द्वादशः पटलः
प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.
अथ रमाभुवनेशिमनोभवैस्त्रिपुटसंज्ञकमन्त्रमुदीरितम् ।
सकलवर्गफलाप्तियशस्करं जगति रञ्जनकृत्कविताकरम् ॥१॥
बीजैस्त्रिभिर्द्विरुक्तैः कुर्यादङ्गानि साधकः सिद्ध्यै ।
पूर्वतरेरितयोर्वा द्वयोरथैकं तदङ्गयोः प्रभजेत् ॥२॥
नवकनकभासुरोर्वीविरचितमणिकुट्टिमे सकल्पतरौ ।
रत्नवरबद्धसिंहासननिहितसरोरुहे समासीनाम् ॥३॥
आबद्धरत्नमकुटां मणिकुण्डलोद्य
त्केयूरकोर्भिरशनाह्वयनूपुराढ्याम् ।
ध्यायेद्धृताब्जयुगपाशकशाज्रुरेक्षु-
चापां सपुष्पविशिखां नवहेमवर्णाम् ॥४॥
चामरमुकुरसमुद्गकताम्बूलकरज्र्वाहिनीभिश्च ।
दूतीभिः समभिवृतां पश्यन्तीं साधकं प्रसन्नदृशा ॥५॥
योगेश्वरीमिति विचिन्त्य जपेच्च मन्त्र-
मादित्यलक्षमथ मन्त्रितमो जपान्ते ।
श्रीराजवृक्षसमिधां सजपार्तवानां
तावत्सहस्रसमितं मधुरैर्जुहोतु ॥६॥
अङ्गैर्लक्ष्मीहरिगिरिसुताशर्वरत्यङ्गजातैः
षट्कोणस्थैर्निधियुगयुतैस्तद्बहिर्मातृभिश्च ।
योषिद्रूपैर्बहिरपि यजेल्लोकपालैस्तदेत-
त्प्रोक्तं देव्या अपि सुरगणैः पूजनीयं विधानम् ॥७॥
लक्ष्मीगौरीमनसिशयबीजानि कृत्वा कलायां
तां वा बिन्दौ तमपि गगने तच्च सिन्दूरवर्णम् ।
स्मृत्वा बुद्ध्या भुवनमखिलं तन्मयत्वेन मन्त्री
देवान्वश्यानपि वितनुते किं पुनर्मत्र्यजातीन् ॥८॥
य इमं भजते मनुं मनस्वी विधिना वा पुनरर्चयेद्विधानम् ।
स तु सम्यगवाप्य दृष्टभोगान्परतस्तत्पदमैशमेति धाम ॥९॥
सहृदयभगवत्यै दान्तरण्यै धरार्णाः
सणिधरशिवधार्णारे द्विठान्ता ध्रुवाद्याः ।
गदितमिति धराया मन्त्रमुत्कृष्टधात्री-
सुखसुतधनधान्यप्राप्तिदं कीर्त्तिदं च ॥१०॥
ऋषिरपि वराह उक्तश्छन्दो निचृदस्य देवता धरणी ।
मनुनामुनैव च पदैः षोढा भिन्नेन निगदितोऽङ्गविधिः ॥११॥
मुख्याम्भोजे निविष्टारुणचरणतला श्यामलाङ्गी मनोज्ञा
चञ्चच्छाल्यग्रचुम्बच्छुकलसितकरो प्राप्तनीलोत्पला च ।
रत्नाकल्पाभिरामा मणिमयमकुटा चित्रवस्त्रा प्रसन्ना
दिश्याद्विश्वम्भरा वः सततमभिमतं वल्लभा कैटभारैः ॥१२॥
लक्षायता च सदशांशहुतावसाना
प्रोक्ता धराहृदयमन्त्रजपक्रिया स्यात् ।
र्सिपष्मता सुविमलेन पयोन्धसास्य
होमो विधिः सकलसिद्धिकरः किलायम् ॥१३॥
पीठे विष्णोः पूजयेत्पूर्वमन्त्रै-
र्भूवह्न्यम्बुप्राणसंज्ञैश्च भूतैः ।
शान्त्यन्ताभिः शक्तिभिः साकमाशा-
पालैः पृथ्वीं संयतात्मोपचारैः ॥१४॥
पुष्पैः प्रियङ्गोर्मधुरत्रयाक्तै-
नीलोत्पलैर्वापि तथारुणैस्तैः ।
सहस्रमानं प्रतिजुह्वतः स्या-
द्गौर्गोमती सस्यकुलाकुला च ॥१५॥
पिङ्गलां पृथुलशालिञ्जरीं
यो जुहोति मधुरत्रयोक्षिताम् ।
नित्यशः शतमथास्य मण्डला-
द्धस्तगा भवति विस्तृता मही ॥१६॥
भृगोस्तु वारे निजसाध्यभूभृ-
द्विलोलिताम्भःपरिपक्वमन्धः ।
पयोघृताक्तं जुहुयात्सहस्रं
दुग्धेन वा तेन दिनावतारे ॥१७॥
षण्मासादनुभृगुवारमेष होमः
सम्पन्नान्समुपनयेद्धराप्रदेशान् ।
पुत्रान्वा पशुमहिषेष्टजुष्टपुष्टा-
मिष्टामप्यनुदिनमिन्दिरां समग्राम् ॥१८॥
सङ्क्षेपतो हृदयमन्त्रविधिर्धरायाः
प्रोक्तो हिताय जगतां रहितक्षमाणाम् ।
एनं भजन्निति धराकमलासमृद्धः
स्यादत्र सिद्धिमपरत्र परां प्रयाति ॥१९॥
अथ पुरुषार्थचतुष्टयसिद्धिकरी मन्त्रजापनिरतानाम् ।
त्वरिताख्येयं विद्या निगद्यते जपहुतार्चनाविधिभिः ॥२०॥
भक्तियुतानां त्वरया सिद्धिकरी चेति मन्त्रिणां सततम् ।
देव्यास्त्वरिताख्या स्यात्त्वरितं क्ष्वेलग्रहादिहरणतया ॥२१॥
वर्मद्ध्र्ये च तदन्त्यः शिवयुक्चरमेऽङ्गनाद्युसाधिलवम् ।
अन्त्यः स योनिरस्त्रान्तिकः सतारो मनुर्दशार्णयुतः ॥२२॥
तारान्तेऽस्त्रादावपि मायाबीजं प्रयोजयेन्मन्त्री ।
तेन हि काङ्क्षितसिद्धिर्भूयादचिरेण मन्त्रविदाम् ॥२३॥
कूर्मादिभ्यां द्वाभ्यां द्वाभ्यामपि पूर्वपूर्वहीनाभ्याम् ।
कुर्यात्सप्तभिरर्णैरङ्गानि च षट् क्रमेण मन्त्रज्ञः ॥२४॥
कालिकगलहृन्नाभिकगुह्योरुषु जानुजङ्घयोः पदयोः ।
देहे न्यासं कुर्यान्मन्त्रेण व्यापकं समस्तेन ॥२५॥
श्यामतनुमरुणपज्र्जचरणतलां वृषलनागमञ्जीराम् ।
स्वर्णांशुकपरिधानां वैश्याहिद्वन्द्वमेखलाकलिताम् ॥२६॥
तनुमध्यलतां पृथुलस्तनयुगलां करविराजदभयवराम् ।
शिखिपिञ्छनालवलयां गुञ्जाफलगुणितभूषणारुणिताम् ॥२७॥
नृपफणिकेयूरां तां गलविलसद्विविधमणियुताभरणाम् ।
द्विजनागविहितकुण्डलमण्डितगण्डद्वयीमुकुरशोभाम् ॥२८॥
शोणतराधरपल्लवविद्रुममणिभासुरां प्रसन्नां च ।
पूर्णशशिबिम्बवदनामरुणायतलोचनत्रयीनलिनाम् ॥२९॥
कुञ्चितकुन्तलविलसन्मकुटाघटिताहिवैरिपिञ्छयुताम् ।
कैरातीं वनकुसुमोज्ज्वलां मयूरातपत्रकेतनिकाम् ॥३०॥
सुरुचिरसिंहासनगां विभ्रमसमुदायमन्दिरां तरुणीम् ।
तामेनां त्वरिताख्यां ध्यात्वा कुयौज्जपार्चनाहोमान् ॥३१॥
दीक्षां प्राप्य गुरोरथ लक्षं जप्याद्दशांशकं जुहुयात् ।
बिल्वसमिद्भिस्त्रिमधुरयुक्ताभिः साधकः सुसंयतधीः ॥३२॥
अष्टहरिविधृतसिंहासने समावाह्य सरसिजे देवीम् ।
अङ्गैः सह प्रणीतां गायत्रीं पूजयेद्दिशां क्रमतः ॥३३॥
हुज्रराख्या खेचरि चण्डेसच्छेदनी तथा क्षपणी ।
भूयः स्त्रियाह्वया हुङ्कारीसक्षेमकारिकाः पूज्याः ॥३४॥
सश्रीबीजा लोकेशायुधभूषान्विता दलाग्रेषु ।
फट्कारी चाप्यग्रे शरासशरधारिणी च तद्बाह्ये ॥३५॥
सस्वर्णवेत्रयष्ट्यौ द्वाःस्थे पूज्ये पुनर्जयाविजये ।
कृष्णो बर्बरकेशो लगुडधरः किङ्करश्च तत्पुरतः ॥३६॥
अरुणैश्चन्दनकुसुमैर्वनजैरपि धूपदीपनैवेद्यैः ।
प्रवरैश्च नृत्तगीतैः समर्चयेद्भक्तिभारनम्रतनुः ॥३७॥
जपहुतपूजाभेदैरिति सिद्धे मन्त्रजापिनो मन्त्रे ।
नारीनरनरपतयः कुर्वन्तिसदा नमस्क्रियामस्मै ॥३८॥
विद्याधर्यो यक्ष्यः ससुरासुरसिद्धचारणप्रमदाः ।
अप्सरसश्च विशिष्टाः साधकसक्तेन चेतसाकुलिताः ॥३९॥
स्मरशरविह्वलिताङ्ग्यो रोमाञ्चितगात्रवल्लरीललिताः ।
घनघर्मबिन्दुमौक्तिकविलत्कुचगण्डमण्डलद्वितयाः ॥४०॥
विस्पष्टजघनवक्षोरुहदोर्मूलाः स्खलत्पदन्यासाः ।
मुकुलितनयनसरोजाः प्रस्पन्दितदशनवसनसम्भिन्नाः ॥४१॥
श्लथमानांशुकचिकुरा मदविवशस्खलितमन्दभाषिण्यः ।
मृदुतरमस्तकविरचितनत्यञ्जलयः प्रसादकाङ्क्षिण्यः ॥४२॥
वीक्षस्व देहि वाचं परिरम्भणपरमसौख्यमस्माकम् ।
एहि सुरोद्यानादिषु रंस्यामः स्वेच्छया निरातज्र्म् ॥४३॥
इत्यादि वाणिनीभिर्विलोभ्यमानो यदा न विक्रियते ।
मन्त्री तदेत्य वाञ्छितमखिलं तस्मै ददाति सा देवी ॥४४॥
योनिं कुण्डस्यान्तः प्रकल्प्य तत्रानलं समाधाय ।
सम्पूज्य पूर्वविधिना जुहुयात्सर्वार्थसिद्धये मन्त्री ॥४५॥
इक्षुशकलैः समृद्ध्यै दूर्वाभिः स्वायुषे श्रिये धान्यैः ।
धान्याय यवैः पुष्ट्यै गोधूमैत्र्र+द्धये तिलैर्जुहुयात् ॥४६॥
जम्बूभिः स्वर्णाप्त्यै राजीभिः शत्रुशान्तयेऽक्षतकैः ।
अक्षयसिद्ध्यै वकुलैः कीत्त्र्यै कुन्दैर्महोदयाय तथा ॥४७॥
अरुणोत्पलैश्च पुष्ट्यै मधूकजैरिष्टसिद्धयेऽशोकैः ।
पुत्राप्त्यै पाटलजैः स्त्रीसिद्ध्यै निम्बजैश्च विद्विष्ट्यै ॥४८॥
नीलोत्पलकैस्तुष्ट्यै चम्पकजैः कनकसिद्धये पद्मैः ।
सह किंशुकैश्च सर्वोपद्रवशान्त्यै स साधको जुहुयात् ॥४९॥
हुतसङ्ख्यासाहस्री नियुता वाथायुतान्तिकी भवति ।
यावत्सङ्ख्यो होमस्तावज्जप्यश्च मन्त्रिणा मन्त्रः ॥५०॥
अनुमन्त्रितैश्च वारिभिरासेकः क्ष्वेलशान्तिकृद्भवति ।
तज्जप्तयष्टिघातो मन्त्रितचुलुकोदकाहतिश्च तथा ॥५१॥
तत्कर्णरन्ध्रजापात्सद्यो नश्युर्विषग्रहादिरुजः ।
तद्यन्त्रस्थापनमपि विषभूतादिप्रशान्तिकृद्भवति ॥५२॥
आख्यां मध्ये सतारे मनुमथ शतसंयुक्तविंशत्पुटेषु
प्रादक्षिण्येन शर्वादिकमनुविलिखेद्वादशावृत्ति मन्त्री ।
विंशद्वन्द्वाष्टशूलाकलितविरचितं यन्त्रमेतत्सुजप्तं
बद्धं क्ष्वेलग्रहार्ति हरति विजयलक्ष्मीप्रदं कीर्त्तिदं च ॥५३॥
आख्यां मध्यगतानले लिखतु दिक्पङ्क्तिष्वथ स्युः सहूं
क्ष्रूं च्रूं छ्रूं करणद्विषष्टिपदके शैवादि कालीमनुम् ।
नैत्र्र+त्यादि तथा क्रमाक्रमवृतं बाह्येऽनलैरावृतं
प्रोक्तं निग्रहचक्रमन्तकपुरप्राप्तिप्रदं वैरिणाम् ॥५४॥
कालीमाररमालीका लीनमोक्षक्षमोनली ।
मामोदेततदेमोमा रक्षतत्वत्वतक्षरः ॥५५॥
यमापाटटपामाय माटमोटटमोटया ।
वामो भूरिरिभूमोवा टररीस्त्वस्त्वरीरट ॥५६॥
वह्नेर्विण्णिम्बनिर्यासकविषमषिभिः सीसपट्टेंशुके वा
शावे पाषाणके वा विलिखतु मतिमान्काकपत्रेण यन्त्रम् ।
वल्मीके चत्वरे वा क्षततरुविवरे वा निदध्यादराति-
र्मृत्युं प्राप्नोति भूयादवयवविकलो व्याधितः पातितो वा ॥५७॥
चक्रे चाष्टाष्टपदे कालीशिवयातुधानखण्डाद्यम् ।
यमदहनानिलवीतं विलिख्य विषदण्डिमर्कटीलिप्तम् ॥५८॥
जप्तमधोमुखमेतद्यत्र तु देशे विनिक्षिपेन्मन्त्री ।
तत्रोपद्रवमखिलं दिनशः सर्वात्मना भवति ॥५९॥
खण्डेष्वेकाशीतिषु मध्येन्दुगसाध्यं
जुंसः पूर्वं दिक्स्थचतुष्पङ्क्तिषु शैखम् ।
लिख्याल्लक्ष्मीं शिष्टचतुःषष्ठिषु विद्वा-
नीशाद्यं कन्यादि च बाह्ये त्वरिताख्याम् ॥६०॥
दिग्दिक्संस्थामस्त्रपदाभिर्वषडन्तां
मेदोमालावेष्टितबिम्बं घटवीतम् ।
पद्मस्थं तत्पज्र्जराजद्वदनान्तं
प्रोक्तं चक्रं सम्यगिहानुग्रहसंज्ञम् ॥६१॥
श्रीसामायायामासाश्री सानोयाज्ञेज्ञेयानोसा ।
मायालीलालीयामा याज्ञेलालीलीलाज्ञेया ॥६२॥
लाक्षाभिः कुज्रुमैर्वा विलिखतु धवले वांशुके स्वर्णपट्टे
लेखिन्या स्वर्णमय्या दृढमपि गुलिकीकृत्य सन्धारयेद्यः ।
कृत्याभ्यो मृत्युतो वा ग्रहविषदुरितेभ्यो विमुक्तः स धन्यो
जीवेत्स्वैः पुत्रपौत्रैरपरिमितमहासम्पदा दीर्घकालम् ॥६३॥
चतुःषष्ट्यंशे वा क्रमविदथ लक्ष्मीमनुममुं
शिवाद्यं नैत्र्र+त्यादिकमपि चतुर्णामृतवृतम् ।
बहिः स्वच्छे पट्टे कनकविहिते पूर्वविधिना
लिखित्वा जप्त्वा निक्षिपतु शितधीर्यत्र तदिदम् ॥६४॥
चक्रमनुग्रहसंज्ञं मन्त्री देशेऽत्र सम्पदो विरतम् ।
शुभतरफलदायिन्यो भवन्ति सस्र्यिद्धकालवृष्ट्याद्याः ॥६५॥
हुङ्कारे साध्यसंज्ञां विलिखतु तदधः र्किणकायां च शिष्टा-
नष्टौ वर्णान्दलेष्वारचयतु हरमायां त्रिशो वेष्टयित्वा ।
कुम्भस्थं यन्त्रमेतत्सरसिजपुटितं सर्वरक्षाप्रसिद्ध्यै
कॢप्तं सर्वोपसर्गप्रशमनफलदं श्रीकरं वश्यकारि ॥६६॥
इति निगदितकॢप्त्या पूजयेत्तोतलायां
मनुमनुदिनमेनं मानयन्मानवो यः ।
स तु जगति समग्रां सम्पदं प्राप्य देहा-
पदि मुदिततरात्मा युक्तधीर्मुक्तिमेति ॥६७॥
स्मरदीर्घैधरकाग्न्योन्दीर्घाभ्यक्ष्वेलदद्रलान्तशिवाः ।
अभितः शक्तिनिरुद्धो द्वादशवर्णोऽयमीरितो मन्त्रः ॥६८॥
द्वाभ्यां वा चैकेन द्वाभ्यां द्वाभ्यां तथा पुनर्द्वाभ्याम् ।
मन्त्राक्षरैर्विदध्यादङ्गविधिं जातिसंयुतैर्मन्त्री ॥६९॥
इन्दुकलाकलितोज्ज्वलमौलिर्मारमदाकुलितायुगनेत्रा ।
शोणितसिन्धुतरङ्गितपोतद्योतितभानुदलाम्बुजसंस्था ॥७०॥
दोर्धृतदाडिमसायकपाशा साज्रुशचापकपालसमेता ।
शोणदुकूलविलेपनमाल्या शोणतरा भवतोऽवतु देवी ॥७१॥
स्मृत्वा नित्यां देवीमेवं प्रजपेन्मनुं शतसहस्रम् ।
अयुतं जुहुयादन्ते नृपतरुसमिधां घृतेन वा सिद्ध्यै ॥७२॥
शाक्त पीठे पूज्या देवी कुसुमानुलेपनैररुणैः ।
स्वयमप्यलङ्कृताङ्गः सधूपदीपैर्निवेद्यताम्बूलैः ॥७३॥
हृल्लेखा क्लेदनी नन्दा क्षोभणी मदनातुरा ।
निरञ्जना रागवती तथान्या मदनावती ॥७४॥
मेखला द्राविणी चैव भूयोऽन्या वेगवत्यपि ।
सस्मारा द्वादश प्रोक्ताः शक्तयः पत्रसंस्थिताः ॥७५॥
अङ्गैः शक्तिभिराभिर्मातृभिराशाधिपैः क्रमात्पूज्या ।
भक्तिभरानतवपुषा भवभयभङ्गाय मन्त्रिणाहरहः ॥७६॥
दारिद्र्यरोगदुःखैर्दौर्भाग्यजरापमृत्युदोषैश्च ।
अस्पृष्टो निरपायो जीवति मन्त्रं भजन्नमुं मनुजः ॥७७॥
इतीरिता लोकहिताय वङ्का-
प्रस्तारिणी मन्दिरमिन्दिरायाः ।
या सर्वनारीनरराजवर्ग-
सम्मोहनी मोहनबाणभूता ॥७८॥
निद्रयोरन्तरा त्यक्लिन्नै मदाः स्युश्च वेशिरः ।
मायादिकस्तया वर्णद्वन्द्वैश्चाङ्गविधिः स्मृतः ॥७९॥
रक्तारक्तांशुककुसुमविलेपादिका सेन्दुमौलिः
स्विद्यद्वक्त्रा मदविवशसमाघूर्णितत्रीक्षणा च ।
दोःसत्पाशाज्रुशयुतकपालाभया पद्मसंस्था
देवी पायादमितफलदा नित्यशः पार्वती वः ॥८०॥
दीक्षितः प्रजपेल्लक्षं मनुमेनं हुनेत्ततः ।
मधूकपुष्पैः स्वाद्वक्तैरयुतं हविषा तथा ॥८१॥
पीठीं पूर्ववदभ्यच्र्य तत्रावाह्यापि पूजयेत् ।
अङ्गैश्च शक्तिभिर्लोकपालैर्देवीं समाहितः ॥८२॥
नित्या निरञ्जना क्लिन्ना क्लेदिनी मदनातुरा ।
मदद्रवा द्राविणी च द्रविणा शक्तयो मताः ॥८३॥
प्रजपेत्यप्रमदां विचिन्त्य यां वा
शयनस्थो मनुवित्सहस्रमानम् ।
निशि मारशिलीमुखाहताङ्गी
नचिरात्सा मदविह्वला समेति ॥८४॥
नित्याभिः सदृशतरा न सन्ति लोके
लक्ष्मीदा जगदनुरञ्जनाश्च मन्त्राः ।
तस्मात्ताञ्शुभमतयो भजन्तु नित्यं
जापार्चाहुतसमुपासनाविशेषैः ॥८५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे द्वादशः पटलः ॥
N/A
References : N/A
Last Updated : January 21, 2026

TOP