TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण २.५

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण २.५
उद्वर्तनं पलितहारि परं नराणां शोभावहं सुखकरं कचरञ्जनं च ।
वृद्धोपयोगिसुखसाध्यमनेकयुक्त्या वक्ष्ये सुसिद्धमनुभूतिपथेन दृष्टम् ॥५.१॥
पारदं गन्धकं तुल्यं नारीस्तन्येन मर्दयेत् ।
विष्णुक्रान्ता मेघनादा सर्पाक्षी मुनिमुण्डिका ॥५.२॥
आसां द्रवैर्दिनं खल्वे मर्दयेत्तत्समुद्धरेत् ।
यवचूर्णं तिलाश्चैव प्रत्येकं रसतुल्यकम् ॥५.३॥
क्षिपेत्तस्मिन्घृतैः क्षौद्रैः सर्वमालोड्य रक्षयेत् ।
अनेनोद्वर्तनं सम्यग्वलीपलितनाशनम् ॥५.४॥
वत्सराद्दिव्यदेहः स्याज्जीवेद्वर्षसहस्रकम् ।
वज्रकापालिनीमूलं पारदं च समं समम् ॥५.५॥
शिवाम्बुना त्र्यहं मर्द्यमुद्वर्तात्पूर्ववत्फलम् ।
उत्पलानि समूलानि पारदं च समं समम् ॥५.६॥
सप्ताहं मर्दयेत्खल्वे स्वकीयेनाशिवाम्बुना ।
तेनैव मर्दयेद्गात्रं जायते पूर्ववत्फलम् ॥५.७॥
पारदस्य समांशेन ब्रह्मदण्डीयमूलकम् ।
क्षिप्त्वा सप्तदिनं मर्द्यं स्वकीयेनाशिवाम्बुना ॥५.८॥
अनेनोद्वर्तयेद्गात्रं जायते पूर्ववत्फलम् ।
गन्धकं कटुतैलेन घर्मे भाव्यं दिनावधि ॥५.९॥
तत्पलार्धं सदा खादेद्दिव्यकायकरं नृणाम् ।
जायते स्वर्णवद्देहो वत्सराद्वलिवर्जितः ॥५.१०॥
कुष्ठचूर्णं समध्वाज्यं नित्यं कर्षं लिहेत्तु यः ।
वत्सराद्दिव्यदेहः स्याद्गन्धेन शतपुष्पवत् ॥५.११॥
कान्तपाषाणचूर्णं तु तैलमध्वाज्यसंयुतम् ।
काकतुण्डीफलं सर्वं सममेतत्तु कल्पयेत् ॥५.१२॥
भाण्डे रुद्ध्वा क्षिपेन्मासं धान्यराशावथोद्धरेत् ।
अनेन लेपयेच्छीर्षं नस्यं कुर्यादनेन वै ॥५.१३॥
त्र्यहाद्भ्रमरसंकाशाः केशाः स्युर्वत्सरार्धकम् ।
नागचूर्णपलैकं तु शङ्खचूर्णपलद्वयम् ॥५.१४॥
पथ्याचूर्णं निष्कमेकं सर्वं पेष्यं दिनावधि ।
अम्लदध्ना युतं यत्नात्स्नात्वादौ शिरसि क्षिपेत् ॥५.१५॥
मर्दयेद्घटिकार्धं तु वेष्ट्यं एरण्डपत्त्रकैः ।
शिरः संवेष्ट्य वस्त्रेण प्रातः स्नानं समाचरेत् ॥५.१६॥
इत्येवं त्रिदिनं यत्नात्कृत्वा केशांश्च रञ्जयेत् ।
पञ्चाङ्गं नीलिकाभृङ्गत्रिफलालोहचूर्णकम् ॥५.१७॥
तुल्यं सर्वं कृतं सूक्ष्ममिडामूत्रेण मर्दयेत् ।
दिनार्धं तेन कल्केन पूर्ववत्केशरञ्जनम् ॥५.१८॥
गुञ्जाबीजं तु त्वग्वर्ज्यं कुष्ठैलादेवदारुकम् ।
तुल्यं चूर्णं दिनं भाव्यं भृङ्गराजभवैर्द्रवैः ॥५.१९॥
सर्वं चतुर्गुणे तैले पाचयेन्मृदुवह्निना ।
तेनाभ्यङ्गेन केशानां रञ्जनं भ्रमरोपमम् ॥५.२०॥
हस्तिदन्तस्य दग्धस्य समं योज्यं रसाञ्जनम् ।
अजाक्षीरेण तत्पिष्ट्वा लेपनात्केशरञ्जनम् ॥५.२१॥
त्रिफला लोहचूर्णं तु कृष्णमृद्भृङ्गजद्रवम् ।
इक्षुदण्डद्रवं चैव मासं भाण्डे निरोधयेत् ॥५.२२॥
तल्लेपाद्रञ्जयेत्केशान्स्याद्यावन्मासपञ्चकम् ।
लोहकिट्टं जपापुष्पं पिष्ट्वा धात्रीफलं समम् ॥५.२३॥
त्रिदिनं लेपितास्तेन कचाः स्युर्भ्रमरोपमाः ।
भृङ्गराजरसप्रस्थं तैलं कृष्णतिलोद्भवम् ॥५.२४॥
तुल्यं च नीलिकाद्रावं सर्वं यामं विमर्दयेत् ।
तल्लेपस्त्रिदिनं कार्यः केशानां रञ्जनं भवेत् ॥५.२५॥
सिन्दूरस्य समं चूर्णं साबुणं च तयोः समम् ।
तज्जले पेषितं लेप्यं तत्क्षणात्कचरञ्जनम् ॥५.२६॥
शतपुष्पा काकमाची तिलाः कृष्णाश्च रोचनम् ।
दिनं शिवाम्बुना सर्वं मर्दयेल्लोहपात्रके ॥५.२७॥
तल्लेपं त्रिदिनं कुर्यात्केशानां रञ्जनं भवेत् ।
चूर्णं सर्जी यवक्षारं सिद्धार्थं काञ्जिकैः सह ॥५.२८॥
नागपुष्पाद्रवैर्मर्द्यं तल्लेपाद्रञ्जनं भवेत् ।
नीलीपत्त्राणि कासीसं भृङ्गराजरसं दधि ॥५.२९॥
लोहचूर्णं समं पिष्ट्वा तल्लेपं केशरञ्जनम् ।
चूर्णं सिन्दूरमङ्गारं कदलीकन्दसंयुतम् ॥५.३०॥
लोहपात्रे लोहमुष्ट्या मर्द्यं जम्बीरजैर्द्रवैः ।
दिनैकं च ततो लेप्यं केशानां रञ्जनं भवेत् ॥५.३१॥
कुरण्टकस्य पत्त्राणि नागमुष्ट्या विमर्दयेत् ।
तल्लेपं त्रिदिनं कुर्याज्जायते केशरञ्जनम् ॥५.३२॥
आम्रास्थि त्रिफला भृङ्गी प्रियङ्गुर्मातुलुङ्गकम् ।
निशा नीली मृणालानि नागं लोहं च चूर्णितम् ॥५.३३॥
समं कल्कं कान्तपात्रे निम्बतैलेन भावयेत् ।
मासमात्रं ततस्तेन लेपाद्भवति रञ्जनम् ॥५.३४॥
काकमाचीयबीजानि समाः कृष्णतिलास्तथा ।
तत्तैलं ग्राहयेद्यन्त्रे तन्नस्यं केशरञ्जनम् ॥५.३५॥
गोघृतं भृङ्गजं द्रावं मयूरशिखया सह ।
मृद्वग्निना पचेत्तेन स्यान्नस्यं केशरञ्जनम् ॥५.३६॥
जपापुष्पद्रवं क्षौद्रं कर्षैकं नस्यमाचरेत् ।
सप्ताहाद्रञ्जयेत्केशान्सर्वनस्येष्वयं विधिः ॥५.३७॥
त्रिफला लोहचूर्णं तु वारिणा पेषयेत्समम् ।
तत्तुल्येन च तैलेन भृङ्गराजरसेन च ॥५.३८॥
पचेत्तैलावशेषं तत्स्निग्धभाण्डे निरोधयेत् ।
मासैकं भूगतं कुर्यात्तेन शीर्षं प्रलेपयेत् ॥५.३९॥
कारवल्ल्या दलैर्वेष्ट्य ततो वस्त्रेण बन्धयेत् ।
निर्वाते क्षीरभोजी स्यात्क्षालयेत्त्रिफलाजलैः ॥५.४०॥
नित्यमेवं प्रकर्तव्यं लेपनं दिनसप्तकम् ।
कपालरञ्जनं ख्यातं यावज्जीवं न संशयः ॥५.४१॥
बीजानि काकतुण्ड्याश्च सिर्यालीबीजसंयुतम् ।
तच्चूर्णं दिनचत्वारि भाव्यं निर्गुण्डीजैर्द्रवैः ॥५.४२॥
जपापुष्पद्रवैस्तावत्ततः पातालयन्त्रके ।
तैलं प्राह्यं तु तल्लेपात्केशानां रञ्जनं भवेत् ॥५.४३॥
वेष्ट्यमेरण्डपत्त्रैश्च निर्वाते क्षीरभोजनम् ।
कुर्यात्स्नानं काञ्जिकैश्च नित्यं सप्तदिने कृते ॥५.४४॥
यावज्जीवं न संदेहः केशाः स्युर्भ्रमरोपमाः ।
भृङ्गराजं काचमाचीं समांशं जलमण्डवीम् ॥५.४५॥
संपिष्ट्यापूपिकां कृत्वा तैलमध्ये विपाचयेत् ।
पक्वां तां पेषयेत्तैलैर्लेपः स्यात्केशरञ्जनम् ॥५.४६॥
पूर्ववत्क्रमयोगेन सप्ताहात्तत्फलं भवेत् ।
अयस्कान्तमये पात्रे रात्रौ लेप्यं फलत्रयम् ॥५.४७॥
भृङ्गराजद्रवैः सार्धं प्रातः केशान्प्रलेपयेत् ।
एवं कुर्यात्त्रिसप्ताहं जायते पूर्ववत्फलम् ॥५.४८॥
प्रक्षिपेन्माहिषे शृङ्गे कृष्णजीरं तदन्धयेत् ।
गृहाग्रे कर्दमे क्षिप्त्वा षण्मासात्तत्समुद्धरेत् ॥५.४९॥
तद्द्रुतं जायते कृष्णं कर्षैकं शिरसि क्षिपेत् ।
वेष्टयेत्पूर्वयोगेन कपालरञ्जनं भवेत् ॥५.५०॥
भ्रमराञ्जनसंकाशं यावज्जीवं न संशयः ।
नीलीपत्त्रं भृङ्गराजं त्रिफला कृष्णमायसम् ॥५.५१॥
मदनस्य च बीजानि पुष्पं कोरण्टकस्य च ।
अर्जुनस्य त्वचं चूर्णं नलिनीमूलकर्दमम् ॥५.५२॥
सर्वं तुल्यं क्षिपेद्भाण्डे लोहजे तन्निरोधयेत् ।
पक्षमेकं क्षिपेद्भूमौ भाण्डात्कल्कं समुद्धरेत् ॥५.५३॥
कल्काच्चतुर्गुणं तैलं तैलाच्चतुर्गुणं द्रवम् ।
भृङ्गत्रिफलजं योज्यं पचेत्तैलावशेषकम् ॥५.५४॥
परीक्षार्थं क्षिपेत्पक्षं बलाकाया यदा भवेत् ।
कृष्णवर्णं तदा सिद्धं पात्रे कृष्णायसे क्षिपेत् ॥५.५५॥
मासैकं धारयेत्तस्मिंस्ततः केशान्विलेपयेत् ।
तिष्ठन्ति मासषट्कं तु भ्रमरस्तोमसंनिभाः ॥५.५६॥
वासापलाशचिञ्चोत्थैर्दण्डैर्वाश्वत्थजैर्दृढम् ।
नागं पात्रगतं चाल्यं यावद्भवति मूर्छितम् ॥५.५७॥
पलैकं तत्समादाय लोहचूर्णं पलद्वयम् ।
त्रिपलं त्रिफलाचूर्णं दाडिमस्य फलत्वचः ॥५.५८॥
शुष्कं चूर्णं पलैकं तत्सर्वेषां काञ्जिकं समम् ।
भाण्डे सर्वं पचेत्किंचित्तं क्षिपेल्लोहभाजने ॥५.५९॥
भृङ्गराजकुरण्टोत्थद्रवं दत्त्वातपे क्षिपेत् ।
त्रिसप्ताहं प्रयत्नेन द्रवो देयः पुनः पुनः ॥५.६०॥
ततस्तं रक्षयेत्तेन लेपात्स्यात्केशरञ्जनम् ।
उक्तानुक्तेषु लेपेषु वेष्ट्यमेरण्डपत्त्रकैः ॥५.६१॥
शिरो रात्रौ दिवा स्नानं युक्तिरेषा प्रशस्यते ।
वज्रीक्षीरेण सप्ताहं भावयेदभयाफलम् ।
तच्चूर्णयुक्ततैलस्य लेपाच्छुक्ला भवन्ति हि ॥५.६२॥
केशाश्च सर्वरोमाणि शङ्खवर्णा भवन्ति वै ।
सप्ताहं वज्रदुग्धेन सुश्वेतान्भावयेत्तिलान् ॥५.६३॥
तेभ्यस्तैलं गृहीत्वा तल्लेपाच्छुक्ला भवन्ति वै ।
गौर्यामलकचूर्णं तु वज्रीक्षीरेण सप्तधा ॥५.६४॥
भावयेत्तेन लेपेन शुक्लतां यान्ति मूर्धजाः ।
सिन्दूरं स्फटिकां श्वेतां जलेन सह लेपयेत् ॥५.६५॥
तल्लेपेन तु रोमाणि सुशुक्लानि भवन्ति हि ।
मासैकं मागधीचूर्णं वज्रीक्षीरेण भावयेत् ॥५.६६॥
नराश्वगजवाजिनां शुक्लीकरणमुत्तमम् ।
इन्द्रगोपं तैलिनी च तालकं रजनीद्वयम् ॥५.६७॥
मनःशिला च तुल्यांशं चूर्णं स्नुक्पयसा त्र्यहम् ।
भावयेदर्कजैः क्षीरैस्त्रिदिनं चातपे खरे ॥५.६८॥
ततः कुष्माण्डजैर्द्रावैर्भावयेद्दिनसप्तकम् ।
कूष्माण्डस्य ततो गर्भे क्षिप्त्वा मासात्समुद्धरेत् ॥५.६९॥
तैलेन सर्वरोमाणि केशान्संलेपयेत्त्र्यहम् ।
वेष्टयेदर्कजैः पत्त्रैः शुक्लवर्णा भवन्ति च ॥५.७०॥
स्नाने कृते शुष्ककचेषु रात्रौ लेपे कृते पूर्वदलैस्तु वेष्ट्यम् ।
दध्ना तिलैः स्नानमतः प्रभाते कुर्यात्त्र्यहं लेपनमित्थमेव ॥५.७१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:47.1500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

घिउंदें

  • न. एक पेय . ' ते आदि कुमारी विनोदें । महा कवी नवरसांचें घिंउंदें । पेहे देउनि परिये दे । अनुहतिशब्दि । ' - नरुस्व ९ . 
RANDOM WORD

Did you know?

घरातील देव्हार्‍यात कोणते देव पूजावेत आणि कोणते नाही?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site