TransLiteral Foundation

रसरत्नाकर - प्रकरण १.७

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत.  या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ७
{हरितालः: अशुद्धः: मेदिच्. प्रोपेर्तिएस्}
अशुद्धतालमायुर्घ्नं ककमारुतमेहकृत् ।
तापशोफाङ्गसंकोचं कुरुते तेन शोधयेत् ॥७.१॥
{हरितालः: शोधन}
तालकं कणशः कृत्वा दशांशेन च टङ्कणम् ।
जम्बीराणां द्रवैः क्षाल्यं काञ्जिकैः क्षालयेत्पुनः ॥७.२॥
वस्त्रैश्चतुर्गुणैर्बद्ध्वा दोलायन्त्रे दिनं पचेत् ।
संयुक्तं चारनालेन दिनं कुष्माण्डजैः रसैः ॥७.३॥
तिलतैलैः पचेद्यामं यामं च त्रिफलाजलैः ।
त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रैश्च काञ्जिकैः ॥७.४॥
तत्फलैर्दशभिर्देयं रुद्ध्वा पुटं च पेषयेत् ।
एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत् ॥७.५॥
{हरितालः: शोधन}
तालकं पोटलीबद्धं सप्ताहं काञ्जिके पचेत् ।
दोलायन्त्रेण यामैकं ततः कुष्माण्डजैः रसैः ॥७.६॥
तिलतैले पचेद्यामं यामं च त्रिफलाजलैः ।
एवं यन्त्रे चतुर्यामं पाच्यं शुध्यति तालकः ॥७.७॥
{हरितालः: शुद्धः: मेदिच्. प्रोपेर्तिएस्}
तालको हरते रोगान्कुष्ठमृत्युज्वरापहः ।
शोधितः शीतवीर्ये च कुरुते वायुवर्धनम् ॥७.८॥
{मनःशिलाः: अशुद्धः: मेदिच्. प्रोपेर्तिएस्}
अश्मरीं मूत्रहृद्रोगमशुद्धा कुरुते शिला ।
मन्दाग्निं मलबन्धं च शुद्धा सर्वरुजापहा ॥७.९॥
{मनःशिलाः: शोधन}
अजामूत्रे त्र्यहं पाच्या दोलायन्त्रे मनःशिला ।
सप्तधा तैरजापित्तैर्घर्मे भाव्यं विशुद्धये ॥७.१०॥
{मनःशिलाः: शोधन}
जयन्तीभृङ्गराजोत्थरक्तागस्त्यरसैः शिला ।
दोलायन्त्रे दिनं पाच्या यामं छागस्य मूत्रके ॥७.११॥
क्षालयेदारनालेन सर्वरोगेषु योजयेत् ॥७.१२॥
{रसकः: शोधन}
नरमूत्रैश्च गोमूत्रैः सप्ताहं रसकं पचेत् ।
दोलायन्त्रेण सम्यक्तच्छुद्धं योगेषु योजयेत् ॥७.१३॥
{तुत्थः: शोधन}
विष्ठया मर्दयेत्खल्वे मार्जारकपोतयोः ।
दशांशं टङ्कणं दद्यात्पाच्यं मृद्वग्निना ततः ॥७.१४॥
पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये ॥७.१५॥
{विमलाः: शोधन}
विमला त्रिविधं पाच्या रम्भातोयेन संयुता ।
अम्लवेतसधान्याम्लमेषीमूत्रेण पेषयेत् ॥७.१६॥
दोलायन्त्रे चतुर्यामं शुद्धिरेषा महोत्तमा ।
{विमलः: शोधन}
कर्कटीमेषशृङ्ग्युत्थद्रवैर्जम्बीरजैर्द्रवैः ॥७.१७॥
भावयेदातपे तीव्रे विमला शुध्यति ध्रुवम् ॥७.१८॥
{माक्षिकः: अशुद्धः: मेदिच्. प्रोपेर्तिएस्}
मन्दाग्निं बलहानिं च व्रणविष्टम्भनेत्ररुक् ।
कुरुते माक्षिको मृत्युं अशुद्धो नात्र संशयः ॥७.१९॥
{माक्षिकः: शोधन}
माक्षिकं नरमूत्रेण क्वाथयेत्कोद्रवैर्द्रवैः ।
वेतसेनाम्लवर्गेण टंकणेन कटुत्रिकैः ॥७.२०॥
दोलायन्त्रे दिनं पाच्यं सूरणस्यैव मध्यगम् ।
दिनं रम्भाद्रवैः पच्यात्तद्धृत्वा पेषयेद्घृतैः ॥७.२१॥
एरण्डतैलसंयुक्तं पुटे पच्याद्विशुद्धये ।
{माक्षिकः: शोधन}
माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च ॥७.२२॥
मातुलुङ्गद्रवैर्वाथ जम्बीरोत्थद्रवैः पचेत् ।
लोहपात्रे पचेत्तावद्यावत्पात्रं सुलोहितम् ॥७.२३॥
ताम्रवर्णमयो याति तावच्छुध्यति माक्षिकम् ।
{माक्षिकः: शोधन}
अगस्त्यपुष्पनिर्यासैः शिग्रुमूलं विघर्षयेत् ॥७.२४॥
द्रवैः पाषाणभेद्याश्च पच्यादेभिश्च माक्षिकम् ।
तद्वटीं चान्धमूषायां विंशद्भिरुपलैः पचेत् ॥७.२५॥
पुनः पिष्ट्वाथ रुन्ध्याच्च पुटैःषड्भिर्विशुध्यति ॥७.२६॥
{माक्षिकः: शोधन}
मेघनादपाषाणभेदी पिष्ट्वा तत्पिण्डमध्ये माक्षिकं कणशः कृत्वा निक्षिपेत् ।
तद्गोलकं वस्त्रे बद्ध्वा दोलायन्त्रे कुलत्थक्वाथे दिनमेकं पचेत् ।
एतच्छुद्धलोहानां युक्तस्थाने मारणे योज्यम् ॥७.२७॥
{माक्षिकः: परीक्षाः: गूद्क़ुअलित्य्}
भङ्गे सुवर्णसंकाशोऽन्तः कृष्णो बहिश्छविः ।
बृहद्वर्णं इति ख्यातो माक्षिकः श्रेष्ठ उच्यते ॥७.२८॥
व्यापयत्यङ्गं अङ्गानि तैलबिन्दुरिवाम्भसि ।
न विना शोधनं सर्वे धातवः प्रबलादयः ॥७.२९॥
रोगोपशमकर्तारः शोधनं तेन वक्ष्यते ॥७.३०॥
{चोरलः: मारण}
प्रवालानां स्त्रीदुग्धेन भावना पश्चाद्धण्डिकामध्ये स्थापयित्वा निरुध्योपरि शरावकं दत्त्वा लेपयेत् ।
वह्निसंदीपनं कृत्वा प्रहरद्वयेन विद्रुमं म्रियते ॥७.३१॥
{उपरस (?):: मारण}
कुलत्थस्य पचेद्द्रोणे वारिद्रोणेन बुद्धिमान् ।
तेन पादावशेषेण क्वाथेऽष्टौ मणयः शिला ॥७.३२॥
आतपे त्रिदिनं शुष्कं क्वाथसिक्तं पुनः पुनः ।
मुक्ताचूर्णं समादाय करकाम्बुविभावितम् ॥७.३३॥
आतपे त्रिदिनं भाव्यं चूर्णितं मृत्युं आप्नुयात् ॥७.३४॥
{शिलाजतुः: शोधन}
शङ्खं नीलाञ्जनं चैव पूर्ववच्छोधयेद्दिनम् ।
गोमूत्रैस्त्रिफलाक्वाथैर्भृङ्गराजद्रवैर्जतुम् ॥७.३५॥
मर्दयेदायसे पात्रे दिनाच्छुद्धिः शिलाजतोः ।
{दरदः: शोधन}
मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् ॥७.३६॥
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ।
{उपरसः: शोधन}
सूर्यावर्तं वज्रकन्दं कदली देवदालिका ॥७.३७॥
शिग्रु कोशातकी वन्ध्या काकमाची च वायसी ।
आसामेकरसेनैव त्रिक्षारैर्लवणैर्युतम् ॥७.३८॥
भावयेदम्लवर्गेण दिनमेकं प्रयत्नतः ।
सौवीरं कान्तपाषाणं शुद्धभूनागमृत्तिका ॥७.३९॥
शङ्खं नीलाञ्जनं चैव सर्वोपरसाश्च ये ।
पृथग्भाव्यं विधानेन शुद्धिं यान्ति दिने दिने ॥७.४०॥
ततः पश्चात्तु तद्द्रावैर्दोलायन्त्रे दिनं सुधीः ।
शुध्यन्ते नात्र सन्देहः सर्वेषु परमा अमी ॥७.४१॥
मुञ्चन्ति द्रुतसत्त्वांश्च मतं साधारणं स्मृतम् ॥७.४२॥
{?:: सत्त्वपातन}
गुग्गुलुं टङ्कणं लाक्षा मज्जा सर्जरसं पुनः ।
ऊर्णा गुञ्जा क्षेत्रमीनं अस्थीनि शशकस्य च ॥७.४३॥
गुडमध्वाज्यपिण्याकं तुत्थं पेष्यमजाजलैः ।
सर्वं तुल्यं च धान्याभ्रं भूनागं मृत्तिकापि च ॥७.४४॥
कान्तपाषाणतुल्यं च कठिन्युपरसाश्च ये ।
मेलयेन्माहिषैः पच्याद्दध्यादिगोमयान्तिकैः ॥७.४५॥
दृढं मर्द्यं वटीं कुर्यात्कर्षमात्रं तु शोषयेत् ।
कोष्ठीयन्त्रे धमेद्गाढं अङ्गारैश्च चिरोद्भवैः ॥७.४६॥
त्रिवारं धमनादेव सत्त्वं पतति निर्मलम् ।
असाध्यान्मोचयेत्सत्त्वान्मृत्तिकादेश्च का कथा ॥७.४७॥
{हरितालः: सत्त्वपातन}
लाक्षा आज्यं तिलाः शिग्रुः टंकणं लवणं गुडम् ।
तालकार्धेन संयोज्य छिद्रमूषां निरोधयेत् ॥७.४८॥
पुटे पातालयन्त्रेण सत्वं पतति निश्चितम् ।
{??}
चाङ्गेरी चणकाम्लं च मातुलुङ्गाम्लवेतसम् ।
चिञ्चा नारङ्गं जम्बीरनम्ण वर्ग इति स्मृतम् ।
{हरितालः: सत्त्वपातन}
तालकं चूर्णयित्वा तु छागीक्षीरेण भावयेत् ॥७.४९॥
वारत्रयं ततो विद्धिमूलं पिष्ट्वा तु मिश्रितम् ।
कृत्वा च गुडकं शुष्कं सत्वं ग्राह्यं च पूर्ववत् ॥७.५०॥
{हरितालः: सत्त्वपातन}
तालकं मर्दयेद्दुग्धैः सर्पाक्षीं वाथ मूलकैः ।
पूर्ववद्ग्राहयेत्सत्त्वं छिद्रमूषां निरुध्य च ॥७.५१॥
{मनःशिलाः: सत्त्वपातन}
तालवच्च शिलासत्वं ग्राह्यं तैरेव चौषधैः ।
तुल्येन टंकणेनैव ध्मातं सत्त्वं चतुर्थकम् ॥७.५२॥
{माक्षिकः: सत्त्वपातन}
गोक्षीरैश्च तुत्थक्षीरैर्भाव्यमेरण्डतैलकैः ।
माक्षिकं दिनमेकं तु मर्दितं वटकीकृतम् ॥७.५३॥
अभ्रवद्धमने सत्वं सम्यगस्याप्ययं विधिः ।
{माक्षिक (?):: सत्त्वपातन}
जयन्ती त्रिफलाचूर्णं हरिद्रागुडटङ्कणम् ॥७.५४॥
पादांशं टङ्कणस्येदं पिष्ट्वा मूषां विलेपयेत् ।
नालिकां सम्पुटे बद्ध्वा शोषयेदातपे खरे ॥७.५५॥
ग्राह्यं पातालयन्त्रे च सत्वं ध्मातं पुटेन च ॥७.५६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:44.8200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

mammitis

  • पु. स्तन शोथ 
  • (also mastitis) 
RANDOM WORD

Did you know?

तीन रस्ते एकत्र येऊन मिळतात, त्या ठिकाणास काय म्हणतात
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.