TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण ३.२

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ३.२
भक्त्या शास्त्रविचारणादनुदिनं पूजाविधेः पालनात्स्वात्मानन्दनिमज्जनात्परहितात्कार्यक्रियागोपनात् ।
नित्यं सद्गुरुसेवनादनुभवात्सूतस्य सद्भावनाद्दास्यन्ते निजरश्मयो वरबलात्सत्सम्प्रदायात्स्फुटम् ॥२.१॥
रसादिलोहपर्यन्तं शोधने मारणे हितम् ।
भावनायां क्वचिच्चैव नानावर्गो निगद्यते ॥२.२॥
{देफ़ौल्त्वलुएस्}
अङ्गे नोक्ते भवेन्मूलं द्रवः सर्वाङ्गतो भवेत् ।
अमात्रायां समा मात्रा विज्ञेया रसकर्मणि ॥२.३॥
{क्षारवर्ग}
तिलापामार्गकदलीचित्रकार्द्रकमूलकम् ।
शिग्रुमोक्षपलाशं च सर्वमन्तःपुटे दहेत् ॥२.४॥
समालोड्य जलैर्वस्त्रैर्बद्ध्वा ग्राह्यमधोजलम् ।
शोधयेत्पाचयेदग्नौ मृद्भाण्डेन तु तज्जलम् ॥२.५॥
ग्राह्यं क्षारावशेषं तद्वृक्षक्षारमिदं स्मृतम् ।
{श्वेतवर्ग, शुक्लवर्ग}
चुन्नं कूर्पं शङ्खशुक्तिवराटैः शुक्लवर्गकः ॥२.६॥
{विड्वर्ग}
कपोतचाषगृध्राणां शिखिकुक्कुटयोश्च विट् ।
{अम्लवर्ग}
चाङ्गेरी चणकाम्लं तु मातुलुङ्गाम्लवेतसम् ॥२.७॥
चिञ्चानारङ्गजम्बीरमम्लवर्ग इति स्मृतः ।
{लवणपञ्चक}
सामुद्रं सैन्धवं काचं चुल्लिका च सुवर्चलम् ॥२.८॥
चूलिकानवसारः स्यादेतल्लवणपञ्चकम् ।
{त्रिक्षार}
सज्जीक्षारं यवक्षारं टङ्कणं च तृतीयकम् ॥२.९॥
{मूत्रवर्ग}
क्षारत्रयमिदं ख्यातं अजाश्वमहिषीगवाम् ।
नारीमेषीखरोष्ट्राणां मूत्रवर्गो गजस्य च ॥२.१०॥
{मित्रपञ्चक}
मध्वाज्यटङ्कणं गुञ्जा गुडः स्यान्मित्रपञ्चकम् ।
{पित्तवर्ग}
नराश्वशिखिगोमत्स्यपित्तानि पित्तवर्गके ॥२.११॥
{वसावर्ग}
मत्स्याहिनरमेषीणां शिखिनां च वसा मता ।
{रक्तवर्ग}
मञ्जिष्ठा कुङ्कुमं लाक्षा दाडिमं रक्तचन्दनम् ॥२.१२॥
बन्धूकं करवीरं च रक्तवर्गो ह्ययं भवेत् ।
{पीतवर्ग}
कुसुम्भं किंशुकं रात्रिः पतंगं मदयन्तिका ॥२.१३॥
पीतवर्गो ह्ययं ख्यातो दिव्यौषधिगणं शृणु ।
{दिव्यौषधिगण}
अजकर्णी शङ्खपुष्पी रुदन्ती काकतुण्डिका ॥२.१४॥
हंसपादी व्याघ्रनखी चाण्डाली क्षीरकन्दकः ।
वन्ध्याकर्कोटकी रम्भा गोजिह्वा कोकिलाक्षकः ॥२.१५॥
शाकवृक्षो हेमवल्ली पातालगरुडी शमी ।
कटुतुम्बी वज्रलता सूरणं वनसूरणम् ॥२.१६॥
मेषशृङ्गी चक्रमर्दो जलकुम्भी शतावरी ।
गुञ्जा कोशातकी नीली आखुकर्णी त्रिपर्णिका ॥२.१७॥
कुक्कुटी कृष्णतुलसी पुङ्खा श्वेतापराजिता ।
गरुडी लाङ्गली ब्राह्मी चाङ्गेरी पद्मचारिणी ॥२.१८॥
{वज्रशोधनं (१)}
गृहीत्वाथ शुभं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् ।
महिषीविष्ठया लिप्त्वा तुलाग्नौ च पुटे पचेत् ॥२.१९॥
अहोरात्रात्समुद्धृत्य हयमूत्रैर्निषेचयेत् ।
व्याघ्रीकन्दे पुनः क्षिप्त्वा वज्रकंदोदरे क्षिपेत् ।
हयमूत्रैर्निषिञ्च्याच्च पुटेत्सिञ्च्याच्च पूर्ववत् ॥२.२०॥
एवं सप्तदिनैः शुद्धं वज्रं स्यान्नात्र संशयः ।
{वज्रशोधनं (२)}
कुलत्थकोद्रवक्वाथहयमूत्रस्नुहीपयः ॥२.२१॥
क्षिप्त्वा भाण्डे क्षिपेत्तस्मिन्व्याघ्रीकन्दगतं पविम् ।
दोलायंत्रे दिवारात्रौ समुद्धृत्य पुनः क्षिपेत् ॥२.२२॥
व्याघ्रीकन्दं महाकन्दे क्षिप्त्वा गजपुटे पचेत् ।
तत्पक्वं काञ्चनीद्रावैः सेचयेच्छुद्धिमाप्नुयात् ।
{वज्रशोधनं (३)}
आखुकर्णी मेघनादः प्रियङ्गुर्मेषशृङ्गिका ।
अम्लवेतसनिर्गुण्डीकुलत्थकोद्रवाः शमी ॥२.२३॥
मुनिश्च हयमूत्रेण कषायं कारयेच्छुभम् ।
जम्बीरे सूरणे वाथ क्षिप्त्वा वज्रं दिनं पचेत् ॥२.२४॥
पूर्वक्वाथेन दोलायां शुद्धिमाप्नोति नान्यथा ।
{वज्रः: मारण}
शुद्धं वज्रं मत्कुणानां रक्तैर्लिप्त्वा धमेत्तु तत् ॥२.२५॥
अग्निवर्णं क्षिपेन्मूत्रे गर्दभोत्थे पुनः पुनः ।
लेपितं धामितं तद्वदेवं कुर्यात्त्रिसप्तधा ॥२.२६॥
{वज्रः: मारण}
तालकं मत्कुणैः पिष्ट्वा गोले तस्मिन्क्षिपेत्तु तत् ।
रुद्ध्वा मूषां धमेद्दार्ढ्यात्हयमूत्रे विनिक्षिपेत् ॥२.२७॥
समुद्धृत्य पुनस्तद्वत्सप्तवारान्मृतो भवेत् ।
{वज्रमारणं (३)}
मेषशृंगी भुजगास्थि कूर्मपृष्ठं शिलाजतु ॥२.२८॥
गन्धकं कान्तपाषाणं मुनिपुष्पं सतालकम् ।
त्रिक्षारं पंचलवणं मेषशृङ्गीन्द्रवारुणी ॥२.२९॥
वज्रवल्ली मूषकर्णी बदरीकुड्मलानि च ।
मूषकस्य मलं स्तन्यं स्नुह्यर्कक्षीरमत्कुणाः ॥२.३०॥
पञ्चाङ्गां शरपुङ्खां च हस्तिनीरं नृछागयोः ।
पेटारीबीजं स्त्रीपुष्पं पारावतमलं शिलाम् ॥२.३१॥
पुष्पाणि चैव वाकुच्याः पञ्चाङ्गं निम्बकस्य च ।
धात्रीवृक्षस्य पञ्चाङ्गं गोरम्भा चाजमूत्रकम् ॥२.३२॥
हंसपादी वज्रकन्दं बृहतीफलसूरणे ।
गोजिह्वा कर्कटं मांसं मूत्रवर्गं च मिश्रयेत् ॥२.३३॥
एतत्समस्तं व्यस्तं वा यथालाभं सुपिण्डितम् ।
तत्पिण्डे निक्षिपेद्वज्रमन्धमूषागतं पुटेत् ॥२.३४॥
कुलत्थं कोद्रवं पिष्ट्वा हयमूत्रैर्विलोडयेत् ।
तन्मध्ये सेचयेत्तप्तां मूषां पुटविनिर्गताम् ॥२.३५॥
एवं पुनः पुनः कुर्यादेकविंशतिवारकम् ।
आदाय पूर्वजं वज्रताले मत्कुणपेषिते ॥२.३६॥
गोलके निक्षिपेद्रुद्ध्वा मूषां तीव्रानले धमेत् ।
इत्येवं सप्तधा धाम्यं हयमूत्रैर्निषेचयेत् ॥२.३७॥
अनेन क्रमयोगेन मृतं भवति निश्चितम् ।
तं मृतं चूर्णयेत्खल्वे सिद्धयोग उदाहृतः ॥२.३८॥
{मेर्चुर्यः: शोधन}
भ्रामकस्य मुखं ताप्यं पेटारीबीजटङ्कणे ।
क्षारं चोत्तरवारुण्या गन्धकं तालकं शमी ॥२.३९॥
भूधरस्थं पुटैकेन समुद्धृत्य विमर्दयेत् ।
पूर्ववत्पूर्वजैर्द्रावैस्तद्वद्रुद्ध्वा च पाचयेत् ॥२.४०॥
पुनर्मर्द्यं पुनः पाच्यं दशवारं च पूर्ववत् ।
पातयेत्पातनायंत्रे सम्यक्शुद्धो भवेद्रसः ॥२.४१॥
{मेर्चुर्यः: शोधन}
रसस्य दशमांशं तु गन्धं दत्त्वा विमर्दयेत् ।
जम्बीरोत्थैर्द्रवैर्यामं पात्यं पातनयन्त्रके ॥२.४२॥
पुनर्मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये ।
{मेर्चुर्यः: शोधन}
अथवा पारदं मर्द्यं तप्तखल्वे दिनावधि ।
कुमारीरजनीचुन्नैः पात्यं पातनयन्त्रके ॥२.४३॥
कन्याग्नित्रिफलाभिश्च पुनर्मर्द्यं च पातयेत् ।
पुनर्मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये ।
इत्येवं सप्तधा कुर्यात्सम्यक्शुद्धो भवेद्रसः ॥२.४४॥
{मेर्चुर्यः: मर्दनः: अप्प्लिचतिओन्}
युक्तं सर्वस्य सूतस्य तप्तखल्वे विमर्दनम् ।
शोधने चारणे चैव जारणे च विशेषतः ।
मूर्छने मारणे चैव बन्धने च प्रशस्यते ॥२.४५॥
{तप्तखल्व}
अजाशकृत्तुषाग्निं च भूगर्ते त्रितयं क्षिपेत् ।
तस्योपरि स्थितं खल्वं तप्तखल्वमिदं भवेत् ॥२.४६॥
खल्वं लोहमयं शस्तं मर्दकं चैव लोहजम् ।
तदभावे शिलोत्थं वा योग्यं खल्वं च मर्दकम् ॥२.४७॥
{मेर्चुर्यः: हिङ्गुलाकृष्ट}
अथवा हिंगुलात्सूतं ग्राहयेत्तन्निगद्यते ।
गोमूत्रैर्माहिषैर्मूत्रैस्तिलतैलसुराम्लकैः ॥२.४८॥
सप्ताहं हिंगुलं पाच्यं लोहपात्रे क्रमाग्निना ।
चालयेल्लोहदण्डेन द्रावं दत्त्वा पुनः पुनः ॥२.४९॥
सद्रवं तं समादाय शिखिपित्तेन भावयेत् ।
दिनान्ते पातनायन्त्रे पातयेच्चण्डवह्निना ॥२.५०॥
सप्तकञ्चुकनिर्मुक्तः ख्यातोऽयं शुद्धसूतकः ॥२.५१॥
कन्याभिस्त्रिफलाभिश्च पुनर्मर्द्यं च पातयेत् ।
इत्येवं सप्तधा कुर्यात्सम्यक्शुद्धो भवेद्रसः ॥२.५२॥
{मेर्चुर्यः: हिङ्गुलाकृष्ट}
दिनैकं हिङ्गुलं खल्वे मर्द्यमम्लेन केनचित् ।
पातयेत्पातनायंत्रे दिनान्ते तत्समुद्धरेत् ।
विना कर्माष्टकेनैव सूतोऽयं सर्वकार्यकृत् ॥२.५३॥
सर्वसिद्धमतमेतदीरितं सूतशुद्धिकरमद्भुतं परम् ।
अल्पकर्मविधिभूरिसिद्धिदं देहलोहकरणे हि शस्यते ॥२.५४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:49.1930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

stereograph

  • पु. त्रिमितिलेख 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site