षष्ठः पटलः

प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.


अथ पुनराचम्य गुरुः प्राग्वदनो विष्टपरोपविष्टः सन् ।
प्राणायामं सलिपिन्यास कृत्वा न्यसेत्तदृष्यादीन् ॥१॥

ऋषिर्गुरुत्वाच्छिरसैव धार्यश्छन्दोऽक्षरत्वाद्रसनागत स्यात् ।
धियावगन्तव्यतया सदैव हृदि प्रदिष्टा मनुदेवता च ॥२॥

ऋषिवर्णादिकौ धातू स्तो गत्या प्रापणेन च ।
यात्याभ्यां यत्स्वरूपं स गुरुः स्यादृषिवाचकः ॥३॥

इच्छादानार्थकौ धातू स्तश्छदाद्यश्चदादिकः ।
तयोरिच्छां ददातीति छन्दो मन्त्रार्णवाचकम् ॥४॥

आत्मनो देवताभावप्रधानाद्देवतेति च ।
पदं समस्तमन्त्रेषु विद्वद्भिः समुदीरितम् ॥५॥

हृदयशिरसोः शिखायां कवचाक्ष्यस्त्रेषु सह चतुर्थीषु ।
नत्याहुत्या च वषड्ढुं वौषट्फट्पदैः षडङ्गविधिः ॥६॥

हृदयं बुद्धिगम्यत्वात्प्रणामः स्यान्नमःपदम् ।
क्रियते हृदयेनातो बुद्धिगम्यनमस्क्रिया ॥७॥

तुड्गार्थत्वाच्छिरः स्वे स्वे विषयाहरणे द्विठः ।
शिरोमन्त्रेण चोत्तुङ्गविषयाहृतिरीरिता ॥८॥

शिखादेशसमुद्दिष्टा वषडित्यङ्गमुच्यते ।
तत्तेजोऽस्य तनुः प्रोक्ता शिखामन्त्रेण मन्त्रिणः ॥९॥

कचग्रहण इत्यस्माद्धातोः कवचसम्भवः ।
हुन्तेजस्तेजसां देहो गृह्यते कवचं ततः ॥१०॥

नेत्रदृष्टिः समुद्दिष्टा वौषड् दर्शनमुच्यते ।
दर्शनं दृशि येन स्यात्तत्तेजो नेत्रवाचकम् ॥११॥

असुत्रसादिकौ धातू स्तः क्षेपचलनार्थकौ ।
ताभ्यामनिष्टमाक्षिप्य चालयेत्फट्पदाग्निना ॥१२॥

प्रोक्तानीत्यङ्गमन्त्राणि सर्वमन्त्रेषु सूरिभिः ।
पञ्चैव यस्य मन्त्रस्य भवन्त्यङ्गानि मन्त्रिणः ॥१३॥

सर्वेष्वपि च मन्त्रेषु नेत्रलोपो विधीयते ।
अङ्गुलीषु क्रमादङ्गैरङ्गुष्ठादिषु विन्यसेत् ॥१४॥

कनिष्ठान्तासु तद्बाह्यतलयोः करयोः सुधीः ।
अस्त्रेण तालत्रितयं कृत्वा तेनैव बन्धयेत् ॥१५॥

दिशो दश क्रमादङ्गषट्कं वा पञ्चकं न्यसेत् ।
जपारम्भे मनूनां तु सामान्येयं प्रकल्पना ॥१६॥

शङ्खसुगन्धपुष्पाक्षततोयं वामतः प्रविन्यस्य ।
साङ्गमन्त्रं पूजामूर्तेन्र्यस्येद्गुरूपदेशेन ॥१७॥

न्यस्येच्च दक्षभागे सुमनःपात्रं तथाभितो दीपान् ।
अन्यत्साधनमखिलं पुरतो गन्धाक्षतादिकं मन्त्री ॥१८॥

प्रथमं निजसव्यतो यथावत्प्रयजेद्देवमयान्महागुरून्स्वान् ।
गणनाथमन्यतश्च पाशाज्रुशदन्ताभयहस्तमुज्ज्वलाङ्गम् ॥१९॥

रक्तं धर्मं वृषतनुमथाग्नौ हिंर श्यामवर्णं
ज्ञानं रक्षो दिशि मरुति पीतं च वैराग्यसंज्ञम् ।
भूताकारं द्विरदतनुमैश्वर्यमीशे च कृष्णं
नञ्पूर्वैस्तैर्यजतु दिशि चित्राणि गात्राणि पीठे ॥२०॥

मध्येऽनन्तं पद्ममिंस्मश्च सूर्यं
सोमं वह्निं तारवर्णैविभक्तैः ।
सत्त्वादींश्च त्रीन्गुणानात्मयुक्ता-
ञ्शक्तिः किञ्जल्केषु मध्ये यजेच्च ॥२१॥

श्वेता कृष्णा रक्ता पीता श्यामानलोपमा शुक्ला ।
अञ्जनजपासमाने तेजोरूपाश्च शक्तयः प्रोक्ताः ॥२२॥

विन्यस्य र्किणकोपरि शालीस्तदुपरि च तण्डुलानि तथा ।
तेषामुपरि च दर्भान्पूर्वोपरि कूर्चमक्षतोपेतम् ॥२३॥

त्रिगुणेन च तन्तुरूपभाजा परितोऽसौ परिवेष्टितं यथावत् ।
लघुनालघुधूपितं च कूर्चो परिकुम्भं निदधातु तारजापी ॥२४॥

न्यस्य दर्भमयं कूर्चमक्षताद्यायुतं सनवरत्नकं घटे ।
पूरयेत्सह कषादिकान्तगैरक्षरौषधिविपाचितैर्जलैः ॥२५॥

अथवा दशमूलपुष्पदुग्धाङ्घ्रिपचर्मोत्क्वथितैः कषायतोयैः ।
स्तनजद्रुमचर्मसाधितैर्वा सलिलैः सयतधीः शुभोदकैर्वा ॥२६॥

शङ्खे कषायोदकपूरिते च विलोड्य सम्यग्विधिना सगन्धम् ।
कलाः समावाह्य विनिक्षिपेत्तत्क्वाथोदकापूर्णमुखे च कुम्भे ॥२७॥

त्रिविधं गन्धाष्टकमपि शाक्तेयं वैष्णवं च शैवमिति ।
गन्धाष्टकेन शक्तिः स्यात्कलशे मन्त्रिणा कृतेऽनन्ता ॥२८॥

चन्दनकर्पूरागरुकुज्रुमकपिमांसिरोचनाचोराः ।
गन्धाष्टकमपि शक्तेः सान्निध्यकरं च लोकरञ्जनकृत् ॥२९॥

चन्दनह्लीबेरागरुकुष्ठासृगुशीरमांसिमुरमपरम् ।
चन्दनकर्पूरागरुदलरुधिरकुशीतरोगजलमपरम् ॥३०॥

अष्टत्रिंशत्प्रभेदेन याः कलाः प्रागुदीरिताः ।
गुरूपदेशक्रमतस्ता विद्वान्विनियोजयेत् ॥३१॥

याः पञ्चाशत्कलास्तारपञ्चभेदसमुत्थिताः ।
पञ्चपञ्चकसम्भिन्ना विदुस्तास्तत्त्ववेदिनः ॥३२॥

सप्तात्मकस्य तारस्य परौ द्वौ तु वरौ यतः ।
ततस्तु शक्तिशान्ताख्यौ न पठ्येते परैः सह ॥३३॥

प्रथमप्रकृतेर्हंसः प्रतद्विष्णुरनन्तरः ।
त्रियम्बकस्तृतीयः स्याच्चतुर्थस्तत्पदादिकः ॥३४॥

विष्णुर्योनिमथेत्यादिः पञ्चमः कल्प्यतां मनुः ।
चतुर्नवतिमन्त्रात्मदेवमावाह्य पूर्यताम् ॥३५॥

अत्र याः पञ्च सम्प्रोक्ता ऋचस्तारस्य पञ्चभिः ।
कलाप्रभेदैश्च मिथो युज्यन्ते ताः पृथक्क्रमात् ॥३६॥

कुर्यात्प्राणप्रतिष्ठां च तत्र तत्र समाहितः ।
प्राणप्रतिष्ठामन्त्रेण पुनस्तोयं कलात्मकम् ।
उच्चारयन्मूलमन्त्रं कलशे सन्निधापयेत् ॥३७॥

अश्वत्थचूतपनसस्तबकैः सुत्रामवल्लरीयुक्तैः ।
सुरतरुधिया पिधाय कुम्भमुखं वेष्टयीत वासोभ्याम् ॥३८॥

पुनस्तोयगतं देव साध्यमन्त्रानुरूपतः ।
सकलीकृत्य च गुरुरुपचारान्समाचरेत् ॥३९॥

आसनस्वागते साघ्र्यपाद्ये साचमनीयके ।
मधुपर्काचमस्नानवसनाभरणानि च ॥४०॥

सुगन्धसुमनोधूपदीपनैवेद्यवन्दनान् ।
प्रयोजयेदर्चनायामुपचारांस्तु षोडश ॥४१॥

अघ्र्यपाद्याचमनकमधुपर्काचमान्यपि ।
गन्धादयो निवेद्यान्ता उपचारा दश क्रमात् ॥४२॥

गन्धादयो निवेद्यान्ता पूजा पञ्चोपचारिकी ।
सपर्यास्त्रिविधाः प्रोक्तास्तासामेकां समाश्रयेत् ॥४३॥

गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपाः ।
दूर्वा चेति क्रमादघ्र्यद्रव्याष्टकमुदीरितम् ॥४४॥

पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते ।
जातीलवङ्गतक्कोलैर्मतमाचमनीयकम् ॥४५॥

मधुपर्कं च सक्षौद्रं दधि प्रोक्तं मनीषिभिः ।
शुद्धाभिरद्भिर्विहितं पुनराचमनीयकम् ॥४६॥

चन्दनागरुकर्पूरपज्र्ं गन्धमिहोच्यते ।
अथवा लघुकाश्मीरपटीरमृगनाभिजम् ॥४७॥

तुलस्यौ पज्र्जे जात्यौ केतक्यौ करवीरकौ ।
शस्तानि दश पुष्पाणि तथा रक्तोत्पलानि च ॥४८॥

उत्पलानि च नीलानि कुमुदानि च मालती ।
मल्लिकाकुन्दमन्दारनन्द्यावर्तादिकानि च ॥४९॥

पलाशपाटलीपार्थपारन्त्यावर्तकानि च ।
चम्पकानि सनागानि रक्तमन्दारकानि च ॥५०॥

अशोकोद्भवबिल्वाब्जर्किणकारोद्भवानि च ।
सुगन्धीनि सुरूपाणि स्वागमोक्तानि यानि वै ॥५१॥

मुकुलैः पतितैम्र्लानैर्जीर्णैर्वा जन्तुदूषितैः ।
आघ्रातैरङ्गसंस्पृष्टैरुषितैश्चापि नार्चयेत् ॥५२॥

सगुग्गुल्वगरूशीरसिताज्यमधुचन्दनैः ।
साराङ्गारविनिक्षिप्तैर्मन्त्री नीचैः प्रधूपयेत् ॥५३॥

गोर्सिपषा वा तैलेन वत्र्या च लघुगर्भया ।
दीपितं सुरभिं शुद्धं दीपमुच्चैः प्रदापयेत् ॥५४॥

सुसितेन सुशुद्धेन पायसेन सुर्सिपषा ।
सितोपदंशकदलीदध्याद्यैश्च निवेदयेत् ॥५५॥

वर्णैर्मनुप्रपुटितैः क्रमशः शतार्धै-
न्र्यासक्रमादभियजेत्सकलासु मन्त्री ।
गन्धादिभिः प्रथमतो मनुदेवतासु
त्रैलोक्यमोहनमिति प्रथितः प्रयोगः ॥५६॥

हृदयं सशिरस्तथा शिखाथो कवचं चेत्यनलादिकाश्रिषु ।
पुरतो नयनं दिशां क्रमात्स्यात्पुनरस्त्रं च समर्पयेत्क्रमात् ॥५७॥

हारस्फटिककलायाञ्जनपिङ्गलवह्निरोचिषो ललनाः ।
अभयवरोद्यतहस्ताः प्रधानतनवोऽङ्गदेवताः कथिताः ॥५८॥

आदावङ्गावरणं सकलविधानेषु पूजनीयं स्यात् ।
अन्ते च लोकपालावृतिरथ कुलिशादिकान्तं वा ॥५९॥

इन्द्राग्नियमनिशाचरवरुणानिलशशिशिवाहिपतिविधयः ।
जात्यधिपहेतिवाहनपरिवारान्ताः क्रमेण यष्टव्याः ॥६०॥

पीतः पिङ्गः कृष्णो धूमः शुक्लश्च धूम्रसितशुक्लाः ।
काशारुणाम्बुजाभा लोकेशा वासवादयः प्रोक्ताः ॥६१॥

वङ्काः सशक्तिदण्डः खड्गः पाशाज्रुशौ गदाशूले ।
रथचरणनलिनसंज्ञे प्रोक्तान्यस्त्राणि लोकपालानाम् ॥६२॥

पीतहिमजलदगगनाचिरप्रभारक्तकुन्दनीलरुचः ।
करविन्दारुणवर्णाः प्रोक्ताः स्युर्वर्णतोऽपि वङ्काद्याः ॥६३॥

कृते निवेद्ये च ततो मण्डलं परितः क्रमात् ।
मङ्गलाज्रुरपत्राणि स्थापनीयानि मन्त्रिणा ॥६४॥

उपलिप्य कुण्डमत्र स्वचरणयोग्या विलिख्य रेखाश्च ।
अभ्युक्ष्य प्रणवजपेन प्रकल्पयेद्योगविष्टरं मन्त्री ॥६५॥

अथवा षट्कोणावृतत्रिकोणके गुरुजनोपदेशेन ।
प्राणाग्निहोत्रविधिनाप्यावसीथयाह्वयेऽनलस्थाने ॥६६॥

तत्राथो सदृतुमतीमथेन्द्रियाभां
स्मृत्वा तां सकलजगन्मयीं च शक्तिम् ।
तद्योनौ मणिभवमारणेयकं वा
तारेण क्षिपतु गृहोत्थमेव वाग्निम् ॥६७॥

चित्पिङ्गलपदमुक्त्वा हनदहपचयुग्मकानि सर्वज्ञम् ।
आज्ञापयाग्निजाये प्रभाष्य मनुनानलं ज्वलयेत् ॥६८॥

अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णमनलं समिद्धं विश्वतोमुखम् ॥६९॥

अनेन ज्वलितं मन्त्रेणोपतिष्ठेद्धुताशनम् ।
ततः प्रविन्यसेद्देहे जिह्वामन्त्रैर्विभावसोः ॥७०॥

सलिङ्गगुदमूर्धास्यनासानेत्रेषु च क्रमात् ।
सर्वाङ्गेषु च जिह्वाश्च वक्ष्यन्ते त्रिविधात्मकाः ॥७१॥

हिरण्या गगना रक्ता कृष्णा चैव तु सुप्रभा ।
बहुरूपातिरक्ता च जिह्वाः सप्तेति सात्त्विकाः ॥७२॥

पद्मरागा सुवर्णा च तृतीया भद्रलोहिता ।
लोहिताख्या तथा श्वेता धूम्रिणी सकरालिका ॥७३॥

राजस्यः कथिता ह्येताः क्रमात्कल्याणरेतसः ।
विश्वमूर्तिस्फुलिङ्गिन्यौ धूम्रवर्णा मनोजवा ॥७४॥

लोहिता च करालाख्या काली तामसजिह्विका ।
अनलेरार्घिबिन्द्वन्तसादिवान्ताक्षरान्विताः ॥७५॥

सात्त्विक्यो दिव्यपूजासु राजस्यः काम्यकर्मसु ।
तामस्यः क्रूरकार्येषु प्रयोक्तव्या विपश्चिता ॥७६॥

सुराः सपितृगन्धर्वयक्षनागपिशाचिकाः ।
राक्षसाश्च क्रमादग्नेराश्रिता रसनास्वमी ॥७७॥

जिह्वासु त्रिदशादीनां तत्तत्कार्यसमाप्तये ।
जुहुयाद्वाञ्छितां सिद्धिं दद्युस्ता देवतामयाः ॥७८॥

स्वनामसदृशाकाराः प्रायो जिह्वा हविर्भुजः ।
मन्त्री प्रविन्यसेद्भूयो वह्नेरङ्गानि वै क्रमात् ॥७९॥

सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषस्तथा ।
धूमव्यापी सप्तजिह्वो धनुर्धर इतीरिताः ॥८०॥

अङ्गमन्त्राः क्रमादष्टमूर्तिश्चाथ प्रविन्यसेत् ।
मूर्धां सपाश्र्वकट्यन्धुकटिपाश्र्वांसकेषु च ॥८१॥

प्रादक्षिण्येन विन्यस्येद्यथावद्देशिकोत्तमः ।
जातवेदाः सप्तजिह्वो हव्यवाहन एव च ॥८२॥

अश्वोदरजसज्ञश्च स वैश्वानर एव च ।
कौमारतेजाश्च तथा विश्वेदेवमुखाह्वयौ ॥८३॥

स्युरष्टमूर्तयो वह्नेरग्नये पदपूर्विकाः ।
प्रणवादिनमोऽन्ताश्च पुनर्दर्भचतुष्टयैः ॥८४॥

दिक्क्रमात्सम्परिस्तीर्य सम्यग्गन्धादिभिर्यजेत् ।
मध्ये च कोणषट्के च जिह्वाभिः केसरेषु च ॥८५॥

अङ्गमन्त्रैस्ततो बाह्ये अष्टाभिर्मूर्तिभिः क्रमात् ।
ततोऽग्निमनुनानेन मन्त्री मध्ये च संयजेत् ॥८६॥

वैश्वानरं जातवेदमुक्त्वा चेहावहेति च ।
लोहिताक्षपदं सर्वकर्माणीति समीरयेत् ।
ब्रूयाच्च साधयेत्यन्ते वह्निजायान्तिको मनुः ॥८७॥

त्रिणयनमरुणप्ताबद्धमौलिं सुशुक्लां-
शुकमरुणमनेकाकल्पमम्भोजसंस्थम् ।
अभिमतवरशक्तिस्वस्तिकाभीतिहस्तं
नमत कनकमालालङ्कृतांसं कृशानुम् ॥८८॥

जिह्वा ज्वालारुचः प्रोक्ता वराभययुतानि च ।
अङ्गानि मूर्तयः शक्तिस्वस्तिकोद्यतदोर्द्वयाः ॥८९॥

संस्कृतेन घृतेनाभिद्योतनोद्योतितेन च ।
व्याहृत्यनन्तरं तेन जुहुयान्मनुना त्रिशः ॥९०॥

गर्भाधानादिका वह्नेः समुद्वाहावसानिकाः ।
क्रियास्तारेण वै कुर्यादाज्याहुत्यष्टकैः पृथक् ॥९१॥

जिह्वाङ्गमूर्तिमनुभिरेकावृत्या हुनेत्तथा ।
जिह्वायां मध्यसंस्थायां मन्त्री ज्वालावली तनौ ॥९२॥

ताराद्यैर्दशभिर्भिएदैः पूर्वैः पूर्वैः समन्वितः ।
मनुना गाणपत्येन हुनेत्पूर्वं दशाहुतीः ॥९३॥

जुहुयाच्च चतुर्वारं समस्तेनैव तेन तु ।
आज्येन सन्ध्यमनुना पञ्चविंशतिसङ्ख्यकम् ॥९४॥

जुहुयात्सर्वहोमेषु सुधीरनलतृप्तये ।
तान्त्रिकाणामयं न्यायो हुतानां समुदीरितः ॥९५॥

पुनः साध्येन मनुना हुनेदष्टसहस्रकम् ।
अथवाष्टशतं र्सिपः संयुक्तेन पयोन्धसा ॥९६॥

द्रव्यैर्विधानप्रोक्तैर्वा महाव्याहृतिपश्चिमम् ।
पुनः समापयेद्धोमं परिषेकावसानिकम् ॥९७॥

भूभुर्वःस्वर्भूर्भुवस्वःपूर्वं स्वाहान्तमेव च ।
अग्नये च पृथिव्यै च महते च समन्वितम् ॥९८॥

वायवे चान्तरिक्षाय महते च समन्वितम् ।
आदित्याय च दिवे च महते च समन्वितम् ॥९९॥

चन्द्रमसे च दिग्भ्यश्च महते च समन्वितम् ।
महाव्याहृतयस्त्वेताः सर्वशो देवतामयाः ॥१००॥

ब्रह्मार्पणाख्यमनुना पुनरष्टावथाहुतिः ।
जुहुयान्मन्त्रवर्येण कर्मबन्धविमुक्तये ॥१०१॥

इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतः ।
जाग्रत्स्वप्नसुषुप्तीनामन्तेऽवस्थास्वितीरयेत् ॥१०२॥

ततश्च मनसा वाचा कर्मणेति प्रभाषयेत् ।
हस्ताभ्यां च तथा पद्भ्यामुदरेण तु भाषयेत् ॥१०३॥

शिश्ना च यत्कृतं प्रोक्त्वा यदुक्तं यत्स्मृतं तथा ।
तत्सर्वमिति सम्भाष्य ब्रह्मार्पणपदं वदेत् ॥१०४॥

भवत्वन्ते द्विठश्चायं ब्रह्मार्पणमनुर्मतः ।
हुते तु देशिकः पश्चान्मण्डले बलिमारभेत् ॥१०५॥

नक्षत्राणां सराशीनां सवाराणां यथाक्रमम् ।
दद्याद्बलिं गन्धपुष्पधूपपूर्वकमादरात् ॥१०६॥

ताराणामश्विनादीनां राशीः पादाधिकद्वयम् ।
मेषादिमुक्त्वा नक्षत्रसंज्ञां पूर्वमनन्तरम् ॥१०७॥

देवताभ्यः पदं प्रोक्त्वा दिवानक्तपदं तथा ।
चारिभ्यश्चाथ सर्वेभ्यो भूतेभ्यश्च नमो वदेत् ॥१०८॥

एवं राशो तु सम्पूर्णे तिंस्मस्तद्वत्प्रयोजयेत् ।
तथा राश्यधिपानां च ग्रहाणां तत्र तत्र तु ॥१०९॥

सप्तानां करणानां च दद्यान्मीनाह्वमेषयोः ।
अन्तराले बलिस्त्वेवं सम्प्रोक्तः कलशात्मकः ॥११०॥

पुर्निनवेद्यमुद्धृत्य पुरोवत्परिपूज्य च ।
मुखवासादिकं दत्त्वा स्तुत्या तद्युक्तया पुनः ।
स्तुत्वा यथावत्प्रणमेद्भक्तियुक्तस्तु साधकः ॥१११॥

दोभ्र्यां पदाभ्यां जानुभ्यामुरसा शिरसा दृशा ।
वचसा मनसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥११२॥

बाहुभ्यां च सजानुभ्यां शिरसा वचसा धिया ।
पञ्चाङ्गकःप्प्रणामः स्यात्पूजासु प्रवराविमौ ॥११३॥

गुर्वाद्यास्तारादिका यागमन्त्रा
लोकेशान्तास्ते चतुर्थीनमोऽन्ताः ।
पूजायामप्यग्निकार्ये द्विठान्ता
बीजैः पूजा स्याद्विभक्त्या वियुक्तैः ॥११४॥

वाससी च पुनरङ्गुलिभूषां होमकृत्सु मुखजप्रवरेषु ।
ईश्वरार्पणमिति प्रतिदत्त्वा र्विधतो द्विजमुखेरितवाग्भिः ॥११५॥

नत्त्वा ततस्तनुभृते परमात्मने स्वं
द्रव्यार्धमेव गुरवे चतुरंशकं वा ।
दत्त्वा दशांशमथवापि च वित्तशाठ्यं
हित्वार्पयेन्निजतनुं तदधीनचेताः ॥११६॥

अथ पटुरवमुख्यवाद्यघोषै-
रिद्वजमुखनिष्पतदाशिषां रवेण ।
सुनियतमपि सुस्थितं च शिष्यं
कलशजलैरभिषेचयेद्यथावत् ॥११७॥

यथा पुरा पूरितमक्षरैर्घटैः
सुधामयैः शिष्यतनौ तथैव तैः ।
प्रपूरयन्मन्त्रिवरोऽभिषेचये-
दवाप्तये मूङ्क्षु यथेष्टसम्पदाम् ॥११८॥

विमले परिधाय वाससी पुनराचम्य गुरुं प्रणम्य च ।
निकटे समुपासतो वदेदथ शिष्यस्य मनुं त्रिशो गुरुः ॥११९॥

गुरुणा समनुगृहीतं मन्त्रं सद्यो जपेच्छतावृत्त्या ।
गुरुदेवतामनूनामैक्यं सम्भावयन्धिया शिष्यः ॥१२०॥

मन्त्रे मन्त्रगुरावपि मन्त्री मन्त्रस्य देवतायां च ।
त्रिषु विहितसततभक्तिः प्रेत्येह निजेप्सितं फलं लभते ॥१२१॥

सङ्क्षेपादिति गदिता हिताय दीक्षा
जप्तृणां प्रवरफलप्रदा चिराय ।
प्राप्यैनां जपविधिरादरेण कार्यो
विद्वद्भिः सहुतविधिं निजेष्टसिद्ध्यै ॥१२२॥

प्रोक्तेनैवं कलशविधिनैकेन वानेककुम्भै-
र्भक्त्या यो वा सुमतिरभिषिञ्चेन्नरो मन्त्रजापी ।
कामान्प्राप्नोत्ययमिह परत्रापि किं तत्र चित्रं
लोकैश्चिन्त्यो न खलु मणिमन्त्रौषधीनां प्रभावः ॥१२३॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे षष्ठः पटलः ॥

N/A

References : N/A
Last Updated : January 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP