संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्|

त्रयस्त्रिंशः पटलः

प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.


अथ सन्तानसंसिद्धिसमाकुलितचेतसाम् ।
तदुत्पत्तिकरं यागं प्रवक्ष्ये गृहमेधिनाम् ॥१॥

न चापुत्रस्य लोकोऽस्ति पितरोऽधः पतन्ति च ।
तस्मात्तु सकलोपायैर्यतेतापत्यसिद्धये ॥२॥

देर्विषपितृपूजासु निरतानामभक्तितः ।
गुरुमातृपितृश्राद्धवञ्चकानां च नित्यशः ॥३॥

रैथभ्योऽर्थमदातृणां विद्यमानेऽर्थसञ्चये ।
अदत्त्वैवातिथिभ्योऽन्नं भोक्तॄणां पापचेतसाम् ॥४॥

हरिशङ्करयोः पादपद्मार्चाविरतात्मनाम् ।
स्वभार्यानिन्दकानां च लोकवेदविरोधिनाम् ॥५॥

इत्यादिदोषदुष्टानां पापानां गृहमेधिनाम् ।
दुष्प्रतिग्रहदोषाद्वा जायते त्वनपत्यया ॥६॥

एवमादिकदोषापनोदनी सुतसिद्धिदा ।
अशेषपापहन्त्री च वक्ष्यते यजनक्रिया ॥७॥

पुत्राप्तये गृहस्थो दीक्षाविधिना चतुर्दशीरात्रिम् ।
सह पत्न्या गमयित्वा कृत्वा पौर्वाह्निकीः क्रियाः सर्वाः ॥८॥

संयोज्य किञ्चन यथाविधि पञ्चगव्यं
सङ्कोचकेन मनुना प्रतिमथ्य वार्णम् ।
सम्मन्त्र्य चाष्टशतकं समवद्यभूत-
मन्त्रैः पिबेत्स्वयमसावपि गर्भधात्री ॥९॥

ततोऽग्निमाधाय चरुं च कृत्वा
सज्र्ल्प्य तद्दक्षिणमुत्तरं च ।
भागं क्रमात्पैतृकदैविकं त-
त्पित्र्यं तु पूर्वं जुहुयात्क्रमेण ॥१०॥

स्मृत्वा निजं पितरमप्यधरा निषण्णं
सान्नाय्य पिण्डयुगलं घृतसम्प्लुतं तत् ।
हुत्वा स्रुवेण घृतसम्पुटितं तथैव
मन्त्री पितामहमथ प्रपितामहं च ॥११॥

व्याहृतीभिरथ पक्वहोमतः सर्वतः प्रतिजुहोतु र्सिपषा ।
मातृवर्गगुरुतत्पितृद्वयं पूर्ववत्समवदिष्य साधकः ॥१२॥

कलायुतैः षोडशमूर्तिमन्त्रैव्र्यस्तैरथाष्टाक्षरजैश्च वर्णैः ।
अष्टौ समस्तेन च तेन पञ्चाक्षरेण चाष्टाक्षरवज्जुहोतु ॥१३॥

पक्वाहुतीनामपि वर्णसङ्ख्यं चतुर्गुणं चापि घृताहुतीनाम् ।
हुत्वावदानद्वितयं च पुंस्त्रीभेदप्रभिन्नं हविषा करोतु ॥१४॥

पञ्चाक्षरेण पुरुषात्मकमन्यदन्य-
वर्णेन चाष्टशतयुग्ममथ प्रजप्य ।
संयोज्य तद्युगलमप्यभिमन्त्र्य विष्णु-
र्योन्यादिकेन मनुना च कर्पिदसङ्ख्यम् ॥१५॥

पुरुषः पुरुषात्मकं प्रकृत्यात्मकमन्याथ समाहितोपयुज्य ।
अवदानयुगं क्रमान्मनस्वी पुनराचम्य समर्चयेद्धुताशम् ॥१६॥

गुरवेऽप्यथ दक्षिणां प्रदत्त्वानलमुद्वास्य च भोजयेद्विजातीन् ।
प्रतिपर्वकमेवमेकवृद्ध्या मतिमान् पकुरकं प्रपूरयीत ॥१७॥

एकहासादन्यमब्दं द्विजाती-
न्सम्भोज्यान्यं पूरयेदेकवृद्ध्या ।
सम्पूर्यमाणादेवमेव त्रिकाब्दा-
दर्वाक्पुत्रो जायते दैवशक्त्या ॥१८॥

पितृदेवताप्रसादान्मेधायुःकान्तिसंयुतो विद्वान् ।
लक्ष्मीतेजोयुक्त धर्मरुचिर्भवति सन्ततेः कर्ता ॥१९॥

समुनिसुरपितृभ्यो ब्रह्मचर्येण यज्ञै-
स्त्रिविधमृणमपत्यैश्चैव सम्मोचयेद्यः ।
श्रुतिवचनकृदस्मिन्वापि लोके परस्मि-
न्निति स तु गृहमेधी पूज्यते साधुलोकैः ॥२०॥

वर्णादिको हलोमन्त्रः सङ्कोचाख्यो ध्रुवादिकः ।
मन्त्रः स्याद्भूतमनवः स्युश्च भूतात्मनात्मभिः ॥२१॥

अथो हिताय जगतां प्रथितं शितचेतसाम् ।
अद्य सङ्क्षिप्य वक्ष्यामि लक्षणं गुरुशिष्ययोः ॥२२॥

स्वच्छः स्वच्छन्दसहितोऽतुच्छधीः सक्तहृच्छयः ।
देशकालादिविद्देशे देशे देशिक उच्यते ॥२३॥

अग्रगण्यः समग्रज्ञो निग्रहानुग्रहक्षमः ।
षड्वर्गविजयव्यग्रोऽनुग्रो विगतविग्रहः ॥२४॥

शुक्लशुक्लांशुकोत्कृष्टकर्मा विक्लवमानसः ।
वेदवेदाङ्गविद्वादी वेदिताविदितागमः ॥२५॥

इष्टदोऽनिष्टसंहर्ता दृष्टादृष्टसुखावहः ।
रतोऽविरतमर्चासु परं पुरमुरद्विषोः ॥२६॥

शान्तो दान्तः शान्तमना नितान्तं कान्तविग्रहः ।
स्वदुःखकरणेनापि परं परसुखोद्यतः ॥२७॥

ऊहापोहविदव्यग्रो लोभमोहविर्विजतः ।
अज्ञानुकम्प्यविज्ञातज्ञानो ज्ञातपरेङ्गितः ॥२८॥

निरंशसांशवित्सर्वसंशयच्छिदसंशयः ।
नयविद्विनयोपेतो विनीतो न चिरात्मवान् ॥२९॥

व्याधिप्रापितव्याधिः समाधिविधिसंयुतः ।
श्रुतिधीरोऽतिधीरश्च वीरो वाक्यविशारदः ॥३०॥

वर्गोपेतसमारम्भो गभीरो दम्भर्विजतः ।
आदर्श इव विद्यानां न तु दर्शनदूषकः ॥३१॥

असौ मृग्यश्च दृश्यश्च सेव्यश्चाभीष्टमिच्छता ।
शिष्यस्तदावर्जनकृद्देहेन द्रविणेन च ॥३२॥

तस्य पादारविन्दोत्थरजःपटलरूषणः ।
स्नानमप्राप्य न प्राप्यं प्रायो बुद्धिमतेप्सितम् ॥३३॥

नित्यशः कायवाक्चित्तैस्त्रिद्व्येकाब्दादिकावधि ।
परिचर्यापरः शिष्यः स्यात्सुसंयतमानसः ॥३४॥

तं तथाविधमालक्ष्य सदावितथवादिनम् ।
मातृतः पितृतः शुद्धं बूद्धिमन्तमलोलुपम् ॥३५॥

अस्तेयवृत्तिमास्तिक्ययुक्तं मुक्तिकृतोद्यमम् ।
अकल्मषं मृषाहीनमहीनद्रव्यमानसम् ॥३६॥

ब्रह्मचर्यपरं नित्यं परिचर्यापरं गुरोः ।
अल्पाशनिद्रं पूजायामनल्पकृतकल्पनम् ॥३७॥

अधीतवेदं स्वाधीनमनाधिं व्याधिर्विजतम् ।
तरुणं करुणावासं परितोषकरं गुरोः ॥३८॥

सुवेषमेषणातीतममलं विमलाशयम् ।
सुप्रसन्नं प्रसन्नाङ्गं सदा सन्निहितं गुरोः ॥३९॥

परोपकारनिरतं विरतं परदूषणे ।
मातृवद्गुरुपत्नीं च भ्रातृवत्तत्सुतानपि ॥४०॥

स्मरन्तमस्मराबाधं स्मितोपेतमविस्मितम् ।
परिग्रहे परीक्ष्यैव शिष्यमेवङ्गुणं गुरुः ॥४१॥

अलसं मलसङ्क्लिन्नं क्लिष्टं क्लिष्टन्ववायजम् ।
दम्भान्वितमगम्भीरं चण्डं पण्डितमानिनम् ॥४२॥

रागिणं रोगिणं भोगलालसं बालसम्मतम् ।
रौद्रं दरिद्रं निद्रालुमाद्यूनं क्षुद्रचेष्टितम् ॥४३॥

नृशंसमन्धं बधिरं पङ्गुं व्यङ्गममङ्गलम् ।
अतिदीर्घमतिह्रस्वमतिस्थूलकृशात्मकम् ॥४४॥

आदित्सुं कुत्सितं वत्सं बीभत्सं मत्सरात्मकम् ।
परदारपरं भीरुं दारुणं वैरिणं सताम् ॥४५॥

लुब्धं त्वलब्धवैदग्ध्यं स्तब्धं लुब्धकबान्धकवम् ।
सुखिनं मुखरं दुर्गं दुर्मुखं मूकमानसम् ॥४६॥

प्रत्यग्रमुग्रं व्यग्रेहमग्रगण्यं दुरात्मनाम् ।
प्रष्टव्यकं तमःस्पृष्टं क्लिष्टमिष्टापहं नृणाम् ॥४७॥

स्वार्थकृत्यं प्रसक्तार्थं निरर्थारम्भणं शठम् ।
ईदृग्विधं गुरुः शिष्यं न गृह्णीयात्कथञ्चन ॥४८॥

यदि गृह्णाति तद्दोषः प्रायो गुरुमपि स्पृशेत् ।
मन्त्रिदोषो यथा राज्ञि पत्यौ जायाकृतो यथा ॥४९॥

तथा शिष्यकृतो दोषो गुरुमेति न संशयः ।
स्नेहाद्वा लोभतो वापि यो न गृह्णाति दीक्षया ॥५०॥

तस्मिन्गुरौ सशिष्ये तु देवताशाप आपतेत् ।
मधुद्विषि महादेवे मातापित्रोर्महीभृति ।
भक्तिर्या सा पदाम्भोजे कार्या निजगुरौ सदा ॥५१॥

छायाज्ञापादुकोपानद्दण्डांश्च शयनासने ।
यानं मनोगतं चान्यदन्तेवासी न लङ्घयेत् ॥५२॥

व्याख्याविवादः स्वातन्त्र्यकामिता काम्यजृम्भिता ।
निद्राकुतर्कक्रोधांश्च त्यजेद्गुरुगृहे सदा ॥५३॥

अग्राम्यधर्मं विण्मूत्रसर्गनिष्ठीवनादिकम् ।
परित्यजेत्परिज्ञाता वमिं च गुरुमन्दिरे ॥५४॥

ग्राम्योक्तीरनृतं निन्दामृणं च वसुविक्रयम् ।
परित्यजेद्गुरौ तस्य सपत्न्यैश्च समागमम् ॥५५॥

इष्टं वानिष्टमादिष्टं गुरुणा यत्तु गुर्वपि ।
त्वरया परया कुर्याद्धिया सम्यगजिह्मया ॥५६॥

कर्मणा मनसा वाचा सदा भक्तियुजा गुरुम् ।
निव्र्याजं पूजयेच्छिष्यो निजकार्यप्रसिद्धये ॥५७॥

लोकोद्वेगरी या च या च कर्मनिकृन्तनी ।
स्थित्युच्छेदकरी या च तां गिरं नैव भाषयेत् ॥५८॥

रम्यमप्युज्ज्वलमपि मनसोऽपि समीप्सितम् ।
लोकविद्वेषणं वेषं न गृह्णीयात्कदाचन ॥५९॥

इत्याचारपरः सम्यगाचार्यं यः समर्चयेत् ।
कृतकृत्यः स वै शिष्यः परत्रेह च नन्दति ॥६०॥

देवानृषीनपि पितृनतिथींस्तथाग्निं
नित्योद्यतेन मनसा दिनशोऽर्चयेद्यः ।
इष्टानवाप्य सकलानिह भोगजाता-
न्प्रेत्य प्रयाति परमं पदमादिपुंसः ॥६१॥

इत्थं मूलप्रकृत्यक्षरविकृतिलिपिव्रातजातग्रहक्र्ष-
क्षेत्राद्याबद्धभूतेन्द्रियगुणरविचन्द्राग्निसम्प्रोतरूपैः ।
मन्त्रैस्तद्देवताभिर्मुनिभिरपि जपध्यानहोमार्चनाभि-
स्तन्त्रेऽस्मिन्यन्त्रभेदैरपि कमलज ते र्दिशतोऽयं प्रपञ्चः ॥६२॥

यदाश्रया विप्रकृतिप्रभावतो
विभिन्नतारांशसमुत्थितौजसः ।
जगन्ति पुष्णन्ति रवीन्दुवह्नयो
नमोऽस्तु तस्मै परिपूर्णतेजसे ॥६३॥

॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे त्रयिंस्त्रशः पटलः ॥

॥ प्रपञ्चसारः सम्पूर्णः ॥

N/A

References : N/A
Last Updated : January 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP