TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण ३.३

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ३.३
षट्काष्टकं ह्यष्टकमष्टकं च शोध्यं विमर्द्यं च यथोदितं तत् ।
वज्रादिलोहान्तकमुक्तपूर्वं तद्वक्ष्यते सूतवरस्य सिद्ध्यै ॥३.१॥
{वज्रः: सुब्त्य्पेस्}
श्वेता रक्ताः पीतकृष्णा द्विजाद्या वज्रजातयः ।
पुंस्त्रीनपुंसकाश्चेति लक्षणेन तु लक्षयेत् ॥३.२॥
{पुंवज्रः: परीक्षा}
वृत्ताः फलकसम्पूर्णास्तेजस्वन्तो बृहत्तराः ।
पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥३.३॥
{स्त्रीवज्रः: परीक्षा}
रेखाबिन्दुसमायुक्ताः षडस्रास्ताः स्त्रियः स्मृताः ।
{नपुंसकः: परीक्षा}
त्रिकोणं पत्त्रदेहं यद्दीर्घं यत्स्यान्नपुंसकम् ॥३.४॥
सर्वेषां पुरुषाः श्रेष्ठा वेधका रसबन्धकाः ।
स्त्रीवज्रा देहसिद्ध्यर्थं क्रामकं स्यान्नपुंसकम् ॥३.५॥
{दिव्यौषधि}
अजामारी काकमाची देवदालीन्द्रवारुणी ।
काकजङ्घा शिखिशिखा सर्पाक्षी नागवल्लिका ॥३.६॥
मीनाक्षी कृष्णधत्तूरो बला नागवल्ली जया ।
मुण्डी महाबला पूगी त्रिविधं चित्रकं निशा ॥३.७॥
मूर्वा काञ्चाननं कन्या पेटारी सूर्यवर्तकः ।
विष्णुक्रान्ता कारवल्ली वाकुची सिन्दुवारिका ॥३.८॥
स्वर्णपुष्पी खण्डजारी मञ्जिष्ठा पीलुकं वचा ।
स्नुही रक्तस्नुही बिल्वं कार्पासः कंगुणी घना ॥३.९॥
पलाशाङ्कोलविजया मेघनादार्कसर्षपाः ।
ब्रह्मदण्डी महाराष्ट्री श्वेता रक्ता पुनर्नवा ॥३.१०॥
उदुम्बरसोमलता कुम्भी पुष्करमूलकम् ।
तिलपर्णी कृष्णजीरा वृश्चिकाली च कालिका ॥३.११॥
करवीरोऽग्निदमनी बृहती भूमिपाटली ।
यवचिञ्ची चन्द्रलता मर्कटी वनराजकम् ॥३.१२॥
बदरी लज्जरी लाक्षा चणा वर्तुलपत्रका ।
अपामार्गो भूकदम्बो विषमुष्ट्येकवीरकः ॥३.१३॥
गोरम्भा कदली जाती मुसली सहदेविका ।
एरण्डः सैन्धवं पथ्या शुंठी मण्डूकपर्णिका ॥३.१४॥
मरूवको हिंगु वालो लक्ष्मणा हस्तिमूलिका ।
क्षीरवृक्षाश्च ये सर्वे तथा नानाविधं विषम् ॥३.१५॥
दिव्यौषधिगणः ख्यातो रसराजस्य साधने ।
व्यस्तं वाथ समस्तं वा यथालाभं नियोजयेत् ॥३.१६॥
{विषवर्गः}
तीव्रगन्धरसस्पर्शैर्विविधैस्तु वनोद्भवैः ।
मर्दनात्स्वेदनात्सूतो म्रियते बध्यतेऽपि च ॥३.१७॥
रक्तशृङ्गी कालकूटं हारिद्रं सक्तूकं तथा ।
मौस्तिकं विषवर्गः स्यात्मूषाकरणमुच्यते ।
{वज्रमूषाः: प्रोदुच्तिओन्}
तुषं वस्त्रं समं दग्धं तत्पादांशा च मृत्तिका ।
कूपीपाषाणपादं च वज्रवल्ल्या द्रवैर्दिनम् ॥३.१८॥
मर्दयेत्कारयेन्मूषां वज्राख्यां रसबन्धकाम् ।
{वज्रमूषा (२)}
वल्मीकमृत्तिकाङ्गाराः पुराणं लोहकिट्टकम् ॥३.१९॥
श्वेतपाषाणकं चैतत्सर्वं चूर्ण्यं समं समम् ।
सर्वतुल्यं तुषं दग्धं सर्वं तोयैश्च मर्दयेत् ॥३.२०॥
मूषासंपुटकं कुर्यात्सन्धिं लिप्याच्च तेन वै ।
सर्वकार्यकरा एषा वज्रमूषा महाबला ॥३.२१॥
{वज्रमूषा (३)}
गारा दग्धास्तुषा दग्धा दग्धा वल्मीकमृत्तिका ।
गजाश्वानां मलं दग्धं यावत्तत्कृष्णतां गतम् ॥३.२२॥
पाषाणभेदीपत्राणि कृष्णा मृच्च समं समम् ।
वज्रवल्ल्या द्रवैर्मर्द्यं दिनं वा शोषयेद्दृढम् ॥३.२३॥
तेन कोष्ठं वङ्कनालं वज्रमूषां च कारयेत् ।
वर्तुला गोस्तनाकारा वज्रमूषा प्रकीर्तिता ॥३.२४॥
मूर्छने मारणे बन्धे द्वंद्वमेलापके हिता ।
सैव छिद्रान्विता मध्यगम्भीरा सारणोचिता ॥३.२५॥
प्रकटा शरावकाकारा बीजनिर्वापणे हिता ।
{वज्रः: मारण}
सूतं धान्याभ्रकं तुल्यं दिनं पुनर्नवाद्रवैः ।
मर्दितं तप्तखल्वे तु वज्रमूषान्धितं पचेत् ॥३.२६॥
चिञ्चाबीजं मेषशृंगी स्त्रीपुष्पं चाम्लवेतसम् ।
पञ्चाङ्गं शरपुङ्खायाः शशदन्ताः शिलाजतु ॥३.२७॥
एतत्समस्तं व्यस्तं वा यथालाभं सुचूर्णयेत् ।
स्नुह्यर्कोन्मत्तवारुण्याः क्षीरैः स्तन्यैर्विमर्दयेत् ॥३.२८॥
तद्गोलके क्षिपेद्वज्रं रुद्ध्वा मूषां धमेद्दृढम् ।
गुडूचीं सैन्धवं हिंगु समुस्तोत्तरवारुणीम् ॥३.२९॥
क्वाथैः कौलत्थकैः पिष्ट्वा तस्मिन्द्रावे निषेचयेत् ।
तद्वज्रं पूर्ववद्गोले क्षिप्त्वा रुद्ध्वा धमेत्तथा ॥३.३०॥
सेचनान्तं पुनः कुर्यादेकविंशतिवारकम् ।
तालमत्कुणयोगेन सप्तवारं पुनर्धमेत् ॥३.३१॥
सेचयेदश्वमूत्रेण तद्वज्रं म्रियते ध्रुवम् ।
{वज्रः: मारण}
त्रिवर्षरूढकार्पासमूलमादाय पेषयेत् ॥३.३२॥
त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत् ।
तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् ॥३.३३॥
एवं सप्तपुटैः पक्व एकैकेन मृतो भवेत् ।
{वज्रमारणं (६)}
तालकासीससौराष्ट्रयोर्ह्यपामार्गस्य भस्म च ॥३.३४॥
पिष्ट्वा कौलत्थकैः क्वाथैस्तस्मिन्वज्रं सुतापितम् ।
क्षिप्त्वा त्रिसप्तवाराणि म्रियते नात्र संशयः ॥३.३५॥
{वज्रमारणं (७)}
वैक्रान्तभस्मना सार्धं पेषयेदम्लवेतसम् ।
तद्गोलके क्षिपेद्वज्रमन्धमूषागतं धमेत् ॥३.३६॥
सेचयेदश्वमूत्रेण पूर्वगोले पुनः क्षिपेत् ।
रुद्ध्वा ध्मातं पुनः सेच्यमेवं कुर्यात्त्रिसप्तकम् ॥३.३७॥
म्रियते नात्र सन्देहः सर्वकर्मसु योजयेत् ।
{वज्रमारणं (८)}
उत्तरावारुणीक्षीरैः कान्तपाषाणजं मुखम् ॥३.३८॥
क्षणं पिष्ट्वा तु तद्गोले वज्रं क्षिप्त्वा पचेदनु ।
नृतैले गन्धतैले वा म्रियते नात्र संशयः ॥३.३९॥
{वज्रमारणं (९)}
भूनागं गन्धकं वाथ नारीस्तन्येन पेषयेत् ।
तद्गोलस्य पचेद्वज्रं पूर्वतैले मृतं भवेत् ॥३.४०॥
{वज्रमारणं (१०)}
स्नुहीक्षीरेण विमलां पिष्ट्वा तद्गोलके क्षिपेत् ।
वज्रं निरुध्य मूषां तां शुष्कां तीव्राग्निना धमेत् ॥३.४१॥
तप्तमश्वस्य मूत्रे तु क्षिप्त्वा वज्रं समाहरेत् ।
इत्येवं सप्तधा कार्यं ततस्तालकमत्कुणाः ॥३.४२॥
कृत्वा गोलं क्षिपेत्तस्मिन्वज्रमूषां निरुध्य च ।
धामितं पूर्ववत्सेच्यं सप्तवारैर्मृतं भवेत् ॥३.४३॥
{वज्रमारणं (११)}
वज्रं मत्कुणरक्तेषु क्षिप्त्वा लिप्त्वातपे क्षिपेत् ।
शुष्कं लेप्यं पुनः शोष्यं यावत्सप्तदिनावधि ॥३.४४॥
विष्णुक्रान्तापेटकार्योर्द्रवैः सिञ्चेत्पुनः पुनः ।
तप्तं तप्तं तु तद्वज्रं शतवारान्मृतं भवेत् ॥३.४५॥
{वज्रमारणं (१२)}
गन्धकं चूर्णितं भाव्यं स्त्रीपुष्पेण तु सप्तधा ।
पुनः स्त्रीरजसालोड्य तस्मिन्वज्रं सुतापितम् ॥३.४६॥
सेचयेत्तापयेदेवं मृतं स्यात्तु त्रिसप्तधा ।
{वज्रः: मृदूकरण}
मातुलुङ्गगतं वज्रं रुद्ध्वा बाह्ये मृदा लिपेत् ।
पचेत्पुटे समुद्धृत्य तद्वच्छतपुटैः पचेत् ॥३.४७॥
नागवल्ल्या द्रवैर्लिप्तं तत्पत्रेणैव वेष्टितम् ।
जानुमध्यस्थितं यामं तद्वज्रं मृदुतां व्रजेत् ॥३.४८॥
{वज्रौदनं वज्रमृदूकरणं (२)}
मातृवाहकजीवस्य मध्ये वज्रं विनिक्षिपेत् ।
जम्बीरोदरगं वाथ दोलायन्त्रे दिनं पचेत् ॥३.४९॥
कुलत्थकोद्रवक्वाथैस्त्रैफले वा कषायके ।
अहोरात्रात्समुद्धृत्य जम्बीरे तु पुनः क्षिपेत् ॥३.५०॥
मातृवाहकजीवे वा क्षिप्त्वा पक्त्वा च पूर्ववत् ।
पुनः क्षेप्यं पुनः पाच्यं त्रिदिनान्ते समुद्धरेत् ॥३.५१॥
बदरीवटनिम्बानां अङ्कुराणि समाहरेत् ।
पिष्ट्वा तद्गोलके वज्रं पूर्वपक्वं विनिक्षिपेत् ॥३.५२॥
अश्वत्थपत्रकैर्वेष्ट्यं तद्गोलं जानुमध्यगम् ।
दिनं वा धारयेत्कक्षे मृदुर्भवति निश्चितम् ॥३.५३॥
{वज्रमृदूकरणं (३)}
पारदं तीक्ष्णचूर्णं च दिनमम्लेन मर्दयेत् ।
तद्गोले निक्षिपेद्वज्रं सूत्रेणावेष्टयेद्बहिः ॥३.५४॥
नागवल्लीद्रवैश्चैव वेष्टितं धान्यराशिगम् ।
मासान्ते तत्समुद्धृत्य नागवल्ल्या द्रवैर्लिपेत् ।
तद्दलैर्वेष्टितं जानुमध्यस्थं मृदुतां व्रजेत् ॥३.५५॥
{वज्रमृदूकरणं (४)}
कान्तपाषाणवज्रं वा चूर्णं वा कान्तलोहजम् ॥३.५६॥
ससूतं अम्लयोगेन दिनमेकं विमर्दयेत् ।
तद्गोले निक्षिपेद्वज्रं निम्बकार्पासकोलजैः ॥३.५७॥
पत्रैः पिष्टैस्तु संवेष्ट्य नागवल्लीदलैस्ततः ।
वेष्ट्यं तज्जानुमध्यस्थं दिनान्ते मृदुतां व्रजेत् ॥३.५८॥
{वर्जमृदूकरणं (५)}
एरण्डवृक्षमध्ये तु तत्फले वा क्षिपेत्पविम् ।
मासमात्रात्समुद्धृत्य जानुमध्ये तु पूर्ववत् ॥३.५९॥
कोमलं जायते वज्रं दिनान्ते नात्र संशयः ।
{वज्रमृदूकरणं (६)}
वज्रं तित्तिरमांसेन वेष्टयेन्निक्षिपेन्मुखे ॥३.६०॥
अतिस्थूलस्य भेकस्य मुखं सूत्रेण वेष्टयेत् ।
निखनेद्धस्तमात्रायां भूमौ मासात्समुद्धरेत् ॥३.६१॥
मण्डूकसंपुटे रुद्ध्वा सम्यग्गजपुटे पचेत् ।
तद्वज्रं पूर्वगोलस्थं जानुमध्ये गतं दिनम् ॥३.६२॥
भवेद्वज्रौदनं साक्षान्मार्यं पश्चाच्च योजयेत् ।
सर्ववज्रौदनानां तु मारणं पूर्ववद्भवेत् ॥३.६३॥
{वैक्रान्तशोधनम्}
त्रिक्षारैः पञ्चलवणैर्वसामूत्राम्लकोद्रवैः ।
मत्स्यपित्तैस्तैलघृतैः कुलत्थैः काञ्जिकान्वितैः ॥३.६४॥
सप्ताहं दोलकायन्त्रे व्याघ्रीकन्दगतं पचेत् ।
सप्तवर्णं तु वैक्रान्तं शुद्धिमायाति निश्चितम् ॥३.६५॥
{उपरसानां शोधनम्}
जम्बीराणां द्रवे मग्नमातपे धारयेद्दिनम् ।
शुध्यन्ति टङ्कणं शंखो वराटाञ्जनगैरिकम् ।
कासीसं भूखगं चैव शुद्धं योगेषु योजयेत् ॥३.६६॥
{गन्धकशुद्धिः (१)}
यामैकं गन्धकं मर्द्यं द्रवैर्निम्बाजगन्धयोः ।
शृङ्गीधत्तूरयोर्वाथ तिलपर्ण्याश्च वा द्रवैः ।
तदादाय घृतैस्तुल्यं लोहपात्रे क्षणं पचेत् ॥३.६७॥
लघ्वग्निना द्रुतं तद्वै अजाक्षीरे विनिक्षिपेत् ।
इत्येवं सप्तधा कुर्याच्छुद्धिमायाति गन्धकम् ॥३.६८॥
{गन्धकशोधनं (२)}
करञ्जैरण्डतैलं च छागीदुग्धं च भाण्डके ॥३.६९॥
क्षिप्त्वा तस्य मुखं रुद्ध्वा स्वच्छवस्त्रेण बुद्धिमान् ।
गन्धकं धूर्तजैर्द्रावैर्दिनं भाव्यं विशोषयेत् ॥३.७०॥
तच्चूर्णं पूर्वभाण्डस्य वस्त्रोपरि निधारयेत् ।
आच्छाद्य च शरावेण पृष्ठे देयं पुटं लघु ॥३.७१॥
द्रुतं गन्धं समादाय भाव्यं धत्तूरजैर्द्रवैः ।
तद्वद्द्राव्यं पुनर्भाव्यं द्रावयेच्च पुनस्ततः ॥३.७२॥
आदाय मत्स्यपित्तेन सप्तधा भाव्यमातपे ।
ततः कोशातकीबीजचूर्णेन सह पेषयेत् ॥३.७३॥
भावयेद्भृङ्गजैर्द्रावैः सप्ताहं आतपे खरे ।
तोयेन क्षालितं शोष्यं ततो मृद्वग्निना क्षणम् ॥३.७४॥
घृताक्ते लोहपात्रे तु द्रावितं ढालयेत्ततः ।
भृङ्गराजद्रवान्तस्थं सम्यक्शुद्धं भवेत्तु तत् ॥३.७५॥
{गन्धतैल}
अथ शुद्धस्य गन्धस्य तैलपातनमुच्यते ।
अम्लपर्णी देवदाली दाडिमं मातुलुङ्गकम् ॥३.७६॥
नारङ्गं वा यथालाभं द्रवमेकस्य चाहरेत् ।
गन्धकस्य तु पादांशं टङ्कणं द्रवसंयुतम् ॥३.७७॥
एताभ्यां गन्धकं भाव्यं घर्मे वारत्रयं पुनः ।
धत्तूरस्तुलसी कृष्णा लशुनं देवदालिका ॥३.७८॥
शिग्रुमूलं काकमाची कर्पूरं शङ्खपुष्पिका ।
कृष्णागुरु च कस्तूरी वन्ध्याकर्कोटकी समम् ॥३.७९॥
मातुलुङ्गरसैः पिष्ट्वा क्षिपेदेरण्डतैलके ।
अनेन लोहपात्रस्थं भावयेत्पूर्वगन्धकम् ॥३.८०॥
त्रिवारं क्षौद्रतुल्यं तज्जायते गन्धवर्जितम् ।
इदं गन्धकतैलं स्यात्तत्तद्योगेषु योजयेत् ॥३.८१॥
{हरितालशुद्धिः (१)}
सचूर्णेणारनालेन दोलायन्त्रेण तालकम् ।
दिनं पक्वं विचूर्ण्याथ भाव्यं कूष्माण्डजैर्द्रवैः ॥३.८२॥
शोष्यं पेष्यं पुनर्भाव्यं शतवारं विशुद्धये ।
{हरितालशुद्धिः (२)}
तालकं कणशः कृत्वा तालात्पादांशटङ्कणम् ॥३.८३॥
द्वयं जम्बीरजैर्द्रावैः क्षालयेत्काञ्जिकैस्तथा ।
तच्छुष्कं पोटलीबद्धं सचूर्णे काञ्जिके पचेत् ॥३.८४॥
द्विदिनं दोलकायन्त्रे तद्वत्कूष्माण्डजैर्द्रवैः ।
पाचितं शुद्धिमायाति तालं सर्वत्र योजयेत् ॥३.८५॥
{विमलशुद्धिः}
सुवर्णवर्णं विमलं ताप्यं वा कणशः कृतम् ।
पुनर्नवायाः कल्कस्थं कौलत्थे स्वेदयेज्जले ॥३.८६॥
सैन्धवैर्बीजपूराक्तैर्युक्तं वा पोटलीकृतम् ।
दोलायन्त्रे दिनं स्वेद्यं शुद्धिमायाति निश्चितम् ॥३.८७॥
{रसकशुद्धिः}
रजस्वलारजोमूत्रै रसकं भावयेद्दिनम् ।
तैरेव दिनमेकं तु मर्दयेच्छुद्धिं आप्नुयात् ॥३.८८॥
{उपरसः: शोधन}
पुनर्नवामेघनादकपिजम्बीरतिन्दुकैः ।
अगस्तिपुष्पकुमुदयवचिञ्चाम्लवेतसैः ॥३.८९॥
यवसूरणभूधात्रीमाण्डूकीकरवीरकैः ।
कारवल्लीक्षीरकन्दरक्तोत्पलशमीवनैः ॥३.९०॥
मेषशृङ्ग्या चोष्ट्रवसाशक्रवारुणिटङ्कणैः ।
तैलमत्स्यवसाव्योषैर्द्रवैरेतैः सकाञ्जिकैः ॥३.९१॥
एतैः समस्तैर्व्यस्तैर्वा दोलायन्त्रे दिनत्रयम् ।
अभ्रपत्राद्युपरसान्शुद्धिहेतोस्तु पाचयेत् ॥३.९२॥
{उपरसः: शोधन}
सूर्यावर्तो वज्रकन्दः कदली देवदालिका ।
शिग्रुः कोशातकी वन्ध्या काकमाची च वालुकम् ॥३.९३॥
आसामेकरसेनैव त्रिक्षारपटुपञ्चकम् ।
भावयेदम्लवर्गेण तीव्रघर्मे दिनावधि ॥३.९४॥
एतत्कल्केन संलेप्यमभ्रकं वज्रमाक्षिकम् ।
वैक्रांतं सस्यकं तालं कान्तपाषाणं अञ्जनम् ॥३.९५॥
विमलां च शिलां तुत्थमन्यानुपरसांस्तथा ।
दोलायन्त्रे सारनाले पूर्वकल्कयुते पचेत् ।
तीव्रानले दिनैकेन शुद्धिमायान्ति तानि वै ॥३.९६॥
{धान्याभ्रकरणम्}
शुद्धमभ्रं भिन्नपत्रं कृत्वा व्रीहियुते दृढे ।
वस्त्रे बद्ध्वा सारनाले भाण्डमध्ये विमर्दयेत् ॥३.९७॥
हस्ताभ्यां स्वयमायाति यावदम्लान्तरे तु तत् ।
द्रवं त्यक्त्वा तु तच्छोष्यं दिनं धान्याभ्रकं भवेत् ॥३.९८॥
{अभ्रः: मारणः: निश्चन्द्र}
एतद्धान्याभ्रकं मर्द्यं भानुदुग्धैर्दिनावधि ।
कृत्वा पूपं भानुपत्रैर्वेष्टितं पाचयेत्पुटे ॥३.९९॥
इत्येवं दशधा पाच्यं दुग्धैर्भाव्यं पुनः पुनः ।
ततो वटजटाक्वाथैर्मर्द्यं दशपुटैः पचेत् ॥३.१००॥
सघृतैर्महिषीक्षीरैर्मर्द्यं देयं पुटत्रयम् ।
निश्चन्द्रं जायते ह्यभ्रं योजनीयं रसायने ॥३.१०१॥
{अभ्रकभस्म (२)}
पुनर्नवाद्यौषधानि ख्यातानि ह्यभ्रशोधने ॥३.१०२॥
धान्याभ्रकं तु तैरेव त्रिदिनं तु पुटे पचेत् ।
पूर्ववत्क्रमयोगेन म्रियते पञ्चभिः पुटैः ॥३.१०३॥
{मेतल्सः: शोधन}
तैले तक्रे गवां मूत्रे काञ्जिके रविदुग्धके ।
कुलत्थानां कषाये च जम्बीराणां द्रवे तथा ॥३.१०४॥
तप्त्वा तप्त्वा निषिञ्चेदेकैकस्मिंस्तु सप्तधा ।
स्वर्णादिलोहपत्राणि शुद्धिमायान्ति निश्चितम् ॥३.१०५॥
{लेअद्, तिनः: शोधन}
द्राविते नागवङ्गे च पचेत्तद्वद्विशुद्धये ।
{ब्रोन्ज़े, चोप्पेरः: शोधन}
त्रिक्षारं पंचलवणं जम्बीराम्लेन सप्तधा ॥३.१०६॥
भावयेदातपे तीव्रे तत्कल्केन विलेप्य च ।
घोषारताम्रपत्राणां शुद्ध्यै गजपुटे पचेत् ॥३.१०७॥
{लेअदः: मारण}
लोहपात्रे पचेन्नागं तुल्यं यावद्द्रुतं भवेत् ।
चाल्यं पलाशदण्डेन भस्मीभूतं समुद्धरेत् ॥३.१०८॥
भस्मतुल्यां शिलां तस्मिन्क्षिप्त्वा चाम्लेन केनचित् ।
पेषयेद्याममात्रं तु रुद्ध्वा गजपुटे पचेत् ॥३.१०९॥
स्वाङ्गशीतं पुनः पिष्ट्वा विंशत्यंशशिलायुतम् ।
अम्लेन याममात्रं च रुद्ध्वा पचेच्च पूर्ववत् ।
एवं षष्टिपुटैः पक्वो मृतो भवति पन्नगः ॥३.११०॥
{इरोन्(गेन्.):: मारण}
नारीस्तन्येन सम्पिष्टं हिङ्गूलं पलपञ्चकम् ॥३.१११॥
तेन लोहस्य पत्राणि लेपयेत्पलपञ्चकम् ।
रुद्ध्वा गजपुटे पच्यात्कषायैस्त्रैफलैः पुनः ॥३.११२॥
जम्बीरैरारनालैर्वा विंशांशदरदेन च ।
पिष्ट्वा रुद्ध्वा पुटेल्लोहं तद्वत्पाच्यं पुनः पुनः ॥३.११३॥
चत्वारिंशत्पुटैरेव तीक्ष्णं कान्तं च मुण्डकम् ।
म्रियते नात्र संदेहो दत्त्वा दत्त्वैव हिङ्गुलम् ॥३.११४॥
{वङ्गभस्म}
लोहपात्रे द्रुते वङ्गे पादांशं तालकं क्षिपेत् ।
चाल्यं अश्वत्थदण्डेन जातं भस्म समुद्धरेत् ॥३.११५॥
तद्भस्म हरितालं तु तुल्यमम्लेन मर्दयेत् ।
पलाशकद्रवैर्वाथ यामान्ते चोद्धृतं पुटेत् ॥३.११६॥
उद्धृत्य दशमांशेन तालेन सह मर्दयेत् ।
पूर्वद्रावैस्तु यामैकं रुद्ध्वा गजपुटे पचेत् ।
चत्वारिंशत्पुटैरेवं पक्वं स्यान्मृतवङ्गकम् ॥३.११७॥
{चोप्पेरः: मारण}
कण्टवेधीकृतं ताम्रपत्रं तुल्यांशगन्धकैः ॥३.११८॥
अम्लपिष्टैः प्रलिप्याथ रुद्ध्वा गजपुटे पचेत् ।
उद्धृत्य चूर्णयेत्तस्मिन्पादांशं गन्धकं क्षिपेत् ॥३.११९॥
जम्बीरैरारनालैर्वा पिष्ट्वा रुद्ध्वा पुटेत्पुनः ।
एवं चतुःपुटैः पच्याद्गन्धो देयः पुटे पुटे ॥३.१२०॥
मातुलुङ्गद्रवैरेवं पुटमेकं प्रदापयेत् ।
सितशर्करया पञ्चपुटं देयं मृतं भवेत् ॥३.१२१॥
{सिल्वेरः: मारण}
माक्षिकेनाम्लपिष्टेन तत्तुल्यं तारपत्रकम् ।
लिप्त्वा रुद्ध्वा पुटे पक्त्वा समुद्धृत्य विचूर्णयेत् ॥३.१२२॥
कणामाक्षिकसिन्धूत्थभूधात्र्यश्च समं समम् ।
पूर्वचूर्णेन तुल्यांशमिदमम्लेन मर्दयेत् ॥३.१२३॥
रुद्ध्वा गजपुटे पच्यात्तैरेव मर्दयेत्पुटेत् ।
एवं सप्तपुटैः पक्वं तारं भस्मत्वमाप्नुयात् ॥३.१२४॥
{गोल्दः: मारण}
मृतं नागं स्नुहीक्षीरैरथवाम्लेन केनचित् ।
पिष्ट्वा तेन समांशेन स्वर्णपत्राणि लेपयेत् ॥३.१२५॥
रुद्ध्वा गजपुटे पक्त्वा समुद्धृत्य विचूर्णयेत् ।
तस्मिन्नेवं मृतं नागमष्टमांशेन लेपयेत् ॥३.१२६॥
यामैकं मर्दयेदम्लै रुद्ध्वा गजपुटे पचेत् ।
एवमष्टपुटैः पक्वं मृतं भवति हाटकम् ।
{ब्रस्स्, ब्रोन्ज़ेः: मारण}
आरे घोषे प्रकर्तव्यं ताम्रवन्मारणं परम् ॥३.१२७॥
विविधपरमयोगैर्युक्तिर्युक्तैः प्रसिद्धैरनुभवपथदृष्टैः शोधनं मारणं च ।
पविबलिगगनानां सर्वलोहे विशेषाद्गदितमिह हितार्थं वार्तिकानां विभूत्यै ॥३.१२८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:49.3500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ऐरावत II.

  • n. फाल्गुन माह में सूर्योदय के साथ साथ घूमने वाला पर्जन्य नामक नाग [मा.१२.११.४०] 
RANDOM WORD

Did you know?

What is the Sati Practice?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site