संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्|

द्वात्रिंशः पटलः

प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.


अथ यन्त्रविरचनाभिर्मन्त्रविशेषान्बहुप्रकारयुतान् ।
कथयिष्ये मन्त्रविदामैहिकपारत्रिकाप्तये सुधियाम् ॥१॥

त्रिगुणितसंज्ञे मायालङ्कृतकोणे तयाभिवीते च ।
या या विशेषकॢप्तिस्तां तामपि सङ्ग्रहेण समभिदधे ॥२॥

कोणोल्लसितसुधाक्षरगलदमृतस्फरितवह्निपरिवीतान् ।
बिन्दोर्मध्यगबीजस्थितान्सुधाधारया परिस्रुतया ॥३॥

पूर्णसुषम्नारन्ध्रां साध्यतनुं संस्मरञ्शिरसि बध्यात् ।
तेनारोगी पुरुषः प्रज्ञावान्दीर्घमायुराप्नोति ॥४॥

शीतांशुमण्डलस्थं कूर्मचतुर्थात्तकोणलसितमिदम् ।
शीतप्रलिप्तजप्तं कधृतं च शिरोरुजाज्वरार्तिहरम् ॥५॥

तद्यन्त्रयुगं विलिखेदभिविलिखितसाध्यसाधकाख्ययुतम् ।
साध्यमधस्तात्कृत्वा बद्ध्वात्र स्वपतु साधको नित्यम् ॥६॥

विधिनानेन तु सम्यक्साध्योऽस्य वशे भवेदयत्नेन ।
तत्तु खनित्वागारे तत्रान्नं सिद्धमत्तु वश्यकरम् ॥७॥

साध्याख्यां शक्तिवह्नौ नरहरिमपि रन्ध्रत्रये च त्रिशक्तौ
कर्मालिख्याथ लोष्टे सततगमपि संस्थाप्य जप्त्वा स्वशक्त्या ।
आगारे स्थापयित्वा नरमुदकनिधेश्चित्रपत्रे लिखित्वा
दीपाग्नौ तापयित्वा स्त्रियममलधियः सम्यगाकर्षयेयुः ॥८॥

त्रिगुणितविहिता विधयः षड्गुणिते च प्रयोजनीयाः स्युः ।
रक्षाकर्मणि विहितं तत्प्रायः प्रचुरमन्त्रयुक्ततया ॥९॥

पाशाष्टाक्षरवीतशक्ति दहनप्रोल्लासिसाध्याह्वयं
शक्तिश्रीस्मरसंवृतं कुयुगरन्ध्राबद्धचिन्तामणि ।
इत्थं षड्गुणितं विलिख्य जपितं मन्त्री दधानोऽसकृ-
द्राज्ञां वामदृशां प्रियो भवति सङ्ग्रामे पुरे वा चिरम् ॥१०॥

चिन्तारत्नाश्रिताश्रित्रियुगमथ नृसिंहावृतान्तःस्थबीजं
प्रादुःसाध्याभिधानं बहिरपि लिपिभिः प्रानुलोमानुवीतम् ।
क्ष्माबिम्बद्वन्द्वरन्ध्रप्रचलितचतुरर्णं ग्रहोन्मादभूत-
व्याधिघ्नं यन्त्रमस्मिन्कृतकलशविधिर्गर्भरक्षाधिकारी ॥११॥

द्वादशगुणिते शूले नृसिंहबीजं नरेन्द्रपुरवीतम् ।
पीतालिप्तं पुरलघुधूपितमन्तःप्रबद्धकर्मयुतम् ॥१२॥

चतसृषु दिक्षु निखन्यात्सीमायां द्वारतोरणाधो वा ।
देशाभिगुप्तिरेषा गुप्ततमा सूरिभिः पुरा प्रोक्ता ॥१३॥

अलदलनिशाकुशीतैर्मसृणे पट्टे विलिख्य यन्त्रमिदम् ।
घेरस्थापनकर्म प्रतिजप्तं प्राङ्गणे खनेन्मन्त्री ॥१४॥

तत्र विशन्ति न चोरा ग्रहकृत्या स्यान्निकेतरक्षा च ।
अश्माभिपातवारणमभिवृद्धिं सम्पदां करोत्यचिरात् ॥१५॥

तद्वद्घटर्गलाख्यं यन्त्रं नीले विलिख्य पट्टवरे ।
मेचकसाध्यप्रतिकृतिहृदये गुलिकां विधाय निक्षिप्य ॥१६॥

त्रिमधुरपूर्णे पात्रे विन्यस्याभ्यच्र्य गन्धपुष्पाद्यैः ।
बलिमपि विकिरेद्रात्रिषु सप्ताहादानयेद्वधूमिष्टाम् ॥१७॥

तामेवाथ प्रतिकृतिमग्नौ किञ्चित्प्रतापयेत्प्रजपन् ।
शक्तिं पाशाज्रुशमनुसाध्याह्वयर्दिभतां समाहितधीः ॥१८॥

विधिनामुना त्रिरात्राद्गर्वितधियमपि सुराङ्गनां मन्त्री ।
आकर्षेन्निजवाञ्छाप्रदायिनीं मदनबाणविह्वलिताम् ॥१९॥

यन्त्रं तदेवलाक्षाताम्रावीतं निधाय कलशजले ।
जप्त्वा भानुसहस्रकमभिषिञ्चेद्रजतकाञ्चनाभ्यां च ॥२०॥

तद्वद्विधाय कलशे तद्यन्त्रं धारयेत्पुर्निनत्यम् ।
वाञ्छितसिद्धिं लभते भक्त्या प्रणमन्ति देवता अपि तम् ॥२१॥

यन्त्रं तदेव विधिवद्भित्तावालिख्य पूजयेद्दिनशः ।
चोरारिभूतनागा अपि तं देशं न वीक्षितुं शक्ताः ॥२२॥

आलिख्य वीरपट्टे यन्त्रमिदं मस्तकार्पितं कृत्वा ।
युध्यन्प्रत्र्यिथनमपि हत्वा यात्यव्रणाज्र्तिओ योद्धा ॥२३॥

मदजलविलिखितमेतद्यन्त्रं जप्तं च मस्तके न्यस्तम् ।
करिणीमपि मदयेद्द्राक्चण्डतरे का कथा करेणुवरे ॥२४॥

बहुनेति भाषितेन किमेभ्यो मुख्यं न किमपि यन्त्रेभ्यः ।
तस्मादमूनि सद्भिर्धार्याणि च विश्ववश्यमिच्छद्भिः ॥२५॥

गजमृगमदकाश्मीरैर्मन्त्रितमः सुरभिरोचनायुक्तैः ।
विलिखेदलक्तकरसालुलितैर्यन्त्राणि सकलकार्यार्थी ॥२६॥

राज्या पटुसंयुतया सपाशशक्त्यज्रुशेन मन्त्रेण ।
स्वाद्वक्तयाभिजुह्वन्निश्युर्वीशांस्तथोर्वशीं वशयेत् ॥२७॥

हृल्लेखाग्निस्थसाध्याह्वयमपि बहिराक्रोंवृतं वह्निगेह-
द्वन्द्वाश्रिस्वस्तिकाढ्यं प्रतिलिखतु दले यन्त्रजं नागवल्ल्याः ।
जप्त्वा शक्तिं तु पाशाज्रुशलिपिसहितां तापयेद्दीपवह्नौ
नक्तं भक्त्यानताङ्गी स्मरशरविवशा प्रेमलोलाभियाति ॥२८॥

शक्तिस्थं निजनाभिवह्निभवनद्वन्द्वोदरे मान्मथं
बीजं साध्यविदर्भया परिवृतं शक्त्या बहिः पार्थिवम् ।
तत्कोणे स्मरमन्यपुष्टनयनप्रोत्थैः पुनः र्किणकै-
स्ताम्बूलैर्लिखिताभिजप्तमदयेद्योषिन्मनोमोहनम् ॥२९॥

शक्त्यन्तः स्थितसाध्यनाम परितो बीजैश्चतुर्भिः समा-
बद्धं शक्तिमनोभवाज्रुशलिपिप्रोम्भिः समावेष्टितम् ।
शाल्युत्थे प्रतिलिख्य पिष्टविकृतौ प्राणान्प्रतिष्ठाप्य च
त्रिस्वादौ परिभज्र्य तत्समदतः साध्यो वशे तिष्ठति ॥३०॥

डान्तं शिखीलवयुतं दहनांशसाध्यं
मायांशसाधकमथाभिवृतं कलाभिः ।
मध्योल्लसद्विमुखशूलमिदं तु भुर्तु-
र्यन्त्राह्वयं नरनताङ्गिवशङ्करं स्यात् ॥३१॥

मृत्काराङ्गुलिकात्तया सकृकलासान्तर्वसायुक्तया
साध्यस्याङ्घ्रिरजोयुजा मृदुमृदा कॢप्तस्य शक्तिं हृदि ।
रूपस्याभिविलिख्य तद्विवरके साध्यं तदीरान्प्रति-
ष्ठाप्याजल्प्य निखन्य तत्र दिनशो मेहेच्चिरं वश्यकृत् ॥३२॥

वामाक्ष्याः प्रतिलिख्य नाम निशया वामोरुदेशे निशा-
मध्ये वामकरेण संशितमतिः सञ्छादयंस्तन्मनाः ।
पूर्वं रुद्रपदं ततश्च दयितेयोगीश्वरीबिन्दुम-
न्मन्त्रं जप्यति चेदनङ्गविवशां सद्यः प्रियामानयेत् ॥३३॥

मायाहृदोरथान्ते ब्रह्मश्रीराजितेऽक्षरान्प्रोक्त्वा ।
राजयुतपूजितेऽर्णान्स जये विजये च गौरि गान्धारि ॥३४॥

त्रिभुवनवशङ्करीति च सर्वलोकान्तिके वशङ्करि च ।
सर्वस्त्रीपुरुषवशङ्करि सुदुघे वाक्षरान्प्रवीप्स्य ततः ॥३५॥

मायाद्विठान्तिको मनुरेकाधिकषष्टिवर्णकः प्रोक्तः ।
ऋषिरस्याजोऽतिनिचृच्छन्दो गौरी च देवता प्रोक्ता ॥३६॥

सचतुर्दशभिर्दशभिस्तथाष्टभिश्चाष्टभिस्तथा दशभिः ।
एकादशभिर्मन्त्राक्षरैः क्रमादुच्यते षडङ्गविधिः ॥३७॥

असकलशशिराजन्मौलिराबद्धपाशा-
ज्रुशरुचिरकराब्जा बन्धुजीवारुणाङ्गी ।
अमरनिकरवन्द्या त्रीक्षणा शोणलेपां-
शुककुसुमयुता स्यात्सम्पदे पार्वती वः ॥३८॥

अयुतं प्रजपेज्जुहुयाद्घृताप्लुतैः पायसैर्दशांशेन ।
आराधयेत्तदङ्गैर्मातृभिराशाधिपैश्च निशितमनाः ॥३९॥

तिलतण्डुलकैर्लोणैस्त्रिमधुरसिक्तैः फलैश्च मधुरतरैः ।
साज्यैररुणकुवलयैस्त्रिदिनं हवनक्रिया सुवश्यकरी ॥४०॥

नित्यं चादित्यगतां देवीं प्रतिपद्य तन्मुखो जप्यात् ।
अष्टोत्तरशतमह्नामादौ भुवनं वशीकरोत्यचिरात् ॥४१॥

वर्णादर्वाङ्मन्त्री प्रयोजयेत्साध्यनामकर्मयुतम् ।
प्रजपेद्वा हवनविधौ वाच्छितसिद्धिप्रदस्तथा मन्त्रः ॥४२॥

सतारराजमुख्यन्ते राजाधिमुखिवर्णकान् ।
सम्भाष्य वश्यमुखि च स्वां श्रीमारार्णकान्वदेत् ॥४३॥

वीप्स्य देविमहादेविपदं देवादिदेवि च ।
प्रोक्त्वा सर्वजनस्येति मुखं मम वशं वदेत् ॥४४॥

कुरु कुर्विति ठद्वन्द्वान्तिकं मन्त्रं समुद्धरेत् ।
सप्ताधिकैः सदशभिस्तथा त्रिंशद्भिरक्षरैः ॥४५॥

दशभिः सप्तभिश्चैव चतुर्भिः करणाक्षरैः ।
पञ्चभिः सप्तदशभिर्वर्णैरङ्गक्रिया मता ॥४६॥

ब्रह्माश्रीमन्त्रसम्प्रोक्ता प्रतिपत्तिरमुष्य च ।
मन्त्रस्य जपकॢप्तिस्तु तथा होमविधिर्मतः ॥४७॥

मन्त्री सर्वजनस्थाने कुर्यात्साध्याह्वयान्मनोः ।
प्रजपे हवने वाथ तथा तर्पणकर्मणि ॥४८॥

देवीध्माष्टशतं प्रसूनवदथ त्रिस्वादुयुक्तं हुने-
त्सप्ताहं भसितेन तेन विहितं पुण्ड्रादिकं वश्यकृत् ।
आज्यैस्तत्कृतहोमपातितसमाजप्तं घृतं प्राशये-
त्साध्यं निष्परिहारकं च तदिदं वश्यं भवेद्देहिनाम् ॥४९॥

शक्तिं साध्यक्र्षवृक्षप्रतिकृति हृदि संलिख्य संस्थाप्य जीवं
जप्त्वा खन्याज्र्णेऽस्मिन्विधिवदनलमाधाय पुष्पैर्जपायाः ।
देवीमन्त्रेण रात्रौ दशपरशतसङ्ख्यैस्तु काचन्दनाक्तै-
र्हुत्वा तां सप्तरात्रं सरिति निखनतादुत्तमं वश्यकर्म ॥५०॥

अन्नं मय्यह्यन्नं मे देह्यन्नाधिपतये ममेत्युक्त्वा ।
अन्नं प्रदापयेति च ठद्वयुगान्तोऽन्नदायको मन्त्रः ॥५१॥

करणेन्द्रियरसधातुद्वयवर्णैरङ्गमन्त्रपत्रपदैः ।
द्व्ययुतजपावधिरेष द्विसहस्रहुतं च र्सिपरन्नाभ्याम् ॥५२॥

दुग्धाब्धौ रूप्यवप्रावृतकनकमयद्वीपवर्ये सुराढ्ये
कल्पद्रूद्यानकाधो मणिमयलसिते वित्तसस्याग्रभागे ।
आसीने भूश्रियौ वाञ्छितवसुनिचयं मन्त्रिणे संसृजन्त्यौ
मन्त्री सञ्चिन्तयानो जपतु दिनमुखे सम्पदेऽन्नस्य मन्त्रम् ॥५३॥

नत्यादिभगवत्यन्ते माहेश्वरिपदं वदेत् ।
अन्नपूर्णेऽग्निजायान्तो मन्त्रोऽन्नप्रदसंज्ञकः ॥५४॥

मायाविहितषडङ्गो दिनमुखजप्यश्च षोडशसहस्रम् ।
प्रोक्तो जपावसाने सघृतैरन्नैर्दशांशको होमः ॥५५॥

रुद्रताण्डवविलोकनलोलां भद्रवक्त्रनयनां भवकान्ताम् ।
अन्नदाननिरतां जननीं तां चिन्तयञ्जपतु चित्रदुकूलाम् ॥५६॥

वैश्रवणः पक्वाशः पिङ्गलनिधिपौ तथैव वित्तेशः ।
सकुबेरस्वाहान्तः सव्याहृतयः समीरिता मन्त्राः ॥५७॥

वित्तेशस्यान्तराले दशवटसमिधः र्सिपषाक्ता विविक्ता
होतव्या द्रव्यसिद्ध्यै कनकघटकरण्डात्तदोस्तुन्दिलोऽसौ ।
हेमाभो रत्नदीप्तो दरकमलनिधिद्योतितो हेमपीठे
ध्येयो न्यग्रोधमूले हुतभुजि विदुषा वैश्वदेवावसाने ॥५८॥

मन्त्रैरेतैर्घृतयुतपायसहोमोऽपि मन्त्रिणां विहितः ।
लक्ष्म्यै सघृतैश्च तिलैर्बिल्वसमिद्धो मतस्तदेव फलम् ॥५९॥

भयाहारेन्दुयुक्सैव विदण्डाहस्पताक्षराः ।
बालिस्थयोनिर्नत्यन्तो वसुवर्णो मनुर्मतः ॥६०॥

वर्णसाहस्रजाप्यश्च तावच्छतहुतो मतः ।
होमः र्सिपष्मतान्नेन बीजेनाङ्गक्रिया मता ॥६१॥

रत्नस्वर्णांशुकादीन्निजकरकमलाद्दक्षिणादाकिरन्तं
वासोराशौ निधायापरममरगुरुं पीतवस्त्रादिभूषम् ।
ध्यायन्नासीनमप्यापणभुवि शतसङ्ख्यं सविंशत्कमेवं
भीतापुष्पैर्घृतात्तैरीत्रदिनमथ हुनेत्स्वर्णवस्त्रादिसिद्ध्यै ॥६२॥

वययोरन्तरास्त्रं मे देहि शुक्राक्षराद्विठः ।
मन्त्रोऽयुतजपः र्सिपः सहस्रहवनक्रियः ॥६३॥

शुक्रास्ये शुक्लपुष्पैर्हुतभुजि गुणशः सप्तशोऽप्येकविंश-
द्वारं होतव्यमेषोऽप्यतिसितकुसुमालेपनो वामदोष्णा ।
वासोरत्नादिकार्तस्वरमपि सततं साधकाय प्रयच्छ-
न्ध्यातो व्याख्यानमुद्राकलितपरकरस्त्वापणालिन्दसंस्थः ॥६४॥

राजेरस्थोऽहिपो दण्डी वेदान्तेऽसौ विदण्डकः ।
सायान्ते नतिरप्यष्ठवर्णो वैयासिको मनुः ॥६५॥

मुनिव्रातावीतं मुदितधियमम्भोदरुचिर-
द्युतिं व्याख्यामुद्राकलनविलसद्दक्षिणकरम् ।
परं जानौ कृत्वा दृढकलितकक्ष्ये कविवरं
समासीनं व्यासं स्मरत निरतं पुण्यचरितम् ॥६६॥

विकृतिसहस्रजपोऽयं दशांशतः पायसाज्यहवनविधिः ।
निरुपमकविताप्रज्ञाव्याख्याश्रीसम्पदावहो मन्त्रः ॥६७॥

करचरणपाश्र्वमूलद्युलोंहरेबिन्दुदुंसरसनार्णाः ।
अलिकाद्याः वर्मास्त्रद्विठान्तिको मनुरयं ध्रुवादिः स्यात् ॥६८॥

अयुतं प्रजपेच्च षट्सहस्रावधि मन्त्रे जुहुयाद्दशांशमानम् ।
तिलसर्षपतण्डुलैः सशालीहविराज्यैः सुसमेधिते कृशानौ ॥६९॥

उत्तुङ्गादिः प्रचेता अपि दहनसमीरौ धराव्योमसंज्ञे
प्राक्प्रत्यग्दक्षसौम्यास्वध उपरि च दिक्षु प्रबन्धप्रभाः स्युः ।
तन्मध्यस्थान्विपक्षादिकहरिरुरुदन्तीन्द्रनागान्सचोरा-
न्हन्त्येतैर्मन्त्रिमुख्यो मनुविहितबलव्याकुलान्सद्य एव ॥७०॥

निजरिपुमचलाद्यैस्तैः ससम्बाधवीतं
मनुविदथ हलोभ्यां रुद्धनिश्वासवेगे ।
तदुपरिगतबीजैः साधुसंस्यूतवक्त्रं
दहतु सकवचास्त्रद्वीन्दुभिः स्वेच्छयैनम् ॥७१॥

योनिर्वियत्सुनेत्रं परमे वर्णांस्तथास्थिगं मेदः ।
रक्तस्थदृग्द्विठान्तस्ताराद्योऽयं मनुर्दशार्णयुतः ॥७२॥

अयुतं जपेन्मनुमिमं सहस्रवारं हुनेत्तथाज्येन ।
ध्यातापि गिरिसुतेयं जगतीं विश्वां वशीकरोत्यनिशम् ॥७३॥

अश्वारूढा कराग्रे नवकनकमयीं नेत्रयष्टिं दधाना
दक्षेऽन्येनानयन्ती स्फुरिततनुलतापाशबद्धां स्वसाध्याम् ।
देवी नित्यप्रसन्नाननशशधरबिम्बा त्रिनेत्राभिरामा
दद्यादाद्यानवद्या प्रवरसुखफलप्राप्तिहृद्यां श्रियं वः।७४॥

विद्ययानुदिनहृद्ययानया होमकर्मवरहेमदायि तत् ।
कामितां सपदि वामलोचनामानयेदपि च मारपीडिताम् ॥७५॥

हवनक्रिया सपदि वश्यकरी मधुरावसेकपटुना पटुना ।
सदृशो न कश्चन जगत्यपरो मनुनामुनानयनकर्मविधौ ॥७६॥

वाणी स्यात्ताररूपा शिरसि गिरिसुता शक्तिरूपा ललाटे
रव्यग्न्यक्ष्णोस्तथामौ विधुरपि वदनावेष्टने टान्तरूपः ।
श्रीर्जिह्वायां स्वरूपा स्वभिमतकरिरूपौ स्वहौ दीर्घयुक्ता-
वेवं न्यासे मुखश्रीविभवसुखयशःकान्तिमेधाकरः स्यात् ॥७७॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे द्वात्रिंशः पटलः ॥

N/A

References : N/A
Last Updated : January 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP