संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| षष्ठः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः षष्ठः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य षष्ठः पटलः Translation - भाषांतर अथ पुनराचम्य गुरुः प्राग्वदनो विष्टपरोपविष्टः सन् ।प्राणायामं सलिपिन्यास कृत्वा न्यसेत्तदृष्यादीन् ॥१॥ऋषिर्गुरुत्वाच्छिरसैव धार्यश्छन्दोऽक्षरत्वाद्रसनागत स्यात् ।धियावगन्तव्यतया सदैव हृदि प्रदिष्टा मनुदेवता च ॥२॥ऋषिवर्णादिकौ धातू स्तो गत्या प्रापणेन च ।यात्याभ्यां यत्स्वरूपं स गुरुः स्यादृषिवाचकः ॥३॥इच्छादानार्थकौ धातू स्तश्छदाद्यश्चदादिकः ।तयोरिच्छां ददातीति छन्दो मन्त्रार्णवाचकम् ॥४॥आत्मनो देवताभावप्रधानाद्देवतेति च ।पदं समस्तमन्त्रेषु विद्वद्भिः समुदीरितम् ॥५॥हृदयशिरसोः शिखायां कवचाक्ष्यस्त्रेषु सह चतुर्थीषु ।नत्याहुत्या च वषड्ढुं वौषट्फट्पदैः षडङ्गविधिः ॥६॥हृदयं बुद्धिगम्यत्वात्प्रणामः स्यान्नमःपदम् ।क्रियते हृदयेनातो बुद्धिगम्यनमस्क्रिया ॥७॥तुड्गार्थत्वाच्छिरः स्वे स्वे विषयाहरणे द्विठः ।शिरोमन्त्रेण चोत्तुङ्गविषयाहृतिरीरिता ॥८॥शिखादेशसमुद्दिष्टा वषडित्यङ्गमुच्यते ।तत्तेजोऽस्य तनुः प्रोक्ता शिखामन्त्रेण मन्त्रिणः ॥९॥कचग्रहण इत्यस्माद्धातोः कवचसम्भवः ।हुन्तेजस्तेजसां देहो गृह्यते कवचं ततः ॥१०॥नेत्रदृष्टिः समुद्दिष्टा वौषड् दर्शनमुच्यते ।दर्शनं दृशि येन स्यात्तत्तेजो नेत्रवाचकम् ॥११॥असुत्रसादिकौ धातू स्तः क्षेपचलनार्थकौ ।ताभ्यामनिष्टमाक्षिप्य चालयेत्फट्पदाग्निना ॥१२॥प्रोक्तानीत्यङ्गमन्त्राणि सर्वमन्त्रेषु सूरिभिः ।पञ्चैव यस्य मन्त्रस्य भवन्त्यङ्गानि मन्त्रिणः ॥१३॥सर्वेष्वपि च मन्त्रेषु नेत्रलोपो विधीयते ।अङ्गुलीषु क्रमादङ्गैरङ्गुष्ठादिषु विन्यसेत् ॥१४॥कनिष्ठान्तासु तद्बाह्यतलयोः करयोः सुधीः ।अस्त्रेण तालत्रितयं कृत्वा तेनैव बन्धयेत् ॥१५॥दिशो दश क्रमादङ्गषट्कं वा पञ्चकं न्यसेत् ।जपारम्भे मनूनां तु सामान्येयं प्रकल्पना ॥१६॥शङ्खसुगन्धपुष्पाक्षततोयं वामतः प्रविन्यस्य ।साङ्गमन्त्रं पूजामूर्तेन्र्यस्येद्गुरूपदेशेन ॥१७॥न्यस्येच्च दक्षभागे सुमनःपात्रं तथाभितो दीपान् ।अन्यत्साधनमखिलं पुरतो गन्धाक्षतादिकं मन्त्री ॥१८॥प्रथमं निजसव्यतो यथावत्प्रयजेद्देवमयान्महागुरून्स्वान् ।गणनाथमन्यतश्च पाशाज्रुशदन्ताभयहस्तमुज्ज्वलाङ्गम् ॥१९॥रक्तं धर्मं वृषतनुमथाग्नौ हिंर श्यामवर्णंज्ञानं रक्षो दिशि मरुति पीतं च वैराग्यसंज्ञम् ।भूताकारं द्विरदतनुमैश्वर्यमीशे च कृष्णंनञ्पूर्वैस्तैर्यजतु दिशि चित्राणि गात्राणि पीठे ॥२०॥मध्येऽनन्तं पद्ममिंस्मश्च सूर्यंसोमं वह्निं तारवर्णैविभक्तैः ।सत्त्वादींश्च त्रीन्गुणानात्मयुक्ता-ञ्शक्तिः किञ्जल्केषु मध्ये यजेच्च ॥२१॥श्वेता कृष्णा रक्ता पीता श्यामानलोपमा शुक्ला ।अञ्जनजपासमाने तेजोरूपाश्च शक्तयः प्रोक्ताः ॥२२॥विन्यस्य र्किणकोपरि शालीस्तदुपरि च तण्डुलानि तथा ।तेषामुपरि च दर्भान्पूर्वोपरि कूर्चमक्षतोपेतम् ॥२३॥त्रिगुणेन च तन्तुरूपभाजा परितोऽसौ परिवेष्टितं यथावत् ।लघुनालघुधूपितं च कूर्चो परिकुम्भं निदधातु तारजापी ॥२४॥न्यस्य दर्भमयं कूर्चमक्षताद्यायुतं सनवरत्नकं घटे ।पूरयेत्सह कषादिकान्तगैरक्षरौषधिविपाचितैर्जलैः ॥२५॥अथवा दशमूलपुष्पदुग्धाङ्घ्रिपचर्मोत्क्वथितैः कषायतोयैः ।स्तनजद्रुमचर्मसाधितैर्वा सलिलैः सयतधीः शुभोदकैर्वा ॥२६॥शङ्खे कषायोदकपूरिते च विलोड्य सम्यग्विधिना सगन्धम् ।कलाः समावाह्य विनिक्षिपेत्तत्क्वाथोदकापूर्णमुखे च कुम्भे ॥२७॥त्रिविधं गन्धाष्टकमपि शाक्तेयं वैष्णवं च शैवमिति ।गन्धाष्टकेन शक्तिः स्यात्कलशे मन्त्रिणा कृतेऽनन्ता ॥२८॥चन्दनकर्पूरागरुकुज्रुमकपिमांसिरोचनाचोराः ।गन्धाष्टकमपि शक्तेः सान्निध्यकरं च लोकरञ्जनकृत् ॥२९॥चन्दनह्लीबेरागरुकुष्ठासृगुशीरमांसिमुरमपरम् ।चन्दनकर्पूरागरुदलरुधिरकुशीतरोगजलमपरम् ॥३०॥अष्टत्रिंशत्प्रभेदेन याः कलाः प्रागुदीरिताः ।गुरूपदेशक्रमतस्ता विद्वान्विनियोजयेत् ॥३१॥याः पञ्चाशत्कलास्तारपञ्चभेदसमुत्थिताः ।पञ्चपञ्चकसम्भिन्ना विदुस्तास्तत्त्ववेदिनः ॥३२॥सप्तात्मकस्य तारस्य परौ द्वौ तु वरौ यतः ।ततस्तु शक्तिशान्ताख्यौ न पठ्येते परैः सह ॥३३॥प्रथमप्रकृतेर्हंसः प्रतद्विष्णुरनन्तरः ।त्रियम्बकस्तृतीयः स्याच्चतुर्थस्तत्पदादिकः ॥३४॥विष्णुर्योनिमथेत्यादिः पञ्चमः कल्प्यतां मनुः ।चतुर्नवतिमन्त्रात्मदेवमावाह्य पूर्यताम् ॥३५॥अत्र याः पञ्च सम्प्रोक्ता ऋचस्तारस्य पञ्चभिः ।कलाप्रभेदैश्च मिथो युज्यन्ते ताः पृथक्क्रमात् ॥३६॥कुर्यात्प्राणप्रतिष्ठां च तत्र तत्र समाहितः ।प्राणप्रतिष्ठामन्त्रेण पुनस्तोयं कलात्मकम् ।उच्चारयन्मूलमन्त्रं कलशे सन्निधापयेत् ॥३७॥अश्वत्थचूतपनसस्तबकैः सुत्रामवल्लरीयुक्तैः ।सुरतरुधिया पिधाय कुम्भमुखं वेष्टयीत वासोभ्याम् ॥३८॥पुनस्तोयगतं देव साध्यमन्त्रानुरूपतः ।सकलीकृत्य च गुरुरुपचारान्समाचरेत् ॥३९॥आसनस्वागते साघ्र्यपाद्ये साचमनीयके ।मधुपर्काचमस्नानवसनाभरणानि च ॥४०॥सुगन्धसुमनोधूपदीपनैवेद्यवन्दनान् ।प्रयोजयेदर्चनायामुपचारांस्तु षोडश ॥४१॥अघ्र्यपाद्याचमनकमधुपर्काचमान्यपि ।गन्धादयो निवेद्यान्ता उपचारा दश क्रमात् ॥४२॥गन्धादयो निवेद्यान्ता पूजा पञ्चोपचारिकी ।सपर्यास्त्रिविधाः प्रोक्तास्तासामेकां समाश्रयेत् ॥४३॥गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपाः ।दूर्वा चेति क्रमादघ्र्यद्रव्याष्टकमुदीरितम् ॥४४॥पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते ।जातीलवङ्गतक्कोलैर्मतमाचमनीयकम् ॥४५॥मधुपर्कं च सक्षौद्रं दधि प्रोक्तं मनीषिभिः ।शुद्धाभिरद्भिर्विहितं पुनराचमनीयकम् ॥४६॥चन्दनागरुकर्पूरपज्र्ं गन्धमिहोच्यते ।अथवा लघुकाश्मीरपटीरमृगनाभिजम् ॥४७॥तुलस्यौ पज्र्जे जात्यौ केतक्यौ करवीरकौ ।शस्तानि दश पुष्पाणि तथा रक्तोत्पलानि च ॥४८॥उत्पलानि च नीलानि कुमुदानि च मालती ।मल्लिकाकुन्दमन्दारनन्द्यावर्तादिकानि च ॥४९॥पलाशपाटलीपार्थपारन्त्यावर्तकानि च ।चम्पकानि सनागानि रक्तमन्दारकानि च ॥५०॥अशोकोद्भवबिल्वाब्जर्किणकारोद्भवानि च ।सुगन्धीनि सुरूपाणि स्वागमोक्तानि यानि वै ॥५१॥मुकुलैः पतितैम्र्लानैर्जीर्णैर्वा जन्तुदूषितैः ।आघ्रातैरङ्गसंस्पृष्टैरुषितैश्चापि नार्चयेत् ॥५२॥सगुग्गुल्वगरूशीरसिताज्यमधुचन्दनैः ।साराङ्गारविनिक्षिप्तैर्मन्त्री नीचैः प्रधूपयेत् ॥५३॥गोर्सिपषा वा तैलेन वत्र्या च लघुगर्भया ।दीपितं सुरभिं शुद्धं दीपमुच्चैः प्रदापयेत् ॥५४॥सुसितेन सुशुद्धेन पायसेन सुर्सिपषा ।सितोपदंशकदलीदध्याद्यैश्च निवेदयेत् ॥५५॥वर्णैर्मनुप्रपुटितैः क्रमशः शतार्धै-न्र्यासक्रमादभियजेत्सकलासु मन्त्री ।गन्धादिभिः प्रथमतो मनुदेवतासुत्रैलोक्यमोहनमिति प्रथितः प्रयोगः ॥५६॥हृदयं सशिरस्तथा शिखाथो कवचं चेत्यनलादिकाश्रिषु ।पुरतो नयनं दिशां क्रमात्स्यात्पुनरस्त्रं च समर्पयेत्क्रमात् ॥५७॥हारस्फटिककलायाञ्जनपिङ्गलवह्निरोचिषो ललनाः ।अभयवरोद्यतहस्ताः प्रधानतनवोऽङ्गदेवताः कथिताः ॥५८॥आदावङ्गावरणं सकलविधानेषु पूजनीयं स्यात् ।अन्ते च लोकपालावृतिरथ कुलिशादिकान्तं वा ॥५९॥इन्द्राग्नियमनिशाचरवरुणानिलशशिशिवाहिपतिविधयः ।जात्यधिपहेतिवाहनपरिवारान्ताः क्रमेण यष्टव्याः ॥६०॥पीतः पिङ्गः कृष्णो धूमः शुक्लश्च धूम्रसितशुक्लाः ।काशारुणाम्बुजाभा लोकेशा वासवादयः प्रोक्ताः ॥६१॥वङ्काः सशक्तिदण्डः खड्गः पाशाज्रुशौ गदाशूले ।रथचरणनलिनसंज्ञे प्रोक्तान्यस्त्राणि लोकपालानाम् ॥६२॥पीतहिमजलदगगनाचिरप्रभारक्तकुन्दनीलरुचः ।करविन्दारुणवर्णाः प्रोक्ताः स्युर्वर्णतोऽपि वङ्काद्याः ॥६३॥कृते निवेद्ये च ततो मण्डलं परितः क्रमात् ।मङ्गलाज्रुरपत्राणि स्थापनीयानि मन्त्रिणा ॥६४॥उपलिप्य कुण्डमत्र स्वचरणयोग्या विलिख्य रेखाश्च ।अभ्युक्ष्य प्रणवजपेन प्रकल्पयेद्योगविष्टरं मन्त्री ॥६५॥अथवा षट्कोणावृतत्रिकोणके गुरुजनोपदेशेन ।प्राणाग्निहोत्रविधिनाप्यावसीथयाह्वयेऽनलस्थाने ॥६६॥तत्राथो सदृतुमतीमथेन्द्रियाभांस्मृत्वा तां सकलजगन्मयीं च शक्तिम् ।तद्योनौ मणिभवमारणेयकं वातारेण क्षिपतु गृहोत्थमेव वाग्निम् ॥६७॥चित्पिङ्गलपदमुक्त्वा हनदहपचयुग्मकानि सर्वज्ञम् ।आज्ञापयाग्निजाये प्रभाष्य मनुनानलं ज्वलयेत् ॥६८॥अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।सुवर्णवर्णमनलं समिद्धं विश्वतोमुखम् ॥६९॥अनेन ज्वलितं मन्त्रेणोपतिष्ठेद्धुताशनम् ।ततः प्रविन्यसेद्देहे जिह्वामन्त्रैर्विभावसोः ॥७०॥सलिङ्गगुदमूर्धास्यनासानेत्रेषु च क्रमात् ।सर्वाङ्गेषु च जिह्वाश्च वक्ष्यन्ते त्रिविधात्मकाः ॥७१॥हिरण्या गगना रक्ता कृष्णा चैव तु सुप्रभा ।बहुरूपातिरक्ता च जिह्वाः सप्तेति सात्त्विकाः ॥७२॥पद्मरागा सुवर्णा च तृतीया भद्रलोहिता ।लोहिताख्या तथा श्वेता धूम्रिणी सकरालिका ॥७३॥राजस्यः कथिता ह्येताः क्रमात्कल्याणरेतसः ।विश्वमूर्तिस्फुलिङ्गिन्यौ धूम्रवर्णा मनोजवा ॥७४॥लोहिता च करालाख्या काली तामसजिह्विका ।अनलेरार्घिबिन्द्वन्तसादिवान्ताक्षरान्विताः ॥७५॥सात्त्विक्यो दिव्यपूजासु राजस्यः काम्यकर्मसु ।तामस्यः क्रूरकार्येषु प्रयोक्तव्या विपश्चिता ॥७६॥सुराः सपितृगन्धर्वयक्षनागपिशाचिकाः ।राक्षसाश्च क्रमादग्नेराश्रिता रसनास्वमी ॥७७॥जिह्वासु त्रिदशादीनां तत्तत्कार्यसमाप्तये ।जुहुयाद्वाञ्छितां सिद्धिं दद्युस्ता देवतामयाः ॥७८॥स्वनामसदृशाकाराः प्रायो जिह्वा हविर्भुजः ।मन्त्री प्रविन्यसेद्भूयो वह्नेरङ्गानि वै क्रमात् ॥७९॥सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषस्तथा ।धूमव्यापी सप्तजिह्वो धनुर्धर इतीरिताः ॥८०॥अङ्गमन्त्राः क्रमादष्टमूर्तिश्चाथ प्रविन्यसेत् ।मूर्धां सपाश्र्वकट्यन्धुकटिपाश्र्वांसकेषु च ॥८१॥प्रादक्षिण्येन विन्यस्येद्यथावद्देशिकोत्तमः ।जातवेदाः सप्तजिह्वो हव्यवाहन एव च ॥८२॥अश्वोदरजसज्ञश्च स वैश्वानर एव च ।कौमारतेजाश्च तथा विश्वेदेवमुखाह्वयौ ॥८३॥स्युरष्टमूर्तयो वह्नेरग्नये पदपूर्विकाः ।प्रणवादिनमोऽन्ताश्च पुनर्दर्भचतुष्टयैः ॥८४॥दिक्क्रमात्सम्परिस्तीर्य सम्यग्गन्धादिभिर्यजेत् ।मध्ये च कोणषट्के च जिह्वाभिः केसरेषु च ॥८५॥अङ्गमन्त्रैस्ततो बाह्ये अष्टाभिर्मूर्तिभिः क्रमात् ।ततोऽग्निमनुनानेन मन्त्री मध्ये च संयजेत् ॥८६॥वैश्वानरं जातवेदमुक्त्वा चेहावहेति च ।लोहिताक्षपदं सर्वकर्माणीति समीरयेत् ।ब्रूयाच्च साधयेत्यन्ते वह्निजायान्तिको मनुः ॥८७॥त्रिणयनमरुणप्ताबद्धमौलिं सुशुक्लां-शुकमरुणमनेकाकल्पमम्भोजसंस्थम् ।अभिमतवरशक्तिस्वस्तिकाभीतिहस्तंनमत कनकमालालङ्कृतांसं कृशानुम् ॥८८॥जिह्वा ज्वालारुचः प्रोक्ता वराभययुतानि च ।अङ्गानि मूर्तयः शक्तिस्वस्तिकोद्यतदोर्द्वयाः ॥८९॥संस्कृतेन घृतेनाभिद्योतनोद्योतितेन च ।व्याहृत्यनन्तरं तेन जुहुयान्मनुना त्रिशः ॥९०॥गर्भाधानादिका वह्नेः समुद्वाहावसानिकाः ।क्रियास्तारेण वै कुर्यादाज्याहुत्यष्टकैः पृथक् ॥९१॥जिह्वाङ्गमूर्तिमनुभिरेकावृत्या हुनेत्तथा ।जिह्वायां मध्यसंस्थायां मन्त्री ज्वालावली तनौ ॥९२॥ताराद्यैर्दशभिर्भिएदैः पूर्वैः पूर्वैः समन्वितः ।मनुना गाणपत्येन हुनेत्पूर्वं दशाहुतीः ॥९३॥जुहुयाच्च चतुर्वारं समस्तेनैव तेन तु ।आज्येन सन्ध्यमनुना पञ्चविंशतिसङ्ख्यकम् ॥९४॥जुहुयात्सर्वहोमेषु सुधीरनलतृप्तये ।तान्त्रिकाणामयं न्यायो हुतानां समुदीरितः ॥९५॥पुनः साध्येन मनुना हुनेदष्टसहस्रकम् ।अथवाष्टशतं र्सिपः संयुक्तेन पयोन्धसा ॥९६॥द्रव्यैर्विधानप्रोक्तैर्वा महाव्याहृतिपश्चिमम् ।पुनः समापयेद्धोमं परिषेकावसानिकम् ॥९७॥भूभुर्वःस्वर्भूर्भुवस्वःपूर्वं स्वाहान्तमेव च ।अग्नये च पृथिव्यै च महते च समन्वितम् ॥९८॥वायवे चान्तरिक्षाय महते च समन्वितम् ।आदित्याय च दिवे च महते च समन्वितम् ॥९९॥चन्द्रमसे च दिग्भ्यश्च महते च समन्वितम् ।महाव्याहृतयस्त्वेताः सर्वशो देवतामयाः ॥१००॥ब्रह्मार्पणाख्यमनुना पुनरष्टावथाहुतिः ।जुहुयान्मन्त्रवर्येण कर्मबन्धविमुक्तये ॥१०१॥इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतः ।जाग्रत्स्वप्नसुषुप्तीनामन्तेऽवस्थास्वितीरयेत् ॥१०२॥ततश्च मनसा वाचा कर्मणेति प्रभाषयेत् ।हस्ताभ्यां च तथा पद्भ्यामुदरेण तु भाषयेत् ॥१०३॥शिश्ना च यत्कृतं प्रोक्त्वा यदुक्तं यत्स्मृतं तथा ।तत्सर्वमिति सम्भाष्य ब्रह्मार्पणपदं वदेत् ॥१०४॥भवत्वन्ते द्विठश्चायं ब्रह्मार्पणमनुर्मतः ।हुते तु देशिकः पश्चान्मण्डले बलिमारभेत् ॥१०५॥नक्षत्राणां सराशीनां सवाराणां यथाक्रमम् ।दद्याद्बलिं गन्धपुष्पधूपपूर्वकमादरात् ॥१०६॥ताराणामश्विनादीनां राशीः पादाधिकद्वयम् ।मेषादिमुक्त्वा नक्षत्रसंज्ञां पूर्वमनन्तरम् ॥१०७॥देवताभ्यः पदं प्रोक्त्वा दिवानक्तपदं तथा ।चारिभ्यश्चाथ सर्वेभ्यो भूतेभ्यश्च नमो वदेत् ॥१०८॥एवं राशो तु सम्पूर्णे तिंस्मस्तद्वत्प्रयोजयेत् ।तथा राश्यधिपानां च ग्रहाणां तत्र तत्र तु ॥१०९॥सप्तानां करणानां च दद्यान्मीनाह्वमेषयोः ।अन्तराले बलिस्त्वेवं सम्प्रोक्तः कलशात्मकः ॥११०॥पुर्निनवेद्यमुद्धृत्य पुरोवत्परिपूज्य च ।मुखवासादिकं दत्त्वा स्तुत्या तद्युक्तया पुनः ।स्तुत्वा यथावत्प्रणमेद्भक्तियुक्तस्तु साधकः ॥१११॥दोभ्र्यां पदाभ्यां जानुभ्यामुरसा शिरसा दृशा ।वचसा मनसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥११२॥बाहुभ्यां च सजानुभ्यां शिरसा वचसा धिया ।पञ्चाङ्गकःप्प्रणामः स्यात्पूजासु प्रवराविमौ ॥११३॥गुर्वाद्यास्तारादिका यागमन्त्रालोकेशान्तास्ते चतुर्थीनमोऽन्ताः ।पूजायामप्यग्निकार्ये द्विठान्ताबीजैः पूजा स्याद्विभक्त्या वियुक्तैः ॥११४॥वाससी च पुनरङ्गुलिभूषां होमकृत्सु मुखजप्रवरेषु ।ईश्वरार्पणमिति प्रतिदत्त्वा र्विधतो द्विजमुखेरितवाग्भिः ॥११५॥नत्त्वा ततस्तनुभृते परमात्मने स्वंद्रव्यार्धमेव गुरवे चतुरंशकं वा ।दत्त्वा दशांशमथवापि च वित्तशाठ्यंहित्वार्पयेन्निजतनुं तदधीनचेताः ॥११६॥अथ पटुरवमुख्यवाद्यघोषै-रिद्वजमुखनिष्पतदाशिषां रवेण ।सुनियतमपि सुस्थितं च शिष्यंकलशजलैरभिषेचयेद्यथावत् ॥११७॥यथा पुरा पूरितमक्षरैर्घटैःसुधामयैः शिष्यतनौ तथैव तैः ।प्रपूरयन्मन्त्रिवरोऽभिषेचये-दवाप्तये मूङ्क्षु यथेष्टसम्पदाम् ॥११८॥विमले परिधाय वाससी पुनराचम्य गुरुं प्रणम्य च ।निकटे समुपासतो वदेदथ शिष्यस्य मनुं त्रिशो गुरुः ॥११९॥गुरुणा समनुगृहीतं मन्त्रं सद्यो जपेच्छतावृत्त्या ।गुरुदेवतामनूनामैक्यं सम्भावयन्धिया शिष्यः ॥१२०॥मन्त्रे मन्त्रगुरावपि मन्त्री मन्त्रस्य देवतायां च ।त्रिषु विहितसततभक्तिः प्रेत्येह निजेप्सितं फलं लभते ॥१२१॥सङ्क्षेपादिति गदिता हिताय दीक्षाजप्तृणां प्रवरफलप्रदा चिराय ।प्राप्यैनां जपविधिरादरेण कार्योविद्वद्भिः सहुतविधिं निजेष्टसिद्ध्यै ॥१२२॥प्रोक्तेनैवं कलशविधिनैकेन वानेककुम्भै-र्भक्त्या यो वा सुमतिरभिषिञ्चेन्नरो मन्त्रजापी ।कामान्प्राप्नोत्ययमिह परत्रापि किं तत्र चित्रंलोकैश्चिन्त्यो न खलु मणिमन्त्रौषधीनां प्रभावः ॥१२३॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे षष्ठः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP