TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण ३.११

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ३.११
{रसस्य १८ संस्काराः}
सिद्धैः सूतवरस्य कर्म विविधं ख्यातं विचित्रैः क्रमैः साध्यासाध्यविवेकतो ह्यनुभवन्दृष्ट्वा समस्तं मया ।
युक्त्याष्टादशधा विशेषविधिना स्वेदादिवेधान्तकं दक्षाणां सुखसाध्यमेव सुखदं संतन्यते साम्प्रतम् ॥११.१॥
{१८ संस्कारस्}
स्वेदनं मर्दनं मूर्छोत्थापनं पातनं त्रिधा ।
निरोधनं नियामश्च दीपनं चानुवासनम् ॥११.२॥
जारणं चारणं चैव गर्भबाह्यद्रुतिस्तथा ।
रञ्जनं सारणं चानुसारणा प्रतिसारणा क्रामणं देहलोहेषु ॥११.३॥
{काञ्जिकः: प्रोदुच्तिओन्}
नानाधान्यैर्यथाप्राप्तैस्तुषवर्जैर्जलान्वितैः ।
मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात् ॥११.४॥
तन्मध्ये भृङ्गराङ्मुण्डी विष्णुक्रान्ता पुनर्नवा ।
मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी ॥११.५॥
त्रिफला गिरिकर्णी च हंसपादी च चित्रकम् ।
समूलं खण्डयित्वा तु यथालाभं निवेशयेत् ॥११.६॥
पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं भवेत् ।
{काञ्ज्कः: उसे}
स्वेदनादिषु सर्वत्र रसराजस्य योजयेत् ।
{काञ्जिकः: सुब्स्तितुतेद्ब्यारनाल}
अत्यम्लं आरनालं वा तदभावे नियोजयेत् ॥११.७॥
{स्वेदनम्}
त्र्यूषणं लवणं राजी चित्रकं त्रिफलार्द्रकम् ।
महाबला नागबला मेघनादः पुनर्नवा ॥११.८॥
मेषशृङ्गी चित्रकं च नवसारं समं समम् ।
एतत्समस्तं व्यस्तं वा पूर्वाम्लेनैव मर्दयेत् ॥११.९॥
तत्कल्केन लिम्पेद्वस्त्रे यावदङ्गुलमात्रकम् ।
तन्मध्ये निक्षिपेत्सूतं बद्ध्वा पच्याद्दिनत्रयम् ।
दोलायन्त्रेऽम्लसंयुक्ते स्वेदितो जायते रसः ॥११.१०॥
{मर्दनम्}
प्रक्षाल्य काञ्जिकैः सोष्णैस्तमादाय विमर्दयेत् ।
अत्यम्लं आरनालं तत्तदभावे नियोजयेत् ॥११.११॥
गृहधूमेष्टिकाचूर्णं दग्धोर्णा लवणं गुडम् ।
राजिका त्रिफला कन्या चित्रकं बृहती कणा ॥११.१२॥
वन्ध्याकर्कोटकी चाथ व्यस्तं वाथ समस्तकम् ।
क्वाथयेदारनालेन तेन मर्द्यं त्र्यहं रसम् ।
प्रक्षाल्य काञ्जिकेनैव समादाय विमूर्छयेत् ॥११.१३॥
{मूर्छनम्}
मेषशृङ्गी कृष्णधूर्तो बला श्वेतापराजिता ॥११.१४॥
कन्याग्नित्रिफला चैव सर्पाक्षी सूरणं वचा ।
गोजिह्वा चाङ्गुली नीली मुरुण्डी क्षीरकन्दकम् ॥११.१५॥
राजिका काकमाची च रविक्षीरं च काञ्चनम् ।
व्यस्तानां वा समस्तानां द्रावैश्चैषां विमर्दयेत् ॥११.१६॥
यामैकं रसराजं च मूषायां संनिरोधयेत् ।
पुटैकेन पचेत्तं तु भूधरे वाथ मर्दयेत् ॥११.१७॥
सर्वद्रावैर्यथापूर्वं रुद्ध्वा रुद्ध्वा विपाचयेत् ।
इत्येवं सप्तधा कुर्याज्जायते मूर्छितो रसः ॥११.१८॥
{उत्थापनम्}
जलैः सोष्णारनालैर्वा लोलनादुत्थितो भवेत् ।
अथवा पातनायन्त्रे पाचनादुत्थितो भवेत् ।
एवमुत्थापितः सूतस्त्रिधा पात्यः क्रमेण तु ॥११.१९॥
{ऊर्ध्वपातनम्}
काकमाची जया ब्राह्मी चाङ्गेरी रक्तचित्रकम् ।
अङ्कोली राजवृक्षश्च तिलपर्णी कुमारिका ॥११.२०॥
मण्डूकी चित्रकं पाठा काकजङ्घा शतावरी ।
भूपाटली देवदाली निर्गुण्डी गिरिकर्णिका ॥११.२१॥
शणपुष्प्यार्द्रकं शृङ्गी गोजिह्वा क्षीरकन्दकम् ।
नीली चैषां समस्तानां व्यस्तानां च द्रवैर्दिनम् ॥११.२२॥
ताम्रपादयुतं सूतं मर्दयेदम्लकैः सह ।
तत्पिष्टः पातयेद्यन्त्रे चोर्ध्वपातनके पुनः ॥११.२३॥
आदाय मर्दयेत्तद्वत्ताम्रचूर्णेन संयुतम् ।
पातयेन्मर्दयेच्चैव ताम्रं दत्त्वा पुनः पुनः ।
इत्येवं सप्तधा कुर्यान्मर्दनं पातनं क्रमात् ॥११.२४॥
ऊर्ध्वलग्नं समादाय अधःपातेन पातयेत् ॥११.२५॥
{अधःपातनम्}
त्रिफला राजिका शिग्रुस्त्र्यूषं लवणचित्रकम् ।
सूततुल्यं तु तत्सर्वं काञ्जिकैर्मर्दयेद्दिनम् ॥११.२६॥
तेन लिम्पेदूर्ध्वभाण्डं पृष्ठे देयं पुटं लघु ।
अधःपातनयन्त्रे तु पातितं तु समुद्धरेत् ॥११.२७॥
{तिर्यक्पातनम्}
त्रिफला राजिका शिग्रुस्त्र्यूषं लवणचित्रकम् ।
धान्याभ्रकं रसं सर्वं मर्दयेदारनालकैः ॥११.२८॥
नष्टपिष्टं तु तत्पात्यं तिर्यग्यन्त्रे दृढाग्निना ॥११.२९॥
{निरोधनम्}
लवणेनाम्बुपिष्टेन हण्डिकान्तर्गतं रसम् ।
आच्छाद्याथ जलं किंचित्क्षिप्त्वा श्रावेण रोधयेत् ।
ऊर्ध्वं लघुपुटं देयं लब्ध्वाप्यधो भवेद्रसः ॥११.३०॥
{दीपनम्}
त्रिक्षारं पञ्चलवणं भूखगं शिग्रुमूलकम् ।
स्वर्णपुष्पी च कासीसं मरिचं राजिका मधु ॥११.३१॥
क्षीरकन्दो जया कन्या विजया गिरिकर्णिका ।
काकजङ्घा शोणपुष्पी पातालगरुडी कणा ॥११.३२॥
वन्ध्याकर्कोटकी वह्निर्व्यस्तं वाथ समस्तकम् ।
पेषयेदम्लवर्गेण तद्द्रवैर्मर्दयेद्रसम् ॥११.३३॥
दिनान्ते बन्धयेद्वस्त्रे दोलायन्त्रे त्र्यहं पचेत् ।
पूर्वद्रावैर्घटे पूर्णे ग्रासार्थी जायते रसः ॥११.३४॥
{अनुवासनम्}
दीपितं रसराजं तु जम्बीररससंयुतम् ।
दिनैकं धारयेद्घर्मे मृत्पात्रे वासितो भवेत् ॥११.३५॥
स्वेदनादिशुभकर्मसंस्कृतः सप्तकञ्चुकविवर्जितो भवेत् ।
अष्टमांशं अवशिष्यते तदा शुद्धसूत इति कथ्यते बुधैः ॥११.३६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:51.4900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

partially balanced arrays

  • अंशतः संतुलित रचना 
RANDOM WORD

Did you know?

गणेश गीता कोणी वाचावी ?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.