TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण १.१०

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत.  या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण १०
तैलानां पातनं वक्ष्ये सूर्यपाकेऽथवानले ।
यन्त्रयोगेन यत्तैलं ग्राह्यं योगेषु योजयेत् ॥१०.१॥
{धत्तूरः: ओइल्}
धत्तूरबीजचूर्णानि वस्त्रपूतानि कारयेत् ।
आलिप्य कांस्यपात्रं तु धारयेदातपे खरे ॥१०.२॥
सुतप्तं वस्त्रपूतं च पातयेत्तैलमाहरेत् ।
{शिग्रुः: ओइल्}
शिग्रुपुष्करबीजानां बीजस्य मार्कवस्य च ॥१०.३॥
ग्राह्यं धत्तूरवत्तैलमेकैकस्य पृथक्पृथक् ।
यथा धत्तूरजं तैलं क्वाथाद्घर्मे समुद्धृतम् ॥१०.४॥
तथा सर्वत्र तैलानि संग्राह्यान्यौषधान्तरैः ।
{अङ्कोटः: ओइल्}
अङ्कोटस्यापि तैलं स्यात्काकतुण्डया समूलया ॥१०.५॥
वाकुचीदेवदाल्याश्च कर्कोटीमूलतः भवेत् ।
अपामार्गकषायेण तैलं स्याद्विषतुण्डजम् ॥१०.६॥
मूलक्वाथैः कुमार्यास्तु तैलं जैपालजं भवेत् ।
क्वाथेन रक्तमार्गस्य वाकुचीतैलमाहरेत् ॥१०.७॥
क्वाथेन चेन्द्रवारुण्यास्तैलमारग्वधं भवेत् ।
काकतुण्ड्यपामार्गोत्थक्वाथात्तैलं समाहरेत् ॥१०.८॥
{कटुतुम्बीः: ओइल्}
बीजानि कटुतुम्ब्याश्च गोमयेन विलोडयेत् ।
शुष्कं धान्यतुषैः सार्द्धं कुट्टयेच्च उलूखले ॥१०.९॥
निस्तुषं तं विचूर्ण्याथ भृङ्गराजरसैः सह ।
मर्दयित्वातपे तैलं गृह्णीयात्पीडने सति ॥१०.१०॥
{ओइल्फ़्रों कृष्णा अन्द्काकतुण्डी}
कृष्णायाः काकतुण्ड्याश्च बीजं चूर्णानि कारयेत् ।
कान्तपाषाणचूर्णं चैकीकृत्य निरोधयेत् ॥१०.११॥
धान्यराशिगतं पक्त्वा उद्धृते तैलमाहरेत् ।
धात्रीफलरसैर्भाव्यं चूर्णं पाषाणबीजकम् ॥१०.१२॥
दिनैकं च ततो यन्त्रे तैलं ग्राह्यं च तैलके ।
{ओइलः: फ़्रों गुञ्जा अन्द्करञ्ज}
गुञ्जाकरञ्जफलं च नरमूत्रेण भावयेत् ॥१०.१३॥
सप्तवारं ततो घर्मे लेपयेत्कांस्यभाजनम् ।
उद्धृत्य धारयेद्घर्मे तैलं पतति पीडनात् ॥१०.१४॥
{ओइलः: ज्योतिष्मती}
वर्धमानारनालेन पिष्ट्वा चूर्णं विभावयेत् ।
ज्योतिष्मत्युत्थबीजानां आतपे तैलमाहरेत् ॥१०.१५॥
{ओइलः: पुत्रजीव}
पुत्रजीवस्य बीजानां चूर्णं अगस्त्यबीजजम् ।
आम्रातवत्प्रकर्तव्यं ततस्तैलं पृथक्पृथक् ॥१०.१६॥
{ओइलः: बिल्व}
नारिकेलाम्बुना भाव्यं बिल्वबीजस्य चूर्णकम् ।
दिनैकं तैलयन्त्रेण तैलमाकृष्य योजयेत् ॥१०.१७॥
{ओइलः: अङ्कोल}
निस्तुषाङ्कोलबीजानां सुखं किंचिद्विघर्षयेत् ।
प्रलेपयेत्कांस्यपात्रे पिष्ट्वा चणकलेपने ॥१०.१८॥
तन्मुखे टंकणं चूर्णं किंचित्किंचित्प्रलेपयेत् ।
धारयेदातपे तीव्रे मुखात्तैलं समाहरेत् ॥१०.१९॥
{केशतैल}
शमीचूर्णसमं पिष्ट्वा छिद्रमाण्डे निवेशयेत् ।
छिद्राधः स्थापयेद्भाण्डं छिद्रे केशं च दापयेत् ॥१०.२०॥
जलेन सेचयेद्द्रव्यं छिद्राधो ग्राहयेच्च तम् ।
तन्मध्ये धृतकेशस्य क्षिपेदूर्ध्वं पुटं शनैः ॥१०.२१॥
तत्क्षणाच्छ्रवरूपं च केशतैलमिदं भवेत् ।
{ओइलः: एxत्रच्तिओन्(गेन्.)}
अपक्वभानुपत्राणां रसमादाय भावयेत् ॥१०.२२॥
समस्तं बीजचूर्णं चोक्तानुक्तं पृथक्पृथक् ।
आतपे मुच्यते तैलं साध्यासाध्यं न संशयः ॥१०.२३॥
{ओइल्}
तथैवोत्तरवारुण्याः कषायेण समाहरेत् ।
तैलं समस्तबीजानां ग्राहयेदातपे खरे ॥१०.२४॥
{ओइल्}
सर्वबीजास्थिमांसानां शुष्कं पिष्ट्वा ह्यनेकधा ।
सर्वबीजेषु वा तैलं ग्राह्यं पातालयन्त्रके ॥१०.२५॥
{ओइल्}
वंशादिसर्वकाष्ठानां नारिकेलकपालकम् ।
तुषधान्यादिबीजानां गर्भयन्त्रेण तैलकम् ॥१०.२६॥
ग्राहयेत्सर्वबीजानां तं च योगेषु योजयेत् ॥१०.२७॥
{वत्सनाभ}
वत्सनाभं विषं स्वादु दीपनं कफवातजित् ।
त्रिदोषशमनं योगयुक्तं सुधामयं भवेत् ॥१०.२८॥
बृंहणं बलवीर्यस्य वाडबाग्निशतोपमम् ।
सन्निपाते प्रतीकारे प्रभवः प्रभवोऽस्य हि ॥१०.२९॥
उद्धृतं फलपाकान्ते नवं स्निग्धं घनं गुरु ।
अव्यापकं विषहरं वातातपविशोषितम् ॥१०.३०॥
रक्तसर्षपतैलेन लिप्तं वाससि धारयेत् ।
अथवापि यथा प्राप्तं विषं गोमूत्रसंयुतम् ॥१०.३१॥
आतपे त्रिदिनं शुष्कं निहितं वीर्यधृक्भवेत् ।
मृतं सूताभ्रकं लौहं विषं च तुल्यवीर्यकम् ॥१०.३२॥
तस्माद्विषं योगवाहे योज्यं योगे रसायने ।
तानि चैव तु मानानि अष्टौ षड्वा चतुर्थकम् ॥१०.३३॥
मात्रात्रयं समाख्यातमुत्तमाधममध्यम् ।
दातव्यं सर्वरोगेषु घृताशिने हिताशिने ॥१०.३४॥
क्षीराशिने प्रदातव्यं रसायनवते नरे ।
न क्रोधिने न पित्ताढ्ये न क्लीबे राजयक्ष्मणि ॥१०.३५॥
क्षुत्तृष्णाश्रमकर्माध्वशोषिणे क्षयरोगिणे ।
गर्भिणीबालवृद्धेषु न विषं राजमन्दिरे ॥१०.३६॥
न दातव्यं न भोक्तव्यं विसंवादे कदाचन ।
आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम् ॥१०.३७॥
अनेन मन्त्रेण मर्दयेद्भूमौ न स्थापयेत् ।
अमृतमिति वदेदिति क्रमोऽयम् ।
ओं सिद्धगुरुभ्यो नमः ।
परमगुरुभ्यो नमः ।
परात्परगुरुभ्यो नमः ।
परमेष्ठिगुरुभ्यो नमः ।
{वेगेतब्ले पोइसोन्स्}
सक्तुकं मुस्तकं शृङ्गी वालकं सर्षपाह्वयम् ।
वत्सनाभं च कूर्मश्च श्वेतशृङ्गी तथाष्टमम् ॥१०.३८॥
इत्यष्टौ योजयेद्योगे कालकूटादि वर्जयेत् ।
{पोइसोन्स्}
कालकूटं मेषशृङ्गी हालाहलं च दर्दुरम् ॥१०.३९॥
कर्कटं मर्कटं ग्रन्थि हारिद्रं रक्तशृङ्गकम् ।
केशवं दशमं चेति वर्जनीयं भिषग्वरैः ॥१०.४०॥
सक्तुकाद्यान्प्रयुञ्जीत सर्वरोगे रसायने ।
एतद्विषं जातिचतुष्टयं च विचार्य योज्यं भिषगुत्तमेन ॥१०.४१॥
विप्रो रक्षति यौवनं नरपतिस्तद्भूतले पालतां वैश्यः कुष्ठविनाशने च कुशलः शूद्रो हरेज्जीवनम् ।
तस्माच्चापि भिषग्वरेण निपुणैस्तद्वेदिना भावयेत्कुर्यादेव ततो विषं नृपवरो मृत्युंजयाय क्षितौ ॥१०.४२॥
श्वेता वा यदि वा पिङ्गा मधुरा ऊषरापि वा ।
लोमशा ब्रह्मजातिः स्यात्क्षत्रजातिस्तु लोहिता ॥१०.४३॥
पीता वा मधुरा किंचिद्वैश्यजातिस्तु धूसरा ।
कृष्णा शूद्रस्य दृश्येत एतेषां च भिषग्वरैः ॥१०.४४॥
क्षीरं सम्पूर्णभाण्डेऽपि विषं दत्त्वा विचिन्तयेत् ।
जायतेऽपि यदा वर्णं तदा जातिं विनिर्दिशेत् ॥१०.४५॥
शुक्लं रक्तं तथा पीतं कृष्णं चेति चतुर्विधम् ।
ब्रह्मक्षत्रविट्शूद्राणां ज्ञातव्यो जातिनिर्णयः ॥१०.४६॥
क्षिप्तं दुग्धे विषं वैद्यो जानीयात्क्रमशो यदि ।
श्वेतं रक्तं तथा पीतं कृष्णं चोष्णलमेव च ॥१०.४७॥
तुत्थेन टङ्कणेनैव म्रियते पेषणाद्विषम् ।
विषेषु जङ्गमाख्येषु विषं नागभवं हितम् ॥१०.४८॥
इदमेव महाश्रेष्ठं त्रिदोषक्षपणं क्षणात् ।
दीपनं कुरुते सद्यो वडवाग्निशतोपमम् ॥१०.४९॥
संनिपातप्रतिकारे प्रभावः प्रभवो हि सः ॥१०.५०॥
नागोद्भवं यथाप्राप्तं विषं गोमूत्रसंयुतम् ।
आतपे त्रिदिनं शुष्कं निहितं वीर्यधृग्भवेत् ॥१०.५१॥
अतिमात्रं यदा भुङ्क्ते तदार्ज्य टङ्कणं पिबेत् ।
रजनी मेघनादा वा सर्पाक्षी वा घृतान्विता ॥१०.५२॥
लिहेद्वा मधुसर्पिर्भ्यां चूर्णितां अर्जुनत्वचम् ।
पुत्रजीवकमज्जां वा पिबेद्वा निम्बकद्वयम् ॥१०.५३॥
एवं विषविधिः ख्यातः प्रयोगं च वदाम्यहम् ।
विषं त्रिकटुकं मुस्तं हरिद्रानिम्बपत्रकम् ॥१०.५४॥
विडङ्गं अष्टमं चूर्णं छागमूत्रैः समं समम् ।
चणकाभा वटी ख्याता स्याज्जया योगवाहिका ॥१०.५५॥
विषं पाठाश्वगन्धाश्च बला तालीसपत्त्रकम् ।
मरिचं पिप्पली निम्बमजामूत्रेण तुल्यकम् ॥१०.५६॥
वटिका पूर्ववत्कार्या वटिका योगवाहिका ।
निद्रां तन्द्रां क्लमं दाहं सफेनं लोमहर्षणम् ॥१०.५७॥
शोषं चैवातिसारं च कुरुते जङ्गमं विषम् ।
स्थावरं तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम् ॥१०.५८॥
फेनछर्द्यरुचिश्वासं मूर्च्छां च कुरुते विषम् ।
न जानाति यदा मन्त्री विषं भक्षेच्चिकित्सितम् ॥१०.५९॥
विषमेव तदादाय मज्जत्यम्बुनिधाविव ।
तस्माद्यत्नेन संरक्षेद्राजा विषचिकित्सकात् ॥१०.६०॥
प्रथमं वह्निखर्परिकायां मनाग्भृष्ट्वा वक्ष्यमाणमन्त्रेण निर्विषं विधाय गृह्णीयादिति ।
निम्बुद्रवे पित्तं वारत्रयं विभाव्य प्रक्षाल्य संशोष्य गृह्णीयादिति ।
{शिलाजतुः: ओरिगिन्}
हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः ।
जत्वाभं मृदु मृत्स्नाभं यन्मलं तच्छिलाजतु ॥१०.६१॥
{शिलाजतुः: मेदिच्. प्रोपेर्तिएस्}
अनघं चाल्पकषायं च कटु पाके शिलाजतु ।
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः ॥१०.६२॥
{शिलाजतुः: फ़्रों गोल्दः: मेदिच्. प्रोपेर्तिएस्}
हेम्नोऽथ रजतात्ताम्राद्वरं कालायसादपि ।
मधुरं च सतिक्तं च जपापुष्पनिभं च यत् ॥१०.६३॥
विपाके कटु शीतं च तत्सुवर्णस्य निसृतम् ।
{शिलाजतुः: फ़्रों सिल्वेरः: मेदिच्. प्रोपेर्तिएस्}
राजतं कटुकं श्वेतं शीतं स्वादु विपच्यते ॥१०.६४॥
{शिलाजतुः: फ़्रों चोप्पेरः: मेदिच्. प्रोपेर्तिएस्}
ताम्राद्बर्हिणकण्ठाभं तीक्ष्णोष्णं पच्यते कटु ।
{शिलाजतुः: फ़्रों इरोनः: मेदिच्. प्रोपेर्तिएस्}
यच्च गुग्गुलुसंकाशं सतिक्तं लवणान्वितम् ॥१०.६५॥
विपाके कटु शीतं च सर्वश्रेष्ठं तदायसम् ।
गोमूत्रगन्धः सर्वेषां सर्वकर्मसु यौगिकाः ॥१०.६६॥
रसायनप्रयोगेषु पश्चिमं तु विशिष्यते ।
यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु ॥१०.६७॥
विशेषेण प्रशस्यन्ते मला हेमादिधातुजाः ।
{शिलाजतुः: फ्य्स्. प्रोपेर्तिएस्}
लौहः किट्टायते वह्नौ विधूमं दह्यतेऽम्भसि ॥१०.६८॥
तृणाद्यग्रे कृतं श्रेष्ठं अधो गलति तन्तुवत् ।
दंशदंष्ट्रौषधादिदोषहरणार्थं मेषशृङ्गं भूर्जपत्रेण धूपयेत् ।
क्वाथ्यद्रव्यं शिलाजतुसमं चतुर्गुणेन जलं दत्त्वा चतुर्भागावशेषेण भावयेदित्येकः पक्षः ।
वाग्भट्टस्तु अष्टगुणजलदानेनाष्टावशेषे पूर्ववदुभयथैव व्यवहारः ।
भद्रशिलाजतु त्रिफलादशमूलोष्णक्वाथे निक्षिप्य ।
केवलोष्णोदके वा स्थिते ऊर्ध्वं वीभूते पद्धपत्रवत्सर्वं ग्राह्यम् ।
ततः शिवागुडिकोक्तक्रमेण भावनां दत्त्वा विशोध्य सालसारादिना भावयेद्यथा ।
सालयुग्मौ करञ्जौ द्वौ खदिरं चन्दनद्वयम् ।
गर्दभाण्डोऽर्जुनश्चेह लोध्रयुग्मधवासनाः ॥१०.६९॥
शिरीषागुरुकालीयपूगपूतिककर्कटाः ।
सालसारादिरप्येष गणः श्लेष्मगदापहः ॥१०.७०॥
मेहगुल्मार्शःकुष्ठारिमेदःपाण्डुरुजापहः ।
एभिर्दिवातपे शोष्यं रात्रौ रात्रौ च भावयेत् ॥१०.७१॥
द्रवेण यावता द्रव्यमेकीभूयार्द्रतां व्रजेत् ।
भवेत्प्रमाणं निर्दिष्टं भिषग्भिर्भावनाविधौ ॥१०.७२॥
भवेद्द्रव्यं समं क्वाथ्यं क्वाथं चाष्टावशेषितम् ।
तेनार्द्रसमं द्रव्यं शोषयेत्प्रबलातपे ॥१०.७३॥
दग्धहीरकं योज्यं निक्षिप्याग्नौ ध्मापयित्वा निर्गुण्डीरसेन सप्तवारान्निर्वाप्य प्रक्षाल्य च गृह्णीयात् ॥१०.७४॥
जायन्ते वामरुक्वाथे जनपदे ग्रीष्मेऽर्कतापार्दिताः ।
शीतोषणे शिशिरे च गुग्गुलुरसं मुञ्चन्ति ते पञ्चधा ॥१०.७५॥
हेमाभं महिषाक्षतुल्यमपरं तत्पद्मरागोपमं भृङ्गाभं कुमुदद्युतिं च विधिना ग्राह्या परीक्ष्या ततः ॥१०.७६॥
वह्नौ ज्वलन्ति तपने विलयं प्रयान्ति क्लिद्यन्ति कोष्णसलिले पयसा समानाः ॥१०.७७॥
ग्राह्याः शुभाः परिहरेच्चिरकालजातानङ्गात्स्फुटं खर्परगन्धिकतुल्यवर्णान् ॥१०.७८॥
{गुग्गुलुः: मेदिच्. प्रोपेर्तिएस्}
स्वादे स्वादुः कषायतिक्तकटुको वीर्ये विपाके कटुः ।
वृष्यो मार्गविशोधनेऽतिविशदस्तीक्ष्णो विकाशी सरः ॥१०.७९॥
सायुष्यः स्वरदस्त्रिदोषशमनो मेधास्मृतिश्रीकरः ।
धन्यः पापनिसूदनोऽग्निजननो हृत्कण्ठशोधीपुनः ॥१०.८०॥
{गुग्गुलुः: शोधन}
दशमूलक्वाथे उष्णे पूते गुग्गुलुं परिक्षिप्यालोड्य च वस्त्रपूतं विधाय चण्डातपे विशोष्य घृतं दत्त्वा पिण्डितव्यम् ॥१०.८१॥
{चोन्छः: शोधन}
शंखनाभिं तथाम्लेन सप्तवारं हि भावयेत् ।
रौद्रे मलादिकं त्यक्त्वा प्रक्षाल्य ग्राहयेदिति ॥१०.८२॥
{मोनेय्चोwरिएः: शोधन}
वराटीं तक्रचाङ्गेरीजम्बीराणां रसे शुभे ।
प्रक्षिप्य भावयेत्तावद्यावच्छुक्ला न पश्यति ॥१०.८३॥
पश्चादुद्धृत्य गृह्णीयाद्वराटीं शुद्धिमागताम् ॥१०.८४॥
{पेअर्लः: शोधन}
भौमिकं जलं आदाय मुक्तां च व्युषितामपि ।
त्यक्त्वा मलादिकां तां च प्रक्षाल्य ग्राहयेदिति ॥१०.८५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:45.2900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बलाय-बलाय-या घेणें

  • इडा पिडा टाळण्यासाठीं बोटें मोडून दृष्ट काढणें. ‘ कित्येक घेती वनिता बलाया । ’ -सारुह ७.७१. ‘ कितीक रुपवंत्या मुख पाहुनी बलाया घेती । ’ -पला ९२. 
RANDOM WORD

Did you know?

चतुर्थीला चंद्र पाहूनच उपास का सोडतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site