चतुर्विंशः पटलः
प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.
अथ सम्प्रति विष्णुपञ्जरस्य
प्रतिवक्ष्यामि समासतो विधानम् ।
जितवांस्त्रिपुरं हरोऽपि येन
त्रिदशानामधिपो वलासुरं च ॥१॥
शक्तेर्द्वादशगुणिते यन्त्रे मन्त्राणि मण्डलान्यपि च ।
बीजानि यानि चोक्तान्येभिः कॢप्तं तु पञ्जरं विष्णो ॥२॥
विष्णुं लिखेन्मध्यगशक्तिबिन्दौ कपोलयोः सिंहवराहबीजे ।
तद्विश्वरूपाह्वयमन्त्रवीतं प्रवेष्टयेत्षोडशमन्त्रवर्णैः ॥३॥
तारं हृदयं भगवत्पदं महाविष्णुवासुदेवौ ङेन्तौ ।
विश्वादिरूपं शरणं भव मे प्रभविष्णवे नमस्यामन्त्रः ॥४॥
द्वादशाक्षरमन्त्रान्ते भवेतां कवचास्त्रकौ ।
स्वाहान्तषोडशार्णोऽयं मन्त्रः सर्वार्थसाधकः ॥५॥
क्रमेण तद्वर्णविकारजाताश्चक्रादिकाः षोडश मूर्तयः स्युः ।
याभिस्तु विष्णोरिह पञ्जरस्य प्रवर्तते शक्तिरनेकरूपा ॥६॥
यन्त्रस्य बीजेषु चतुर्षु पूर्वं
प्राग्दक्षिणप्रत्यगुदग्गतेषु ।
विद्वांस्तु चक्रं च गदां च शाङ्र्ग
खङ्गं च मन्त्रैः सहितं विलिख्यात् ॥७॥
शङ्खहलमुसलशूलान्यग्न्याद्यश्रिष्वथाष्टबीजेषु ।
विलिखेद्दण्डं कुन्तं शक्तिं पाशाज्रुशं कुलिशशतमुखवह्नीन् ॥८॥
सप्रणवत्दृदयभगवद्विष्णुस्वाख्यानमूर्तिधरयुक्ताः ।
सेनापतिसहिता निजमन्त्रान्ता मूर्तयोऽत्र लिखितव्याः ॥९॥
सहस्रारपदं पूर्वं कौमोदकि ततो भवेत् ।
महाशाङ्र्गपदं पश्चान्महाखड्गपदं पुनः ॥१०॥
प्रोक्तानि वर्मास्त्रान्तानि निजमन्त्राणि वै क्रमात् ।
पूर्वं महापाञ्चजन्यं महाहलमनन्तरम् ॥११॥
ततो महामुसलकं महाशूलं ततः परम् ।
स्वाहान्तानि च मन्त्राणि शङ्खादीनां क्रमाद्विदुः ॥१२॥
दण्डादीनामथाष्टानामन्ते युञ्ज्यान्नमःपदम् ।
पात्रोद्धृतधरं विद्वान्वाराहे विष्ण्वभिख्ययोः ॥१३॥
अन्तरा योजयेन्मन्त्री नारसिंहं पुनः सुधीः ।
नखं च दलितं चैव रिपुविग्रहमेव च ॥१४॥
योजयित्वा नृसिंहात्प्राक् सिंहमन्त्रं समापयेत् ।
विष्णोरन्ते महापक्षिराजाय च गरुत्मते ॥१५॥
हरिपूर्वं वाहनाय प्राणात्मन इतीरयेत् ।
नमोऽन्तोऽसौ तु विद्वद्भिर्मन्त्रो गारुत्मतो मतः ॥१६॥
स त्रिष्टुभा वह्निगृहेण पूर्वं सानुष्टुभेन्दोर्निलयेन चापि ।
गायत्रिमन्त्रोल्लसितेन भूयः प्रवेष्टयेदर्कनिकेतनेन ॥१७॥
अनुलोमविलोमगैश्च वर्णैरभिवीतं वसुधापुरद्वयेन ।
नलिनं बहिरष्टयुग्मपत्रं प्रविदध्यादथ मूर्तिमन्त्रयुक्तम् ॥१८॥
तद्बहिर्मण्डलं सर्वलक्षणैरभिलक्षितम् ।
तस्मिन्नावाह्य विधिवद्विश्वरूपहिंर यजेत् ॥१९॥
अग्नीषोमात्मकमरिगदाशाङ्र्गखड्गैः सशङ्खै-
रुद्यद्बाहुं हलमुसलशूलैः सकुन्तैः सदण्डैः ।
शक्त्या पाशाज्रुशकुलिशटज्रग्निभिश्चार्कवह्नि-
द्योतद्वक्त्राङ्घ्रिकसरसिजं तप्तकार्तस्वराभम् ॥२०॥
विष्णुं भास्वत्किरीटं मणिमकुटकटीसूत्रकेयूरहार-
ग्रैवेयोम्र्यादिमुख्याभरणमणिगणोल्लासिदिव्याङ्गरागम् ।
विश्वाकाशावकाशप्रविततमयुतादित्यनीकाशमुद्य-
द्बाह्वग्रव्यग्रनानायुधनिकरकरं विश्वरूपं नमामि ॥२१॥
अभ्यच्र्य पूर्ववत्पीठं नवशक्तिसमन्वितम् ।
अर्चयेत्क्रमशो विद्वान्मूर्तिशक्तिचतुष्टयम् ॥२२॥
चक्रं च चक्राज्र्किरीटमौलिं
सचक्रशङ्खं सगदं सशाङ्र्गम् ।
रक्ताम्बरं रक्ततनुं कराल-
द्रष्ट्राननं प्राग्दलकेऽर्चयीत ॥२३॥
पूज्या गदा गदाज्र्तिमौलि सगदा सचक्रशङ्खधनः ।
पीताम्बरानुलेपा पीता क्रुद्धा च याम्यसंस्थदले ॥२४॥
श्यामं शाङ्र्गाज्र्तिकं शाङ्र्गारिदरगदाहस्तम् ।
रक्तांशुकानुलेपनमाल्यादिं वारुणे यजेत्पत्रे ॥२५॥
खड्गं सखड्गशिरसं खड्गारिगदाधनुष्करं धूम्रम् ।
विकृताम्बरानुलेपस्रजं समभ्यर्चयेदुदक्पत्रे ॥२६॥
शङ्खं सशङ्खशिरसं शङ्खारिगदाधनुष्करं सुसितम् ।
सितवसनमाल्यभूषं यजेन्महानादमग्निसंस्थदले ॥२७॥
शङ्खोक्तचिह्नभूषान्स्वास्त्रादिकधरचतुर्भुजानपरान् ।
हलमुसलशूलसंज्ञान्यजेन्निशाटादिकेषु पत्रेषु ॥२८॥
दण्डादिकांस्तथाष्टौच्छिद्रदलेष्वर्चयीत रक्ताभान् ।
स्वस्वायुधप्रधानांश्चतुर्भुजाञ्शतमुखानलान्तांश्च ॥२९॥
दंष्ट्राग्रलग्नवसुधं सजलाम्बुवाह-
चोरार्चिषं त्वभियजेदधरेऽष्टबाहुम् ।
चक्रासिबाणसगदादरचर्मशाङ्र्ग-
शक्त्याख्यकान्दधतमादिमहावराहम् ॥३०॥
अर्कानलोज्ज्वलमुखं नयनैस्त्रिभिश्च
वह्निं क्षरन्तमवधूतसटाकलापम् ।
शुक्लाभभूषमरिशङ्खगदासिबाहुं
भूयोऽभिराधयतु खे च महानृसिंहम् ॥३१॥
अगेर समग्रबलमुग्रतनुं स्वपक्ष-
विक्षेपविक्षतविलक्षविपक्षपक्षम् ।
खण्डाग्रतुण्डममुमण्डजदण्डनाथ-
माराधयेदथ च पञ्जरगस्य विष्णोः ॥३२॥
भूयोऽपि केशवेन्द्रादिकौ समभ्यर्चयेच्च वङ्कादीन् ।
गन्धादिभिरुपचारैः पञ्चभिरथ संयतात्मको मन्त्री ॥३३॥
निवेदिते होमविधिश्च कार्यो
दीक्षाविधानाभिहितश्च वह्नौ ।
सर्सिपषान्नेन तु वह्निमूर्ति
हुत्वा तु विष्णोर्मनुना तथैव ॥३४॥
जुहुयाच्च वामदेवादिकशान्त्यादींश्च रुद्रसङ्ख्येन ।
दुग्धतरूत्थाः समिधः क्रमेण चक्रादिभिश्चतुर्मन्त्रैः ॥३५॥
जुहुयादष्टोध्र्वशतं सङ्ख्याद्यैर्द्वादशभिरथ मनुभिः ।
तिलसिद्धार्थैर्जुहुयाद्विकारसङ्ख्यं पृथक्पृथङ्मन्त्री ॥३६॥
त्रिष्टुबनुष्टुप्तत्पदमन्त्रैर्मन्त्रार्णसङ्ख्यकं हविषा ।
सघृतेन केशवाद्यैर्दिनकरसङ्ख्यं तथेन्द्रवङ्काद्यैः ।
जुहुयात्पृथगपि वसुमितमथ च महाव्याहृतीर्हुनेन्मतिमान् ॥३७॥
आराध्य च विसृज्याग्निमभिषिच्य सुसंयतः ।
विष्णोस्तु पञ्जरं कुर्यादृषिब्र्रह्मबृहस्पती ॥३८॥
छन्दस्त्वनुष्टुप् त्रिष्टुप् च मुनिभिः समुदाहृते ।
विश्वरूपादिको विष्णुर्विष्णुपञ्जरदेवता ॥३९॥
अष्टार्णचक्रमनुमध्यगतैश्च पादै-
व्र्यस्तैस्तथा सुमतिरारचयेत्समस्तैः ।
गीतामनोः क्रमश एव च जातियुञ्जि
पञ्चाङ्गकानि हरिपञ्जरकल्पितानि ॥४०॥
विष्णुः प्राच्यादिकमथ जपेन्नारसिंहोऽम्बरान्तं
त्रिस्त्रिर्मन्त्रान्पुनरपि तथा पञ्चशस्त्वेकविंशत् ।
बुद्धिस्वास्थ्यप्रभृति च तथा पञ्चवारं त्रिगाधा
भूयो जप्याद्विमलशितधीश्चक्रमन्त्राभिधानम् ॥४१॥
नमो भगवते सर्वविष्णवे विश्वरूपिणे ।
वासुदेवाय चक्रादिसर्वायुधभृते नमः ॥४२॥
अर्केन्दुवह्निनिलयस्फुरितत्रिमन्त्र-
शक्तिप्रबन्धमहसः परमस्य विष्णोः ।
पादारविन्दगलितामृतसिक्तगात्रं
साध्यं स्मरेज्जपविधावपि साधकेशः ॥४३॥
विष्णोः सान्निध्यलब्धोल्लसितबलचलद्धस्तदण्डोद्यतास्त्रै-
श्चक्राद्यैर्भीषणास्येक्षणचरणवचोहासहुङ्कारघौरैः ।
उत्क्षिप्ताक्षिप्तकृत्तस्फुटितविगलिताघूर्णितध्वस्तशान्ता
ध्यायेद्वेतालभूतग्रहदुरितपिशाचारिनागारिरोगान् ॥४४॥
पूर्वं स्थाने हृषीकेशमन्त्रयुक्तं विधानवित् ।
विश्वरूपात्मकं जप्याद्वैष्णवं मूलमन्त्रकम् ॥४५॥
योजयित्वा जपेत्पश्चाच्चक्रादिषु यथाक्रमम् ।
चतुर्षु चतुरः पादान्गीतात्रिष्टुप्समुद्भवान् ॥४६॥
पूर्णेषु षोडशेष्वेवमाद्यं पादे वराहके ।
द्वितीयान्नारसिंहे च द्वितीयं गारुडे पुनः ॥४७॥
चतुर्थं च क्रमं ते च योजयित्वा जपेत्सुधीः ।
मन्त्रं सुदर्शनं चेत्थमिष्टमष्टादशं मनुम् ॥४८॥
संयोज्य कृच्छ्रे महति जपेन्मन्त्री विधानवित् ।
आग्नेये वक्ष्यमाणेन विधानेन समाहितः ॥४९॥
सिकतोपलसर्वादीन्साधयेदथ तैः क्रियाः ।
वास्तौ पुरे वा ग्रामे वा विदध्याद्विषयेऽपि वा ॥५०॥
मध्ये च षोडशाशान्ते खनेदष्टदशावटान् ।
अष्टादशं तु शक्रस्य विदध्यात्पुरतोऽवटम् ॥५१॥
हस्तागाधांस्तथायामांश्चतुरश्रान्समन्ततः ।
अन्योन्यतश्चङ्क्रमार्थं शुद्धान्मार्गान्विधाय च ॥५२॥
गोमयेनोपलिप्येत नारीयस्थाप्यवस्त्वपि ।
शुष्कपुष्करपत्रेषु विदध्याद्विंशतिष्वपि ॥५३॥
ततो मध्यमकुण्डस्य प्रविश्य पुरतो गुरुः ।
तदन्तरिष्ट्वा पीठं च तत्र यन्त्रमनुस्मरन् ॥५४॥
स्थापयेद्वैष्णवे स्थाने विश्वरूपधिया सुधीः ।
ततः क्रमेण चक्रादीन्दिक्कुण्डेषु चतुष्र्वपि ॥५५॥
पुनः शङ्खादिकांस्तद्वत्कुण्डेष्वश्राश्रितेष्वपि ।
तथा दण्डादिकानष्टौ च्छिद्राशासु प्रकल्पयेत् ॥५६॥
मध्ये पुनरधश्चोध्र्वं कोलकेसरिणौ यजेत् ।
चक्रस्य प्राक्तने कुण्डे स्थापयेद्विनतासुतम् ॥५७॥
ततः समस्थलीकृत्य क्रमात्समुलिप्य च ।
प्रत्यगानन आसीनो मध्यगस्थण्डिलस्थिते ॥५८॥
यज्ञे काञ्चनपत्रस्थे पूजयेत्पूर्ववत्प्रभुम् ।
वादित्रघोषबहुलं निवेद्यान्तं यथाक्रमम् ॥५९॥
हुनेच्च पूर्वसन्दिष्टैद्र्रव्यैः पूर्वोक्तमार्गतः ।
आशोपाशान्तराशासु बलिं दद्यात्त्रिशस्त्रिशः ॥६०॥
क्रमाच्चक्रादिमूर्तीनां पञ्चपूरान्धसा सुधीः ।
तत उद्वास्य देवेशं पूजां प्रतिसमाप्य च ॥६१॥
दत्वा सुवर्णं वासांसि गुरवे ब्राह्मणानपि ।
सन्तप्र्य विभवैः सम्यग्भोजयेद्देवताधिया ॥६२॥
तत्रोपसर्गा नश्यन्ति नरनारीमहीभृताम् ।
ग्रहक्षुद्रपिशाचाद्या नेक्षन्ते तां दिशं भयात् ॥६३॥
अश्मपातादिका ये च भया नश्यन्ति ते चिरात् ।
सस्यद्र्धिर्गोसमृद्धिश्च प्रजावृद्धिश्च जायते ॥६४॥
धनधान्यसमृद्धिश्च वर्धते तत्कुलं क्रमात् ।
दारिद्र्यरोगनिर्मुक्तं सुखमाभूतसम्प्लवम् ॥६५॥
रक्षोभिरक्षितबलैरसुरैश्च दैत्यैः
सर्वैः समुद्धृतमहास्त्रकरैः परीतम् ।
विष्णोस्तु पञ्जरमिदं प्रभजन्तमव्या-
त्साक्षादपीन्द्रमपरत्र नरे कथा का ॥६६॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे चतुर्विंशः पटलः ॥
N/A
References : N/A
Last Updated : January 21, 2026

TOP