TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण २.३

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण २.३
दिव्ययोगगुटिकारसायनं क्रामणेन रहितं न सिध्यति ।
शीघ्रसिद्धिकरमेव सेव्यतां क्रामणार्थं अनुपानमत्र वै ॥३.१॥
काकतुम्बी काकमाची निर्गुण्डी च कुमारिका ।
गोजिह्वा सैन्धवं गुञ्जा ह्यार्द्रकं च समं समम् ॥३.२॥
पिष्ट्वा तेन प्रलेप्तव्या मूषा सर्वाङ्गुलावधि ।
पारदं व्योमसत्त्वं च कान्तं तीक्ष्णं च मुण्डकम् ॥३.३॥
ताप्यसत्त्वं च तुल्यांशं सर्वं संचूर्ण्य मर्दयेत् ।
दिनं जम्बीरजैर्द्रावैस्तन्मूषायां विनिक्षिपेत् ॥३.४॥
आच्छाद्यालेप्य कल्केन चान्धयित्वा विशोषयेत् ।
करीषाग्नौ दिवारात्रं पुटे पक्त्वा समुद्धरेत् ॥३.५॥
पुनः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा पुटेत्ततः ।
इत्येवं दशमूषासु प्रलिप्तासु विपाचयेत् ॥३.६॥
जायते गुटिका दिव्या मृतसंजीवनी परा ।
वक्त्रे शिरसि कण्ठे वा कर्णे वा धारिता करे ॥३.७॥
हेम्ना सुवेष्टिता सम्यग्वयःस्तम्भकरी परा ।
वलीपलितकालाग्निमृत्युशङ्काविनाशनी ॥३.८॥
वर्षमात्रान्न संदेहो जीवेद्वर्षशतत्रयम् ।
शुद्धपलैकं तु गवां क्षीरैः पिबेत्सदा ॥३.९॥
अनेन त्वनुपानेन देहे संक्रमते रसः ।
समुखं पारदं कान्तं मुण्डलोहाभ्रसत्त्वकम् ॥३.१०॥
तत्त्वं मृतं वज्रं सर्वं जम्बीरजैर्द्रवैः ।
सप्ताहं मर्दयेत्तुल्यं कृत्वा गोलं समुद्धरेत् ॥३.११॥
निर्गुण्डी सैन्धवं क्षौद्रं गोजिह्वा काकतुण्डिका ।
पिष्ट्वा तु लेपयेद्गोलं सर्वतोऽङ्गुलमात्रकम् ॥३.१२॥
तं रुद्ध्वा वज्रमूषायां पचेद्यामं तु भूधरे ।
लिप्त्वा रुद्ध्वा पुनः पाच्यमित्येवं पक्षमात्रकम् ॥३.१३॥
यवचिञ्चापलाशोत्थराजीकार्पासबीजकैः ।
सुपिष्टैर्लेपयेन्मूषां तन्मध्ये पूर्वगोलकम् ॥३.१४॥
टङ्कणं श्वेतकाचं च दत्त्वा पृष्ठे निरुध्य च ।
खदिराङ्गारयोगेन धमेद्यावद्द्रुतं भवेत् ॥३.१५॥
ततस्तं विडलिप्तायां मूषायां च निवेशयेत् ।
तत्तुल्यं दापयेत्स्वर्णं जयेत्तं धमन्धमन् ॥३.१६॥
जीर्णे स्वर्णे समुद्धृत्य तप्तखल्वे विमर्दयेत् ।
त्र्यहं दिव्यौषधिद्रावैर्वज्रमूषान्धितं धमेत् ॥३.१७॥
जायते गुटिका दिव्या नाम्ना वज्रेश्वरी परा ।
वक्त्रस्था सा जरां मृत्युं हन्ति संवत्सरात्किल ॥३.१८॥
शस्त्रस्तम्भं च कुरुते ब्रह्मायुर्यच्छति ध्रुवम् ।
कृष्णाष्टम्यां समादाय सहदेवीं सु चूर्णयेत् ॥३.१९॥
कर्षैकां भक्षयेदाज्यैरनु स्यात्क्रामेण हितम् ।
आरक्तं मेघनादं तु तथा पाषाणभेदकम् ॥३.२०॥
स्त्रीस्तन्यसहितं पिष्ट्वा तेन मूषां प्रलेपयेत् ।
भगैकं मृतवज्रस्य स्वर्णचूर्णस्य षोडश ॥३.२१॥
क्षिप्त्वा तस्यां निरुध्याथ याममात्रं दृढं धमेत् ।
उद्धृत्य निक्षिपेत्खल्वे शुद्धसूतं च तत्समम् ॥३.२२॥
मर्दयेच्चार्द्रकद्रावैर्यावद्भवति गोलकः ।
चण्डालीकन्दमादाय स्त्रीस्तन्येन सु पेषयेत् ॥३.२३॥
अनेन गोलकं लिप्त्वा वज्रमूषायां निरोधयेत् ।
पक्त्वा गजपुटे ग्राह्या गुटिका वज्रसुन्दरी ॥३.२४॥
वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् ।
ब्रह्मवृक्षस्य त्वक्चूर्णं क्षीरैर्नित्यं पलं पिबेत् ॥३.२५॥
क्रामणं ह्यनुपानं स्यात्साधकस्यातिसिद्धिदम् ।
तदुद्भवमलैर्लिप्तं ताम्रं तु धमनेन हि ॥३.२६॥
जायते कनकं दिव्यं सत्यं शंकरभाषितम् ।
समुखस्य रसेन्द्रस्य पूर्ववत्काञ्चनं समम् ॥३.२७॥
जारयेद्विडयोगेन ततो मर्द्यं दिनत्रयम् ।
दिव्यौषधैः सगोमूत्रैर्वज्रमूषान्धितं धमेत् ॥३.२८॥
उद्धृत्य धारयेद्वक्त्रे गुटिका हेमसुन्दरी ।
पलार्धं गन्धकं चाज्यैर्द्विगुणैर्लेहयेदनु ॥३.२९॥
वर्षैकेन जरां हन्ति जीवेदाचन्द्रतारकम् ।
शुद्धसूतं मृतं वज्रं व्योमसत्त्वं सहाटकम् ॥३.३०॥
अम्लवर्गे समं सर्वं मर्दयेद्दिवसत्रयम् ।
तद्गोलकं दृढं कृत्वा छायायां शोषयेत्ततः ॥३.३१॥
ब्रह्मकार्पासबीजानि राजिका यवचिञ्चिका ।
वन्ध्या सर्वं समं पिष्ट्वा पूर्वगोलं प्रलेपयेत् ॥३.३२॥
रुद्ध्वा गजपुटे पच्यात्समुद्धृत्याथ लेपयेत् ।
रुद्ध्वा मूषायां धमेद्गाढं गुटिका वज्रखेचरी ॥३.३३॥
जायते धारिता वक्त्रे वत्सरान्मृत्युनाशिनी ।
भूतारवटचूर्णं तु पलैकं सितया युतम् ॥३.३४॥
भक्षयेत्क्रामणार्थं तु ब्रह्मायुर्जायते नरः ।
कार्पास्याः काकमाच्याश्च कन्यायाश्च दलद्रवैः ॥३.३५॥
शुद्धसूतं दिनं मर्द्यं क्षाल्यं अम्लैः समुद्धरेत् ।
तद्रसं निष्कचत्वारि निष्कार्धं ताम्रचूर्णकम् ॥३.३६॥
पादोननिष्कमभ्रोत्थं सत्त्वं पादं च हाटकम् ।
हेमतुल्यं मुण्डचूर्णं सर्वमम्लैर्विमर्दयेत् ॥३.३७॥
दिनान्ते गोलकं कृत्वा जम्बीरस्योदरे क्षिपेत् ।
त्रिदिनं दोलकायन्त्रे पाचयेत्सारनालके ॥३.३८॥
उद्धृत्य धारयेद्वक्त्रे गुटिका व्योमसुन्दरी ।
वर्षमात्राज्जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥३.३९॥
चित्रमूलस्य चूर्णं तु सक्षौद्रं कान्तपात्रके ।
आलोड्य भक्षयेत्कर्षमनु स्यात्क्रामणे हितम् ॥३.४०॥
निष्कमेकं स्वर्णपत्त्रं त्रिनिष्कं शुद्धपारदम् ।
जम्बीरशरपुङ्खोत्थद्रवैर्मर्द्यं दिनावधि ॥३.४१॥
तद्गोलं बन्धयेद्वस्त्रे पचेद्गोक्षीरपूरिते ।
दोलायन्त्रे दिवारात्रं गुटिका हाटकेश्वरी ॥३.४२॥
जायते धारिता वक्त्रे जरामृत्युविनाशिनी ।
वर्षमात्रान्न संदेहो जीवेद्वर्षायुतं नरः ॥३.४३॥
दिनैकं त्रिफलाचूर्णं क्वाथैः खदिरबीजकैः ।
भावितं मधुसर्पिर्भ्यां पलैकं क्रामकं लिहेत् ॥३.४४॥
रसनिष्कत्रयं शुद्धं निष्कैकं ताम्रचूर्णकम् ।
चिञ्चाफलाम्लतक्राभ्यां खल्वे मर्द्यं दिनावधि ॥३.४५॥
तद्गोलं बन्धयेद्वस्रैस्तक्रचिञ्चाम्लपूरिते ।
दोलायन्त्रे दिनं पच्याद्गुटिकार्कप्रभावती ॥३.४६॥
वर्षैकं धारयेद्वक्त्रे सूर्यतुल्यो भवेन्नरः ।
पालाशबीजजं तैलं गोक्षीरैः कर्षमात्रकम् ॥३.४७॥
क्रामकं ह्यनुपानं स्याज्जरामृत्युहरं परम् ।
स्वर्णमेकं कान्तमेकं पञ्चतारं द्विपारदम् ॥३.४८॥
त्रिभागं व्योमसत्त्वं स्यात्षड्भागं शुल्बचूर्णकम् ।
सर्वमेतत्कृतं सूक्ष्मं तप्तखल्वे दिनत्रयम् ॥३.४९॥
मर्दयेदम्लवर्गेण दोलायन्त्रे सकाञ्जिके ।
तद्गोलं त्रिदिनं पच्याद्गुटिका सुरसुन्दरी ॥३.५०॥
जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा ।
भूतारवटमूलं च कर्षं क्षीरैः पिबेदनु ॥३.५१॥
स्वर्णतारार्कमुण्डं च वङ्गसीसाभ्रसत्त्वकम् ।
एतत्सर्वं समं चूर्णं चूर्णांशं मृतवज्रकम् ॥३.५२॥
सर्वतुल्यं शुद्धसूतं सर्वं दिव्यौषधिद्रवैः ।
मर्दयेद्दिनमेकं तु वज्रमूषान्धितं धमेत् ॥३.५३॥
गुटिका वज्रतुण्डेयं जायते धारिता मुखे ।
जरामृत्युं शस्त्रसंघं नाशयेद्वत्सरात्किल ॥३.५४॥
वज्रकायो महावीरो जीवेद्वर्षशतत्रयम् ।
कुमार्याः स्वरसं ग्राह्यं गुडेन सह लोडयेत् ॥३.५५॥
पलैकं क्रामकं लेह्यमनुपानं सदैव हि ।
स्वर्णचूर्णं तु भागैकं त्रिभागं शुद्धपारदम् ॥३.५६॥
पादभागं मृतं वज्रं तत्सर्वं क्षीरकन्दजैः ।
द्रवैश्च देवदाल्युत्थैस्तप्तखल्वे दिनावधि ॥३.५७॥
मर्दयेत्कान्तचूर्णं च वज्रतुल्यं क्षिपेच्च वै ।
वज्रमूषान्धितं धाम्यं गुटिका कामसुन्दरी ॥३.५८॥
जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा ।
निष्कत्रयं ब्रह्मतैलं गवां क्षीरं पलद्वयम् ॥३.५९॥
मिश्रितं पाययेच्चानु लक्षायुर्जायते नरः ।
लोहपात्रे द्रुते गन्धे पादांशं पारदं क्षिपेत् ॥३.६०॥
किंचिच्चाल्यं तु काष्ठेन मुहूर्तादवतारयेत् ।
शतावरी क्षीरकन्दो वज्रवल्लीन्द्रवारुणी ॥३.६१॥
पाठा पुनर्नवा चिञ्चा लाङ्गली सुरदालिका ।
एतासां वस्त्रपूतैश्च द्रवैर्मर्द्यं दिनत्रयम् ॥३.६२॥
तस्मिन्पात्रे लोहमुष्ट्या छायाशुष्कं वटीकृतम् ।
लोहसम्पुटगं रुद्ध्वा संधिं मृल्लवणैर्दृढम् ॥३.६३॥
तं धमेत्खदिराङ्गारे यावदारक्तमुद्धरेत् ।
उत्खन्योत्खन्य तन्मध्यादुद्धरेत्तद्रसं पुनः ॥३.६४॥
काचटङ्कणसंयुक्तं मूषायां चान्धितं पचेत् ।
गान्धारीगुटिका सिद्धा वर्षं वक्त्रे स्थिता सदा ॥३.६५॥
काकतुण्डीबीजतैलं कर्षैकं नस्यमाचरेत् ।
क्रामकं ह्यनुपानं स्याज्जीवेद्वर्षसहस्रकम् ॥३.६६॥
शुद्धसूतसमं गन्धं मर्दनात्कज्जलीकृतम् ।
तत्ताम्रसम्पुटे रुद्ध्वा लवणेन मृदा दृढम् ॥३.६७॥
शुष्कं दीपाग्निना पच्याद्यामैकं भस्मयन्त्रके ॥३.६८॥
सम्पुटस्योर्ध्वलग्नं तत्समुद्धृत्याथ मर्दयेत् ।
तुल्यपारदसंयुक्तं पूर्ववत्सम्पुटे पचेत् ॥३.६९॥
उद्धृत्य तुल्यसूतेन संयुक्तं मर्दितं पचेत् ।
इत्येवं सप्तधा कुर्यात्पुनः पारदटङ्कणम् ॥३.७०॥
तुल्यं तुल्यं क्षिपेत्तस्मिन्दिनं सर्वं विमर्दयेत् ।
वज्रमूषागतं रुद्ध्वा ध्माते खोटो भवेद्रसः ॥३.७१॥
मार्तण्डी गुटिका ह्येषा वर्षैकं यस्य वक्त्रगा ।
वलीपलितमुक्तोऽसौ जीवेदाचन्द्रतारकम् ॥३.७२॥
पलाशबीजजं तैलं पलैकं क्षीरतुल्यकम् ।
क्रामणं प्रपिबेन्नित्यं तत्क्षणान्मूर्छितो भवेत् ॥३.७३॥
तस्य वक्त्रे गवां क्षीरं स्तोकं स्तोकं निषेचयेत् ।
प्रबुद्धे क्षीरमन्नं स्याद्भोजने परमं हितम् ॥३.७४॥
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ।
वायुवेगो महासिद्धश्छिद्रां पश्यति मेदिनीम् ॥३.७५॥
काकमाच्यमृताद्रावैः पारदं तालकं समम् ।
मर्दयेद्दिनमेकं तु कृत्वा गोलं विशोषयेत् ॥३.७६॥
निक्षिपेद्वज्रमूषायामाच्छाद्य लोहपर्पटैः ।
रुद्ध्वा संधिं धमेद्गाढं खोटबद्धो भवेद्रसः ॥३.७७॥
लोहपर्पटकं दत्त्वा तद्वद्धाम्यं त्रिधा पुनः ।
वर्षैकं धारयेद्वक्त्रे गुटिका तारकेश्वरी ॥३.७८॥
वाकुचीबीजकर्षैकं गवां क्षीरैः पिबेदनु ।
व्योमसत्त्वं मृतं वज्रं स्वर्णतारार्कमुण्डकम् ॥३.७९॥
तीक्ष्णं कान्तं तालकं च शुद्धं कृत्वा विमिश्रयेत् ।
सूक्ष्मचूर्णं समं सर्वं चूर्णांशं शुद्धपारदम् ॥३.८०॥
त्रिदिनं चाम्लवर्गेण मर्दितं चान्धितं धमेत् ।
विद्यावागीश्वरी ख्याता गुटिका वत्सरावधि ॥३.८१॥
यस्य वक्त्रे स्थिता तस्य जरा मृत्युर्न विद्यते ।
कर्षं ज्योतिष्मतीतैलं क्रामणार्थं पिबेत्सदा ॥३.८२॥
वाक्पतिर्जायते धीरो जीवेच्चन्द्रार्कतारकम् ।
कान्तपाषाणमाक्षीकं टङ्कणं कर्कटास्थि च ॥३.८३॥
स्नुह्यर्कक्षीरभूनागं सर्वमेतत्समं भवेत् ।
स्त्रीस्तन्येन दिनं मर्द्यं तेन मूषां प्रलेपयेत् ॥३.८४॥
तन्मध्ये द्रुतसूतं तु वज्रभस्म समं समम् ।
क्षिप्त्वा रुद्ध्वा पुटे पच्याद्गजाख्ये याममात्रकम् ॥३.८५॥
ततः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा धमेद्धठात् ।
एवं पुनः पुनः कार्यं वज्रसूतं मिलत्यलम् ॥३.८६॥
ततस्तस्यैव दातव्यं समं काचं सटङ्कणम् ।
एवं मूषाशते देयं तुल्यं तुल्यं धमन्धमन् ॥३.८७॥
तेजःपुञ्जो रसेन्द्रोऽसौ भवेन्मार्तण्डसंनिभः ।
गुटिका वज्रतुण्डेयं वक्त्रस्था मृत्युनाशिनी ॥३.८८॥
वर्षमात्रान्न संदेहो रुद्रतुल्यो भवेन्नरः ।
तस्य मूत्रपुरीषाभ्यां पूर्ववत्काञ्चनं भवेत् ॥३.८९॥
पञ्चाङ्गं भक्षयेत्कर्षं रुदन्त्या मधुसर्पिषा ।
टङ्कणं कर्कटास्थीनि ऊर्णा चैव शिलाजतु ॥३.९०॥
महिषीकर्णनेत्रोत्थं मलं स्त्रीस्तन्यकैः समम् ।
पिष्ट्वा तल्लिप्तमूषायां अभ्रसत्त्वं क्षिपेद्धमेत् ॥३.९१॥
सत्त्वतुल्यं क्षिपेत्तत्र पूर्ववद्द्रुतपारदम् ।
द्रवं दिव्यौषधीनां च दत्त्वा तत्रैव तद्धमेत् ॥३.९२॥
मिलितो जायते बद्धः पूर्ववत्काचटङ्कणैः ।
ध्मातो मूषाशतेनायं तेजःपुञ्जो भवेद्रसः ॥३.९३॥
वर्षैकं धारयेद्वक्त्रे शिवतुल्यो भवेन्नरः ।
अजरामरकारीयं गुटिका गगनेश्वरी ॥३.९४॥
बिल्वबीजोत्थितं तैलं निष्कमात्रं पिबेदनु ।
उदरे जायते वह्निः पिबेत्क्षीरं पुनः पुनः ॥३.९५॥
साक्षाज्जातिस्मरत्वं च कवित्वं श्रुतधारणम् ।
खेचरत्वमदृश्यत्वं जायते नात्र संशयः ॥३.९६॥
अग्निमन्थो वज्रवल्ली सूरणं वनशूरणम् ।
चित्रकश्च द्रवैरेषां शुद्धसूतं दिनावधि ॥३.९७॥
मर्दयेत्तप्तखल्वे तु तं रसं पलमात्रकम् ।
पलं पलं तालवङ्गौ तत्सर्वं चाम्लवेतसैः ॥३.९८॥
मर्दयेद्दिनमेकं तु कृत्वा तं गोलकं पुनः ।
चतुःपलां नागमूषां कृत्वा तस्यां तु तत्क्षिपेत् ॥३.९९॥
चतुःपले शुद्धताम्रसम्पुटे तां निरोधयेत् ।
मृण्मूषायां तु तां रुद्ध्वा आरण्योत्पलकैः पुटेत् ॥३.१००॥
शतद्वयप्रमाणैस्तु स्वाङ्गशीतं समुद्धरेत् ।
सर्वं दिव्यौषधद्रावैर्मर्दयेद्दिवसत्रयम् ॥३.१०१॥
चतुर्निष्कमिता कार्या वटिका शोषयेत्ततः ।
एकैकां वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥३.१०२॥
आनन्दगुटिका ह्येषा वक्त्रस्था मृत्युनाशिनी ।
वत्सरान्नात्र संदेहो जीवेद्ब्रह्मदिनत्रयम् ॥३.१०३॥
तैलं वातारिबीजोत्थं गोक्षीरैर्निष्कमात्रकम् ।
क्रामणार्थं पिबेन्नित्यं शीघ्रसिद्धिकरं परम् ॥३.१०४॥
वज्रभस्मसमं सूतं हंसपाद्या द्रवैस्त्र्यहम् ।
मर्दितं द्वंद्वलिप्तायां मूषायां चान्धितं पुटेत् ॥३.१०५॥
भूधराख्ये दिवारात्रौ समुद्धृत्याथ तस्य वै ।
पूर्वांशं पारदं दत्त्वा हंसपाद्या द्रवैस्त्र्यहम् ॥३.१०६॥
मर्दितं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं धमनाच्छोध्यं काचटङ्कणयोगतः ॥३.१०७॥
नक्षत्राभं भवेद्यावत्तावद्धाम्यं पुनः पुनः ।
तद्रसं व्योमसत्त्वं च काञ्चनं च समं समम् ॥३.१०८॥
समावर्त्य ततः कार्या गुटिका वक्त्रमध्यगा ।
वज्रखेचरिका नाम वत्सरान्मृत्युनाशिनी ॥३.१०९॥
वलीपलितनिर्मुक्तो दिव्यकायो भवेन्नरः ।
निर्गुण्डीमुनिचूर्णं तु कर्षमाज्यैः पिबेदनु ॥३.११०॥
कान्तं शुल्बं समं चूर्णं वज्रमूषान्धितं धमेत् ।
तत्खोटसिद्धचूर्णं तु गन्धकाम्लेन मर्दयेत् ॥३.१११॥
रुद्ध्वा सम्यक्पुटे पच्यात्समुद्धृत्याथ मर्दयेत् ।
पूर्ववत्क्रमयोगेन पुटेद्वारांश्चतुर्दश ॥३.११२॥
वज्रेण द्वंद्वितं स्वर्णमनेनैव तु रञ्जयेत् ।
मूषामध्ये धमन्नेवं सप्तवारं समं क्षिपेत् ॥३.११३॥
तत्खोटं चूर्णितं भाव्यं स्त्रीपुष्पेण दिनावधि ।
तत्तुल्यं द्रुतसूतं तु सर्वं यामं विमर्दयेत् ॥३.११४॥
वेष्टयेद्भूर्जपत्त्रेण वस्त्रे बद्ध्वा पचेत्त्र्यहम् ।
दोलायन्त्रे सारनाले जातं गोलं समुद्धरेत् ॥३.११५॥
गान्धारी जीवनी चैव लाङ्गली चेन्द्रवारुणी ।
एतासां पिण्डकल्केन वेष्टयेत्पूर्वगोलकम् ॥३.११६॥
अन्धयित्वा दिनं पच्याद्भूधरे तं समुद्धरेत् ।
पुनर्लेप्यं पुनः पाच्यं चतुर्दशदिनावधि ॥३.११७॥
गुटिका जायते दिव्या नाम्ना रत्नेश्वरी तथा ।
वक्त्रस्था वर्षमात्रं तु नन्दितुल्यो भवेन्नरः ॥३.११८॥
जीवेद्वर्षसहस्राणि दिव्यतेजा महाबलः ।
वर्षद्वादशपर्यन्तं यस्य वक्त्रे स्थिता तु सा ॥३.११९॥
तस्य प्रस्वेदसम्पर्कादष्टलोहानि काञ्चनम् ।
जायन्ते नात्र संदेहः सत्यमीश्वरभाषितम् ॥३.१२०॥
पञ्चाङ्गचूर्णं मध्वाज्यै रुदन्त्युत्थं लिहेदनु ।
स्वर्णं कृष्णाभ्रसत्त्वं च तारं ताम्रं सुचूर्णितम् ॥३.१२१॥
समांशं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं भागचत्वारि भागैकं मृतवज्रकम् ॥३.१२२॥
माक्षिकं तीक्ष्णकान्तं च भागैकैकं सुचूर्णितम् ।
समस्तं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ॥३.१२३॥
तत्खोटं सूक्ष्मचूर्णं तु चूर्णांशं द्रुतसूतकम् ।
त्रिदिनं तप्तखल्वे तु मर्द्यं दिव्यौषधिद्रवैः ॥३.१२४॥
रुद्ध्वाथ भूधरे पच्यादहोरात्रात्समुद्धरेत् ।
द्रुतसूतं पुनस्तुल्यं दत्त्वा मर्द्यं पुटेत्तथा ॥३.१२५॥
इत्येवं सप्तवारांस्तु द्रुतं सूतं समं समम् ।
दत्त्वा मर्द्यं पुटे पच्याज्जायते भस्मसूतकः ॥३.१२६॥
भस्मसूतसमं गन्धं दत्त्वा रुद्ध्वा धमेद्दृढम् ।
जायते गुटिका दिव्या विख्याता दिव्यखेचरी ॥३.१२७॥
वर्षैकं धारयेद्वक्त्रे जीवेत्कल्पसहस्रकम् ।
तस्य मूत्रपुरीषाभ्यां सर्वलोहस्य लेपनात् ॥३.१२८॥
जायते कनकं दिव्यं समावर्ते न संशयः ।
पलद्वयं भृङ्गराजद्रव्यं चानु पिबेत्सदा ॥३.१२९॥
पूर्वोक्तं भस्मसूतं वा गुञ्जामात्रं सदा लिहेत् ।
वर्षैकं मधुनाज्येन लक्षायुर्जायते नरः ॥३.१३०॥
वलीपलितनिर्मुक्तो महाबलपराक्रमः ।
स्वर्णं वैक्रान्तसत्त्वं च द्वंद्वितं जारयेद्रसे ॥३.१३१॥
समांशं तु भवेद्यावत्ततस्तेनैव सारयेत् ।
समेन जायते बद्धो धारयेत्तं मुखे सदा ॥३.१३२॥
संवत्सरप्रयोगेण जराकालापमृत्युजित् ।
कुमार्या दलजं द्रावं सितायुक्तं पिबेदनु ॥३.१३३॥
स्वर्णवैक्रान्तबद्धोऽयं ब्रह्मायुर्यच्छते नृणाम् ।
वैक्रान्तसत्त्वतुल्यांशं शुद्धसूतं विमर्दयेत् ॥३.१३४॥
दिनं दिव्यौषधद्रावैस्तद्गोलं निगडेन वै ।
लिप्त्वा लवणगर्भायां वज्रमूष्यां निरोधयेत् ॥३.१३५॥
छायायां शोषयेत्संधिं त्रिदिनं तुषवह्निना ।
स्वेदयेद्वा करीषाग्नौ दिवारात्रमथोद्धरेत् ॥३.१३६॥
तद्गोलं निगडेनैव लिप्त्वा तद्वन्निरुध्य च ।
छायाशुष्कं धमेद्गाढं बन्धमायाति निश्चितम् ॥३.१३७॥
वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् ।
वैक्रान्तगुटिका ह्येषा सर्वकामफलप्रदा ॥३.१३८॥
कर्षैकं त्रिफलाचूर्णं मध्वाज्याभ्यां लिहेदनु ।
हेम्ना यद्द्वंद्वितं वज्रं कुर्यात्तत्सूक्ष्मचूर्णितम् ॥३.१३९॥
एतद्देयं गुह्यसूते मूषायामधरोत्तरम् ।
पादमात्रं प्रयत्नेन रुद्ध्वा संधिं विशोषयेत् ॥३.१४०॥
भूधराख्ये दिनं पच्यात्समुद्धृत्याथ मर्दयेत् ।
दिव्यौषधफलद्रावैस्तप्तखल्वे दिनावधि ॥३.१४१॥
रुद्ध्वाथ भूधरे पच्याद्दिनं लघुपुटैः पुटेत् ।
समुद्धृत्य पुनस्तद्वन्मर्द्यं रुद्ध्वा दिनत्रयम् ॥३.१४२॥
तुषाग्निना शनैः स्वेद्यं ऊर्ध्वाधः परिवर्तयन् ।
जायते भस्मसूतोऽयं सर्वयोगेषु योजयेत् ॥३.१४३॥
द्रुतसूतस्य भागैकं भागैकं पूर्वभस्मकम् ।
शुद्धनागस्य भागैकं सर्वमम्लेन मर्दयेत् ॥३.१४४॥
अन्धमूषागतं धाम्यं खोटो भवति तद्रसः ।
धमेत्प्रकटमूषायां यावन्नागक्षयो भवेत् ॥३.१४५॥
द्रुतसूतप्रकारेण द्रावयित्वा त्विमं रसम् ।
निक्षिपेत्कच्छपे यन्त्रे विडं दत्त्वा दशांशतः ॥३.१४६॥
स्वर्णादिसर्वलोहानि क्रमेणैव च जारयेत् ।
प्रत्येकं षड्गुणं पश्चाद्वज्रद्वंद्वं च जारयेत् ॥३.१४७॥
त्रिगुणं तु भवेद्यावत्ततो रत्नानि वै क्रमात् ।
जारयेद्द्रावितान्येव प्रत्येकं त्रिगुणं शनैः ॥३.१४८॥
ततो यन्त्रात्समुद्धृत्य दिव्यौषधद्रवैर्दिनम् ।
मर्द्यं रुद्ध्वा धमेद्गाढं जायते गुटिका शुभा ॥३.१४९॥
पूजयेदङ्कुशीमन्त्रैर्नाम्नेयं दिव्यखेचरी ।
यस्य वक्त्रे स्थिता ह्येषा स भवेद्भैरवोपमः ॥३.१५०॥
दिव्यतेजा महाकायः खेचरत्वेन गच्छति ।
यत्रेच्छा तत्र तत्रैव क्रीडते ह्यङ्गनादिभिः ॥३.१५१॥
महाकल्पान्तपर्यन्तं तिष्ठत्येव न संशयः ।
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥३.१५२॥
पलाशपुष्पचूर्णं तु तिलाः कृष्णाः सशर्कराः ।
सर्वं पलत्रयं खादेन्नित्यं स्यात्क्रामणे हितम् ॥३.१५३॥
चूर्णं अश्वखुरस्यैव गुह्यसूते समं क्षिपेत् ।
त्रिदिनं मातुलुङ्गाम्लैस्तत्सर्वं मर्दयेद्दृढम् ॥३.१५४॥
सूततुल्यं मृतं वज्रं तस्मिन्क्षिप्त्वाथ मर्दयेत् ।
तप्तखल्वे दिनं चाम्लैस्तद्गोलं चान्धितं पुटेत् ॥३.१५५॥
दिनैकं भूधरे यन्त्रे भागैकं पूर्वपारदम् ।
क्षिप्त्वा तस्मिन्दृढं मर्द्यं मातुलुङ्गद्रवैर्दिनम् ॥३.१५६॥
रुद्ध्वाथ पूर्ववत्पच्यात्पुनर्देयश्च पारदः ।
मर्द्यं पाच्यं यथापूर्वमेवं कुर्याच्च सप्तधा ॥३.१५७॥
रसं पुनः पुनर्दत्त्वा स्यादेवं भस्मसूतकः ।
योजयेत्सर्वयोगेषु जरामृत्युहरो भवेत् ॥३.१५८॥
भागैकं नागचूर्णस्य भागैकं पूर्वभस्मनः ।
द्रुतसूतस्य भागैकं खोटं कुर्याच्च पूर्ववत् ॥३.१५९॥
तद्वद्धाम्यं गते नागे द्रावितं जारयेत्पुनः ।
पूर्ववल्लोहरत्नान्तं जीर्णे बद्धा स्थिता मुखे ॥३.१६०॥
प्रचण्डखेचरीनाम्नी गुटिका खे गतिप्रदा ।
पूर्ववल्लभते वीरः फलमत्यन्तदुर्लभम् ॥३.१६१॥
निर्गुण्डीमूलचूर्णं तु कर्षं तक्रैः पिबेदनु ।
शुद्धसूतस्य दातव्यं कलांशं मृतवज्रकम् ॥३.१६२॥
तत्सर्वमम्लवर्गेण तप्तखल्वे दिनत्रयम् ।
मर्दयित्वा ततस्तेन लेपयेत्समभागतः ॥३.१६३॥
पक्वबीजस्य पत्त्राणि तानि भानुदलैः पुनः ।
वेष्टितानि निरुध्याथ निखनेच्चुल्लिगर्भतः ॥३.१६४॥
आच्छाद्य ज्वालयेत्तत्र काष्ठाग्निं दिवसत्रयम् ।
उद्धृत्य द्वंद्वलिप्तायां मूषायां तं निरोधयेत् ॥३.१६५॥
करीषाग्नौ पुटे पच्यादहोरात्रात्समुद्धरेत् ।
वासनामुखिते सूते तुल्यमेतद्विनिक्षिपेत् ॥३.१६६॥
अम्लेन मर्दयेद्यामं जातं गोलं समुद्धरेत् ।
क्षिपेज्जम्बीरगर्भे तं वस्त्रे बद्ध्वा त्र्यहं पचेत् ॥३.१६७॥
दोलायन्त्रे सारनाले जायते गुटिका शुभा ।
कङ्कालखेचरी नाम्ना वक्त्रस्था मृत्युनाशिनी ॥३.१६८॥
वर्षैकं धारयेद्यस्तु स जीवेद्ब्रह्मणो दिनम् ।
गन्धकं गुग्गुलुं तुल्यमाज्यैः कर्षं लिहेदनु ॥३.१६९॥
कृष्णाभ्रकस्य सत्त्वं तु कान्तमाक्षीककाञ्चनम् ।
तीक्ष्णं सौवीरचूर्णं च तुल्यं रुद्ध्वा धमेद्दृढम् ॥३.१७०॥
तत्खोटं सूक्ष्मचूर्णं तु द्रुतसूतसमं भवेत् ।
सूतार्धं मारितं वज्रं सर्वमम्लेन मर्दयेत् ॥३.१७१॥
दिनैकं तप्तखल्वे तु तं रुद्ध्वा भूधरे पचेत् ।
अहोरात्रात्समुद्धृत्य तत्समं पूर्वसूतकम् ॥३.१७२॥
दत्त्वा दिव्यौषधद्रावैर्मर्द्यं सर्वं दिनावधि ।
पूर्ववद्भूधरे पच्याद्द्रुतसूतं पुनः समम् ॥३.१७३॥
दत्त्वा मर्द्यं पुनः पच्यादित्येवं सप्तवारकम् ।
एतद्भस्मसमं गन्धं दत्त्वा चान्ध्यं धमेद्दृढम् ॥३.१७४॥
जायते गुटिका दिव्या कालविध्वंसिका परा ।
यस्य वक्त्रे स्थिता ह्येषा तस्य कालः करोति किम् ॥३.१७५॥
वर्षषट्कप्रयोगेण जीवेत्कल्पसहस्रकम् ।
तद्गात्रस्वेदमात्रेण सर्वलोहानि काञ्चनम् ॥३.१७६॥
जायन्ते नात्र संदेहः शिवाम्बु क्रामकं पिबेत् ।
स्वर्णतारार्ककान्तं च तीक्ष्णचूर्णं समं समम् ॥३.१७७॥
द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं चूर्णितं कृत्वा चाभिषिक्तं तु पूर्ववत् ॥३.१७८॥
समुखे जारयेत्सूते यावत्पञ्चगुणं क्रमात् ।
दिव्यौषधद्रवैस्तं वै मर्दयेद्दिवसत्रयम् ॥३.१७९॥
अन्धमूषागतं ध्मातं जायते गुटिका शुभा ।
नाम्ना पञ्चानना धार्या वक्त्रे संवत्सरावधि ॥३.१८०॥
वलीपलितनिर्मुक्तो जीवेच्चन्द्रार्कतारकम् ।
हस्तिकर्णी समूला तु चूर्ण्या मध्वाज्यसंयुता ॥३.१८१॥
स्निग्धभाण्डे तु तां रुद्ध्वा धान्यराशौ निवेशयेत् ।
त्रिसप्ताहात्समुद्धृत्य पलैकं भक्षयेदनु ॥३.१८२॥
ऋद्धिखण्डे तु यत्प्रोक्तं विविधं रसबन्धनम् ।
अत्र तस्यैव वक्ष्यामि देहवेधक्रमं यथा ॥३.१८३॥
जारितैर्बन्धितैस्तैस्तै रसराजैः पृथक्पृथक् ।
कारयेद्गुटिकां दिव्यां बदराण्डप्रमाणकाम् ॥३.१८४॥
सा धार्या वत्सरं वक्त्रे स्वानुरूपफलप्रदा ।
गुटिका शतवेधी स्याद्युगायुष्यकरी नृणाम् ॥३.१८५॥
सहस्रवेधी गुटिका अष्टकल्पान्तरक्षिका ।
लक्षवेधकरी या तु सा दत्ते विष्णुवद्बलम् ॥३.१८६॥
वेधिका दशलक्षे या सा रुद्रपददायिनी ।
कोटिवेधकरी या सा ईश्वरत्वकरी नृणाम् ॥३.१८७॥
वेधिका दशकोटीनां सा सदाख्यपदप्रदा ।
गुटिकार्बुदवेधी या सा श्रीकण्ठपदप्रदा ॥३.१८८॥
सम्यग्भवपदं दत्ते गुटिका शङ्खवेधिका ।
धूम्रवेधी तु या सिद्धा सा शक्तिपददायिनी ॥३.१८९॥
पराशक्तिपदं दत्ते स्पर्शवेधकरी तु या ।
शब्दवेधकरा या तु सा यस्य वत्सरावधि ॥३.१९०॥
वक्त्रे स्थिता स वै सिद्धो नित्यं नित्यपदं लभेत् ।
स्वेच्छाचारी वज्रकायो वज्रपातैर्न भिद्यते ॥३.१९१॥
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् ।
जायन्ते स्वेदसम्पर्काद्गात्रसंस्पर्शनादपि ॥३.१९२॥
सर्वेषां उक्तयोगानां अनु स्याच्छुद्धगन्धकम् ।
पलार्धं भक्षयेन्नित्यं रससंक्रामणे हितम् ॥३.१९३॥
कालि कालि महाकालि मांसशोणितभोजिनि ।
रक्तकृष्णमुखे देवि रससिद्धिं ददस्व मे ॥३.१९४॥
स्वाहा अनेन सिद्धमन्त्रेण शक्तिचक्रं प्रपूजयेत् ।
कालिकां भैरवं सिद्धान्कुमारीं साधितं रसम् ॥३.१९५॥
ततो रसायनं दिव्यं सेवयेत्सिद्धिमाप्नुयात् ।
गुटिकां धारयेद्वक्त्रे पूर्वमन्त्रं जपेत्सदा ॥३.१९६॥
रसमन्त्रप्रयोगेण शीघ्रं सिद्धिमवाप्नुयात् ।
कालान्तरससिद्धिर्या प्रोक्ता मन्थानभैरवे ॥३.१९७॥
तदर्थं पञ्च तत्त्वानि षष्ठं जीवं च साधयेत् ।
काकिन्याः पुष्पकाले तु सङ्गं कृत्वा समाहरेत् ॥३.१९८॥
तद्योनिस्थं रजोबीजं गगनं तं विदुर्बुधाः ।
काकिन्युत्पन्नपुत्रस्य सद्योविड्वायुरुच्यते ॥३.१९९॥
तेजस्तु काकिनीपुष्पं जलं तत्पुत्रशोणितम् ।
काकिनीपुत्रसर्वाङ्गं पृथिवीतत्त्वमुच्यते ॥३.२००॥
रससेवकदेहोत्थवीर्यं जीवस्तु कथ्यते ।
तत्प्रत्येकं कोटिवेधं कर्षैकं रससंयुतम् ॥३.२०१॥
कृत्वा संरक्षयेद्भिन्नं सुपिष्टं गोलकीकृतम् ।
उन्नतं पौरुषं यावद्विस्तारेण तदर्धकम् ॥३.२०२॥
कुर्यात्ताम्रकटाहं तु स्थूलं यावत्षडङ्गुलम् ।
चतुर्मुखस्य कोष्ठस्य पृष्ठे धार्यं दृढं यथा ॥३.२०३॥
गोघृतं नरतैलं च समभागेन मेलयेत् ।
तेनापूर्य कटाहं तं सिद्धचक्रं ततोऽर्चयेत् ॥३.२०४॥
कुमारीगुरुदेवाग्नीन्भैरवं भैरवीयुतम् ।
तर्पयेद्बलिमांसेन क्षेत्रपालं च पूजयेत् ॥३.२०५॥
धमनं तत्र कुर्वीत चतुर्दिक्षु शनैः शनैः ।
चतुर्भिर्वङ्कनालैश्च खदिराङ्गारयोगतः ॥३.२०६॥
सुतप्तं फेननिर्मुक्तं निर्धूमं च यदा भवेत् ।
चन्द्रार्कग्रहनक्षत्रदेवताभुवनानि च ॥३.२०७॥
नमस्कृत्य गुरुं देवं देहं तत्र विनिक्षिपेत् ।
सुद्रुतं तं विजानीयान्निक्षिपेत्पार्थिवं रसम् ॥३.२०८॥
धमन्नत्रैव यत्नेन यावत्तत्कल्कतां व्रजेत् ।
अप्तत्त्वाख्यं रसं तस्मिन्क्षिपेद्रक्तं भवेत्तु तत् ॥३.२०९॥
वायुयुक्तं रसं क्षिप्त्वा शुभ्रवर्णं प्रजायते ।
तेजोयुक्तं रसं क्षिप्याद्घनीभूतं भवेत्तु तत् ॥३.२१०॥
तत आकाशसंयुक्तं रसं तत्र विनिक्षिपेत् ।
आवर्तितं सुवर्णाभं जायते तत्र निक्षिपेत् ॥३.२११॥
जीवयुक्तं रसं दिव्यं ततो हुंकारमुच्चरेत् ।
कृत्वा तत्र महारावं हुंकारत्रयसंयुतम् ॥३.२१२॥
ततश्चोत्तिष्ठते सिद्धः पूर्वाह्णे भास्करो यथा ।
दिव्यतेजा महाकायो महाबलपराक्रमः ॥३.२१३॥
नवनागसहस्राणां बलं तस्याधिकं भवेत् ।
जीवते वज्रदेहः सन्सत्यं सत्यं शिवोदितम् ॥३.२१४॥
जराजर्जरिताङ्गानां अन्धानां पङ्गुकुष्ठिनाम् ।
नष्टवाग्जडषण्डानां कुब्जानां कुष्ठदेहिनाम् ॥३.२१५॥
अनेकव्याधियुक्तानां भ्रान्तोन्मत्तपिशाचिनाम् ।
किं पुनः स्वच्छदेहानां भूपानां रससेविनाम् ॥३.२१६॥
वीराणां साधकानां च दिव्यसिद्धिप्रदो भवेत् ।
तस्माद्वीरतरो योऽत्र भैरवोऽसौ न संशयः ॥३.२१७॥
वज्रकायो भवेत्सिद्धो मेधावी दिव्यरूपवान् ।
अर्धयोजनविस्तीर्णं विमानं चाप्सरोयुतम् ॥३.२१८॥
आयाति नात्र संदेहस्तस्य सिद्धस्य सम्मुखम् ।
तत्रारूढो रुद्रलोके क्रीडते भैरवो यथा ॥३.२१९॥
क्षुत्पिपासाविनिर्मुक्तो जगन्नाशे न नश्यति ।
भुञ्जानः सर्वभोगांश्च योगिनां स प्रियो भवेत् ।
इच्छासिद्धो महावीरो नित्यानन्दमयो भवेत् ॥३.२२०॥
दृष्ट्वा समस्तमनुभूय रसायनेषु सारातिसारसुखसाध्यतरं नराणाम् ।
देहस्य दार्ढ्यकरणे गुटिकाप्रयोगाः प्रोक्ताः परं शिवकराः सततं सुसिद्ध्यै ॥३.२२१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:46.8070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दांड

  • पु. १ वेळूची लांब काठी ; दांडा . २ पट्टा खेळण्याचा सराव करण्याची काठी . ३ शेताची मर्यादा दाखविणारा उंच बांध . ४ टेंकडीचा , डोंगराचा कणा , दंड , रांग . ५ उंचवट्यावरुन सखल प्रदेशाकडे पाटाने पाणी नेण्याची सारणी , प्रणाली , दंड . ६ ( व . ) ( धोतर , लुगदे इ० कांचे दोन तुकडे जोडणारी ) एक प्रकारची जाड व लांब शिवण . ( क्रि० करणे ). ७ ( शेतांमधून , शेताच्या बाजूने ) रहदारीकरितां सोडलेला जमीनीचा लांब पट्टा . ८ जमीनीचा , मार्गाचा लांबलचक , रखरखीत व ओसाड पट्टा . ९ ( फार वेळ एकाच स्थितित बसण्याने अंगाला येणारा ) ताठरपणा ; ताठकळा . ( क्रि० भरणे ). बसून बसून पाठीला दांड भरला . १० ( प्रां . ) ( मळ्यांतील ) वाफा , ताटवा . ११ ( - पुन . प्रा . ) ( शिक्षा म्हणून केलेला दंड ; ( विरु . ) दंड . ( क्रि० मारणे ). १२ चोवीस हात लांबीचा बांध ; चोवीस हात लांबीचे परिमाण . - कृषि २१३ . १३ चित्त्याच्या गळपट्ट्यापासून कंबरपट्ट्यापावेतो पाठीच्या कण्यावरुन बांधण्याची वेणी घातलेली सुताची दोरी . - चिमा १३ . १४ . ( गो . ) ( आट्यापाट्या ) सर्व पाट्यांना मधोमध विभागणारी रेषा ; दंड ; सूर . १५ ( ना . ) पाळण्याचा साखळदंड . १६ एकेक मोती . - शर [ सं . दंड ] ( वाप्र . ) 
  • पु. ताठरपणा . - वि . दांडगा ; अडदांड ; अडमुठा ; मस्त . दांडभांड गुराखी तुम्ही । - रासक्रीडा २२ . 
  • ०काढणे ( मनुष्य , जनावर इ० कांस ) खूप राबवून घेणे ; तांगडणे ; ताण देणे ; पादाडणे . सामाशब्द - 
  • ०पट्टा टा पु . १ एका हातांत काठी व दुसर्‍या हातांत पट्टा घेऊन खेळावयाचा एक मर्दुमकीचा खेळ . ( क्रि० खेळणे ; करणे ). २ सदर खेळ खेळण्याचे हत्यार . [ दांड + पट्टा ] 
More meanings
RANDOM WORD

Did you know?

Do we have copyrights for everything published on this website?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.