सप्तमः पटलः

प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.


अथाक्षराणामधिदेवतायाः समस्तबोधस्थितिदीपिकायाः ।
अशेषदुःखप्रशमाय नृणां वक्ष्येऽजपादेः प्रवरं विधानम् ॥१॥

ब्रह्मा स्यादृषिरीरितः सुमतिभिर्गायत्रमुक्तं च त-
च्छन्दस्त्वेऽपि सरस्वती निगदिता तन्त्रेषु तद्देवता ।
आद्यन्तस्वरषट्कलघ्वपरयोरन्तस्थितैः कादिभि-
र्वर्गैर्यान्तगतैः क्रमेण कथितान्यस्याः षडङ्गानि च ॥२॥

पञ्चाशद्वर्णभेदैः विहितवदनदोः पादयुक् कुक्षिवक्षो-
देशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् ।
अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्था-
मच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥३॥

काननवृत्तद्व्यक्षि श्रुतिनोगण्डोष्ठदन्तमूर्धास्ये ।
दोः पत्सन्ध्यग्रेषु च पाश्र्वद्वयपृष्ठनाभिजठरेषु ॥४॥

हृद्दोर्मूलापरगलकक्षेषु हृदादिपाणिपादयुगे ।
जठराननयोव्र्यापकसंज्ञा न्यस्येदथाक्षरान्क्रमशः ॥५॥

सन्दीक्षितो विमलधीर्गुरुणानुशिष्टो
लक्षं न्यसेत्सुनियतः प्रजपेच्च तावत् ।
अन्ते हुतं प्रतिहुनेन्मधुरत्रयाक्तैः
शुद्धैस्तिलैरभिजयेद्दिनशोऽक्षरेशीम् ॥६॥

व्योमाविः स चतुर्दशस्वरविसर्गार्णस्फुरत्र्किणकं
किञ्जल्कालिखितस्वरं प्रतिदलप्रारब्धवर्गाष्टकम् ।
क्ष्माबिम्बेन च सप्तमार्णवयुजाश्राशासु संवेष्टितं
वर्णाब्जं शिरसि स्मृतं विषगदप्रध्वंसि मृत्युञ्जयम् ॥७॥

प्रविधाय पद्ममिति पीठमथो कथितक्रमेण विधिनाभियजेत् ।
नवभिश्च शक्तिभिरमुत्र समावरणैः समर्चयतु वर्णतनुम् ॥८॥

मेधा प्रज्ञा प्रभा विद्या धीर्धृतिस्मृतिबुद्धयः ।
विद्येश्वरीति सम्प्रोक्ता भारत्या नव शक्तयः ॥९॥

अङ्गान्यादौ तदनु च कलायुग्मशश्चाष्टवर्गा-
न्ब्रह्माण्यादीञ्छतमखमुखानप्यथो लोकपालान् ।
मुख्यैग्र्रन्थैः प्रवरकुसुमैर्धूपदीर्पैनिवेद्यै-
र्वर्णाञ्जापी यजतु दिनशो भारतीं भक्तिनम्रः ॥१०॥

ब्रह्माणी माहेशी कौमारी वैष्णवी च वाराही ।
इन्द्राणी चामुण्डी समहालक्ष्मीति मातरः प्रोक्ताः ॥११॥

वर्गस्वरयाद्यंशाः क्रमेण कलधौतरजतताम्राः स्युः ।
इति रचितं रुचकमिदं साधकसर्वार्थदायि सततं स्यात् ॥१२॥

त्रिवारमम्भः परिजप्तमेतया
पिबेद्दिनादावपि विद्यया सुधीः ।
अनेडमूकोऽपि कवित्वर्गिवतः
परां च कीर्ति लभतेऽर्कमासतः ॥१३॥

कमलोद्भवौषधिरसेव च या
पयसा च पक्वमथ र्सिपरपि ।
अयुताभिजप्तममुना दिनशो
लिहतां कविर्भवति वत्सरतः ॥१४॥

वर्णौषध्याश्रिताभिः कलशममलधीरद्भिरापूरयित्वा
प्रातस्तेनाभिषिञ्चेद्दशशतपरिजप्तेन यं वापि मासम् ।
स स्यान्मेधेन्दिरायुःप्रशमकवियशो विश्वसंवादयुक्तो
नारी वन्ध्यापि नानागुणगणनिलयं पुत्रवर्यं प्रसूते ॥१५॥

आधारोद्यच्छक्तिबिन्दूत्थिताया वक्त्रे मूर्धेन्दुग्रसन्त्याः प्रभायाः ।
क्षाद्यान्तार्णान्पातयेद्वह्निसोमप्रोतान्मन्त्री मुच्यते रोगजातैः ॥१६॥

विन्यासैरथ सजपैर्हुताशनाद्यै
ध्र्यानैश्च प्रभजति भारतीं नरो यः ।
स श्रीमान्भवति च मङ्क्षु काव्यकर्ता
क्ष्वेलादीञ्जयति जरापमृत्युरोगान् ॥१७॥

कलाः कलानादभवा वदन्त्यजाः
कचादिवर्णानुभवाष्टतादिकान् ।
पयादिकान्माक्षरजाश्च बिन्दुजाः
क्रमादनन्तावधिकास्तु षादिकान् ॥१८॥

कुर्यात्कलाभिराभिर्मन्त्री दिनशस्तनौ तथा न्यासम् ।
सान्निध्यकृत्समर्थः प्रतिमाकलशादिषु प्रविज्ञेयः ॥१९॥

मन्त्रोद्धारविधाने वर्णव्यत्यासकॢप्तिरुद्दिष्टा ।
आभिः श्रीकण्ठादिप्रोक्तैर्वा नामभिः विशेषज्ञैः ॥२०॥

अष्टाक्षरोक्तमनुवर्यविशिष्टमूर्ति
संस्मृत्य विष्णुमपि मन्त्रितमो यथावत् ।
वर्णैन्र्यसेदपि पुरैव च केशवादि-
मूत्र्या युतैर्वपुषि भक्तिभरावनम्रः ॥२१॥

रुद्रादीञ्छक्तियुतान्न्यस्येद्याद्यांस्त्वगादिधातुयुगान् ।
श्रीकण्ठादौ विद्वान्वर्णान्प्राग्बीजसंयुतान्वापि ॥२२॥

सिन्दूरकाञ्चनसमोभयभागमर्ध-
नारीश्वरं गिरिसुताहरभूषचिह्नम् ।
पाशाभयाक्षवलयेष्टदहस्तमेवं
स्मृत्वा न्यसेत्सकलवाञ्छितवस्तुसिद्ध्यै ॥२३॥

शक्त्या शक्तिश्रीभ्यां शक्तिश्रीक्लीभिरन्वितैर्वर्णैः ।
श्रीशक्तियुगशराद्यैरथवाभिहितः समृद्धये न्यासः ॥२४॥

अथानया पञ्चविभेदभिन्नया
प्रपञ्चयागस्य विधिः प्रवक्ष्यते ।
कृते तु यस्मिन्निह साधकोत्तमाः
प्रयान्ति निर्वाणपदं तदव्ययम् ॥२५॥

पूर्वं महागणपतिं स्वविधानसिद्ध-
रूपं च साङ्गमपि सावरणं विचिन्त्य ।
बीजेन संयुतमृचा प्रजपेत माला-
मन्त्रं निजेष्टविधयेऽवहितो यथावत् ॥२६॥

स चतुश्चत्वारिंशद्वारं बीजं तथैकवारमृचम् ।
प्रजपेच्चतुरावृत्त्या मालापूर्वं मनुं च मन्त्रितमः ॥२७॥

स मुनिश्छन्दोदैवतमपि साङ्गं मातृकां च विन्यस्येत् ।
प्रागभिहितेन विधिना वारत्रितयं गृहांश्च सप्त तथा ॥२८॥

वदने च बाहुपादद्वितये जठरे च वक्षसि यथावत् ।
अर्काद्यान्विन्यस्येत्क्रमेण मन्त्री स्वरादिवर्गेशान् ॥२९॥

तारश्च शक्तिरजपा परमात्मबीजं
वह्नेःप्रिया च गदिता इति पञ्चमन्त्राः ।
एभिस्त्रितीयलिपिभिः कथितः प्रपञ्च-
यागाह्वयो हुतविधिः सकलार्थदायी ॥३०॥

ब्रह्मा स्यादृषिरस्य च्छन्दः परमान्विता च गायत्री ।
सकलपदार्थसदर्थं परिपूर्णं देवता परञ्ज्योतिः ॥३१॥

जायाग्नेर्हृदयमथो शिरश्च सोऽहं
हंसात्मा त्वथ च शिखा स्वयं च वर्म ।
ताराख्यं स्वमुदितमीक्षणं तथास्त्रं
प्रोक्तं स्याद्धरिहरवर्णमङ्गमेवम् ॥३२॥

अत्राकारहकाराद्यावाद्यौ शान्तान्त्यकौ मनू ।
हकारश्चाप्यकारश्च बिन्दुः सर्गी च साक्षरः ॥३३॥

साकारश्चात्ममन्त्रः षडिन्द्रियात्मक उच्यते ।
सकारौकारहकारा बिन्दुः पञ्चार्णको मनुः ॥३४॥

करणात्मसमायुक्तः परमात्माह्वयो मनुः ।
स्वाकारैर्हदीर्घाभ्यां वह्निजायामनुर्मतः ।
वागादीन्द्रियसम्भिन्नः सोऽयं पञ्चाक्षरात्मकः ॥३५॥

ब्रह्मा बृहत्तया स्यात्परमपदेन प्रकाशितः प्रवरः ।
गायकसन्त्राणनतो गायत्रं समुनिनिगदितं छन्दः ॥३६॥

परमन्यदतिशयं वा ज्योतिस्तेजो निरूपितेऽन्यद्यत् ।
अतिशायि च नितरामिति कथितैवं देवता परञ्ज्योतिः।३७॥

स्वेति स्वर्गः स्वेति चात्मा समुक्तो
हेत्याहुतिर्हेति विद्याद्गतिं च ।
स्वर्गात्मावध्यातता धामशाखा
वह्नेर्जाया यत्र हूयेत सर्वम् ॥३८॥

स इति परततं परं तु तेज-
स्त्वहमिति मय्युदिते मनोऽस्य यत्र ।
तदिति सकलचित्प्रकाशरूपं
कथितमिदं शिरसेऽपि मन्त्रमेवम् ॥३९॥

हमिति प्रकाशितोऽहं स इति च सकलप्रकाशनिर्वाणम् ।
अतुलमनुष्णमशीतं यत्तदितीत्थं प्रकाशितेह शिखा ॥४०॥

प्रतिमथ्य गुणत्रयानुबद्धं सकलं स्थावरजङ्गमाभिपूर्णम् ।
स्वगुरुणैः निजबिन्दुसन्ततात्माखिललोकस्थितिवर्ममन्त्रमुक्तम् ॥४१॥

आद्यैस्त्रिभेदैस्तपनान्तिकैर्यत्सृजत्यजस्रं जगतोऽस्य भावम् ।
तेजस्तदेतन्मनुवर्यकस्य नेत्रत्रयं सन्त उदाहरन्ति ॥४२॥

हृज्रराख्या धातुर्हरणार्थे साधकानभीष्टानि ।
संहरतीह यदेतत्तेजोरूपं तदस्त्रमन्त्रं स्यात् ॥४३॥

यदा लिपिविहीनोऽयं तदात्माष्टक्षरः स्मृतः ।
एतत्सर्वप्रपञ्चस्य मूलमष्टाक्षरं स्मृतम् ॥४४॥

प्रपञ्चयागस्त्वमुना कृतो न्यासविधिः स्मृतः ।
वर्णैर्देहेऽनले द्रव्यैः कुर्याद्धुतविधिं द्विधा ॥४५॥

मातृकान्यासवत्सार्थं लिपिनाष्टाक्षरेण तु ।
नित्यं न्यसेत्संयतात्मा पञ्चाशद्वारमुत्तमम् ॥४६॥

पञ्चज्ञानेन्द्रियाबद्धाः सर्वास्तु लिपयो मताः ।
ताभिरारात्तनं सर्वं तत्तदिन्द्रियगोचरम् ॥४७॥

स्मर्तव्याशेषलोकान्तर्र्वित यत्तेज ऐश्वरम् ।
ब्रह्माग्नौ जुहुयात्तस्मिन्सदा सर्वत्र र्वितनि ॥४८॥

ब्रह्मात्मभिर्महामन्त्रैब्र्रह्मविद्भिः समाहितैः ।
ब्रह्माग्नौ ब्रह्महविषा हुतं ब्रह्मार्पणं स्मृतम् ॥४९॥

एवं वर्णविभेदभिन्नमदृढं मांसान्त्रमज्जावृतं
देहं तत्क्षरमक्षरे सुविशदे सर्वत्र र्वितन्यथ ।
हुत्वा ब्रह्महुताशने विमलधीस्तेजःस्वरूपी स्वयं
भूत्वा सर्वमनुं जपेदभियजेद्ध्यायेत्तथा तर्पयेत् ॥५०॥

शुद्धश्चापि सबिन्दुकस्त्वथ कलायुक्केशवाद्यस्तथा
श्रीकण्ठादियुतश्च शक्तिकमलामारैस्तथैकैकशः ।
न्यासास्ते दशधा पृथङ् निगदिताः स्युब्र्रह्मयागान्तिकाः
सर्वे साधकसिद्धिसाधनविधौ सङ्कल्पकल्पद्रुमाः ॥५१॥

प्रपञ्चयागस्तु विशेषतो विपत्प्रपञ्चसंसारविशेषयापकः ।
परश्च नित्यं भजतामयत्नतः परस्य चार्थस्य निवेदकस्तथा ॥५२॥

द्रव्यैर्यथा यैः क्रियते प्रपञ्च-
यागक्रिया तानि तथैव सम्पत् ।
यास्वप्यवस्थासु च ताश्च कृत्वा
प्राप्नोति यत्तत्कथयामि सर्वम् ॥५३॥

प्रोक्तक्रमेण विघ्नादिकमपि हुत्वा क्रमेण मन्त्रितमः ।
एकावृत्त्या जुहुयात्प्रपञ्चयागाह्वयं घृतेन ततः ॥५४॥

अश्वत्थोदुम्बरजाः प्लक्षन्यग्रोधसम्भवाः समिधः ।
तिलसर्षपदौग्धघृतान्यष्ट द्रव्याणि सम्प्रदिष्टानि ॥५५॥

एतैर्जुहोति नियुताधिकलक्षसङ्ख्यं
मन्त्री ततोऽर्धमथवापि तदर्धकं यः ।
स त्वैहिकीं सकलसिद्धिमवाप्य वाञ्छा-
योग्यां पुनः परतरां च परत्र याति ॥५६॥

एकद्विकत्रिकचतुष्कशताभिवृत्त्या
तांस्तान्समीक्ष्य विकृतिं प्रजुहोतु मन्त्री ।
क्षुद्रग्रहारिविषमज्वरभूतयक्ष-
रक्षःपिशाचजनिते महति प्रकोपे ॥५७॥

द्वादशसहस्रमथवा तद्विगुणं वा चतुर्गुणं वाथ ।
जुहुयात्क्षुद्रग्रहरिपुविषमज्वरभूतसम्भवे कोपे ॥५८॥

अयथाप्रतिपत्तिमन्त्रकाणां प्रजपात्स्यादिह विस्मृतिर्नराणाम् ।
शमयेदचिरात्सहस्रवृत्त्या मतिमान्वस्तुभिरेभिरेव जुह्वन् ॥५९॥

एतैः सहस्रद्वितयाभिवृत्त्या
जुहोति यस्तु क्रमशो यथाभवत् ।
जयेत्क्षणेनैव स विस्मृतीश्च
सापस्मृतीः शापभवांश्च दोषान् ॥६०॥

मधुरत्रयावसिक्तैरेतैर्लक्षं जुहोति यो मन्त्री ।
तस्य सुराधिपविभवो महदृद्ध्या तृणलवायते नचिरात् ॥६१॥

लक्षं तदर्धकं वा मधुरत्रयसंयुतैर्हुनेदेतैः ।
अब्दत्रयादथार्वाक्त्रिभुवनमखिलं वशे कुरुते ॥६२॥

वश्यादीन्यपि कर्माण्यभिकाङ्क्षन्नेभिरेव सद्द्रव्यैः ।
जुहुयात्कार्ये गुरुतालाघवमभिवीक्ष्य योग्यपरिमाणम् ॥६३॥

लक्षं तिलानां जुहुयाद्यवानां
शान्त्यै श्रियेऽथो नलिनैश्च तावत् ।
दौग्ध्येन पुष्ट्यै यशसे घृतेन
वश्याय जातीकुसुमैश्च लोणैः ॥६४॥

शालीतण्डुलचूर्णकैस्त्रिमधुरासिक्तैः स्वसाध्याकृतिं
कृत्वाष्टोध्र्वशताख्यमस्य शितधीः प्राणान्प्रतिष्ठाप्य च ।
न्यासोक्तक्रमतो निशासु जुहुयात्तां सप्तरात्रं नरो
नारीं वा वशमेति मुङ्क्षु विधिना तेनैव लोणेन वा ॥६५॥

पञ्चाशदौषधिविपाचितपञ्चगव्य-
जाते घृतेन शतवृत्ति हुनेद्घटाग्नौ ।
तावत्प्रजप्य विधिनाभिसमच्र्य सिद्धं
भस्माददीत सकलाभ्युदयावहं तत् ॥६६॥

अनुदिनमनुलिम्म्पेत्तेन किञ्चित्समद्या-
त्तिलकमपि विदध्यादुत्तमाङ्गे क्षिपेच्च ।
अनुततदुरितापस्मारभूतापमृत्यु-
ग्रहिविषरहितः स्यात्प्रीयते च प्रजाभिः ॥६७॥

एकादशार्धकणिकां वरकाञ्चनस्य
दद्यात्तदैव गुरवेऽथ सहस्रहोमे ।
अर्धोध्र्वपञ्चकणिका द्विकणा च सार्धा
स्याद्दक्षिणेह कथिता मुनिभिस्त्रिधैव ॥६८॥

निजेप्सितं दिव्यजनैः सुरद्रुमा-
त्समस्तमेव प्रतिलभ्यते यथा ।
प्रपञ्चयागादपि साधकैस्तथा
करप्रचेयाः सकलार्थसम्पदः ॥६९॥

अथ हितविधये विदुषां वक्ष्ये प्राणाग्निहोत्रविहितविधिम् ।
बद्ध्वा पद्मासनमृजुकायो मन्त्री विशेत्पुरोवदनः ॥७०॥

शक्तेः सत्त्वनिबद्धमध्यमथ तन्मायारजोवेष्टितं
प्राग्रक्षोऽनिलदिग्गताश्रजठरं मध्ये च नाभेरधः ।
मध्यप्राग्वरुणेन्द्रयाम्यलसितैः कुण्डैज्र्वलद्वह्निभिः
मूलाधारमनारतं समतलं योगी स्मरेत्सिद्धये ॥७१॥

मध्येन्द्रवरुणशशियमदिग्गतानि क्रमेण कुण्डानि ।
आवसथजसभ्याहवनीयान्वाहार्यगार्हपत्यानि ॥७२॥

चिद्रूपात्सकलप्रभाप्रभवकान्मूलप्रकृत्यात्मनः
कल्पार्कात्प्रतिलोमतोऽमृतमयीं ज्योतीरुचाच्छां धिया ।
स्पृष्टामक्षरमालिकां तु जुहुयात्कुण्डेषु तेषु क्रमा-
त्कल्पान्ताग्निशिखास्फुरत्कुहरकेष्वास्रावितां वर्णशः ॥७३॥

क्षाद्यास्ते सप्तवर्गा मरकतपशुमेदाह्वनीलाभवर्णा
भूयः स्युर्विद्रुमाभाः कुलिशसमरुचः पुष्यवैडूर्यभासः ।
सर्वे ते पञ्चशोभी स्रवदमृतमया व्यापकाः स्पर्शसंज्ञा
मुक्तामाणिक्यरूपाः सुमतिभिरुदिताश्चाष्टशः स्युः स्वराख्यः।७४।
एतानि केतोरमृताकरारेर्मन्दस्य रक्तस्य च भार्गवस्य ।
गुरुज्ञसोमांशुमतां क्रमेण नवानि रत्नानि विदुर्नवानाम् ॥७५॥

इत्येवं हुतविधिमन्वहं दिनादौ
ये सम्यग्विदधति मन्त्रिणः शतार्घम् ।
ते रत्नैरपि कनकांशुकैः सधान्यैः
सम्पन्नाः सकलजगत्प्रिया भवन्ति ॥७६॥

अन्त्यशवर्गान्त्यासे वामश्रवणान्यथावसथजाते ।
असितपवर्गचतुर्थां सूक्ष्माः सभ्याह्वये च सश्रोत्राः ॥७७॥

हलयुतवर्गतृतीयौ पराः सशान्तीश्च पश्चिमे वह्नौ ।
भृगुरेफफादिपञ्चकसद्यातिथिलोचनानि सव्येऽग्नौ ॥७८॥

मज्जात्वग्वर्गादिकभौतिकभाराह्वयप्रतिष्ठांश्च ।
गार्हपत्ये जुहुयादित्युक्तं होमकर्मवर्णानाम् ॥७९॥

व्योम्ना मध्ये स्थितेऽग्नावखिलमविरतं शब्दमैन्द्रेऽनिलेन
स्पर्शं स्वेनैव रूपं पुनरपरभवे सौम्यजेऽद्भी रसं च ।
याम्ये गन्धं पृथिव्योभयरुचिरुचिरैरक्षरौघैर्हुनेद्यो
मन्त्री स्यात्सर्ववेद्यप्रतिमथनसमुद्भासितप्रत्यगात्मा ॥८०॥

सतारशक्त्याद्यजपान्तमेवं हुत्वा महात्माथ शतार्धसङ्ख्यम् ।
विन्यस्य तावच्च तथैव सूत्रमात्राकृतिः नित्यतनुश्च भूयात् ॥८१॥

कल्पादित्यमुखस्वमूलविलसत्कल्पानलान्तस्फुर-
च्चन्द्रार्कग्रहकालभूतभुवनब्रह्मेशविष्ण्वादिकः ।
अव्यक्तोऽक्षरसंज्ञकोऽमृतमयस्तेजोद्वयोद्यत्प्रभो
नित्यानन्दमयस्त्वनादिनिधनो यः स्यात्स हंसात्मकः ॥८२॥

अनुदिनममुना भजतां विधिनाहारक्रियासु मन्त्रविदां ।
प्राणाद्याः स्युर्मरुतो गार्हपत्यादिकानि कुण्डानि ॥८३॥

सप्तम्यन्तां च कुण्डाख्यामाख्यां च मरुतामपि ।
हिरण्या गगना रक्ता कृष्णाभिर्वर्णमीरयेत् ॥८४॥

ससुप्रभाभिः सहिताः शुचयः पावका इति ।
अग्निं विहृत्य चेत्येवमात्मानमुपचर्य च ॥८५॥

ऊध्र्वाधस्तिर्यगुध्र्वाधस्तिर्यक्सममथो वदेत् ।
गच्छतूक्त्वा ठयुग्मं च पञ्चाग्नीन्संस्मरेत्ततः ॥८६॥

हुताहुतिसमुद्दीप्तशिखासंयुक्तरोचिषः ।
गार्हपत्यादिकं भूय उपचर्यान्तमेव च ॥८७॥

मन्त्रं सर्वमनुक्रम्य जिह्वाः संस्मृत्य सर्वशः ।
बहुरूपां तु सङ्कल्प्य पञ्चानलशिखायुताम् ॥८८॥

अहं वैश्वानरो भूत्वा जुहोम्यन्नं चतुर्विधम् ।
पचाम्येवं विधानेनेत्यापूर्णं संयतेन्द्रियः ॥८९॥

तूष्णीं हुत्वा पिधायाद्भिरुपस्पृश्य विधानतः ।
आरभ्य मूलाधारं स्वमामस्तकमनुस्मरेत् ॥९०॥

क्षेत्रज्ञसंज्ञकममुं प्रकृतिस्थमाद्यं
व्याप्तद्विसप्तभुवनान्तमनन्तमेकम् ।
पञ्चाननाग्निरसनापरिदत्तशुद्ध-
सान्नाय्यर्तिपतमतर्कितमात्मरूपम् ॥९१॥

सञ्चिन्त्य क्षरितामृताक्षरशतार्धाम्भोऽवसिक्तं हवि-
स्तैर्जप्त्वा कुटिलान्तराधिरधिकं सन्दीप्तपञ्चानलः ।
सायम्प्रातरनेन होमविधिना भोज्यानि नित्यं भज-
न्प्राणी न प्रमदोदरं प्रविशति प्राणाग्निहोत्री पुनः ॥९२॥

इति तव सषडङ्गवेदशास्त्राद्युपहितसर्वविकारसङ्घमाहुः ।
तनुरियमुदिता विरिञ्चविश्वस्थितिलयसृष्टिकरीह वर्णमाला ॥९३॥

इति जगदनुषक्तां तामिमां वर्णमालां
न्यसत जपत भक्त्या जुह्वताभ्यर्चयीत ।
निरुपमकवितायुःकीर्तिकान्तीन्दिराप्त्यै
सकलदुरितरोगोच्छित्तये मुक्तये च ॥९४॥

इतीरिता सकलजगत्प्रभाविनी
क्रमोत्क्रमक्रमगुणितार्णमालिका ।
अभीष्टसाधनविधये च मन्त्रिणां
भवेन्मनुप्रतिपुटिताक्षमालिका ॥९५॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे सप्तमः पटलः ॥

N/A

References : N/A
Last Updated : January 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP