TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण १.२

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत.  या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण २
निःसारं वीक्ष्य विश्वं गदविकलवपुर्व्याप्तं एवातितप्तम् ।
भूयः कारुण्यसिन्धोः सकलगुणनिधेः सूतराजस्य युक्तिम् ॥२.१॥
दृष्ट्वा सूतस्य शास्त्राण्यवहितमनसा प्राणिनां इष्टसिद्ध्यै ।
शृण्वन्तूच्चैर्मयोक्तं सुविपुलमतयो भोगिकेन्द्राः सरेन्द्राः ।
यावत्सूतं न शुद्धं न च मृतमथ नो मूर्छितं गन्धबन्धम् ।
नो वज्रं मारितं वा न च गगनवधो नापसूताश्च शुद्धाः ।
स्वर्णाद्यं सर्वलोहं विषमपि न मृतं तैलपातो न यावत् ।
तावद्वैद्यः क्व सिद्धो भवति वसुभुजां मण्डले श्लाघ्ययोग्यः ॥२.२॥
{अष्टदोषनिवारण}
अथातः सम्प्रवक्ष्यामि दोषाष्टकनिवारणम् ।
इष्टकारजनीचूर्णैः षोडशांशैः रसस्य तु ॥२.३॥
मर्दयेत्तप्तखल्वे तं जम्बीरोत्थद्रवैर्दिनम् ।
खल्वं लोहमयं वाथ पाषाणाश्ममथापि वा ॥२.४॥
काञ्जिकैः क्षालयेत्सूतं नागदोषस्य शान्तये ।
विशालाङ्कोलचूर्णेन वङ्गदोषं विनाशयेत् ॥२.५॥
राजवृक्षो मलं हन्ति चित्रकं हन्ति वह्निजम् ।
चाञ्चल्यं कृष्णधत्तूरैस्त्रैफलैर्विषनाशनम् ॥२.६॥
कटुत्रयं गिरिं हन्ति असह्याग्निं त्रिकण्टकः ।
{(२)}
प्रतिदोषं कलांशेन तत्र चूर्णं सकन्यकम् ॥२.७॥
सुवस्त्रगालितं सूतं खल्वे क्षिप्त्वा यथाक्रमम् ।
प्रत्येकं प्रत्यहं यत्नात्सप्तरात्रं विमर्दयेत् ॥२.८॥
उद्धृत्योष्णारनालेन मृद्भाण्डे क्षालयेत्सुधीः ।
सर्वदोषविनिर्मुक्तः सप्तकञ्चुकवर्जितः ॥२.९॥
जायते शुद्धः सूतोऽयं युज्यते वैद्यकर्मणि ।
{पारदशोधन}
अजाशकृत्तुषाग्निं च ज्वालयित्वा भुवि क्षिपेत् ।
तस्योपरि स्थितं खल्वं तत्रोक्तं मर्दयेद्रसम् ॥२.१०॥
श्रीखण्डं देवदारु च काकतुण्डीं जयाद्रवैः ।
कर्कोटीमूषलीकन्याद्रवे दत्त्वा विमर्दयेत् ।
दिनैकं पातनायन्त्रे शुद्धं च विनियोजयेत् ॥२.११॥
कुमार्याश्च निशाचूर्णे दिनं सूतं विमर्दयेत् ।
पातयेत्पातनायन्त्रे सम्यक्शुद्धो भवेद्रसः ॥२.१२॥
{हिंगुलोत्थपारदशोधन}
पारिभद्ररसैः पेष्यं हिंगुलं याममात्रकम् ।
जम्बीराणां द्रवैर्वाथ पात्यं पातालयन्त्रके ॥२.१३॥
तं सूतं योजयेद्योगे सप्तकञ्चुकवर्जितम् ।
इत्येवं शुद्धयः ख्याता यथेष्टैका प्रकारयेत् ॥२.१४॥
{शुद्धसूतमारणौषधयः}
अथैतां मूलिकां वक्ष्ये शुद्धसूतस्य मारणे ।
ब्रह्मदण्डी मेघनादा चित्रकं तृणमुस्तिका ॥२.१५॥
वज्रवल्ली बला शुण्ठी कटुतुम्ब्यर्धचन्द्रिका ।
विषमुष्ट्यर्कलाक्षाश्च गोक्षुरः काकतुण्डिका ॥२.१६॥
कन्या चण्डालिनीकन्दं सर्पाक्षी सरपुङ्खिका ।
वस्ता रक्ताग्रनिर्गुण्डी लज्जाली देवदालिका ॥२.१७॥
जाती जयन्ती वाराही भूकदम्बं कुरण्टकम् ।
कोषातकी नीरकणा लाङ्गली सहदेविकाः ॥२.१८॥
चक्रमर्दोऽमृताकन्दं काकमाची रविप्रिया ।
विष्णुक्रान्ता हस्तिशुण्डी स्नुक्पयो भृङ्गराट्पटुः ॥२.१९॥
इत्येताः मूलिका आख्याता योज्या पारदमारिकाः ।
एताः समस्ता व्यस्ता वा देया ह्यष्टादशाधिकाः ॥२.२०॥
{पारदभस्मनिर्माण}
अप्रसूतगवां मूत्रे पेषयेद्रक्तमूलिकाम् ।
तद्द्रवैः शोधितं सूतं तुल्यं गन्धकसंयुतम् ॥२.२१॥
तप्तखल्वे चतुर्यामं अविच्छिन्नं विमर्दयेत् ।
तत्पिण्डं पातयेद्यन्त्रे त्रिंशद्धट्टमहापुटे ॥२.२२॥
एवं दशपुटैर्मार्यं मर्द्यं पात्यं पुनः पुनः ।
तदुद्धृत्य पुनर्मर्द्यं वज्रमूषान्तरे क्षिपेत् ॥२.२३॥
भूधराख्ये पुटे पच्याद्दशधा भस्मतां व्रजेत् ।
द्रवैर्द्रवैः पुनर्मर्द्यं सिद्धोऽयं वज्रसूतकः ॥२.२४॥
मूलिकामारितः सूतो जारणक्रमवर्जितः ।
न क्रमेद्देहलोहाभ्यां रोगहर्ता भवेद्ध्रुवम् ॥२.२५॥
{पारदभस्मनिर्माण (२)}
रसं गन्धकतैलेन द्विगुणेन विमर्दयेत् ।
दिनैकं वाथ सर्पाक्षीविष्णुक्रान्ताह्वभृङ्गजैः ॥२.२६॥
त्र्यहं विमर्दयेद्द्रावैस्त्रिंशद्धट्टमहापुटे ।
इत्येवमष्टधा पाच्यं रसो भस्मीभवेद्ध्रुवम् ॥२.२७॥
{रसभस्मनिर्माण (३)}
श्वेताङ्कोटजटावारि सूतं मर्द्यं दिनत्रयम् ।
पुटयेद्भूधरे यन्त्रे मूषायां भस्मतां व्रजेत् ॥२.२८॥
देवदालीं हरिक्रान्तामारनालेन पेषयेत् ।
सप्तधा सूतकं तेन कुर्याद्धमनं उत्थितम् ॥२.२९॥
तं सूतं खर्परे कुर्याद्दत्त्वा दत्त्वा चतुर्द्रवम् ।
चुल्ल्योपरि पचेद्वह्नौ भस्म स्यादरुणोपमम् ॥२.३०॥
{पारदमारण (४)}
काष्ठोदुम्बरजैः क्षीरैः सितां हिंगु विभावयेत् ।
सप्तवारं प्रयत्नेन शोध्यं पेष्यं पुनः पुनः ॥२.३१॥
काष्ठोदुम्बरपञ्चाङ्गैः कषायं षोडशांशकम् ।
दत्त्वा तेन पुनर्मर्द्यं हिंगु वङ्गरसेश्वरम् ॥२.३२॥
क्षिप्त्वा निरुध्य मूषायां भूधराख्ये पुटे पचेत् ।
अष्टधा म्रियते सूतो देयं हिंगु पुटे पुटे ॥२.३३॥
{पारदमारण (५)}
अपामार्गस्य बीजानि तथैरण्डस्य चूर्णयेत् ।
तच्चूर्णं पारदे देयं मूषायामेव रोधयेत् ॥२.३४॥
रुद्ध्वा लघुपुटे पच्याच्चतुर्भिर्भस्मतां व्रजेत् ।
{पारदमारण (६)}
कटुतुम्ब्युद्भवे कन्दे गर्भे नारीपयःसु वै ॥२.३५॥
सप्तधा म्रियते सूतः स्वेदयेद्गोमयाग्निना ।
{पारदमारण (७)}
अङ्कोलस्य जटातोयैः पिष्ट्वा खल्वे विमर्दयेत् ॥२.३६॥
सूतं गन्धकसंयुक्तं दिनान्ते तं निरोधयेत् ।
पुटयेद्भूधरे यन्त्रे दिनान्ते तं समुद्धरेत् ॥२.३७॥
{पारदमारण (८)}
धान्याभ्रं सूतकं तुल्यं मर्दयेन्मारकद्रवैः ।
दिनैकं तेन कल्केन वस्त्रे लिप्त्वा च वर्तिकाम् ॥२.३८॥
विलिप्य तैलैर्वर्तिं तां एरण्डोत्थैः पुनः पुनः ।
प्रज्वाल्य तद्धृतं भाण्डे ग्राहयेत्पतितामधः ॥२.३९॥
कृष्णभस्म भवेत्तच्च पुनर्मर्द्यं त्रियामकैः ।
दिनैकं तत्पचेद्यन्त्रे कच्छपाख्ये न संशयः ॥२.४०॥
मृतः सूतो भवेत्सद्यस्तत्तद्योगेषु योजयेत् ।
{पारदमारण (९)}
द्विपलं शुद्धसूतं तु सूतार्धशुद्धगन्धकम् ॥२.४१॥
मर्दयेन्मारकद्रावैर्दिनमेकं निरन्तरम् ।
बद्ध्वा तु भूधरे यन्त्रे दिनैकं मारयेत्पुटात् ॥२.४२॥
{वज्रमूषा}
तुषदग्धस्य भागौ द्वावेको वल्मीकमृत्तिका ।
लोहकिट्टस्य भागैकं श्वेतपाषाणभागकम् ॥२.४३॥
नरकेशसमं किंचिच्छागीक्षीरेण पेषयेत् ।
यामद्वयं दृढं मर्द्यं तेन मूषान्धसंपुटाम् ॥२.४४॥
शोषयित्वाथ संलिप्य तत्कल्कैः संनिरुध्य च ।
वज्रमूषा समाख्याता सम्यक्पारदमारिका ॥२.४५॥
{भस्मसूतवर्णाः}
श्वेतं पीतं तथा रक्तं कृष्णं चेति चतुर्विधम् ।
लक्षणं भस्मसूतस्य श्रेष्ठं स्यादुत्तरोत्तरम् ॥२.४६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:42.3930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Nylander's reagent

  • नायलॅन्डरचा अभिकारक 
RANDOM WORD

Did you know?

मरणानंतर पंचांगात नक्षत्र कां पाहतात? त्याचा प्रेताशी काय संबंध?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site