्सम्यक्स्रावसंपुटके तथा ।
धामितं द्रवमायाति चिरं तिष्ठति सूतवत् ॥१७.५४॥
{कान्तलोहद्रुति}
शृगालमेषकूर्माहिशल्यानि च शिलाजतु ।
एतत्सर्वं चूर्णयित्वा सुतप्ते कांतचूर्णके ।
वापयेद्द्रवतां याति यथा सूतं सुनिश्चितम् ॥१७.५५॥
{सर्वलोहद्रुति (३)}
लोहचूर्णं यथेष्टैकं पनसस्य फलद्रवैः ।
सप्ताहं भावयेद्घर्मे ह्यम्लवर्गेण मर्दयेत् ।
द्रवते धमनेनैव लिपियोग्यं न संशयः ॥१७.५६॥
{सर्वलोहद्रुति (४)}
गंधकं रक्तलवणं तुल्यं देयं पुनः पुनः ।
द्रुतानां तप्तचूर्णानां सर्वेषां द्रावणं परम् ॥१७.५७॥
{सर्वलोहद्रुति (५)}
पीतमण्डूकगर्भे तु चूर्णितं टंकणं क्षिपेत् ।
रुद्ध्वा भांडे क्षिपेद्भूमौ त्रिसप्ताहात्समुद्धरेत् ॥१७.५८॥
तत्समस्तं विचूर्ण्याथ द्रुते लोहे प्रवापयेत् ।
तिष्ठन्ति रसरूपाणि सर्वलोहानि नान्यथा ॥१७.५९॥
{माक्षिकसत्त्वद्रुति (२)}
एरंडोत्थेन तैलेन गुंजाक्षौद्रं च टंकणम् ।
मर्दितं तस्य वापेन सत्वं माक्षिकजं द्रवेत् ॥१७.६०॥
{सर्वरत्नानां सर्वलोहानां द्रुतिः}
क्षारत्रयं रामठं च चणकाम्लाम्लवेतसम् ॥१७.६१॥
ज्वालामुखी चेक्षुरकं स्थलकुम्भीफलानि च ।
स्नुह्यर्कपयसा श्लक्ष्णं पिष्ट्वा तद्गोलकं क्षिपेत् ॥१७.६२॥
वज्रमुख्यानि रत्नानि वस्त्रे बद्ध्वा पचेद्धठात् ।
दोलायंत्रेण धान्याम्ले भवेद्यामाष्टकं द्रुतम् ॥१७.६३॥
वज्राभ्रकं नीलपुष्पं मुक्ताविद्रुममाक्षिकम् ।
पौण्ड्रं वैडूर्यमाणिक्यं राजावर्तेन्द्रनीलकम् ॥१७.६४॥
वैक्रांतं स्फाटिकं चैव द्रवन्ति रससन्निभाः ।
एतैरेवौषधैर्लोहजातं द्रवति वापनात् ॥१७.६५॥
{वज्रद्रुति (१)}
वज्रवल्ल्यन्तरस्थं च कृत्वा वज्रं निरुन्धितम् ।
जलभांडगतं स्वेद्यं सप्ताहाद्द्रवतां व्रजेत् ॥१७.६६॥
{वज्रद्रुति (२)}
सूक्ष्मचूर्णं तु सप्ताहं वेतसाम्ले विनिक्षिपेत् ।
सप्ताहादुद्धृतं तं वै पुटे रुद्ध्वा द्रुतिर्भवेत् ॥१७.६७॥
{वैक्रान्तद्रुति (१)}
श्वेतवर्णं तु वैक्रांतमम्लवेतसभावितम् ।
सप्ताहान्नात्र संदेहः खरे घर्मे द्रवत्यलम् ॥१७.६८॥
{वैक्रान्तद्रुति (२)}
केतकीस्वरसं ग्राह्यं सैंधवं स्वर्णपुष्पिका ।
इंद्रगोपकसंयुक्तं सर्वं भांडे विनिक्षिपेत् ॥१७.६९॥
सप्ताहं स्वेदयेत्तस्मिन्वैक्रांतं द्रवतां व्रजेत् ।
लोहाष्टकं च रत्नानि योगस्यास्य प्रभावतः ॥१७.७०॥
कुरुते योगराजोऽयं रत्नानां द्रावणं परम् ॥१७.७१॥
{सर्वद्रुतीनां स्थापनाधारः}
कुसुम्भतैलमध्ये तु संस्थाप्या द्रुतयः पृथक् ।
तिष्ठन्ति चिरकालं तु प्राप्ते कार्ये नियोजयेत् ॥१७.७२॥
इत्येवं द्रुतिसंचयं समुचितैः सारातिसारैर्मतैः कृत्वा वार्तिकपुंगवोऽत्र सततं श्रीपारदे मेलयेत् ।
तेनैवाद्भुतभक्षणं सुकनकं कृत्वाथ विद्वद्वरे देयं दीनजने च दुःखविमुखं कुर्यात्समस्तं जगत् ॥१७.७३॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP