TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण ३.१६

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ३.१६
यासां छेदेन रक्तं प्रवहति सततं प्रायशो रक्तभूमौ ।
संग्राह्या भूलतास्ता विषहरधनदं पातयेत्तेषु सत्त्वम् ।
तद्युक्त्या पारदेन्द्रे चरति यदि समं सारणाकर्मयोगैर्बद्धोऽयं कोटिवेधी समरविरजते योजयेद्भास्करे वा ॥१६.१॥
{भूनागसत्त्व (१)}
भूलता कांतपाषाणं चूर्णं कृत्वा समं समम् ।
तत्सत्वमभ्रवद्ग्राह्यं तत्रत्यैरौषधैः सह ॥१६.२॥
{भूनागसत्त्व (२)}
सौवीरं कांतपाषाणं तीक्ष्णं पाषाणचूर्णकम् ।
एतेषां तुल्यभूनागचूर्णमेकत्र कल्पयेत् ॥१६.३॥
अभ्रवद्ग्राहयेत्सत्वं तत्रत्यैरौषधैर्धमन् ॥१६.४॥
{भूनागसत्त्व (३)}
कांतपाषाणसौवीरचूर्णं स्याद्भूलतासमम् ।
अभ्रवद्ग्राहयेत्सत्वं रसराजस्य बन्धकम् ॥१६.५॥
{भूनागसत्त्व (४)}
सौवीरकांततीक्ष्णानां चूर्णं भूनागमृत्समम् ।
धार्यं भाण्डे क्षिपेत्तस्मिन्सजीवा भूलता पुनः ॥१६.६॥
उदकैः सेचयेन्नित्यं यावत्तद्भक्षयन्ति वै ।
तत्सत्त्वं अभ्रवत्पिण्डं बद्ध्वा सत्वं समाहरेत् ॥१६.७॥
{भूनागसत्त्व (५)}
कांतपाषाणचूर्णं तु भूलताचूर्णसंयुतम् ।
अजामूत्रैस्त्रिसप्ताहं भावयेदातपे खरे ।
तत्पिण्डं धारयेत्कोष्ठ्यां सत्वं ग्राह्यं सुशोभनम् ॥१६.८॥
{भूनागसत्त्व (६)}
गोमूत्रं रजनी राजी लवणं कल्कयेत्समम् ।
तेन सिञ्च्यात्तु भूनागं खरे घर्मे द्रवत्यलम् ॥१६.९॥
कंकुष्ठं तद्द्रवं तुल्यं कृत्वा सत्वं समाहरेत् ।
व्योमवत्क्रमयोगेन रसबन्धकरं भवेत् ॥१६.१०॥
{भूनागसत्त्व (७)}
गंधकं रसकं चूर्ण्य भूलताचूर्णतुल्यकम् ।
वज्रमूषान्धितं ध्मातं सत्वं भवति शोभनम् ॥१६.११॥
एतत्सत्वं विचूर्ण्याथ पूर्ववच्चाभिषेकितम् ॥१६.१२॥
{भूनागतैल}
दिनं भूनागसंतुल्यं मर्द्यं सौवीरमञ्जनम् ।
पञ्चमाहिषसंमिश्रं कृत्वाथ वटकीकृतम् ।
तस्मात्पातालयंत्रेण तैलं ग्राह्यं पुटेन वै ॥१६.१३॥
{भूनागतैल}
भूलतास्तु गवां मूत्रैः क्षालयेत्ताभिराहरेत् ।
तैलं पातालयंत्रेण तत्तैलं जारणे हितम् ॥१६.१४॥
{गुह्यसूत}
तप्तखल्वे शुद्धसूतं जीवद्भूनागसंयुतम् ।
त्रिदिनं मर्दयेद्गाढं तत्समस्तं समुद्धृतम् ॥१६.१५॥
भूनागचूर्णयुक्तायां मूषायां संनिवेशयेत् ।
तदूर्ध्वं भूलताचूर्णं दत्त्वा रुद्ध्वाथ शोषयेत् ॥१६.१६॥
गर्तान्तर्गोमयं सार्धं क्षिप्त्वा मूषां निवेशयेत् ।
पादमात्रं तु तां गर्भे करीषं तुषवह्निना ॥१६.१७॥
पुटे पच्याद्दिनैकं तु समुद्धृत्याथ दापयेत् ।
ऊर्ध्वाधो भूलताचूर्णं दत्त्वा तद्वत्पुटे पचेत् ॥१६.१८॥
मासमात्रमिदं कुर्याद्भवेदग्निसहो रसः ।
जायते मूर्तिबद्धस्य राक्षसो वडवामुखम् ॥१६.१९॥
ग्रसते सर्वलोहानि सत्वानि विविधानि च ।
वज्रादिसर्वलोहानि दत्तानि च मृतानि च ।
गुह्यसूतमिदं ख्यातं वक्ष्यते चास्य जारणम् ॥१६.२०॥
{चन्द्रार्क => गोल्द्}
अस्यैव षोडशांशेन दत्त्वा भूनागसत्त्वकम् ।
तप्तखल्वे दिनं मर्द्यं ततः सिद्धविडान्वितम् ॥१६.२१॥
भूनागतैललिप्तायां मूषायां तन्निवेशयेत् ।
रुद्ध्वा स्वेद्यं करीषाग्नौ जीर्णसत्वं च पूर्ववत् ॥१६.२२॥
दत्त्वा मर्द्यं तप्तखल्वे विडं देयं दशांशतः ।
पूर्ववल्लिप्तमूषायां जारयेत्स्वेदनेन वै ॥१६.२३॥
एवं सत्वं समं जार्यं पूर्ववत्कच्छपेन वा ।
गर्भद्रावेण बीजं च पूर्ववत्षड्गुणं शनैः ॥१६.२४॥
जारयेद्द्रावितं गर्ते मूषायन्त्रे तु पूर्ववत् ।
ततस्तु रंजकं बीजं जार्यं अस्यैव षड्गुणम् ॥१६.२५॥
ततस्तु पक्वबीजेन सप्तशृङ्खलिकाक्रमात् ।
सारणं जारणं कुर्यान्मुखं बद्ध्वा तु बन्धयेत् ॥१६.२६॥
अनेन कोटिभागेन चंद्रार्कं कांचनं भवेत् ॥१६.२७॥
{चोप्पेर्=> गोल्द्}
गुह्यसूतं सुवर्णं च तुल्यमम्लेन मर्दयेत् ।
यावद्गोलं तु तं कृत्वा सारणायां तु मध्यतः ॥१६.२८॥
द्वयोस्तुल्यं तु भूनागसत्वं मूषागतं द्रुतम् ।
तस्मिन्सत्वे तु तं ढाल्यं सर्वं खोटं भवेत्तु तत् ॥१६.२९॥
भूनागतैललिप्तायां मूषायां चान्धितं पुटेत् ।
यावत्सूतावशेषं स्यात्तावल्लघुपुटैः पचेत् ॥१६.३०॥
एवं पुनः पुनः कुर्यात्लिप्त्वा मूषागतं पुटम् ।
अथवा बिडलिप्तायां मूषायां चान्धितं पुटेत् ॥१६.३१॥
यावत्सूतावशेषं स्यात्तावल्लघुपुटैः पचेत् ।
गर्भद्रावणबीजं च समं तस्यैव सारयेत् ॥१६.३२॥
सारणायन्त्रमध्ये तु पूर्ववज्जारयेत्ततः ।
ततो व्योमादिसत्वानि तुल्यतुल्यानि तस्य वै ॥१६.३३॥
मारितानि पृथग्भूयो जारितानि च कारयेत् ।
ततस्तु रंजकं बीजं सारितं तस्य जारयेत् ॥१६.३४॥
चतुर्गुणं यथा पूर्वं लिप्तमूषागतं पुटेत् ।
तत्सार्यं पक्वबीजेन यथा पूर्वं क्रमेण वै ॥१६.३५॥
सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् ।
कोटिभागेन तेनैव ताम्रं भवति कांचनम् ॥१६.३६॥
{चन्द्रार्क => गोल्द्}
भूनागसत्वसंतुल्यं गुह्यसूतं तु मर्दयेत् ।
दिव्यौषधीद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयम् ॥१६.३७॥
तत्सर्वं वज्रमूषायां रुद्ध्वा सन्धिं विशोषयेत् ।
कारीषाग्नौ दिवारात्रौ त्रिशतं वा तुषाग्निना ॥१६.३८॥
स्वेदयेन्मृदुपाकेन समुद्धृत्याथ मर्दयेत् ।
दिव्यौषधीद्रवैरेव तप्तखल्वे दिनावधि ॥१६.३९॥
ततो रुद्ध्वा धमेद्गाढं खोटं भवति तद्रसः ।
गुह्यसूतं पुनस्तुल्यं दत्त्वा तस्मिन्दिनत्रयम् ॥१६.४०॥
मर्दयेत्स्वेदयेत्तद्वत्कुर्याद्बन्धं च पूर्ववत् ।
तुल्येन कांजिकेनैव सारयेच्चाथ तेन वै ।
वेधयेच्छतभागेन चंद्रार्कं कांचनं भवेत् ॥१६.४१॥
{चन्द्रार्क, चोप्पेर्, लेअद्=> गोल्द्}
रक्तवर्णं तु वैक्रांतं सुशुद्धं पलमात्रकम् ।
व्याघ्रीकंदोदरे पच्याद्दोलायां हयमूत्रकैः ॥१६.४२॥
अर्धयामात्समुद्धृत्य व्याघ्रीकंदद्रवैः पुनः ।
भावयेत्सप्तधा घर्मे पश्चात्तत्समकांचने ॥१६.४३॥
शुद्धसूतं पलैकं तु त्रयमेकत्र मर्दयेत् ।
व्याघ्रीकंदद्रवैश्चाश्वमूत्रैर्यामचतुष्टयम् ॥१६.४४॥
तद्गोलं हण्डिकायन्त्रे यामं लघ्वग्निना पचेत् ।
उद्धृत्य मर्दयेद्यामं पूर्वद्रावैः समूत्रकैः ॥१६.४५॥
शतं पलं स्वर्णपत्रे अनेनैव तु लेपयेत् ।
रुद्ध्वा लघुपुटैः पच्याद्विंशद्वारं पुनः पुनः ॥१६.४६॥
व्याघ्रीकंदद्रवैश्चाश्वमूत्रैश्चैव तु मर्दयेत् ।
एतत्स्वर्णं साभिषिक्तं सत्ववत्समुखे रसे ॥१६.४७॥
चारयेज्जारयेदेवं यावच्छतगुणं शनैः ।
तद्रसं चाश्वमूत्रेण व्याघ्रीकंदद्रवेण च ॥१६.४८॥
बीजैर्दिव्यौषधीनां च तप्तखल्वे विमर्दयेत् ।
त्रिदिनान्ते समुद्धृत्य वज्रमूषान्धितं पुटेत् ॥१६.४९॥
दिवारात्रौ करीषाग्नौ त्रिरात्रं च तुषाग्निना ।
एवं पुनः पुनः कुर्यान्मर्दनं पुटपाचनम् ॥१६.५०॥
सप्तधा तत्प्रयत्नेन तद्रसो म्रियते ध्रुवम् ।
अनेनैवायुतांशेन क्रामणान्तेन वेधयेत् ॥१६.५१॥
चंद्रार्कं वा द्रुतं ताम्रं नागं वा कांचनं भवेत् ।
चारितं पूर्वसूतं यन्मारणेन विना तु तत् ॥१६.५२॥
मारयेत्पक्वबीजानि त्रिधा तं जारयेत्क्रमात् ।
पूर्ववद्बंधनत्वं च कृत्वा तं क्रामणेन वै ॥१६.५३॥
योजयेल्लक्षभागेन चंद्रार्के द्राविते तु तम् ।
स्वर्णं भवति रूपाढ्यं शंभुना परिकीर्तितम् ॥१६.५४॥
{मेर्चुर्यः: कोटिवेधिन्}
पीतवर्णं तु वैक्रांतं शुद्धं भाव्यं दिनावधि ।
व्याघ्रीद्रवाश्वमूत्राभ्यां व्याघ्रीकंदगतं पचेत् ॥१६.५५॥
दोलायंत्रे दिवारात्रं समुद्धृत्याथ चूर्णयेत् ।
एतच्चूर्णं पलैकं तु सूते दशगुणे क्षिपेत् ॥१६.५६॥
व्याघ्रीकंदद्रवैश्चाश्वमूत्रैर्मर्द्यं दिनावधि ।
अनेन लेपयेत्स्वर्णपत्रं शतपलं पुनः ॥१६.५७॥
वज्रमूषागतं रुद्ध्वा त्रिदिनं तुषवह्निना ।
स्वेदयेद्वा दिवारात्रौ कारीषाग्नावथोद्धरेत् ॥१६.५८॥
व्याघ्रीकंदाश्वमूत्राभ्यां मर्द्यं तद्वत्पुटे पचेत् ।
एवं शतपुटैः पक्वं अभिषिक्तं च कारयेत् ॥१६.५९॥
समुखे रसराजेन्द्रे चार्यमेतच्च जारयेत् ।
व्योमसत्वक्रमेणैव यावत्शतगुणं शनैः ॥१६.६०॥
मूषायन्त्रेऽथवा जार्यं यथा पूर्वं क्रमेण वै ।
तत्रस्थस्य रसेन्द्रस्य गर्भद्रावणबीजकम् ॥१६.६१॥
पूर्ववद्द्रावितं गर्ते क्रमाज्जार्यं चतुर्गुणम् ।
तत्रस्थं पक्वबीजेन जारयेत्सप्तशृङ्खलैः ॥१६.६२॥
मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः ॥१६.६३॥
{चोप्पेर्=> सिल्वेर्}
कृष्णवर्णं तु वैक्रांतं व्याघ्रीकंदोदरे क्षिपेत् ।
अश्वमूत्रैर्दिनं स्वेद्यं तद्भागैकं विचूर्णयेत् ॥१६.६४॥
शुद्धसूतस्य भागैकं तप्तखल्वे दिनावधि ।
व्याघ्रीकंदद्रवैश्चाश्वमूत्रैश्चैव तु मर्दयेत् ॥१६.६५॥
तारं दत्त्वा षडंशेन पुनस्तद्वच्च मर्दयेत् ।
सर्वतुल्यं पुनः सूतं दत्त्वा तत्रैव मर्दयेत् ॥१६.६६॥
जातं गोलं समुद्धृत्य निगलेन तु लेपयेत् ।
वज्रमूषागतं रुद्ध्वा त्रिदिनं तुषवह्निना ॥१६.६७॥
स्वेदयेद्वा दिवारात्रौ निर्वाते करिषाग्निना ।
उद्धृत्य मर्दयेच्चाथ बीजैर्दिव्यौषधीद्रवैः ॥१६.६८॥
त्रिदिनं तप्तखल्वे तु हयमूत्रेण संयुतम् ।
पूर्ववल्लेपितं रुद्ध्वा तद्वत्पाच्यं पुटेन वै ॥१६.६९॥
अनेन क्रमयोगेन सप्तधा पाचयेत्पुटैः ।
अनेन वेधयेत्ताम्रं द्रावितं शतमांशतः ।
पूर्ववत्क्रामणं दत्त्वा तारं भवति शोभनम् ॥१६.७०॥
{चोप्पेर्=> सिल्वेर्}
श्वेतवर्णं तु वैक्रांतं सुशुद्धं पूर्ववत्क्रमात् ।
रक्तवैक्रांतयोगेन तारं तेनैव मारयेत् ॥१६.७१॥
तत्तारं जारयेत्सूते तद्वच्छतगुणैः शनैः ।
तद्वन्मार्यं पुटेनैव भवेदयुतवेधकः ॥१६.७२॥
तद्वत्वै तारबीजेन सारितं जारयेत्क्रमात् ।
मुखं बद्ध्वा रसं बद्ध्वा लक्षवेधी भवेद्रसः ॥१६.७३॥
द्रुते ताम्रे प्रदातव्यं तत्तारं जायते शुभम् ॥१६.७४॥
{सिल्वेर्=> गोल्द्}
ताम्रवर्णं तु वैक्रांतं शुद्धहिंगुलसंयुतम् ।
मर्दयेदम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥१६.७५॥
अनेन स्वर्णपत्राणि प्रलिप्तानि पुटे पचेत् ।
समुद्धृत्य पुनर्मर्द्यमम्लवर्गेण संयुतम् ॥१६.७६॥
पचेत्सप्तपुटैरेवं तद्भस्म पलमात्रकम् ।
शुद्धसूतपलैकं तु दिव्यौषधीद्रवैस्त्र्यहम् ॥१६.७७॥
मर्दितं कारयेद्गोलं निर्मलेन च लेपयेत् ।
रुद्ध्वा दिनत्रयं स्वेद्यं करीषतुषवह्निना ॥१६.७८॥
ततो दिव्यौषधीद्रावैर्मर्दितं निगलेन च ।
रुद्ध्वा लिप्त्वा धमेद्गाढं बंधमायाति निश्चितम् ॥१६.७९॥
अनेन शतमांशेन तारं भवति कांचनम् ॥१६.८०॥
{सिल्वेर्=> गोल्द्}
रक्तवैक्रांतसत्वं तु सह हेम्ना तु चूर्णयेत् ।
द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ॥१६.८१॥
तत्खोटं वाभिषिक्तं तु समुखे जारयेद्रसे ।
अभ्रसत्वप्रकारेण जारयेत्पारदं समम् ॥१६.८२॥
तद्रसं पक्वबीजेन सारयेत्पूर्ववत्त्रिधा ।
तद्वच्च जारणा कार्या मुखं बद्ध्वाथ बन्धयेत् ॥१६.८३॥
सहस्रांशेन तेनैव तारं भवति कांचनम् ॥१६.८४॥
{सिल्वेर्, चोप्पेर्, लेअद्=> गोल्द्}
रक्तवैक्रांतसत्वं च शुद्धसूतं समं समम् ।
मर्द्यं दिव्यौषधीद्रावैस्तप्तखल्वे दिनत्रयम् ॥१६.८५॥
ततो निगललिप्तायां मूषायां चान्धितं पुटेत् ।
करीषाग्नौ दिवारात्रौ त्रिदिनं च तुषाग्निना ॥१६.८६॥
समुद्धृत्य पुनर्लेप्यं तद्गोलं निगलेन च ।
मूषान्ते लवणं दत्त्वा रुद्ध्वा संधिं विशोषयेत् ॥१६.८७॥
पुनश्च लवणं दत्त्वा रुद्ध्वा संधिं विशोषयेत् ।
लेपयेत्शंखचूर्णेन तां मूषां सर्वतोऽङ्गुलम् ।
कोष्ठीयन्त्रे हठाद्धाम्यं बद्धो भवति तद्रसः ॥१६.८८॥
तारे ताम्रे भुजंगे वा सहस्रांशेन वेधयेत् ।
जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥१६.८९॥
{चपलाभेदाः}
रक्ता पीता सिता कृष्णा चपला तु चतुर्विधा ।
वैक्रांतस्य प्रकारेण शोध्याः स्यू रसबन्धकाः ॥१६.९०॥
{चपलाः: वेध wइथ्~}
लांगली करवीराग्निगिरिकर्णी च टंकणम् ।
सौवीराञ्जनतुल्यांशं नारीस्तन्येन पेषयेत् ॥१६.९१॥
वज्रमूषोदरं तेन लेपयेत्सर्वतोऽङ्गुलम् ।
चपला रक्तपीता वा भागमेकं विचूर्णयेत् ॥१६.९२॥
सुवर्णभागाश्चत्वारो द्विभागं शुद्धपारदम् ।
दिव्यौषधीद्रवैर्मर्द्यं सर्वमेतद्दिनत्रयम् ॥१६.९३॥
पूर्वमूषां निरुध्याथ छायाशुष्कं धमेद्धठात् ।
तत्सर्वं जायते खोटं शतांशेन तु तेन वै ॥१६.९४॥
सुशुद्धं वेधयेन्नागं भवेद्गुंजानिभं तु तत् ।
नागेनानेन शुल्बं तु शतांशेनैव वेधयेत् ॥१६.९५॥
अरुणाभं भवेच्छुल्बं तेन शुल्बेन वेधयेत् ।
शुद्धतारं शतांशेन तत्तारं कांचनं भवेत् ॥१६.९६॥
तद्वच्च जारणा कार्या मुखं बद्ध्वाथ बन्धयेत् ।
सहस्रांशेन तेनैव तारं भवति कांचनम् ॥१६.९७॥
सुशुद्धं वेधयेन्नागं भवेद्गुंजानिभं च तत् ।
नागेनानेन शुल्बं तु शतांशेनैव वेधयेत् ॥१६.९८॥
{लेअद्=> चोप्पेर्=> सिल्वेर्=> गोल्द्}
षड्भागं चपलाचूर्णं तारं स्यात्सप्तभागकम् ।
भागाष्टकं सुवर्णं च नवभागं च पारदम् ॥१६.९९॥
सर्वं दिव्यौषधीद्रावैर्मर्दयेद्दिवसत्रयम् ।
तद्गोलं निगलेनैव सर्वतो लेपयेद्घनम् ॥१६.१००॥
लांगली करवीराग्निगृध्रविष्ठा समं समम् ।
पेषयेन्मातुलिंगाम्लैस्तेन मूषां प्रलेपयेत् ॥१६.१०१॥
तद्रुद्ध्वा पूर्ववद्गोलं धमेत्खोटं भवेत्तु तत् ।
तेनैव तु शतांशेन नागे वेधं प्रदापयेत् ॥१६.१०२॥
तेन नागेन शुल्बं च शतांशेनैव वेधयेत् ।
ताम्रेण वेधयेत्तारं पूर्ववत्कांचनं भवेत् ॥१६.१०३॥
{सिल्वेर्=> गोल्द्}
पलैकं शुद्धसूतं च काचपात्रे विनिक्षिपेत् ।
पूर्ववज्जारितं गंधं क्षिपेत्तस्मिन्पलत्रयम् ॥१६.१०४॥
जंबीराणां द्रवं दत्त्वा गंधतुल्यं शनैः पचेत् ।
वालुकाभाण्डमध्ये तु यावज्जीर्यति गंधकम् ॥१६.१०५॥
पूर्वसंस्कृतधान्याभ्रं पलमेकं च तत्र वै ।
क्षिप्त्वा जंबीरनीरं च बिडं दत्त्वाथ पाचयेत् ॥१६.१०६॥
जीर्णे यावद्भवेत्तत्तु ह्यम्लं तावत्क्षिपन्पचेत् ।
तस्मिन्स्वर्णं पलैकं तु चूर्णितं चाभिषेकितम् ॥१६.१०७॥
क्षिपेत्तस्मिन्विडं चाथ देयं जंबीरसंयुतम् ।
पचेज्जीर्णं भवेद्यावत्तत्रैव मृदुवह्निना ॥१६.१०८॥
बिडमम्लं क्षिपन्नेव जीर्णे चोद्धृत्य मर्दयेत् ।
त्रिदिनं तप्तखल्वे तु दिव्यौषधीद्रवैर्युतम् ॥१६.१०९॥
मूलमीश्वरलिङ्ग्युत्थं शिग्रुमूलं च पेषयेत् ।
वज्रमूषामनेनैव लिप्त्वा पूर्वरसं क्षिपेत् ॥१६.११०॥
रुद्ध्वा स्वेद्यं करीषाग्नावहोरात्रात्समुद्धरेत् ।
पूर्ववन्मर्दितं रुद्ध्वा धमेद्बद्धो भवेद्रसः ॥१६.१११॥
चतुःषष्टितमांशेन दत्ते तारमनेन वै ।
वेधयेज्जारयेद्दिव्यं कांचनं सिद्धसंमतम् ॥१६.११२॥
{सिल्वेर्=> गोल्द्}
शतनिष्कं शुद्धसूतं दशनिष्कं तु गंधकम् ।
क्षणं कन्याद्रवैर्मर्द्यं पातनायंत्रगं पचेत् ॥१६.११३॥
ऊर्ध्वलग्नं समादाय गंधकं दशनिष्ककम् ।
दत्त्वा मर्द्यं पुनस्तद्वद्यंत्रे पच्यात्समुद्धरेत् ॥१६.११४॥
एवं पुनः पुनः कुर्यादेकविंशतिवारकम् ।
गौरीयन्त्रे तु तत्सूतं क्षिप्त्वा देयं तु गंधकम् ॥१६.११५॥
भावितं पूर्वयोगेन विंशत्यंशेन चूर्णितम् ।
रुद्ध्वा लघुपुटे पच्याज्जीर्णे गंधं प्रदापयेत् ॥१६.११६॥
एवं पुनः पुनर्जार्यं यथाशक्ति क्रमेण वै ।
जीर्णे शतगुणे गन्धे शतवेधी भवेद्रसः ॥१६.११७॥
सहस्रगुणिते जीर्णे सहस्रांशेन वेधयेत् ।
लक्षजीर्णे लक्षवेधी कोटिवेधी भवेद्रसः ॥१६.११८॥
जीर्णे कोटिगुणे गन्धेऽप्येवं स्यादुत्तरोत्तरम् ।
सारयेत्पक्वबीजेन पूर्ववज्जारयेत्क्रमात् ॥१६.११९॥
मुखं बद्ध्वा रसं बद्ध्वा तारे वेधं प्रदापयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥१६.१२०॥
भूसत्त्वकैः परमगुह्यतमैः ससूतैर्वैक्रान्तकैः सचपलै रसगंधकैश्च ।
दृष्ट्वानुभूय सकलं सुखसाध्ययोगैः सम्यक्सुवर्णकरणं गदितं सुधीनाम् ॥१६.१२१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:53.0630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

इकडेस

  • क्रि.वि. 
  • या बाजूस , दिशेस . 
  • येथें , या जागीं . 
  • घरीं ; स्थानीं ; कडे या अर्थी . त्याचे इकडे माझे इकडे . एथें पहा . [ हा + कडे ; का . ईकडे ; ते . इक्कड , अक्कड ] 
RANDOM WORD

Did you know?

ADHYAY 43 OF GURUCHARITRA IS WRONGLY PRINTED AND ADHYAY 47 AND 48 ARE SAME KINDLY CHANGE or make correction for it
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site