संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्|

एकत्रिंशः पटलः

प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.


प्राणप्रतिष्ठानमनोर्विधानं प्रवक्ष्यते सम्प्रति सर्वसिद्ध्यै ।
यस्मादृतेऽमी कथिताः प्रयोगाः व्यर्था भवेयुर्गतजीवकल्पाः ॥१॥

प्रोक्त्वा पूर्वममुष्यशब्दमथ च प्राणा इह प्राणका-
स्तद्वज्जीव इह स्थितेति च तथा सर्वेन्द्रियाणीति च ।
भूयो वाङ्मनसावुदीर्य तदनु प्राणा इहायान्त्विति
स्वाहान्तं प्रजपेन्मनुं निशितधीः प्राणान्प्रतिष्ठापयेत् ॥२॥

सृष्टिः सा जगतामनादिनिधना विश्वस्य चेष्टाकरी
प्राणाख्या प्रकृतिः क्रियामयवपुर्देवी परा देवता ।
प्रत्येकं कादिवर्गैः प्रतिगतलिपिवैरीबन्दुयुक्तैर्धराद्यैः
शब्दाद्यैः श्रोत्रमुख्यैर्वदनकरमुखैस्तत्क्रियाभिः क्रमेण ।
बुद्ध्याद्यैश्चात्मनेऽन्तैरुपरि च विलसज्जातिभिः षड्भिरेवं
कुर्यादङ्गानि सम्यग्वरविशदमतिर्विश्वरूपत्वसिद्ध्यै ॥३॥

नाभेर्देशादापदं पाशबीजं हृद्देशादानाभिदेशं च शक्तिम् ।
आहृद्देशं मस्तकादज्रुशाख्यं न्यस्त्वा यादीन्धातुभिन्र्यस्य सप्त ॥४॥

प्राणे जीवे चैव हंसश्च यार्णन्यस्येन्मूलं व्यापकं मस्तकादिम् ।
एवं न्यस्य प्राणशक्तिस्वरूपं विद्यां ध्यायेदात्मरूपां च देवीम् ॥५॥

रक्ताम्बोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः
पाशं कोदण्डमिक्षूद्भवमथ गुणमप्यज्रुशं पञ्चबाणान् ।
बिभ्राणा स्रक्कपालं त्रिणयनलसिता पीनवक्षोरुहाढ्या
देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः स्वरूपा ॥६॥

ध्यात्वा देवीं प्रजपेदेवं लक्षं मनुं समाहितधीः ।
आज्येनान्ते जुहुयाच्चरणा वा तद्दशांशतो मन्त्री ॥७॥

शाक्ते पीठे देवीं षट्कोणस्थैः प्रजेशहरिरुद्रैः ।
वाणीलक्ष्मीगिरिजासहितैरङ्गैश्च मातृलोकेशैः ॥८॥

प्रयजेच्चतुर्भिरेवं परिवारैर्नित्यमेव निशितमनाः ।
एवं संसिद्धमनुर्वश्याद्यान्यारभेत कर्माणि ॥९॥

पाशाज्रुशान्तरितशक्तिमनोः परस्ता-
दुच्चार्य यादिवसुवर्णगणं सहंसम् ।
पश्चादमुष्यपदमुच्चरतु प्रयोग-
मन्त्रोऽयमित्थमुदितो ग्रहसङ्ख्यया वा ॥१०॥

मृता वैवस्वता चैव जीवहा प्राणहा तथा ।
आकृष्या ग्रथना चैव उन्मादा विष्फुलिङ्गिनी ।
क्षेत्रज्ञा प्रतिहारी च प्राणमूत्र्यः सयादिकाः ॥११॥

बद्ध्वा साध्या पाशबीजेन शक्त्या
गृह्णनाकृष्याज्रुशेनाथ यादीन् ।
दूतीश्चोक्त्वा साध्यनाम्नाथ धातू-
नेवं मन्त्रो यावदात्मा सवीर्यः ॥१२॥

सुप्ताशेषजने निशीथसमये साध्ये स्वपित्यादरा-
दारुह्य स्ववशं विधाय हृदये साध्याकृतेः कीलकम् ।
बद्ध्वा तं च निपीडमेव सहसा कालस्य यष्ट्या शिर-
स्याघातात्क्षुभिताखिलेन्द्रियगणं साध्यं स्मरेत्साधकः ॥१३॥

वायव्याग्नेयैन्द्रवारीण्महेशक्रव्यात्सोमप्रेतराण्मध्यकेषु ।
स्थानेष्वेतेष्वष्ट यादीन्सहंसान्भृङ्गान्ध्यायेद्वीजबिन्दुप्रबद्धान् ॥१४॥

स्वीये चैवं संस्मरेद्धृत्सरोजे
भृङ्गीरूपान्निर्गतान्श्वासमार्गैः ।
साध्याब्जस्थांश्चञ्चरीकान्गृहीत्वा
स्वीयं स्थानं पूर्ववत्सम्प्रविष्टान् ॥१५॥

बीजानि रक्तानि तु वश्यकर्मण्यम्भोधराभान्यभिचारकाले ।
धूम्राणि विद्वेषविधौ समोहे पीतानि संस्तम्भविधौ स्मरेच्च ॥१६॥

अथ वा साध्यप्राणान्मण्डूकाकारधारिणो ध्यायेत् ।
स्वीयान्भुजगाकारानमिचारादौ नृशंसकर्मविधौ ॥१७॥

प्राणप्रतिष्ठाकर्मैवं विधायैकादशापरम् ।
पुत्तल्यादौ खचित्ते वा तांस्तु संस्तम्भयेद्भुवा ॥१८॥

आकृष्टानां साध्यदेहादसूनां
पुत्तल्यादावप्ययं स्यात्प्रकारः ।
किं तु स्वीये हृत्सरोजे प्रवेशो
वश्याकृष्ट्योरेव नात्राभिचारे ॥१९॥

पाशाद्यत्रिकयुक्तमूलहृदयभ्रूमध्यसूत्रायिता
साग्निः साध्यललाटरन्ध्रवगतोऽप्यामूलमाजग्मुषि ।
योन्यां त्वात्महृदब्जमेवमनिशं भ्राम्यत्यसौ चिन्त्य तं
शक्तिर्जन्मशतान्यपीह वशयेत्साध्यं समाकर्षयेत् ॥२०॥

प्राणप्रतिष्ठाविधिरेवमुक्तः साङ्गः सयोगो विनियोगयुक्तः ।
अस्मिन्प्रवीणो गिरिकाननादीन्प्रचालयेत्प्राणवतो विधाय ॥२१॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे एकत्रिंशः पटलः ॥

N/A

References : N/A
Last Updated : January 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP