TransLiteral Foundation

रसरत्नाकर - प्रकरण ३.१५

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ३.१५
गर्भयोग्यमथ बीजसाधनमनेकयोगतो रञ्जने हितम् ।
जारितस्य नरपारदस्य वै तत्समस्तमधुना निगद्यते ॥१५.१॥
{बीजः: प्रेपरतिओन्}
गंधकं माक्षिकं नागं सर्वं तुल्यं विचूर्णयेत् ।
त्रिगुणं वाहयेत्स्वर्णं द्रावितं तु धमन्धमन् ॥१५.२॥
पूतिबीजमिदं स्थूलं गर्भे द्रवति तत्क्षणात् ॥१५.३॥
{बीजः: प्रेपरतिओन्}
नागं स्वर्णं समं ताप्यं शिलाचूर्णं क्षिपन्क्षिपन् ।
जीर्णे नागे पुनर्देयं एवं वारत्रयं शनैः ।
एतद्बीजं द्रवत्येव रसगर्भे तु मर्दनात् ॥१५.४॥
{बीजसाधनं (३)}
ताप्यसत्त्वं सुवर्णं च धमेत्ताप्यं क्षिपन्क्षिपन् ।
इत्येवं त्रिगुणं वाह्यं ताप्यसत्त्वं च हाटके ।
तद्बीजं रसराजस्य गर्भे द्रवति तत्क्षणम् ॥१५.५॥
{बीजसाधन (४)}
ताप्यसत्त्वं सुवर्णं च समांशं द्रावयेत्ततः ।
कण्टवेधीकृतं पत्रं गंधेन लवणेन च ॥१५.६॥
क्षिप्त्वा साम्लेन तत्पच्यात्पुटे हेमावशेषितम् ।
एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥१५.७॥
{बीजसाधन (५)}
सैन्धवेन समं ताप्यमम्लैर्मर्द्यं पुटे पचेत् ।
पुनर्मर्द्यं पुनः पाच्यं यावद्द्वादशवारकम् ॥१५.८॥
अस्य तुल्यं मृतं नागं सर्वमम्लेन पेषयेत् ।
अनेन स्वर्णपत्राणि लिप्त्वा लिप्त्वा धमेद्दृढम् ॥१५.९॥
द्रुतं च वापयेत्तं तु सप्तवारं पुनः पुनः ।
एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥१५.१०॥
{बीजसाधन (६)}
शिला सौवर्चलं ताप्यगंधकासीसटंकणम् ।
मर्दयेच्चणकाम्लैश्च सर्वमेतद्दिनावधि ॥१५.११॥
रसस्यैतत्षोडशांशं दत्त्वा बीजं च दापयेत् ।
मुच्यते यत्र यत्रैव तत्तद्द्रवति तत्क्षणात् ॥१५.१२॥
{मेर्चुर्यः: ग्रास ओफ़् अ बीज}
अपामार्गपलाशोत्थभस्मक्षारं समाहरेत् ।
टंकणं च यवक्षारं कासीसं च सुवर्चलम् ॥१५.१३॥
सामुद्रं सैंधवं राजी माक्षिकं नवसारकम् ।
कर्पूरं कांजिकं तुल्यं स्नुह्यर्कक्षीरमर्दितम् ॥१५.१४॥
मूषालेपमनेनैव कृत्वा कुर्याद्बिडेन च ।
लेपमङ्गुलमानेन मूषायन्त्रमिदं भवेत् ॥१५.१५॥
गर्भद्रावितबीजात्तु सूतमत्र विनिक्षिपेत् ।
रुद्ध्वा स्वेद्यं दिनैकं तु कारीषाग्नौ ग्रसत्यलम् ॥१५.१६॥
{मेर्चुर्य्(?):: रञ्जन (?)}
ताप्यसत्त्वाभ्रयोः सत्त्वं द्वंद्वितं द्रावयेत्पुनः ।
मृतशुल्बं ताप्यचूर्णं तस्मिन्वाह्यं शनैः शनैः ॥१५.१७॥
त्रिगुणे वाहिते तस्मिन्रञ्जितं वाहितं तु तत् ॥१५.१८॥
{मेर्चुर्यः: रञ्जन (ओफ़् ~)}
गोमूत्रै रक्तवर्गं तु पिष्ट्वा तेनैव भावयेत् ।
हिङ्गुलं माक्षिकं गंधं शिलाचूर्णं समं समम् ॥१५.१९॥
भावितं सप्तवाराणि शोष्यं पेष्यं पुनः पुनः ।
तीक्ष्णं ताम्रं समं चूर्ण्य पूर्ववद्द्वंद्वमेलितम् ॥१५.२०॥
तस्मिन्द्रुतं पूर्वचूर्णं वापयित्वाथ सेचयेत् ।
रक्तवर्गसमायुक्ते तैले ज्योतिष्मतीभवे ।
इत्येवं दशधा कुर्यात्स्यादिदं रसरञ्जकम् ॥१५.२१॥
{रसरञ्जकं (३)}
रक्तवर्गेण गोमूत्रैर्भावयेद्दरदं त्रिधा ।
समांशे विमले ताम्रे द्राविते वाहयेद्धमन् ।
सप्तधा दरदं तं तु स्यादिदं रसरञ्जकम् ॥१५.२२॥
{रसरञ्जकं (४)}
स्वर्णनागं व्योमसत्त्वं समांशं द्वंद्वमेलितम् ।
शिला गैरिकं माक्षीकं रसकं रक्तवर्गकम् ॥१५.२३॥
समांशं चूर्णयेत्सर्वं वापो देयो ह्यनेन वै ।
पूर्वद्वंद्वितखोटस्य द्रावितस्य पुनः पुनः ॥१५.२४॥
दशवारं कृते वापे रञ्जकोऽयं रसस्य च ॥१५.२५॥
{लेअद्=> गोल्द्}
यवचिञ्चारसैर्भाव्या रक्तवर्णा मनःशिला ।
विंशवारं प्रयत्नेन तेन कल्केन लेपयेत् ॥१५.२६॥
नागपत्रं पुटे पच्याद्यावच्चूर्णमुपागतम् ।
रसकस्य तु भागांस्त्रीन्भागैकं दरदस्य च ॥१५.२७॥
शिलागंधविषाणां च त्रयाणामेकभागकम् ।
पेषयेन्मातुलुंगाम्लैस्तेन कल्केन लेपयेत् ॥१५.२८॥
मूषागर्भे क्षिपेत्तत्र पूर्वनागं क्षिपेत्ततः ।
द्रुतं यावत्समुद्धृत्य लिप्त्वा मूषां पुनर्धमेत् ॥१५.२९॥
इत्येवं सप्तधा धाम्यं नागं स्वर्णनिभं भवेत् ।
{तारारिष्ट, लेअद्, चोप्पेर्=> गोल्द्}
पीताभ्रकस्य सत्त्वं तु पूर्वनागं च तत्समम् ॥१५.३०॥
द्वंद्वितं पूर्वयोगेन ह्यभिषिक्तं च कारयेत् ।
समुखे सूतराजे तु पूर्ववत्षड्गुणं क्रमात् ॥१५.३१॥
ततस्तस्य रसेन्द्रस्य गर्भद्रावणबीजकम् ।
पादांशं दापयेत्खल्वे मातुलुंगद्रवैः सह ॥१५.३२॥
मर्दयेच्चणकाम्लैर्वा गर्भद्रावणकेन वा ।
द्रवत्येव तु तद्गर्भे मूषायन्त्रेऽथ जारयेत् ॥१५.३३॥
इत्येवं द्रावितं जार्यं यावद्बीजसमं रसे ।
सारणादित्रयेणान्तं पूर्ववत्कारयेत्क्रमात् ॥१५.३४॥
तारारिष्टमहिं शुल्बं यथेष्टैकं तु वेधयेत् ।
सहस्रांशेन तेनैव दिव्यं भवति कांचनम् ॥१५.३५॥
{चन्द्रार्क => गोल्द्}
स्वर्णेन द्वंद्वितं वज्रं पूर्ववच्चाभिषेकितम् ।
जारयेत्समुखे सूते समांशं अभ्रसत्त्ववत् ॥१५.३६॥
जारितं जारयेत्तेन स्वर्णवज्रेण वै त्रिधा ।
मुखं बद्ध्वा रसं बद्ध्वा क्रामणेन तु योजयेत् ।
चंद्रार्के तु सहस्रांशं दिव्यं भवति कांचनम् ॥१५.३७॥
{गन्धनागद्रुतिः}
वृषस्य मूत्रमादाय गजस्य महिषस्य वा ।
तन्मध्ये सूतनागं तु द्रावितं सप्तधा क्षिपेत् ॥१५.३८॥
ततस्तस्यैव पत्राणि कण्टवेध्यानि कारयेत् ।
गंधकं चूर्णितं शुद्धं पत्राणां तु चतुर्गुणम् ॥१५.३९॥
अलक्तकेन संसिक्तं कार्पासपत्रवत्कृतम् ।
तस्य शुष्कस्य पृष्ठे तु नररोमाणि दापयेत् ॥१५.४०॥
तत्पृष्ठे चूर्णितं गंधं ततो नागदलानि च ।
गंधकं नररोमाणि तत्कार्पासं च पृष्ठतः ॥१५.४१॥
अनेन कारयेद्वर्तिं बहिः सूत्रेण वेष्टयेत् ।
करंजतैलमध्ये तु दशरात्रं तु धारयेत् ॥१५.४२॥
प्रज्वाल्य चोभयाग्रे तु द्रुतं तैलं समाहरेत् ।
भाण्डे सकांजिके चैव तस्मादुद्धृत्य रक्षयेत् ।
काचकूप्यां प्रयत्नेन गन्धनागद्रुतिस्त्वियम् ॥१५.४३॥
{मेर्चुर्यः: प्रेपरतिओन्फ़ोर्जारण}
शुद्धसूतं दृढं मर्द्यं रजनीचूर्णसंयुतम् ।
चूर्णं यावद्भवेत्कृष्णं क्षालयेदुष्णकांजिकैः ॥१५.४४॥
एवं त्रिसप्तधा कुर्यात्ततो जारणमारभेत् ।
{मेर्चुर्यः: गर्भद्रुति}
अम्लैर्मनःशिलां पिष्ट्वा तेन लेपं तु कारयेत् ॥१५.४५॥
गोस्तनाकारमूषायामस्यां पूर्वरसं क्षिपेत् ।
चतुःषष्ट्यंशतः पूर्वा देया गंधद्रुतिः क्रमात् ॥१५.४६॥
रुद्ध्वा मूषां विशोष्याथ गर्ते गोमयपूरिते ।
मूषार्धं विन्यसेत्तत्र करीषतुषवह्निना ॥१५.४७॥
कपोताख्यं पुटं देयं स्वांगशीतं समुद्धरेत् ।
दद्यादजीर्णशङ्कायां सिंहवल्लीरसस्य तु ॥१५.४८॥
चतुर्बिन्दुप्रमाणं तु तद्वद्गर्ते पुटे पचेत् ।
एवं पुनः पुनर्जार्यं गन्धनागद्रुतिः क्रमात् ॥१५.४९॥
त्रिगुणं जारितः सूतो भवेज्जांबूनदप्रभः ।
अस्य सूतस्य पादांशं पक्वबीजं सुचूर्णितम् ।
मर्दयेच्चणकाम्लेन यामाद्गर्भे द्रवत्यलम् ॥१५.५०॥
{गोल्दः: द्रावण}
मूषायन्त्रगतं द्राव्यं पूर्ववत्स्वेदनेन वै ।
जीर्णे बीजं पुनर्दत्त्वा द्राव्यं गर्भेऽथ जारयेत् ॥१५.५१॥
एवं बीजं समं जार्यं पक्वं वा रञ्जने क्रमात् ।
गर्भं द्रावणबीजं वा यथेष्टैकं तु जारयेत् ॥१५.५२॥
ततस्तु त्रिगुणं रीतिस्तारं वाह्यं धमन्धमन् ।
तारारिष्टं भवेत्तत्तु कृत्वा पत्रं प्रलेपयेत् ॥१५.५३॥
सक्षौद्रं पूर्वसूतेन द्वात्रिंशांशेन तत्पुनः ।
वेष्ट्यमर्कदलैः पच्याद्दोलायंत्रे सकांजिकैः ॥१५.५४॥
दशाहान्ते समुद्धृत्य द्रावितं कांचनं भवेत् ॥१५.५५॥
{मेर्चुर्यः: जारण wइथभ्रसत्त्व}
समुखे निर्मुखे वाथ रसराजे तु जारयेत् ।
पूर्ववद्व्योमचूर्णं तु चारितं जारयेत्क्रमात् ॥१५.५६॥
चतुःषष्टिगुणं यावत्ततः सार्यं च जारयेत् ।
चारयेज्जारयेत्तद्वत्यावत्षष्टिगुणं भवेत् ।
ततो माक्षिकसत्वं च पादांशं तत्र जारयेत् ॥१५.५७॥
{मेर्चुर्यः: गर्भद्रुति}
महारसैश्चोपरसैर्यत्किंचित्सत्वमाहरेत् ।
तन्मध्यगं तु पादांशं सूते दत्त्वा विमर्दयेत् ॥१५.५८॥
तप्तखल्वे चतुर्यामं गर्भद्रावकसंयुतम् ।
तत्तत्सर्वं द्रवत्येव मूषायन्त्रेऽथ जारयेत् ॥१५.५९॥
इत्येवं सर्वसत्वानि द्रावयोगाच्च जारयेत् ।
{मेर्चुर्यः: गर्भद्रुति, जारण}
रञ्जितं पक्वबीजं च शुद्धं ताम्रं च हाटकम् ॥१५.६०॥
गर्भद्रावणबीजं च मृततीक्ष्णं समं समम् ।
सर्वं च मर्दितं खोटं कृत्वा धाम्यं पुनः पुनः ॥१५.६१॥
क्षिपेन्माक्षिकचूर्णं च ताम्रे तीक्ष्णे क्षयं गते ।
समुद्धृत्य तु तद्बीजं पादांशं पूर्वपारदे ॥१५.६२॥
पूर्ववद्द्रावयेद्गर्भे मूषायन्त्रेऽथ जारयेत् ।
द्वात्रिंशद्गुणितं बीजं क्रमेणानेन जारयेत् ।
जीर्णे गर्भे द्रुतं सूतं रञ्जयेत्तन्निगद्यते ॥१५.६३॥
{मेर्चुर्यः: जारण}
गंधेन यन्मृतं नागं पक्वबीजस्य साधनम् ।
तन्नागं हेमसंतुल्यमंधमूषागतं धमेत् ॥१५.६४॥
तच्चूर्णमभिषिक्तं च पादांशं दापयेद्रसे ।
मर्दयेदम्लवर्गेण गर्भद्रावणकेन वा ॥१५.६५॥
तप्तखल्वे चतुर्यामं मूषायन्त्रेऽथ जारयेत् ।
अनेन क्रमयोगेन जारयेत्तं कलागुणम् ॥१५.६६॥
{चोप्पेर्=> गोल्द्}
मृतं शुल्बं मृतं तीक्ष्णं स्वर्णे वाह्यं तु षड्गुणम् ।
एतद्बीजं ततो जार्यं क्रमाद्यावच्चतुर्गुणम् ॥१५.६७॥
पूर्ववद्द्रावितं खल्वे मूषायन्त्रे च पूर्ववत् ।
बद्धरागस्तदा सूतो जायते कुंकुमप्रभः ॥१५.६८॥
इत्येवं रञ्जनं सूते कृत्वा सार्यं त्रिधा क्रमात् ।
सारितं जारयेन्मूत्रे मूषायन्त्रे पुटन्पुटन् ॥१५.६९॥
जारितं सारयेत्पश्चात्सारितं चैव जारयेत् ।
अनेन क्रमयोगेन सप्तशृङ्खलिकाक्रमात् ॥१५.७०॥
ततस्तस्य मुखं बद्ध्वा पूर्ववद्बन्धयेच्च तम् ।
क्रामणेन समायुक्तं कोटिभागेन वेधयेत् ।
द्रुतं ताम्रं तु तद्दिव्यं भवेत्स्वर्णं न संशयः ॥१५.७१॥
{सिल्वेर्=> गोल्द्}
हिंगुलोत्थितसूतं च भूनागैर्मर्दयेत्त्र्यहम् ।
तप्तखल्वे ततः पात्यं ऊर्ध्वलग्नं समाहरेत् ॥१५.७२॥
पादांशं जारयेत्तस्य द्वंद्वितं व्योमसत्त्वकम् ।
ततो माक्षिकसत्वं च पादांशं तत्र जारयेत् ॥१५.७३॥
पूर्ववद्द्वंद्वयोगेन मात्रापाकं च पूर्ववत् ।
महारसैश्चोपरसैर्यत्सत्त्वं पातितं पुरा ॥१५.७४॥
तत्सत्त्वं च पृथक्पादं सूते दत्त्वा विमर्दयेत् ।
तप्तखल्वे दिनैकं तु गर्भद्रावणसंयुतम् ॥१५.७५॥
द्रवत्येव ततो जार्यं मूषायन्त्रं तु पूर्ववत् ।
जीर्णे जीर्णे पुनर्देयं प्रतिसत्त्वं क्रमेण वै ॥१५.७६॥
ततस्तथैव पादांशं गर्भद्रावणबीजकम् ।
पूर्ववद्द्रावितं जार्यं क्रमेणानेन षड्गुणम् ॥१५.७७॥
सारणादिक्रामणान्तं तारे वेधं प्रदापयेत् ।
सहस्रांशेन तत्स्वर्णं भवेज्जांबूनदप्रभम् ॥१५.७८॥
{मेर्चुर्यः: जारण ओफ़् सुल्फ़ुर्}
शाकवृक्षस्य पत्राणां कोमलानां द्रवं हरेत् ।
द्रवं च ब्रह्मपुष्पाणां विष्णुक्रान्ताद्रवं तथा ॥१५.७९॥
द्रवैरेभिः शुद्धगंधं भावयेद्दिनसप्तकम् ।
इष्टिकागर्भमध्ये तु सुशुद्धं पारदं क्षिपेत् ॥१५.८०॥
मुखं स्वच्छेन वस्त्रेण छादयेत्तस्य पृष्ठतः ।
दशांशं पूर्वगंधं तु दत्त्वा श्रावेण रोधयेत् ॥१५.८१॥
पृष्ठे लघुपुटं देयं जीर्णे गंधं पुनः क्षिपेत् ।
तद्वज्जार्यं पुटेनैव पुनर्देयं च गंधकम् ॥१५.८२॥
एवं जार्यं समं गंधं ततो यंत्रात्समुद्धरेत् ।
अथवा गंधतुल्यं तु जार्यं तेन रसस्य तु ॥१५.८३॥
जारयेत्पूर्वयोगेन काचकूप्यन्तरेऽपि वा ॥१५.८४॥
{चोप्पेर्, लेअद्=> गोल्द्}
अस्यैव रसराजस्य समांशं व्योमसत्त्वकम् ।
द्वंद्वितं पूर्ववज्जार्यं मात्रायुक्तिश्च पूर्ववत् ॥१५.८५॥
ततो रसकसत्वं च जार्यं अष्टगुणं रसे ।
तीक्ष्णशुल्बोरगं चैव क्रमादष्टगुणं रसे ॥१५.८६॥
प्रत्येकं जारयेद्यत्नादभिषिक्तं तु पूर्ववत् ।
पक्वबीजं ततो जार्यं द्वात्रिंशद्गुणितं क्रमात् ॥१५.८७॥
अथास्य रसराजस्य गर्भद्रावणबीजकम् ।
तप्तखल्वे समं दत्त्वा गर्भद्रावकसंयुतम् ॥१५.८८॥
मर्दयेद्दिनमेकं तु गर्भे द्रवति तद्द्रुतम् ।
मूषायन्त्रे ततो जार्यं पूर्ववत्स्वेदनेन वै ॥१५.८९॥
तज्जीर्णे रंजकं बीजं तुल्यं दत्त्वाथ पूर्ववत् ।
द्रावयेत्द्रवगर्भे तु तद्वज्जार्यं क्रमेण वै ॥१५.९०॥
यावच्चतुर्गुणं यत्नाद्द्रुतं गर्भेऽथ जारयेत् ।
अनेन क्रमयोगेन भवेल्लाक्षानिभो रसः ॥१५.९१॥
ततस्तं पक्वबीजेन सारितं जारयेत्क्रमात् ।
प्रतिसारणकं कुर्याज्जारयेच्चाथ सारयेत् ॥१५.९२॥
सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् ।
क्रामणेन समायुक्तं शुल्बे वेधं प्रदापयेत् ॥१५.९३॥
नागे वा कोटिभागेन दिव्यं भवति कांचनम् ॥१५.९४॥
{रसबीज}
तिन्तिणीब्रह्ममाण्डूकीद्रवैर्धान्याभ्रकं क्रमात् ।
मर्दयेत्त्रिदिनं चाथ भावयेत्तिंतिणीद्रवैः ॥१५.९५॥
घर्मे दिनत्रयं यावत्शोष्यं पेष्यं पुनः पुनः ।
मृत्खर्परे शुद्धसूतं क्षिप्त्वा सोष्णं तु कारयेत् ॥१५.९६॥
गंधकं त्रुटिमात्रं तु पूर्वाभ्रं त्रुटिमात्रकम् ।
दत्त्वा दत्त्वा च मृद्वग्नौ पचेत्स्यादभ्रपिष्टिका ॥१५.९७॥
एकवीरारसैर्भाव्यं गंधं घर्मे त्रिसप्तधा ।
तं गंधकं स्निग्धभाण्डे द्राव्य मृद्वग्निना क्षिपेत् ॥१५.९८॥
तन्मध्ये पूर्वपिष्टिं तु दोलायंत्रे विधौ पचेत् ।
षड्गुणं जारयेदेवं गंधकं मृदुवह्निना ॥१५.९९॥
तद्रसं भागमेकं तु पक्वबीजस्य षोडश ।
भागाः सुरञ्जितस्यैव चूर्णीकृत्वाथ द्वंद्वयेत् ॥१५.१००॥
पूर्ववद्द्वंद्वलिप्तायां मूषायां धमनेन च ।
रसबीजमिदं ख्यातं चूर्णितं चाभिषेचयेत् ॥१५.१०१॥
{मेर्चुर्यः: जारणः: wइथ्रसबीज}
अथातः शुद्धसूतस्य काचकूप्यां गतस्य च ।
पूर्ववद्भावितं गंधं जार्यं तस्यैव षड्गुणम् ॥१५.१०२॥
जारयेद्वा तुलायंत्रे गौरीयंत्रक्रमेण वै ।
तस्यैव रसराजस्य पादांशं रसबीजकम् ॥१५.१०३॥
पूर्ववद्द्रावयेद्गर्भे मूषायन्त्रेऽथ जारयेत् ।
अनेन क्रमयोगेन द्राव्यं जार्यं पुनः पुनः ।
द्विरष्टगुणितं यावद्रसबीजं रसस्य वै ॥१५.१०४॥
{सिल्वेर्=> गोल्द्}
भागद्वयं शुद्धतारं भागैकं शुद्धहाटकम् ।
समावर्त्य तु तत्पत्रं कृत्वा पूर्वरसेन वै ॥१५.१०५॥
लेपयेन्मधुनाक्तेन सहस्रांशेन तत्पुनः ।
वेष्टयेदर्कजैः पत्रैर्दोलायंत्रे सकांजिके ॥१५.१०६॥
दशाहं पाचितं द्राव्यं दिव्यं भवति कांचनम् ॥१५.१०७॥
{मेर्चुर्यः: कोटिवेधिन्}
सुशुद्धं नागचूर्णं तु पूर्ववच्चाभिषेकितम् ।
समुखे सूतराजेन्द्रे जारयेदभ्रसत्ववत् ॥१५.१०८॥
षट्त्रिंशगुणितं यावत्तावज्जार्यं क्रमेण वै ।
गर्भद्रावणबीजं च पूर्ववद्द्रावितं क्रमात् ॥१५.१०९॥
जारयेत्त्रिगुणं तस्य बीजं यद्रंजकं पुनः ।
समं जार्यं पुनः जार्यं पक्वबीजेन वै क्रमात् ॥१५.११०॥
सप्तशृंखलिकायोगान्मुखं रुद्ध्वाथ बन्धयेत् ।
क्रामणेन समायुक्तं कोटिवेधी भवेद्रसः ॥१५.१११॥
{चोप्पेर्=> सिल्वेर्}
नागवज्जारयेद्बंगं षट्त्रिंशगुणितं क्रमात् ।
पूर्ववद्द्रावितं गर्भे तारबीजं तु जारयेत् ॥१५.११२॥
त्रिगुणं तु भवेद्यावत्ततस्तेनैव सारयेत् ।
सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् ॥१५.११३॥
क्रामणेन समायुक्तं ताम्रे वेधं प्रदापयेत् ।
कोटिभागेन तत्तारं भवेत्कुंदेन्दुसन्निभम् ॥१५.११४॥
{सिल्वेर्, चोप्पेर्, लेअद्=> गोल्द्}
समुखे निर्मुखे वाथ सूतराजे तु जारयेत् ।
द्वंद्वितं व्योमसत्वं तु यावदष्टगुणं तथा ॥१५.११५॥
ततो रसकसत्वं च जार्यं अष्टगुणं तथा ।
पक्वबीजं समांशं च जारयेदभ्रसत्ववत् ॥१५.११६॥
स्वर्णेन द्वंद्वितं वज्रं समांशेन तु जारयेत् ।
पूर्ववत्कच्छपे यन्त्रे बिडयोगेन वै तथा ॥१५.११७॥
गर्भद्रावणबीजं च पादांशं तप्तखल्वके ।
मर्दयेन्मातुलिंगाम्लैर्गर्भे द्रवति तत्क्षणात् ॥१५.११८॥
गर्भद्रावणयोगं वा दत्त्वा द्रवति मर्दनात् ।
मूषायन्त्रेण तत्सूतं पचेत्कारीषवह्निना ॥१५.११९॥
जीर्णे बीजं पुनर्द्राव्यं जारयेद्द्रावयेत्पुनः ।
एवं चतुर्गुणं जार्यं गर्भे द्रावणबीजकम् ॥१५.१२०॥
ततस्तु रंजकं बीजं तद्वज्जार्यं समं क्रमात् ।
सारणादिक्रामणान्तं पूर्ववत्कारयेत्क्रमात् ॥१५.१२१॥
तारे ताम्रे भुजंगे वा कोटिभागेन योजयेत् ।
करोति कनकं दिव्यं देवाभरणमुत्तमम् ॥१५.१२२॥
{मेर्चुर्यः: धूमवेधिन्; चोप्पेर्=> गोल्द्}
समुखे सूतराजेन्द्रे जारयेदभ्रसत्ववत् ।
स्वर्णादिमुण्डपर्यन्तं अष्टलोहं पृथक्क्रमात् ॥१५.१२३॥
प्रत्येकमष्टगुणितं अभिषेकं च पूर्ववत् ।
अभ्रादिसत्वं यत्सर्वं प्रत्येकं त्रिगुणं क्रमात् ॥१५.१२४॥
पृथग्जार्यं कूर्मयन्त्रे बिडयोगेन पूर्ववत् ।
ततस्तु पादपादांशं गर्भद्रावणबीजकम् ॥१५.१२५॥
पूर्ववद्द्रावितं जार्यं त्रिगुणं तु यदा भवेत् ।
ततस्तु पक्वबीजेन सारयेज्जारयेत्त्रिधा ॥१५.१२६॥
इत्येवं सप्तधा कुर्यान्मुखं बद्ध्वाथ बन्धयेत् ।
धूमावलोकवेधी स्यात्ताम्रं भवति कांचनम् ॥१५.१२७॥
एवं चारणजारणं बहुविधं कृत्वा रसे संक्रमं गर्भे द्रावणबीजकं च विधिना गर्भद्रुतं कारयेत् ।
जीर्णे रंजनसारणामुखमथो बद्ध्वाथ बद्ध्वा रसं कुर्यात्कांचनमभ्रमेरुसदृशं दानाय भोगाय वै ॥१५.१२८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:52.8300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

theologist

  • ईश्वरशास्त्रवेत्ता, धर्मशास्त्रवेत्ता 
  • पु. ईश्वरशास्त्रवेत्ता 
RANDOM WORD

Did you know?

What is Gotra?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.