TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण ३.७

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ३.७
धातुसत्त्वयुतपिष्टिकाक्रमस्तम्भनं च निगडेन लेपनम् ।
खोटबन्धकृतविद्रुतिं तथा वेधयुक्तिरखिला निगद्यते ॥७.१॥
{पिष्टिगोलम्}
दिव्यौषधद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयम् ।
शुद्धं सूतं ततो घर्मे शोष्यं स्वच्छं समाहरेत् ॥७.२॥
स्वर्णनागार्ककान्तं च तीक्ष्णं वङ्गं च रूप्यकम् ।
यथेष्टैकं विचूर्ण्यादौ व्योमसत्त्वं अथापि वा ॥७.३॥
पूर्वसूतेन संतुल्यं याममम्लेन मर्दयेत् ।
महारसाष्टकादेकं सूततुल्यं विनिक्षिपेत् ॥७.४॥
दिव्यौषधीद्रवैरेव यामात्स्विन्नातपे खरे ।
मर्दयेत्खल्वके गाढं तद्गोलं वस्त्रवेष्टितम् ॥७.५॥
गन्धतैले दिनं पच्यात्ततो वस्त्रात्समुद्धरेत् ।
पिष्टिगोलमिदं ख्यातं तथान्यमतमुच्यते ॥७.६॥
{पिष्टिगोल}
पूर्वं यन्मर्दितं सूतं तस्य भागत्रयं भवेत् ।
नागद्वयं यथेष्टैकं तस्मिन्नागं विनिक्षिपेत् ॥७.७॥
वैक्रान्तं कुण्डगोलं च दिव्यौषधिद्रवं तथा ।
मर्द्यं यामत्रयं खल्वे छायाशुष्कं तु गोलकम् ॥७.८॥
कृत्वाथ बन्धयेद्वस्त्रे गन्धतैले दिनं पचेत् ।
वस्त्रमध्यात्समुद्धृत्य पिष्टिगोलमिदं भवेत् ॥७.९॥
{पिष्टिगोलः: निगड}
अथास्य पिष्टिगोलस्य निगडः प्रोच्यते शुभः ।
गुग्गुलुं ब्रह्मबीजानि तैस्तुल्यं चैव सैन्धवम् ॥७.१०॥
स्नुह्यर्कपयसा मर्द्यं निगडोऽयं महोत्तमः ।
{पिष्टिगोलः: निगड}
पालाशं कोकिलाक्षस्य बीजानि सैन्धवं तथा ॥७.११॥
उन्मत्तनीलिजैर्द्रावैर्मर्द्यः स्यान्निगडोत्तमः ।
{पिष्टिगोलः: निगड}
अभ्रकं सैन्धवं ताप्यं वालूमृल्लोहकिट्टकम् ।
स्नुह्यर्कपयसा पिष्टं यामान्ते निगडो भवेत् ॥७.१२॥
{पिष्टिगोलः: निगड}
वाकुचीब्रह्मधत्तूरबीजानि चाम्लवेतसम् ॥७.१३॥
काकविट्कदलीकन्दतालगन्धमनःशिला ।
गुग्गुलुं पञ्चलोणानि गोजिह्वा कोकिलाक्षकम् ॥७.१४॥
तिक्तकोशातकी नीली विषमुष्टीन्द्रवारुणी ।
जीरद्वयं कर्कटास्थि स्त्रीरजोमूत्रमिश्रितम् ॥७.१५॥
स्नुह्यर्कक्षीरतैलैश्च मर्द्यं यामद्वयं दृढम् ।
व्यस्तं वाथ समस्तं वा निगडोऽयं महोत्तमः ।
{मेर्चुर्यः: खोट}
एतेष्वेकेन तद्गोलं लेप्यमङ्गुलमात्रकम् ॥७.१६॥
मूषायां बिल्वमात्रायां लोणं किंचिदधः क्षिपेत् ॥७.१७॥
लिप्तं गोलं क्षिपेत्तस्यां ऊर्ध्वं लोणं च दापयेत् ।
रुद्ध्वा मृल्लवणैः सन्धिं सर्वतो दग्धशङ्खकैः ॥७.१८॥
मूषालेपः प्रकर्तव्यः छायाशुष्कं तु कारयेत् ।
करीषाग्नौ दिवारात्रौ त्रिरात्रं वा तुषाग्निना ॥७.१९॥
मृदुना स्वेदयेत्पश्चात्समुद्धृत्याथ लेपयेत् ।
सम्यङ्निगडकल्केन पूर्वमूषां निरोधयेत् ॥७.२०॥
ऊर्ध्वाधो लवणं दत्त्वा रुद्ध्वा लेप्या च पूर्ववत् ।
छायाशुष्कं धमेद्गाढं रसो भवति खोटताम् ॥७.२१॥
सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा धमेद्दृढम् ।
तच्छुद्धं जायते खोटं अभीक्ष्णं नात्र संशयः ॥७.२२॥
इत्येवं सर्वसत्त्वैश्च पिष्टिकां कारयेत्पृथक् ।
पूर्ववत्क्रमयोगेन खोटो भवति तद्रसः ॥७.२३॥
{मेर्चुर्यः: खोट}
भागद्वयं सुवर्णस्य त्रिभागं पारदस्य च ।
पूर्ववत्कारयेत्पिष्टीं तद्वत्खोटं च शोधयेत् ॥७.२४॥
इत्येवं पिष्टिखोटानि कृत्वा सर्वत्र योजयेत् ।
{विडवटी}
तत्खोटं स्वर्णसंतुल्यं समावर्तं तु कारयेत् ।
माक्षिकं कान्तपाषाणं शिलागन्धं समं समम् ॥७.२५॥
भूनागैर्मर्दयेद्यामं चणमात्रवटीकृतम् ।
एषा विडवटी ख्याता योज्या सर्वत्र जारणे ॥७.२६॥
एकैकं वाहयेत्सूते धाम्यमाने पुनः पुनः ।
एवं दशगुणं हेम जारयेत्तत्क्रमेण तु ॥७.२७॥
प्रकाशमूषागर्भे तु ग्रसते वडवानलः ।
{मेर्चुर्यः: रञ्जन, => शतवेधिन्}
माक्षिकं दरदं गन्धं राजावर्तं प्रवालकम् ।
शिला तुत्थं च कङ्कुष्ठं समं चूर्णं प्रकल्पयेत् ॥७.२८॥
वर्गाभ्यां पीतरक्ताभ्यां कङ्गुणीतैलकैः सह ।
भावयेद्दिवसान्पञ्च सूर्यतापे पुनः पुनः ॥७.२९॥
जारितं सूतखोटं तु कल्केनानेन संयुतम् ।
वालुकाहण्डिमध्यस्थं श्रावसंपुटमध्यगम् ॥७.३०॥
त्रिदिनं पाचयेच्चुल्ल्यां कल्कं देयं पुनः पुनः ।
रञ्जितो जायते सूतः शतवेधी न संशयः ॥७.३१॥
तारे ताम्रे भुजङ्गे वा चन्द्रार्के वाथ योजयेत् ।
जायते कनकं दिव्यं जाम्बूनदसमप्रभम् ॥७.३२॥
{द्रुतसूत}
पिष्टिखोटं सूक्ष्मचूर्णं स्त्रीपुष्पेण तु भावयेत् ।
दिनत्रयं खरे घर्मे शुक्तौ वा नालिकेरजे ॥७.३३॥
मीनाक्षी कदलीकन्दं श्वेता रक्ता पुनर्नवा ।
शिलाजतु ससिन्धूत्थं नारीपुष्पेण मर्दयेत् ॥७.३४॥
पूर्ववद्भावितं खोटं तस्मिन्पिण्डे विनिक्षिपेत् ।
पूर्ववद्भावितं खोटं तस्मिन्पिण्डं विनिक्षिपेत् ॥७.३५॥
मुखं तत्पिण्डकल्केन रुद्ध्वा पिण्डं च बन्धयेत् ।
भूर्जपत्त्रं त्र्यहं पच्याद्दोलायन्त्रे सकाञ्जिके ॥७.३६॥
द्रुतं सूतं भवेत्साक्षात्पुनस्तस्मिंश्च दापयेत् ।
पूर्ववद्भावितं खोटं खोटपादं पुनः पुनः ॥७.३७॥
निक्षिपेत्पूर्वपिण्डे तु तद्वत्पच्याद्दिनत्रयम् ।
एवं पुनः पुनर्देयं पिष्टिं खोटं सुभावितम् ॥७.३८॥
आरोटस्य समं यावत्तावद्देयं द्रुतं भवेत् ।
{द्रुतसूत}
आर्द्रकं मूलकं शुण्ठी लशुनं हिङ्गुमाक्षिकम् ॥७.३९॥
त्रिक्षारं पञ्चलवणं काङ्क्षी कासीसगन्धकम् ।
अम्लवर्गेण संयुक्तं मर्द्यं पिण्डं तु कल्पयेत् ॥७.४०॥
तस्मिन्पिण्डे यथा पूर्वं द्रुतं सूतं तु कारयेत् ।
मार्जारी चेश्वरी गुञ्जा कुक्कुटी क्षीरकन्दकम् ॥७.४१॥
एतेषां पिण्डमध्ये तु पूर्ववद्भावयेद्रसम् ।
द्रुतसूतमिदं ख्यातं सर्वकर्मसु योजयेत् ॥७.४२॥
{चन्द्रार्क => गोल्द्(wइथ्द्रुतसूत)}
द्रुतसूतस्य भागौ द्वावेकं कृष्णाभ्रसत्त्वकम् ।
भागं रसकसत्त्वस्य कृष्णोन्मत्तद्रवैर्दिनम् ॥७.४३॥
मर्दितं कारयेद्गोलं गोलपादं मृतं पविम् ।
दत्त्वाथ मर्दयेद्यामं सर्वमुन्मत्तवारिणा ॥७.४४॥
रुद्ध्वाथ भूधरे पच्यात्पुटैकेन समुद्धरेत् ।
पूर्वांशं द्रुतसूतं तु तं दत्त्वा मर्दयेत्पुनः ॥७.४५॥
धत्तूरोत्थद्रवैर्यामं तद्वत्पच्याच्च भूधरे ।
इत्येवं सप्तवाराणि सूतं दत्त्वा पुनः पुनः ॥७.४६॥
भूधरे पाचयेद्यन्त्रे भस्मीभवति तद्रसः ।
तेनैव शतभागेन क्षौद्रेण सह पेषयेत् ॥७.४७॥
चन्द्रार्कजातपत्राणि अन्धमूषागतं धमेत् ।
स्वर्णं भवति रूपाढ्यं जाम्बूनदसमप्रभम् ॥७.४८॥
{लेअद्=> गोल्द्}
तद्भस्म गन्धकं तुल्यमन्धमूषागतं धमेत् ।
वेध्यं तेन शतांशेन नागं भवति काञ्चनम् ॥७.४९॥
{चन्द्रार्क => गोल्द्}
रसकाभ्रकयोः सत्त्वं द्रुतं सत्त्वं समं समम् ।
त्रयाणां पलमेकं तु सिद्धचूर्णेन संयुतम् ॥७.५०॥
मर्द्यमुन्मत्तकद्रावैर्दिनैकं चान्धितं धमेत् ।
तत्खोटं चूर्णितं मर्द्यं मातुलुङ्गाम्लगन्धकैः ॥७.५१॥
रुद्ध्वा गजपुटे पच्यादेवं वारांस्त्रयोदश ।
मर्द्यं मर्द्यं पचेद्रुद्ध्वा आरण्योत्पलकैः क्रमात् ॥७.५२॥
चन्द्रार्कशतभागेन मधुनाक्तेन तेन वै ।
लिप्त्वा रुद्ध्वा धमेद्गाढं स्वर्णं भवति शोभनम् ॥७.५३॥
{चोप्पेर्=> गोल्द्}
रसकाभ्रकयोः सत्त्वं द्रुतसूतं च टङ्कणम् ।
सर्वमेतत्समं मर्द्य कृष्णोन्मत्तद्रवैर्दिनम् ॥७.५४॥
छायाशुष्कां वटीं कृत्वा महदग्निगतां धमेत् ।
तत्खोटं शोधयेत्पश्चात्सितकाचेन टङ्कणैः ॥७.५५॥
स्वर्णेन च समावर्त्य समेन जारयेत्ततः ।
पूर्वा विडवटी या तु तामेकैकां प्रदापयेत् ॥७.५६॥
धमन्प्रकटमूषायां यावत्सूतावशेषितम् ।
ततः शुद्धसुवर्णेन सारयेत्सारणात्रयम् ॥७.५७॥
वेध्यं तेन शतांशेन शुल्वं भवति काञ्चनम् ।
{सिल्वेर्=> गोल्द्}
भागैकं द्रुतसूतस्य सारणायन्त्रके क्षिपेत् ॥७.५८॥
तस्माच्चतुर्गुणं नागं शुद्धं तद्द्रावितं पृथक् ।
तस्मिन्यन्त्रे विनिक्षिप्य जातं खोटं समाहरेत् ॥७.५९॥
तत्तुल्यं माक्षिकं शुद्धमेकीकृत्य विमर्दयेत् ।
दिनं धत्तूरजैर्द्रावैर्मृद्भाण्डे पाचयेत्ततः ॥७.६०॥
यावत्कुङ्कुमवर्णं स्यात्तावच्चुल्ल्यां समुद्धरेत् ।
एतस्यैव पलैकं तु सिद्धचूर्णेन संयुतम् ॥७.६१॥
रुद्ध्वा ध्माते भवेत्खोटं मध्वम्लैर्मर्दयेद्दिनम् ।
आरण्योत्पलकैरेव रुद्ध्वा मधुपुटैः पचेत् ॥७.६२॥
अनेन मधुयुक्तेन तारपत्राणि लेपयेत् ।
रुद्ध्वा धाम्यं पुनर्लेप्यं त्रिभिर्वारैस्तु काञ्चनम् ॥७.६३॥
जायते दिव्यरूपाढ्यं सत्यं शंकरभाषितम् ।
माक्षिकस्य त्वभावे तु वैक्रान्तं वात्र योजयेत् ॥७.६४॥
{मृत लेअद्, सिल्वेर्=> गोल्द्}
द्रुतसूतं हिङ्गुलं च कङ्कुष्ठं गन्धकं शिला ।
एकद्वित्रिचतुःपञ्चपलानि क्रमतो भवेत् ॥७.६५॥
गोपित्तेन तु तत्सर्वं मर्द्यं यामचतुष्टयम् ।
शुद्धानि नागपत्राणि सममानेन लेपयेत् ॥७.६६॥
रुद्ध्वा गजपुटे पच्यात्समुद्धृत्याथ मर्दयेत् ।
समेन पूर्वकल्केन रुद्ध्वा तद्वत्पुटे पचेत् ॥७.६७॥
एवं शतपुटैः पक्वो म्रियते पन्नगो ध्रुवम् ।
अनेन शतभागेन तारवेधात्तु काञ्चनम् ॥७.६८॥
{सिल्वेर्(+ मृतनाग अन्द्गोल्द्) => गोल्द्}
तेन वा मृतनागेन ह्यम्लपिष्टेन लेपयेत् ।
समांशं स्वर्णपत्रं तु रुद्ध्वा गजपुटे पचेत् ॥७.६९॥
नागं पुनः पुनर्देयमेवं देयं पुटत्रयम् ।
अनेन मृतहेम्ना तु द्रुतं तारं तु वेधयेत् ॥७.७०॥
सहस्रांशेन तत्सिद्धं दिव्यं भवति कांचनम् ॥७.७१॥
{मेर्चुर्यः: खोटबन्ध}
द्रवैस्तुम्बरुवल्ल्यास्तु धान्याभ्रं सप्तधातपे ।
भावयेत्खोटयेत्पश्चात्कर्षैके द्रुतसूतके ॥७.७२॥
माषमात्रं क्षिपेदेतत्तप्तखल्वे विमर्दयेत् ।
गोस्तनाकारमूषायां क्षिप्त्वा मृद्वग्निना पचेत् ।
वालुकायन्त्रमध्ये तु जीर्णे वापं पुनः क्षिपेत् ।
इत्येवं जारयेत्तुल्यं खोटबद्धो भवेद्रसः ॥७.७३॥
{चोप्पेर्=> गोल्द्}
अस्य बद्धस्य माषैकं माषार्धं शुद्धहाटकम् ।
शुद्धसूतस्य माषार्धं सर्वमेकत्र मर्दयेत् ॥७.७४॥
त्रिदिनं मातुलुङ्गाम्लैरेतत्कल्केन लेपयेत् ।
कर्षैकं नागपत्राणि वृश्चिकाल्यास्तथा द्रवैः ॥७.७५॥
लिप्त्वा तत्पातनायन्त्रे पाचयेद्दिवसत्रयम् ।
पिष्ट्वा दिनावधि ॥७.७६॥
अनेन तारपत्राणि कर्षमेकं प्रलेपयेत् ।
पूर्ववत्पातनायन्त्रे पाचयेद्दिवसत्रयम् ॥७.७७॥
अनेनैव द्रुतं शुल्बं सहस्रांशेन वेधयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥७.७८॥
{मेर्चुर्यः: मारणः: wहिते चोलोउर्}
क्षीरेणोत्तरवारुण्यास्त्रिदिनं शुद्धपारदम् ।
मर्दयेत्तप्तखल्वे व तं [... औ५ Zएइछेन्झ्] ॥७.७९॥
करीषाग्नौ दिवारात्रौ त्रिदिनं वा तुषाग्निना ।
समुद्धृत्य पुनर्मर्द्यं तद्वद्रुद्ध्वाथ पाचयेत् ॥७.८०॥
तद्वन्मर्द्यं पुनः पाच्यं म्रियते पाण्डुरो रसः ।
{चन्द्रार्क => गोल्द्}
आर्द्रकं तुवरी सिन्धुकङ्गुणीतैलकं मधु ॥७.८१॥
अम्लवेतसमेतैस्तु तद्रसं मर्दयेद्दिनम् ।
गोलकं बन्धयेद्वस्त्रे दोलायन्त्रे त्र्यहं पचेत् ॥७.८२॥
कङ्गुणीतैलमध्ये तु बद्धो भवति तद्रसः ।
तद्रसं हाटकं नागं समं रुद्ध्वा धमेद्दृढम् ॥७.८३॥
तत्खोटं सूक्ष्मचूर्णं तु चूर्णांशं द्रुतसूतकम् ।
अम्लैर्मर्द्यं भवेद्गोलं काञ्जिकैः स्वेदयेद्दिनम् ॥७.८४॥
गंधकस्य त्रयो भागा गंधतुल्यं सुवर्चलम् ।
कृष्णाभ्रकं तु भागैकं सर्वं स्तन्येन पेषयेत् ॥७.८५॥
अनेन लेपितं गोलं अंधमूषागतं धमेत् ।
यावत्सूतावशेषं स्यात्तावद्धाम्यं पुनः पुनः ॥७.८६॥
पूर्वचूर्णं पुनर्दत्त्वा तद्वज्जार्यं क्रमेण तु ।
इत्येवं हाटकं यावज्जारितं त्रिगुणं भवेत् ॥७.८७॥
स्वर्णेन च समावर्त्य सारणात्रयसारितम् ।
चन्द्रार्कं वेधयेत्तेन शतांशात्कांचनं भवेत् ॥७.८८॥
{चोप्पेर्=> गोल्द्}
पिष्टीखोटसमं स्वर्णं स्वर्णतुल्यं च पन्नगम् ।
कान्तलोहं व्योमसत्त्वं एकैकं पन्नगार्धकम् ॥७.८९॥
एकीकृत्य धमेत्तावद्यावत्स्वर्णावशेषितम् ।
दत्त्वा विडवटीं चैव सारयेत्सारणात्रयम् ॥७.९०॥
शतांशेन ह्यनेनैव शुल्बं भवति काञ्चनम् ।
{मेर्चुर्यः: बन्धः: खोट}
सुवर्णं रजतं ताम्रं कान्तं तीक्ष्णं च माक्षिकम् ।
कृष्णाभ्रकस्य सत्त्वं च समं रुद्ध्वा धमेद्दृढम् ॥७.९१॥
तत्खोटं सूक्ष्मचूर्णं तु पादांशं द्रुतपारदम् ।
दत्त्वाथ मर्दयेदम्लैर्यावद्भवति गोलकम् ॥७.९२॥
गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् ।
मर्दयेत्तप्तखल्वे तु दिनैकं कन्यकाद्रवैः ॥७.९३॥
रुद्ध्वाथ भूधरे पच्याद्दिनान्ते तु समुद्धरेत् ।
तन्मध्ये द्रुतसूतं च पुनः कन्यासु मर्दयेत् ॥७.९४॥
पूर्ववद्भूधरे पच्यादेवं देयं तु सप्तधा ।
द्रुतसूतं क्रमेणैव मर्दनं च पुटं तथा ॥७.९५॥
तद्भस्म गंधतुल्यं च ह्यंधमूषागतं धमेत् ।
जायते खोटबद्धं तु रञ्जनं चास्य कथ्यते ॥७.९६॥
{तारारिष्ट, चन्द्रार्क, माक्षिक => गोल्द्}
कृष्णाभ्रसत्त्वं वङ्गं च द्वंद्वं मेलापयेद्द्रुतम् ।
तुल्यांशमंधमूषायां ध्मातं खोटं भवेत्तु तत् ॥७.९७॥
तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् ।
मर्दयेद्गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् ॥७.९८॥
पुनर्मर्द्यं पुनः पाच्यं एवं वारांश्चतुर्दश ।
अनेन पूर्वखोटे तु द्रावितं रञ्जयेत्क्रमात् ॥७.९९॥
रञ्जयेच्छतवाराणि भवेत्कुंकुमसन्निभम् ।
सुवर्णेन समावर्त्य सारयेत्सारणात्रयम् ॥७.१००॥
सहस्रांशेन तेनैव तारारिष्टं च वेधयेत् ।
चन्द्रार्कं ताप्यशुल्बं तु दिव्यं भवति कांचनम् ॥७.१०१॥
{लेअद्, सिल्बेर्=> गोल्द्}
तीक्ष्णं शुल्बं समं चूर्ण्य वज्रमूषान्धितं धमेत् ।
तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् ॥७.१०२॥
मर्दयेद्गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् ।
पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ॥७.१०३॥
तद्देयं द्राविते स्वर्णे शतवारं पुनः पुनः ।
पक्वबीजं भवेत्तत्तु द्रुतसूते समं दिनम् ॥७.१०४॥
मर्दयेदम्लयोगेन तस्य भागचतुष्टयम् ।
एवं वज्रस्य भागैकं तप्तखल्वे दिनावधि ॥७.१०५॥
मर्दयेत्कन्यकाद्रावैस्तद्रुद्ध्वा भूधरे पचेत् ।
द्रुतसूतं पुनस्तुल्यं दत्त्वा मर्द्यं पुटे ततः ॥७.१०६॥
इत्येवं सप्तधा देयं द्रुतसूतं पुटान्तकम् ।
ततस्तं मर्दयेदम्लै रुद्ध्वा मूषां पुटेत्तथा ॥७.१०७॥
पुनर्मर्द्यं पुनः पाच्यं षष्ट्याधिकशतत्रयम् ।
पुटं देयं प्रयत्नेन जायते सिन्दूरप्रभम् ॥७.१०८॥
सहस्रांशेन नागस्य द्रुतस्य रजतस्य च ।
देयो वेधो भवेत्स्वर्णं दिव्याभरणमुत्तमम् ॥७.१०९॥
{सिल्वेर्=> गोल्द्}
गंधकं सूक्ष्मचूर्णं तु चणकाम्लेन भावयेत् ।
शतवारं प्रयत्नेन स्त्रीपुष्पेण तु सप्तधा ॥७.११०॥
द्रुतपारदमध्ये तु किंचित्कर्पूरसंयुतम् ।
गंधकं दापयेद्घर्मे वापयेत्ताम्रखल्वके ॥७.१११॥
कर्पूरं गंधकं चैव किंचित्किंचित्पुनः पुनः ।
त्रिसप्ताहं प्रदातव्यं जायते गन्धपिष्टिका ॥७.११२॥
कटुकोशातकीबीजं चाण्डालीकन्दसंयुतम् ।
स्तन्येन पेषितं तुल्यं पिष्टीं तेन प्रलेपयेत् ॥७.११३॥
बाह्ये तु मृत्तिका लेप्या सर्वतोऽङ्गुलमात्रकम् ।
शोषितं भूधरे पच्यादूर्ध्वाधः परिवर्तयेत् ॥७.११४॥
जायते स्तम्भितं गोलं समुद्धृत्याथ तं पुनः ।
तुल्यांशे संपुटे हेम्नि लिप्त्वा मूषान्धितं धमेत् ॥७.११५॥
अनेन चाष्टमांशेन तारे वेधं प्रदापयेत् ।
तत्तारं जायते दिव्यं जाम्बूनदसमप्रभम् ॥७.११६॥
{चन्द्रार्क => गोल्द्}
अथवा स्तम्भितं गोलं स्वर्णं संपुटवर्जितम् ।
तस्यैव भागाश्चत्वारो भागैकं मृतवज्रकम् ॥७.११७॥
मर्दयेत्कन्यकाद्रावैर्दिनमेकं ततः पुनः ।
अन्धितं भूधरे पच्याद्यावद्यामचतुष्टयम् ॥७.११८॥
समुद्धृत्य पुनस्तस्मिन्पूर्वांशं पूर्वसूतकम् ।
दत्त्वा मर्द्यं पुटेत्तद्वदेवं कुर्यात्त्रिसप्तधा ॥७.११९॥
तस्मिन्भस्मपलमेकं पारदं गंधकस्य तु ।
अंधमूषागतं ध्मातं तत्खोटं पन्नगं समम् ॥७.१२०॥
पन्नगस्य समं स्वर्णं त्रयाणां त्रिगुणं क्षिपेत् ।
द्रुतं च तत्सर्वमम्लवर्गेण मर्दयेत् ॥७.१२१॥
दिनान्ते वज्रमूषायां रुद्ध्वा धाम्यं प्रयत्नतः ।
जायते पन्नगं स्वर्णं त्रयोत्थं जायते क्रमात् ॥७.१२२॥
सारयेच्च त्रिधा हेम चन्द्रार्कं वेधयेत्ततः ।
सहस्रांशेन तेनैव दिव्यं भवति काञ्चनम् ॥७.१२३॥
{सितस्वर्ण => गोल्द्}
हेमार्कतीक्ष्णचूर्णं च समं रुद्ध्वा धमेद्दृढम् ।
तत्खोटं भागमेकं तु त्रिभागं द्रुतसूतकम् ॥७.१२४॥
मर्दयेद्गंधकाम्लेन रुद्ध्वा सम्यक्पुटे पचेत् ।
पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ॥७.१२५॥
अनेन शतमांशेन सितहेम च वेधयेत् ।
जायते कनकं दिव्यं कङ्गुणीतैलसेचनात् ॥७.१२६॥
बद्धे द्रुते रसवरे वरहेम्नि जीर्णे दृष्टो मया दशगुणः सुखसाध्यलाभः ।
वज्रे मृते गगनसत्त्वयुते नराणां तत्रैव भूरिगुणितं फलमस्ति सत्यम् ॥७.१२७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:50.1000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

collapsible gate

  • घडीचे दार 
RANDOM WORD

Did you know?

जेवण उष्टे सोडून अन्नाचा अपमान करणार्याला विविध शास्त्र, पुराणात काय शिक्षासांगितली आहे कृपाया संदर्भासह स्पष्ट करणे .
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site