TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण १.६

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत.  या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ६
{अभ्रः: अशुद्धः: मेदिच्. प्रोपेर्तिएस्}
अशुद्धाभ्रं निहन्त्यायुर्वर्धयेन्मारुतं कफम् ।
अहतं छेदयेद्देहं मन्दाग्निक्रिमिदायकम् ॥६.१॥
{अभ्रः: सुब्त्य्पेस्}
कृष्णं पीतं सितं रक्तं योज्यं योगे रसायने ।
पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधम् ॥६.२॥
पिनाकाद्यास्त्रयो वर्ज्या वज्रं यत्नात्समाहरेत् ।
{पिनाकः: परीक्षा}
मुञ्चत्यग्नौ विनिक्षिप्ते पिनाको दलसंचयम् ॥६.३॥
अज्ञानाद्भक्षणं तस्य महाकुष्ठप्रदायकम् ।
{दर्दुर}
दर्दुरो निहितो ह्यग्नौ कुरुते दर्दुरध्वनिम् ॥६.४॥
{नाग}
नागश्चाग्निगतः शब्दं फूत्कारं च विमुञ्चति ।
स च देहगतो नित्यं व्याधिं कुर्याद्भगन्दरम् ॥६.५॥
{वज्राभ्र}
वज्राभ्रकं वह्निसंस्थं न किंचिद्विकृतिं व्रजेत् ।
तस्माद्वज्राभ्रकं योज्यं व्याधिवार्द्धक्यमृत्युजित् ॥६.६॥
{धान्याभ्रकः: प्रोदुच्तिओन्}
धमेद्वज्राभ्रकं वह्नौ ततः क्षीरे निषेचयेत् ।
भिन्नपत्रं तु तं ज्ञात्वा मेघनादद्रवाम्लयोः ॥६.७॥
भावयेदष्टयामं तद्धान्याभ्रं कारयेत्सुधीः ।
{धान्याभ्रकः: प्रोदुच्तिओन्}
अथवाभ्रस्य भागौ द्वौ टङ्कश्चैकं जलैः सह ॥६.८॥
द्विदिनं स्थापयेत्पात्रे सूक्ष्मं कृत्वा प्रपेषयेत् ।
बद्ध्वा धान्ययुतं वस्त्रे मर्दयेत्काञ्जिकैः सह ॥६.९॥
अधो यद्गालितं सूक्ष्मं शुद्धं धान्याभ्रकं भवेत् ॥६.१०॥
{अभ्रः: मारणः: निश्चन्द्र}
पुनर्नवामेघनादद्रवैर्धान्याभ्रकं दिनम् ।
मर्द्यं गजपुटे पच्यात्पुनश्चिञ्चाथ सूरणैः ॥६.११॥
द्रवैर्मुस्तभवैर्मर्द्यं पृथग्देयं पुटत्रयम् ।
एवं मर्कदलैर्वेष्ट्यं देयं वा मोचसम्पुटे ॥६.१२॥
निश्चन्द्रं जायते ह्यभ्रं यथा दोषेषु योजयेत् ।
{अभ्रः: मारणः: निश्चन्द्र}
गोघृतैस्त्रिफलां क्वाथैः पक्त्वा च पूर्ववत्पचेत् ॥६.१३॥
पञ्चविंशत्पुटैरेव कासमर्द्याः द्रवैः पचेत् ।
देयं पुटत्रयं क्षीरैर्मर्दयेच्च पुटे पुटे ॥६.१४॥
निश्चन्द्रं जायते ह्यभ्रं जरामृत्युरुजापहम् ।
{अभ्रः: मारण}
धान्याभ्रकस्य भागैकं द्वौ भागौ टंकणस्य च ॥६.१५॥
पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् ।
स्वभावशीतलं चूर्णं सर्वरोगेषु योजयेत् ॥६.१६॥
{धान्याभ्रकः: मारण}
धान्याभ्रकमम्लंपिष्टं पुटे तप्तेऽम्लसेचनम् ।
तत्पिष्ट्वा धारयेत्खल्वे भाव्यमम्लारनालकैः ॥६.१७॥
तप्तं तप्तं चारनालैः पाच्यं शोध्यं पुनः पुनः ।
पुटे वा धमने पाच्यं विंशद्वारं पुनः पुनः ॥६.१८॥
तप्तं तप्तं क्षिपेद्दुग्धे पिष्ट्वाथ शोषयेत्पुनः ।
दुग्धतप्तं पुटं पच्यात्तप्तं दुग्धेन सेचयेत् ॥६.१९॥
एवं त्रिसप्तवाराणि शोष्यं पेष्यं पुटे पचेत् ।
पेषयित्वा पचेत्स्थाल्यां लौहदर्व्या विचालयेत् ॥६.२०॥
दुग्धस्थं च ततो दुग्धैः पुटे पच्यात्पुनः पुनः ।
एवं सप्तदिनं पच्याद्दिवा चैकं पुटे निशि ॥६.२१॥
तण्डुली वज्रवल्ली च तालमूली पुनर्नवा ।
चाङ्गेरी मरिचं चैव बलायाः पयसा सह ॥६.२२॥
एभिश्च पेषयेच्चाभ्रं प्रत्येकं तं त्र्यहं त्र्यहम् ।
स्थित्वा तप्ते पुटे पश्चात्प्रत्येकेन पुनः पुनः ॥६.२३॥
पिष्ट्वा पुनः पुटे घृष्टं कज्जलाभं मृतं भवेत् ॥६.२४॥
{अभ्रः: मारणः: निश्चन्द्र}
धान्याभ्रकस्य शुद्धस्य दशांशं मरिचं क्षिपेत् ।
पेषयेदम्लवर्गेण चाम्ले भाव्यं दिनत्रयम् ॥६.२५॥
तं शुष्कं सम्पुटे धाम्यं खदिराङ्गारकैर्दृढम् ।
ऊर्ध्वपात्रं निरूप्याथ सेचयेदम्लकेन तत् ॥६.२६॥
अगस्त्यशिग्रुवर्षाभूमूलैस्तं पत्रजै रसैः ।
पिष्ट्वाभ्रं सेचयेत्तेन यद्वान्याम्लरसेन च ॥६.२७॥
सितामध्वाज्यगोक्षीरैर्दध्नाम्लं पेष्यं अभ्रकम् ।
मत्स्याक्ष्याः करवीरायाः द्रवैः पिष्ट्वा त्रिधा पचेत् ॥६.२८॥
ततो गजपुरे पाच्यं निश्चन्द्रं जायतेऽभ्रकम् ।
{अभ्रः: मारणः: निश्चन्द्र}
धान्याभ्रकं द्रवैर्मर्द्यं मत्स्याक्षीतुलसीद्रवैः ॥६.२९॥
मूलजैः कोकिलाक्षस्य कुमारीश्वेतदूर्वयोः ।
व्याघ्रीकन्दपुनर्नवया दिनं एतैर्विमर्दयेत् ॥६.३०॥
कुञ्जराख्यैः पुटैः सप्त पिष्ट्वा पिष्ट्वा पचेत्पुनः ।
तद्वत्पञ्चामृतैः पाच्यं पिष्ट्वा पिष्ट्वा तु सप्तधा ॥६.३१॥
एवं निश्चन्द्रतां याति सर्वरोगेषु योजयेत् ॥६.३२॥
{अभ्रः: मारणः: निश्चन्द्र}
धान्याभ्रं टंकणं तुल्यं गोमूत्रैस्तुलसीदलैः ।
वाकुच्याः सूरणैरल्पैर्दिनं पिष्ट्वा पुटे पचेत् ॥६.३३॥
जयन्त्याश्च द्रवैः पश्चान्मर्द्यं मर्द्य त्रिधा पुटेत् ।
चतुर्गजपुटेनैवं निश्चन्द्रं सर्वरोगजित् ॥६.३४॥
{अभ्रः: मारण}
धान्याभ्रकं रविक्षीरैः रविमूलद्रवैश्च वा ।
मर्द्यं मर्द्यं पुटे पच्यात्सप्तधा म्रियते ध्रुवम् ॥६.३५॥
{अभ्रः: मारण}
धान्याभ्रकं तुषाम्लाम्लैरातपे स्थापयेद्दिनम् ।
यामं मर्द्यं चतुर्गोलं रुद्ध्वा गजपुटे पचेत् ॥६.३६॥
एवं गोक्षीरमध्यस्थं स्थाप्यं मर्द्य पुटे पचेत् ।
एवं कार्पासतोयेन स्थाप्यं पेष्यं पुटे पचेत् ॥६.३७॥
ततोऽम्लैश्चैव कार्पासैर्गवां क्षीरैः पुनः पुनः ।
घर्मपाकं मर्दनं च पुटं चैवं अनुक्रमात् ॥६.३८॥
एवं विंशत्पुटे प्राप्ते मृतो भवति निश्चितम् ॥६.३९॥
{अभ्रः: मृतः: अमृतीकरण}
सर्वेषां घातिताभ्राणाममृतीकरणं शृणु ।
त्रिफलोत्थकषायस्य पलान्यादाय षोडश ॥६.४०॥
गोमूत्रस्य पलान्यष्टौ मृताभ्रस्य पलान्दश ।
एकीकृत्य लौहपात्रे पाचयेन्मृदुवह्निना ॥६.४१॥
द्रवे जीर्णे समादाय सर्वं रोगेषु योजयेत् ।
{अभ्रः: मेदिच्. प्रोपेर्तिएस्}
अनुपानं विना ह्यभ्रं जरामृत्युरुजापहम् ॥६.४२॥
योजयेदनुपानैर्वा तत्तद्रोगहरं क्षणात् ।
मृतं चाभ्रं हरेद्रोगान्जरामृत्युमनेकधा ॥६.४३॥
सेवितं देहदार्ढ्यं च रूपवीर्यं विवर्धयेत् ॥६.४४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:44.6630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Head Wireless Mechanic

  • प्रमुख बिनतारी यांत्रिक 
RANDOM WORD

Did you know?

एखाद्या वास्तुला वास्तुशास्त्रानुसार कोणतेच उपाय नसल्यास, मग कांहीे उपाय आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site