संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्|

एकोनत्रिंशः पटलः

प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.


अथ वक्ष्यामि विद्यायास्त्रिष्टुभः प्रवरं विधिम् ।
ऋषिच्छन्दोदेवताभिरङ्गन्यासक्रमैः सह ॥१॥

मारीचः काश्यपो ज्ञेय ऋषिश्छन्दः स्वयं स्मृतम् ।
देवता जातवेदोऽग्निरुच्यन्तेऽङ्गान्यतः परम् ॥२॥

नवभिः सप्तभिः षड्भिः सप्तभिश्च तथाष्टभिः ।
सप्तभिर्मूलमन्त्रेण कुर्यादङ्गानि षट् क्रमात् ॥३॥

अङ्गुष्ठगुल्फजङ्घासु जानूरुकटिगुह्यके ।
सनाभिहृदयोरोजपाश्र्वयुक्पृष्ठकेषु च ॥४॥

स्कन्धयोरुभयोर्मध्ये बाहुमूलोपबाहुषु ।
प्रकूर्परप्रकोष्ठेषु मणिबन्धतलेषु च ॥५॥

मुखनासाक्षिकर्णेषु मस्तमस्तिष्कमूर्धसु ।
न्यसेन्मन्त्राक्षरान्मन्त्री क्रमाद्वा व्युत्क्रमात्तनौ ॥६॥

शिखाललाटदृक्कर्णयुगोष्ठरसनासु च ।
सकर्णबाहुहृत्कुक्षिकटिगुह्योरुजानुषु ।
जङ्घाचरणयोन्र्यस्येत्पदानि त्रिष्टुभः क्रमात् ॥७॥

भास्वद्विद्युत्करालाकुलहरिगलसंस्थारिशङ्खासिखेटे-
ष्वस्त्रासाख्यत्रिशूलानरिगणभयदां तर्जनीं चादधाना ।
चर्माण्युद्घूर्णदोर्भिः प्रहरणनिपुणाभिर्वृता कन्यकाभि-
र्दद्यात्कार्शानवीष्टांस्त्रिणयनलसिता कापि कात्यायनी वः ॥८॥

इति विन्यस्तदेहस्तु कुर्याज्जप्यादिकाः क्रियाः ।
दीक्षा प्रवत्र्यते पूर्वं यथावद्देशिकोत्तमैः ॥९॥

ततोऽस्त्रकॢप्तिः सम्प्रोक्ता स्यात्प्रयोगविधिस्ततः ।
दीक्षकाख्याक्षराण्यादौ शक्त्यावेष्ट्य ततो बहिः ॥१०॥

यन्त्रं षड्गुणितं कृत्वा दुर्वर्णलसिताश्रकम् ।
बहिरष्टदलं पद्मं प्रोक्तलक्षणलक्षितम् ॥११॥

अत्र पीठं यजेन्मन्त्री क्रमात्सनवशक्तिकम् ।
जया च विजया भद्रा भद्रकाली सुदुर्मुखी ॥१२॥

व्याघ्रसिंहमुखीदुर्गात्रिष्टुभो नव शक्तयः ।
तत्रादाय घटं दिव्यक्वाथमूत्रपयोम्भसाम् ॥१३॥

एकेन पूरयित्वास्मिन्नावाह्य च विभावसुम् ।
अङ्गावृतेर्बहिग्न्र्यादिपादाष्टकविनिःसृताः ॥१४॥

मूर्तीरभ्यर्चयेदग्नेर्जातवेदादिकाः क्रमात् ।
पृथिव्यम्ब्वनलेरानप्यात्मनेपदसंयुतान् ॥१५॥

अर्चयेद्दिक्षु कोणेषु निवृत्त्यादीर्यथाक्रमम् ।
दिक्ष्वेकादशसङ्ख्याः स्युर्जागताद्यर्णशक्तयः ॥१६॥

लोकपालांश्च तद्धेतोर्विधिनेति समर्चयेत् ।
जागता तापिनी वेदगर्भा दाहनरूपिणी ॥१७॥

सेन्दुखण्डा शुम्भहन्त्री सनभश्चारिणी तथा ।
वागीश्वरी मदवहा सोमरूपा मनोजवा ॥१८॥

मरुद्वेगा रात्रिसंज्ञा तीव्रकोपा यशोवती ।
तोयात्मिका तथा नित्या दयावत्यपि हारिणी ॥१९॥

तिरस्क्रिया वेदमाता तथान्या दमनप्रिया ।
समाराध्या नन्दिनी च परा रिपुविर्मिदनी ॥२०॥

षष्ठी च दण्डिनी तिग्मा दुर्गा गायत्रिसंज्ञका ।
निरवद्या विशालाक्षी श्वासोद्वाहा च नादिनी ॥२१॥

वेदना वह्निगर्भा च सिंहवाहाह्वया तथा ।
धुर्या दुर्विषहा चैव रिरंसा तापहारिणी ॥२२॥

त्यक्तदोषा निःसपत्ना चत्वारिंशच्चतुर्युताः ।
अभिषिच्य पुनः शिष्यं कुम्भादीन्गुरुराहरेत् ॥२३॥

ईदृशं यन्त्रमारुह्य जपेच्छिष्यः सुयन्त्रितः ।
मन्त्राक्षरसहस्रं तु सिद्ध्यर्थं गुरुसन्निधौ ॥२४॥

सर्वजापेषु संज्ञेया गायत्र्या द्विगुणो जपः ।
कर्तव्यो वाञ्छितार्थाप्त्यै रक्षायै कार्यसिद्धये ॥२५॥

तिलराज्यनलक्षीरवृक्षेध्महविराज्यकैः ।
र्सिपःसिक्तैः क्रमाद्धोमः साधयेदीप्सितं नृणाम् ॥२६॥

चत्वारि चत्वारिंशच्च चतुःशतसमन्वितम् ।
चतुःसहस्रसंयुक्तं प्रोक्तैरेतैर्हुतक्रिया ॥२७॥

एवं संसिद्धमन्त्रस्य स्युरस्त्राद्याः क्रिया मताः ।
चत्वारि चत्वारिंशच्च वर्णानामस्त्रमिष्यते ॥२८॥

विलोमपाठो वर्णानामस्त्रमाहुर्मनीषिणः ।
पादाष्टकमिदं विद्यात्ततोऽष्टाङ्गो मनुः स्वयम् ॥२९॥

जप्तुकामो मनुं त्वेनं पादांस्तु प्रतिलोमतः ।
पठेत्तथा हि मन्त्रोऽयं क्षाल्यते दुष्टदूषितः ॥३०॥

आद्याः पञ्चाक्षरपदास्त्रयः सप्ताक्षरः परः ।
पञ्चमश्चाथ षष्ठश्च द्वौ तु पादौ षडक्षरौ ।
पञ्चाक्षरौ तदन्त्यौ च तेषां भावो निगद्यते ॥३१॥

ग्न्याद्यं ज्ञानेन्द्रियं कामं द्वितीयं पाञ्चभौतिकम् ।
तृतीयं धातवः सप्त चतुर्थं वर्णसप्तकम् ॥३२॥

षडूर्मयः पञ्चमं स्यात्षष्ठः षट्कौशिको मतः ।
सप्तमश्चाष्टमः पादः शब्दाद्यं वचनादिकम् ॥३३॥

साङ्गः सत्प्रतिपत्तिकः सगुरुपद्वन्द्वप्रमाणक्रमा-
ज्जाप्येत्यादिषडन्तकोऽन्तविगतो वर्णप्रतीपस्तथा ।
गुर्वादेशविधानतश्च विविधध्यानक्रियो मन्त्रिणा
तत्तत्कार्यसमाप्तयेऽखिलविपद्ध्वान्तौघभानूदयः ॥३४॥

अनुलोमजपेऽङ्गानामपि पाठोऽनुलोमतः ।
प्रतिलोमानि तानि स्युः प्रतिलोमविधौ तथा ॥३५॥

अन्तः पादप्रतीपे हि तथा तानि भवन्ति हि ।
वर्णप्रतीपे च तथा मात्राण्यप्रतिलोमके ॥३६॥

प्रतिपत्तिविशेषांश्च तत्र तत्र विचक्षणः ।
गुर्वादेशविधानेन प्रविदध्यान्न चान्यथा ॥३७॥

जपः पुरोक्तसङ्ख्यः स्याद्धुतकॢप्तिस्तथा भवेत् ।
क्षीरद्रुमसमिद्राजितिलहव्यघृतैः क्रमात् ॥३८॥

अथ वा पञ्चगव्योत्थचरुणा हुतमुच्यते ।
प्रत्यङ्मुखेन कर्तव्यं प्रायो जपहुतादिकम् ॥३९॥

तत्र स्युर्मन्त्रवर्णेभ्यस्तावत्यो वह्निदेवताः ।
प्रत्येकमावृतास्तास्तु पञ्चकेन नतभ्रुवाम् ॥४०॥

तत्पञ्चकं च प्रत्येकमावृतं पञ्चभिः पृथक् ।
प्रत्येकं पञ्चकानां तु षोडशावृतिरिष्यते ॥४१॥

प्रत्येकं षोडशानां तु कोटयः परिचारिकाः ।
इत्येकाक्षरजात्पूर्वमेकस्मात्षोडशात्मकात् ॥४२॥

एतावत्यस्तु जातास्तद्विस्तरं पुनरूहयेत् ।
तत्र त्विन्द्रियजाः प्रोक्ता देवतास्तूध्र्वदृष्टयः ॥४३॥

तिर्यञ्चो भौतिकाः प्रोक्ता धातूत्थास्तूभया नराः ।
उर्मिजास्तूध्र्ववदनास्तिर्यञ्चश्चाथ कोशजाः ॥४४॥

क्लीबा मुखद्वयोपेता गोचरोत्थाः स्त्रियो मताः ।
अधोमुखाश्च तिर्यञ्च इत्युक्तो मूर्तिसङ्ग्रहः ॥४५॥

आभिः सर्वाभिरपि च शिखाभिर्जातवेदसः ।
व्याप्यते परराष्ट्रेषु वृक्षगुल्मतृणादिकम् ॥४६॥

आरम्भे मानुपाणि स्युर्नक्षत्राण्याभिचारके ।
कर्माण्यासुरभानि स्युर्दैवानि स्युस्तथा हृतौ ॥४७॥

अन्त्याश्वीन्द्वर्कादिति गुरुहरिमित्रानिलाह्वया देवाः ।
पूर्वोत्तरत्रयी यमहरविधयो मानुषाः परेऽसुरभाः ॥४८॥

नन्दास्वारभ्य रिक्तासु प्रयोज्यात्मनि संहरेत् ।
भद्रासु सङ्ग्रहं कुर्याज्जयासु च विशेषतः ।
आरेणारभ्य मन्देन प्रयोज्यादित्यवारके ॥४९॥

संहरेत्सङ्ग्रहं कुर्याद्वारे त्वाचार्ययोः सुधीः ।
चरोर्विसृज्योभयकैराहरेदभ्यसेत्स्थिरैः ॥५०॥

दिनास्त्रं दिनकृद्युक्तं वारग्रहसमन्वितम् ।
कृत्तिकादि च कृत्यान्तं कृत्यास्त्रं जातवेदसः ॥५१॥

नक्षत्रात्मा हुताशः स्यात्तिथ्यात्मेन्दुरुदाहृतः ।
ताभ्यां करोति दिनकृद्विसर्गादानकर्मणी ॥५२॥

रक्षानिग्रहकर्मणोरनु पराग्वक्त्राः प्रधानाकृति-
प्रख्या मन्त्रविधानविच्च दिशि दिश्येकादशैकादश ।
संस्थाप्य क्रमशोऽक्षरोदितरुचीः शक्तीर्जपेद्वा मनुं
सम्यग्वा जुहुयादनुप्रतिगतं सिद्ध्यै समाराधयेत् ॥५३॥

पीतायोमुष्टिगदाहस्ता महिषाज्यसंयुतपुलाकैः ।
वैभीतारिष्टसमित्कोद्रवकैः स्तम्भयेच्च हुतविधिना ॥५४॥

सुसिता पाशाज्रुशयुग्विलद्वारिप्रवाहसम्भिन्ना ।
वेतससमिदाहुत्या मधुरयुजा मङ्क्षु वर्षयेद्दुर्र्गा ॥५५॥

रक्ता पाशाज्रुशिनी निशि फलिनीकेसरोद्भवैः कुसुमैः ।
चन्दनरससंसिक्तैर्होमाद्दुर्गा वशीकरोति जगत् ॥५६॥

लवणैस्त्रिमधुरसिक्तैस्तत्कृतया वा जुहोतु पुत्तल्या ।
उडुतरुकाष्ठैर्नक्तं सप्ताहान्नृपतिमपि वशीकुरुते ॥५७॥

सकपालशूलपाशाज्रुशहस्तारुणतरा तथा दुर्गा ।
आकर्षयते लावणपुत्तल्या त्रिमधुराक्तया होमात् ॥५८॥

ध्यात्वा धूम्रां मुसलत्रिशिखकरामस्थिभिश्च तीक्ष्णाक्तैः ।
कार्पासानां निम्बच्छदमेषघृतैर्हुताच्च विद्वेषः ॥५९॥

धूम्रा तर्जनिशूलाहितहस्ता विषदलैः समहिषाज्यैः ।
होमाच्च मरिचसर्षपचरुभिरजारुधिरसेचितैरटयेत् ॥६०॥

शिखिशूलकराग्निनिभा सर्षपतैलाक्तमत्तबीजैश्च ।
मरिचैर्वा राजियुतैर्होमादहितान्विमोहयेद्दुर्गा ॥६१॥

कृष्णा शूलासिकरा रिपुदिनवृक्षोद्भवैः समित्प्रवरैः ।
व्रणकृद्धृतसंसिक्तैर्होमान्मासेन मारयेद्दुर्गा ॥६२॥

नक्षत्रवृक्षसमिधो मरिचानि च तीक्ष्णहिङ्गुशकलानि ।
मारणकर्मणि विहितान्यरुष्करस्नेहसिक्तानि ॥६३॥

नक्षत्रवृक्षसमिधां विलिखितसाध्याभिधानकर्मवताम् ।
सचतुश्चत्वारिंशत्तत्त्वयुजां होमकर्म मरणकरम् ॥६४॥

मरिचं क्षौद्रसमेतं प्रत्यक्पुष्पीपरागसम्भिन्नम् ।
उष्णाम्भःपरिलुलितं प्रसेचयेदृक्षवृक्षपुत्तल्याः ॥६५॥

हृदये वदने च रिपोः सम्मुखतः सम्प्रतिष्ठितोरायाः ।
जूत्येभिभूतोऽरिः स्यात्तत्क्वथनात्पक्षमात्रकान्म्रियते ॥६६॥

सैव प्रतिकृतिरसकृत्प्रतिष्ठितसमीरणा च विशदधिया ।
तीक्ष्णस्नेहालिप्ता विलोमजापेन तापनीयाग्नौ ॥६७॥

विधिना ज्वरपीडा स्यादपघनहोमेन हानिरङ्गस्य ।
सर्वाहुत्या मरणं प्राप्नोति रिपुर्न तत्र सन्देहः ॥६८॥

प्राक्प्रोक्तान्भूतवर्णान्दश दश युगशो बिन्दुयुक्तान्नमोन्ता-
न्योनेर्मध्याश्रमध्येष्वपि पुनरथ संस्थाप्य भूताभवर्णान् ।
वर्णैस्तैः साकमग्नेर्मनुमपि कुलिशाद्यैः स्वचिह्नैः समेतं
कुर्यात्कर्माणि सम्यक्पटुविशदमतिः स्तम्भनाद्यानि मन्त्री ॥६९॥

ऊदोद्गादिलळाः कोर्नसौ चतुर्थार्णका वसौ वाराम् ।
दृष्ट्यैद्वितीयरक्षा वह्नेद्वन्द्वयोनिकादियषाः ॥७०॥

मरुतः कपोलबिन्दुकपञ्चमवर्णाः शहौ तथा व्योम्नः ।
मनुषु परेष्वपि मन्त्री कर्माणि करोतु तत्र संसिद्ध्यै ॥७१॥

उन्मत्तक्ष्वेलनेत्रद्रुमभवसमिधां सप्तसाहस्रिकान्तं
प्रत्येकं राजितैलालुलितमथ हुनेन्माहिषाज्यप्लुतं वा ।
कृष्णाष्टम्याद्यमेवं सुनियतचरितः सप्तरात्रं निशायां
निःसन्देहोऽस्य शत्रुस्त्यजति किल निजं देहमाविष्टमोहः ॥७२॥

सामुद्रे च सहिङ्गुजीरकविषे साध्यक्र्षवृक्षाकृतिं
कृत्वा यो वदनाञ्जले घटकटाहादिश्रिते क्वाथयेत् ।
सप्ताहं ज्वलनं जपन्विषतरोर्यष्ट्या शिरस्ताडनं
कुर्वन्सप्तदिनान्तरैर्यमपुरक्रीडापरः स्यादरिः ॥७३॥

अर्कस्यन्दनबद्धपन्नगमुखग्रस्ताङ्घ्रिमाशाम्बरं
न्यग्वक्त्रं तिलजाप्लुतं विषहरं दीप्तं करैर्भास्वतः ।
वायुप्रेरितवह्निमण्डलमहाज्वालाकुलास्यादिकं
ध्यायन्वैरिणमुत्क्षिपेज्जलममुं मन्त्रं जपेन्मृत्यवे ॥७४॥

आद्र्रांशुकोऽग्निमनुना त्वथ सप्तरात्रं
सिद्धार्थतैललुलितैर्मरिचैर्जुहोतु ।
आरभ्य विष्टिदिवसेऽरिनरः प्रलाप-
मूर्छान्वितेन विषयीक्रियते ज्वरेण ॥७५॥

तालस्य पत्रे भुजपत्रके वा मध्ये लिखेत्साध्यनराभिधानम् ।
अथाभितो मन्त्रमिमं विलोमं विलिख्य भूमौ विनिखन्य तत्र ॥७६॥

आधाय वैश्वानरमादरेण
समच्र्य सम्यङ्मरिचैर्जुहोतु ।
तीव्रो ज्वरस्तस्य भवेत्पुनस्त-
त्तोये क्षिपेद्वश्यतमः स भूयात् ॥७७॥

सिंहस्थाशरनिकरैः कृशानुवक्त्रै-
र्धावन्तं रिपुमनुधावमानमेनाम् ।
सञ्चिन्त्य क्षिपतु जलं दिनेशबिम्बे
जप्त्वामुं मनुमपि चाटनाय शीघ्रम् ॥७८॥

कृत्वा स्थण्डिलमङ्गणे भगवतीं न्यासक्रमैरर्चये-
द्गन्धाद्यैः पुनरन्धसा च विकिरेन्मन्त्री निशायां बलिम् ।
जप्त्वा मन्त्रममुं च रोगसहिताः कृत्यानिकृत्या कृतां-
स्तांस्तान्भूतपिशाचवैरिविहितान्दुःखानसौ नाशयेत् ॥७९।
विधिवदभिज्वाल्यानलमन्वहमाराध्य गन्धपुष्पाद्यैः ।
सन्ध्याजपाच्च मनुरयमाकाङ्क्षितसकलसिद्धिकल्पतरुः ॥८०॥

कुसुमरसलुलितलोणैर्वारुणवदनो जुहोतु सन्ध्यासु ।
मन्त्रार्णसङ्ख्यमग्नेरैक्येन द्रावयेदरीनचिरात् ॥८१॥

शुद्धैश्च तण्डुलैरपि हविर्विनिष्पाद्य पञ्चगव्यमपि ।
सघृतेन तेन जुहुयादष्टसहस्रं समेतसम्पातम् ॥८२॥

प्राशितसम्पातस्य स्याद्रक्षा सर्वथैव साध्यस्य ।
प्राङ्गणमन्दिरयोरपि निखनेद्वारे च शिष्टसम्पतम् ॥८३॥

कृत्या नश्यति तिंस्मन्वीक्षन्ते न ग्रहादयो भीत्या ।
कर्तारमेव कुपिता कृत्या सर्वात्मना च नाशयति ॥८४॥

ब्रह्मद्रुमफलकान्ते मन्त्रितमः सप्तसप्तकोष्ठयुते ।
कोणोदराणि हित्वा मायाबीजं सकर्ममध्यगते ॥८५॥

विलिखेत्क्रमेण मन्त्राक्षरांश्च शिष्टेषु तेषु कोष्ठेषु ।
तत्र मरुतः प्रतिष्ठां विधाय विनिधाय वह्निमपि जुहुयात् ॥८६॥

आज्येनाष्टसहस्रं फलकोपरि सम्यगात्तसम्पातम् ।
विप्रतिपत्तिधरायां निखनेन्नश्यन्त्युपद्रवाः सद्यः ॥८७॥

सिकताचरुगव्याश्मकमृदां प्रतिष्ठा विधीयते सिद्ध्यै ।
प्रस्थाढकघटमाना ग्रहपुरविषयाभिगुप्तये सिकताः ॥८८॥

मध्याष्टाशान्तसु च कुण्डानामारचय्य नवकमपि ।
विधिना निवपेत्क्रमशः सिंहधनुश्छागयायिनि दिनेशे ॥८९॥

तिथिषु तु कालाष्टम्यां तेषु विशाखाग्निमूलभागेषु ।
वारेषु मन्दवाक्पतिवर्जं सर्वे तथा प्रशस्यन्ते ॥९०॥

हस्तश्रवणमखासु प्राजापत्येषु कर्म कुर्वीत ।
द्वादशसहस्रसङ्ख्यं प्रजपेद्गायत्रमपि यथाप्रोक्तम् ॥९१॥

मध्ये च मूलमनुना तदायुधैरष्टदिक्षु चक्राद्यैः ।
सकपालान्तैः पृथगपि संस्थापनकर्म निगदितं विधिवत् ॥९२॥

तास्ताश्च देवता अपि परिपूज्य यथाक्रमेण मन्त्रितमः ।
कुर्याद्बलिं दिनग्रहकरणेभ्यो लोकपालराशिभ्यः ॥९३॥

सिकताः षोडशकुडुवं ब्रह्मद्रुमभाजने तु गव्याक्तम् ।
निवपति यदि विधिना तं देशं ग्रामं करोति चतुरब्दात् ॥९४॥

अर्केऽजस्थेऽब्धिगायामपरिमितजलायां समादाय शुद्धाः
सम्म्यक्संशोषयित्वातपमनु सिकताः शूर्पकोणैर्विशोध्य ।
संसिद्धे पञ्चगव्ये सुमतिरथ विनिक्षिप्य ताः कुम्भसंस्था
मन्त्राग्नौ मन्त्रजापी द्विजतरुसमिधा भर्जयेत्कार्यहेतोः ॥९५॥

एवं मृदुपलचरवः संस्थाप्यन्ते सपञ्चगव्यास्ते ।
वसुधाविप्रतिपत्तिक्षयं च पुष्टिं च कुर्वते क्रमशः ॥९६॥

व्रीहिभिरन्नैः क्षीरैः समिद्भिरथ दुग्धवीरुधामाज्यैः ।
मधुरत्रयमधुरतरैर्महतीमृद्धिं करोति हुतविधिना ॥९७॥

यद्यद्वाञ्छति पुरुषस्तत्तदमुष्य प्रभावतः साध्यम् ।
सग्रहनक्षत्राद्यां सगिरिपुरग्रामकाननां वसुधाम् ॥९८॥

साहिझषोपलमुदधिं दहति ह मतिमानयत्नमेतेन ।
एवं प्रोत्थापयति च मन्त्रेणानेन निशितधीर्मन्त्री ।
पुंसा केन कियद्वा मन्त्रस्याचक्षतेऽस्य सामथ्र्यम् ॥९९॥

तस्मादेनं मनुवरमभीष्टाप्तये संयतात्मा
जप्यान्नित्यं सहुतविधिरप्यादरादर्चयीत ।
भक्त्या कुर्यात्सुमतिरभिषेकादिकं कर्मजातं
कर्तुं वान्यत्प्रवणमतिरत्रैव भक्तः सदा स्यात् ॥१००॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे एकोनत्रिंशः पटलः ॥

N/A

References : N/A
Last Updated : January 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP