संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| द्वितीयः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः द्वितीयः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य द्वितीयः पटलः Translation - भाषांतर अथ व्यवस्थिते त्वेवं मासात्पक्षाद्दिनादपि ।मुहूर्तान्नाडिकायाश्च क्षणादपि च वर्धते ॥१॥जन्तुः षडङ्गी पूर्वे स्याच्छिरः पादौ करावपि ।अन्तराधिश्चेति पुनः षडङ्गेषु प्रवर्तते ॥२॥अक्षिनासास्यकर्णभ्रूकपोलचिबुकादिकम् ।प्रकोष्ठकोर्परांसाद्यं कट्यूरूप्रपदादिकम् ॥३॥उरः कुक्षिस्तनाद्यं च ततः सर्वाङ्गवान्विभुः ।कालेन जन्तुर्भवति दोषास्त्वनुगुणा यदि ॥४॥प्रसूतिसमये सोऽथ जनित्रीं क्लेशयन्मुहुः ।संवृतास्यसुषुम्नाख्योऽवाङ्मुखोऽनिलचोदितः ॥५॥तस्यां ग्रहिण्यां शकृतिमग्नवक्त्राक्षिनासिकः ।पुराकृतानां पापानामयुतं संस्मरन्मुहुः ॥६॥तस्याः कायाग्निना दग्धः क्लेदैः क्लिन्नाङ्गबन्धनः ।प्रत्युद्गारपरीतश्च तत्पायुद्वारगोचरः ॥७॥तदा प्रक्षुभितैः स्वीयवायुभिर्दशतां गतैः ।सम्पिण्डितशरीरस्तु मोक्षमेव किलेच्छति ॥८॥प्राणाद्या वायवस्तत्र पूर्वमेव कृतास्पदाः ।परस्परमपानश्च प्राणश्च प्रतिबध्यते ॥९॥प्रयात्यूध्र्वं यदा प्राणस्तदापानोप्यधस्तथा ।यदा समानः कायाग्नि सन्धुक्षयति पाचितुम् ॥१०॥तदा तत्पाकमुक्तं तु रसमादाय धावति ।व्यानो जन्तोस्तु तद्देहमापादतलमस्तकम् ॥११॥उदानः प्राणसहितो निमेषोन्मेषकारकः ।उद्गारकारको नाग उन्मीलयति कूर्मकः ॥१२॥क्षुत्कृत्कृकलो देवदत्तो जृम्भणकर्मकृत् ।धनञ्जयाख्यो देहऽस्मिन्कुर्याद्बहुविधान्रवान् ॥१३॥स तु लौकिकवायुत्वान्मृतं च न विमुञ्चति ।इत्यमी मारुताः प्रोक्ता दश देहाधिगामिनः ॥१४॥वह्नयश्च दशान्ये स्युस्तेषां सप्त तु धातुगाः ।त्रयस्त्रिदोषगाः प्रोक्ताः स्वेदक्लेदान्त्रगाश्च ते ॥१५॥त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः ।ते दूष्याः कफपित्तेरा दोषास्तत्प्रेरको मरुत् ॥१६॥समवायी स विश्वात्मा विश्वगो विश्वकर्मकृत् ।स दोषो वा स वा दूष्यः क्रियातः सम्प्रधार्यते ॥१७॥बुभुक्षा च पिपासा च शोकमोहौ जरामृती ।षडूर्मयः प्राणबुद्धिदेहधर्मे व्यवस्थिताः ॥१८॥मज्जास्थिस्नायवः शुक्लाद्रक्तात्त्वङ्मांसशोणिताः ।इति षाट्कौशिकं नाम देहे भवति देहिनाम् ॥१९॥रसादितः क्रमात्पाकः शुक्लान्तेषु तु धातुषु ।शुक्लपाकात्स्वयं भिद्येदोजो नामाष्टमी दशा ॥२०॥क्षेत्रज्ञस्य तदोजस्तु केवलाश्रयमिष्यते ।यथा स्नेहः प्रदीपस्य यथाभ्रम्रशनित्विषः ॥२१॥बहुद्वारेण कुम्भेन संवृतस्य हविर्भुजः ।यथा तेजः प्रसरति समीपालोकशक्तिमत् ॥२२॥तथादेहावृतस्यापि क्षेत्रज्ञस्य महात्विपः ।इन्द्रियैः सम्प्रवर्तन्ते स्वं स्वमर्थग्रहं प्रति ॥२३॥नभः श्रोत्रेऽनिलश्चर्मण्यग्निश्चक्षुष्यथो रसः ।जिह्वायामवनिघ्र्राण इत्थमर्थप्रवर्तनम् ॥२४॥यदा पित्तं मरुन्नुन्नं विलीनं प्रविलापयेत् ।धातूंस्तदा क्रमाद्रक्तं लसिकां द्रावयेत्क्षणात् ॥२५॥द्रुता सा तु लसीकाह्वा रोमकूपैः प्रवर्तते ।बहिः सर्वत्र कणशस्तदा स्वेदः प्रतीयते ॥२६॥यदा कफो मरुत्पित्तं नुन्नोमीन प्रवर्तते ।ऊध्र्वीभूतं दृढो बाष्पं प्रसेकं च प्रवर्तयेत् ॥२७॥कफात्मिकास्तु विकृतीः कर्णशष्कुलिपूर्विकाः ।गण्डमालादिका वापि कुर्याज्जन्तोस्तु कर्मजाः ॥२८॥ग्रहणी नाम सा पात्री प्रसृताञ्जलिसन्निभा ।अधस्तस्याः प्रधानाग्निः स समानेन नुद्यते ॥२९॥तस्याधस्तात्त्रिकोणाभं ज्योतिराधारमुत्तमम् ।विद्यते स्थानमेतद्धि मूलाधारं विदुर्बुधाः ॥३०॥अथाहृतं षड्रसं वाप्याहारं कण्ठमार्गगम् ।श्लेष्मणानुगतं तस्य प्रभावान्मधुरीभवेत् ॥३१॥तत्र स्वाद्वम्ललवणतिक्तोषणकषायकाः ।षड्रसाः कथिता भूतविकृत्या द्रव्यमाश्रिताः ॥३२॥तथैवामाशयगतं पश्चात्पित्ताशयं व्रजेत् ।तदा तस्यानुगमनात्कटुकत्वं प्रपद्यते ॥३३॥तत्रान्त्रान्तरसंश्लिष्टं पच्यते पित्तवारिणा ।पच्यमानाद्रसं भिन्नं वायू रक्तादिकां नयेत्।३४॥तत्र किट्टं पृथग्भिन्नं ग्रहण्यां चिनुतेऽनिलः ।तच्चीयमानं विण्णाम ग्रहणीं पूरयेन्मुहुः ॥३५॥सा तेन शकृता पूर्णा वलिता प्रतिमुञ्चति ।पुरीषं पायुमार्गेण तत्पाकेऽच्छाम्भसा ततः ॥३६॥अङ्गं स्वेदवदभ्यन्तव्र्याप्तैः सूक्ष्मैः सिरामुखैः ।वस्तिमापूरयेद्वायुः पूर्णे मुञ्चति धारया ॥३७॥मूत्राशयो धनुर्वक्रो वस्तिरित्यभिधीयते ।मूत्रमित्याहुरुदकं वस्तेर्मेहननिर्गतम् ॥३८॥अपथ्यभाजामनयोर्मार्गयोर्दोषदुष्टयोः ।प्रमेहमूत्रकृच्छ्रादेग्र्रहण्यादेश्च सम्भवः ॥३९॥इत्थम्भूतः स जन्तुस्तु जरायुच्छन्नगात्रवान् ।अपत्यवत्र्म सङ्गम्य सज्यते वायुना मुहुः ॥४०॥जायतेऽधिकसंविग्नो जृम्भतेऽङ्गैः प्रकम्पितैः ।मूत्र्योद्बणं न श्वसिति भीत्या च परिरोदिति ॥४१॥अथ पापकृतां शरीरभाजा-मुदरान्निष्क्रमितुं महान्प्रयासः ।नलिनोद्भवधीविचित्रवृत्तानितरां कर्मगतिस्तु मानुषाणाम् ॥४२॥जायते पुनरसौ निजङ्गकै-र्जृम्भते जनितभीति कम्पते ।उल्बणं श्वसिति रोदिति ज्वरा-त्प्रागनेकशतदुःखभावितः ॥४३॥मूलाधारात्प्रथममुदितो यस्तु भावः पराख्यःपश्चात्पश्यन्त्यथ हृदयगो बुद्धियुङ्मध्यमाख्यः ।वक्त्रे वैखर्यथ रुरुदिषोरस्य जन्तोः सुषुम्नाबद्धस्तस्माद्भवति पवनप्रेरितो वर्णसङ्घः ॥४४॥स्रोतोमार्गस्याविभक्तत्वहेतो-स्तत्रार्णानां जायते न प्रकाशः ।तावद्यावत्कण्ठमूर्धादिभेदोवर्णव्यक्तिस्थानसंस्था यतोऽतः ॥४५॥ज्ञातास्मीति यदा भावा मनोऽहङ्कारबुद्धिमान् ।जातश्चित्पूर्वको जन्तोः स भावः क्रमर्विधतः ॥४६॥बध्नाति मातापित्रोस्तु पूर्वं बन्धुषु च क्रमात् ।स पीत्वा बहुशः स्तन्यं मातरं स्तन्यदायिनीम् ॥४७॥इच्छन्नोदिति तां वीक्ष्य तत्र स्यादितरेतरम् ।बन्धस्तत्राधिकर्तारमतिस्निग्धमनन्यगम् ॥४८॥पितरं वीक्ष्य तत्रापि तथा भ्रातरमेव च ।पितृव्यमातुलादींश्च समुद्वीक्ष्य प्रमोदते ॥४९॥एवं सम्बन्धसंसारबान्धवो विस्मरिष्यति ।पूर्वकर्म च गर्भस्थित्युद्भूतक्लेशमेव च ॥५०॥अथ स्वमुत्तारयितुमाह्वयेज्जननीं मुहुः ।अवैशद्यान्मुखस्रोतो मार्गस्याविशदाक्षरम् ॥५१।अप्यव्यक्तं प्रलपति यदा कुण्डलिनी तदा ।मूलाधाराद्विसरति सुषुम्ना वेष्टनी मुहुः ॥५२॥त्रिचतुःपञ्चषट्सप्ताष्टमो दशम एव च ।तथा द्वादशपञ्चाशद्भेदेन गुणयेत्क्रमात् ॥५३॥यदा त्रिंशोऽथ गुणयेत्तदा त्रिगुणिता विभुः ।शक्तिः कामाग्निनादात्मा गूढमूर्तिः प्रतीयते ॥५४॥तदा तां तारमित्याहुरोमात्मेति बहुश्रुताः ।तामेव शक्तिं ब्रुवते हरेरात्मेति चापरे ॥५५॥त्रिगुणा सा त्रिदोषा सा त्रिवर्णा सा त्रयी च सा ।त्रिलोका सा त्रिमूर्तिः सा त्रिरेखा सा विशिष्यते ॥५६॥एतेषां तारणात्तारः शक्तिस्तद्धृतशक्तितः ।यदा चतुर्धा गुणिता सूक्ष्मादिस्थानवाचिका ॥५७॥वाचिका जाग्रदादीनां करणानां च सा तदा ।यदा सा पञ्चगुणिता पञ्चपञ्चविभेदिनी ॥५८॥पञ्चानामक्षराणां च वर्णानां मरुतां तथा ।गुणिता सा यदा षोढा कोशोर्मिरसभेदिनी ॥५९॥तदा षड्गुणिताख्यस्य यन्त्रस्य च विभेदिनी ।यदा सा सप्तगुणिता तारहृल्लेखयोस्तदा ॥६०॥भेदैरहाद्यैः शान्तान्तैर्भिद्यते सप्तभिः पृथक् ।अकारश्चाप्युकारश्च मकारो बिन्दुरेव च ॥६१॥नादः शक्तिश्च शान्तश्च तारभेदाः समीरिताः ।हकाररेफमायाश्च बिन्दुनादौ तथैव च ॥६२॥शक्तिशान्तौ च सम्प्रोक्ताः शक्तेर्भेदाश्च सप्तधा ।अङ्गेभ्योऽस्यास्तु सप्तभ्यः सप्तधा भिद्यते जगत् ॥६३॥लोकाद्रिद्वीपपातालसिन्धुग्रहमुनिस्वरैः ।धात्वादिभिस्तथान्यैश्च सप्तसङ्ख्याप्रभेदकैः ॥६४॥यदाष्टधा सा गुणिता तदा प्रकृतिभेदिनी ।अष्टाक्षरा हि वस्वाशा मातृका मूर्तिभेदिनी ॥६५॥दशधा गुणिता नाडी मर्माशादिविभेदिनी ।द्वादशात्मिक्यपि यदा तदा राश्यर्कमूर्तियुक् ॥६६॥मन्त्रं च द्वादशार्णाख्यमभिधत्ते स्वरानपि ।तत्सङ्ख्यं च तदा यन्त्रं शक्तेस्तद्गुणितात्मकम् ॥६७॥पञ्चाशदंशगुणिताथ यदा भवेत्सादेवी तदात्मविनिवेशितदिव्यभावा ।सौषुम्नवत्र्मसुषिरोदितनादसङ्गा-त्पञ्चाशदीरयति पङ्क्तिश एव वर्णान् ॥६८॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्यश्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे द्वितीयः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP