त्रिंशः पटलः
प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.
अथाभिवक्ष्ये महितस्य मन्त्रस्यानुष्टुभः सङ्ग्रहतो विधानम् ।
ऋष्यादिकैरङ्गपदैर्यथावद्दीक्षाजपार्चाहवनैः क्रमेण ॥१॥
ऋषिरभिहितो वसिष्ठश्छन्दोऽनुष्टुप्च देवता रुद्रः ।
त्र्यम्बकपदादिका स्यान्मनुनैव षडङ्गकॢप्तिरथ कथिता ॥२॥
त्रिभिस्तु वर्णैर्हृदयं शिरश्च
चतुर्भिरष्टाभिरथो शिखा च ।
उक्तं नवार्णैः कवचं तथाक्षि-
पञ्चार्णकं त्र्यक्षरमस्त्रमाहुः ॥३॥
प्राक्प्रत्यग्यास्यसौम्ये शिरसि च वदनोरोगलांसेषु नाभौ
हृद्देशे पृष्ठकुक्ष्योरथ शिवगुदयोरूरुमूलान्तयोश्च ।
जान्वोस्तद्दृत्तयुग्मस्तनतटयुगपाश्र्वेषु पत्पाणिनासा-
शीर्षेष्वप्यूध्र्वतोऽर्णैन्र्यसतु पुनरधस्तोऽपि मन्त्री तथोध्र्वम् ॥४॥
चरणाग्रसन्धिषु गुदाधारोदरहृदयकन्धरेषु पुनः ।
बाह्वोः सन्ध्यग्रास्यघ्राणद्वयदृक्श्रुतिभ्रुशीर्षेषु ॥५॥
वर्णान्न्यस्य शिरोभ्रूदृग्वक्त्रकगलहृदुदरगुह्यषु ।
ऊर्वोर्जान्वोः पादयोः पदैश्च मनुवित्क्रमेण विन्यस्येत् ॥६॥
वसिष्ठादिक्रमेणैव अङ्गन्यासं समाचरेत् ।
वसिष्ठस्त्र्यम्बकश्चैव त्रिणेत्रश्च तथैव च ।
अनुष्टुप्छन्दसे चेति जातियुक्तेन मन्त्रवित् ॥७॥
अच्छस्वच्छारविन्दस्थितिरुभयकराज्र्स्थितं पूर्णकुम्भं
द्वाभ्यां वेदाक्षमाले निजकरकमलाभ्यां घटौ नित्यपूर्णौ ।
द्वाभ्यां तौ च स्रवन्तौ शिरसि शशिकलाबन्धुरे प्लावयन्तौ
देहं देवो दधानः प्रदिशतु विशदाकल्पजालः श्रियं वः ॥८॥
प्रासादोक्ते पीठे गव्यैर्वा दुग्धतरुकषायैर्वा ।
सम्पूर्यकलशमस्मिन्महेशमावाह्य पूजयेद्भक्त्या ॥९॥
अङ्गैराद्यार्काद्यैः पुनरावृतिरष्टभिर्द्वितीया स्यात् ।
मन्त्रार्णशक्तिभिः स्युः पुनश्चतस्रो दिशापवङ्काद्यैः ॥१०॥
अर्केन्दुधरणितोयानलेरवियदात्मसंज्ञकास्ते च ।
आनुष्टुभमित्यष्टावरणं प्रोक्तं विधानवरमेवम् ॥११॥
रमा राका प्रभा ज्योत्स्ना पूर्णोषा पूरणी सुधा ।
विश्वा विद्या सुधा प्रह्वा सारा सन्ध्या शिवा निशा ॥१२॥
आद्र्रा प्रज्ञा प्रभा मेधा कान्तिः शान्तिद्र्युतिर्मतिः ।
परोमा पावनी पद्मा शान्ता मेधा जयामला ॥१३॥
द्वात्रिंशदिति निर्दिष्टाः शक्तयोऽनुष्टुभः क्रमात् ।
शिवानुभावतो नित्यं जगदाप्याययन्ति याः ॥१४॥
इति परिपूज्य महेशं कलशजलैः समभिषेचयेच्छिष्यम् ।
कनकांशुकरत्नाद्यैर्गुरुमपि परिपूज्य मनुमतः सिद्धम् ॥१५॥
प्रजपेल्लक्षायत्या द्रव्यैर्जुहुयाज्जपावसाने च ।
बिल्वपलाशौ खदिरो वटतिलसिद्धार्थदौग्धदुग्धानि ॥१६॥
दधिदूर्वेति दशैतान्याज्यसमेतानि होमवस्तूनि ।
एकैकशः सहस्रं दशभिर्हुत्वा प्रतप्र्य विप्रांश्च ॥१७॥
भवति नरः सिद्धमनुर्मन्त्रेण च सर्वकर्मकर्ता स्यात् ।
बिल्वैरयुतं हुत्वा महतीं लक्ष्मीमवाप्नुयाद्विप्रः ॥१८॥
तावद्भिद्विजवृक्षैर्द्विजः श्रियं पुष्कलामवाप्नोति ।
खदिरसमिदयुतहोमात्तेजोबलपुष्टिमाप्नुयादिष्टाम् ॥१९॥
न्यग्रोधायुतहोमाद्धनधान्यसमृद्धिमेति नचिरेण ।
अयुतं तिलैः प्रजुह्वन्नपमृत्योः पाप्मनो विमुक्तः स्यात् ॥२०॥
सिद्धार्थायुतहोमो वैरिणमपमृत्युमपि विनाशयति ।
पायसहुतेन परमां रमामथायुर्यशो लभेन्मत्र्यः ॥२१॥
दुग्धहुतात्कान्तिः स्यात्परकृत्या नश्यति श्रियं लभते ।
दधिदोमतोऽन्नवान्स्यात्संवननकरं च तं वदन्ति बुधाः ॥२२॥
दूर्वायुतेन जुहुयाद्रोगान्निर्वास्य सर्वमपमृत्युम् ।
र्गिवतधीरब्दानां विप्रवरः सर्वथा शतं जीवेत् ॥२३॥
निजजन्मदिने पयोन्धसा वा शतवीर्यत्रितयैः पयोघृताक्तैः ।
जुहुयाच्च शतं सविंशतिं यः स लभेदायुररोगतां चिराय ॥२४॥
काष्मर्यदारुसमिधां त्रिशतं सहस्रं
र्सिपःपयोन्नसहितं त्रितयं जुहोतु ।
विप्रान्प्रतप्र्य च गुरून्परिपूज्य सम्य-
ग्दीर्घं विमुक्तगदमायुरवाप्तुकामः ॥२५॥
स्नात्वार्काभिमुखोऽम्भसि स्थित इमं मन्त्रं सहस्रं जपे-
दायुष्यं प्रतिपर्व दुग्धहविषा होमो महाश्रीप्रदः ।
लाजाभिर्निजवाञ्छिताय हवनात्कन्याशु सन्दीयते
स्वाद्वक्तस्तनजद्रुमैश्च हवनात्सर्वान्वशे स्थापयेत् ॥२६॥
गायत्रिवर्णपरिपूर्णतनुस्तु भानु-
स्त्रिष्टुब्विशिष्टमहिमा महितः कृशानुः ।
आनुष्टुभाक्षरसमग्ररुचिः शशाज्रे
दद्युः समुद्यतममी परिवाञ्छितं वः ॥२७॥
एभिस्त्रिभिर्मनुवरैस्तु शताक्षराख्यो
मन्त्रोऽभिकाङ्क्षितफलाप्तिदकामधेनुः ।
प्रोक्तो हिताय जगतां मुनिभिः कृपाद्र्र-
चित्तैर्यथोक्तमथ सङ्ग्रहतो वदामि ॥२८॥
ऋष्याद्याः पूर्वोक्तास्त्रिदशाः स्युर्हृत्त्रयोदशभिरर्णैः ।
शिर एकादशभिश्च द्वाविंशद्भिस्तथा शिखाकवचम् ॥२९॥
नयनं पञ्चदशार्णैः ससप्तभिर्दशभिरस्त्रमङ्गविधिः ।
विन्यासं च मनूनां मन्त्रज्ञः पूर्ववत्क्रमात्कुर्यात् ॥३०॥
स्मर्तव्याखिललोकर्वित सततं यज्जङ्गमस्थावरं
व्याप्तं येन च यत्प्रपञ्चविहितं मुक्तिश्च यत्सिद्धितः ।
यद्वा स्यात्प्रणवत्रिभेदगहनं श्रुत्या च यद्गीयते
तद्वः काङ्क्षितसिद्धयेऽस्तु परमं तेजस्त्रयोत्थं महः ॥३१॥
लक्षायतो जपविधिः शताक्षरस्याथ होमविधिरुक्तः ।
अयुतावधिको द्रव्यं दौग्धान्नं र्सिपषा समायुक्तम् ॥३२॥
सौरे पीठे पूज्या पूर्वोक्ताङ्गैः समावृतिः प्रथमा ।
प्रह्लादिन्याद्याभिस्तिस्रः प्रोक्ताः क्रमात्समावृतयः ॥३३॥
पञ्चम्यावृतिरुक्ता त्रैष्टुभवज्जागतादिभिस्तदनु ।
स्याच्चरमादिभिरावृतिचतुष्कमुक्तं दशम्यथेन्द्राद्यैः ॥३४॥
इति शताक्षरमन्त्रसमर्चना निगदितेह दशवरणा बुधैः ।
प्रजपतामभिकाङ्क्षितसिद्धये निखिलसंसृतिमोक्षपदाप्तये ॥३५॥
दुग्धाक्तैर्जुहुयात्सहस्रममृताकाण्डैस्तु दीर्घायुषे
दूर्वाणां त्रितयैस्तथा घृतपयःसिक्तैर्घृतेनैव वा ।
लक्ष्म्यै कोकनदैश्च शोणरुचिभिस्त्रिस्वादुयुक्तैस्तथा
रक्तैरुत्पलकैस्तदह्नि विकचैर्बैल्वप्रसूनैरपि ॥३६॥
अनुदिनमघशान्त्यै संयतात्मा सहस्रं
प्रतिजुहुतु तिलैर्वा मन्त्रविन्मासमेकम् ।
अपि दिनकरसङ्ख्यं भोएजयीत द्विजाती-
न्विविधरसविशिष्टैर्भक्तितो भोज्यजातैः ॥३७॥
शतं शतं प्रातरतन्द्रितोद्यतो
जपेद् द्विजो मन्त्रमिमं शताक्षरम् ।
अरोगजुष्टं बहुलेन्दिरायुतं
शतं स जीवेच्छरदां सुखेन सः ॥३८॥
सर्वान्कामानवाप्नोति मन्त्रमेनं जपेत्तु यः ।
सर्वं साधयते मन्त्री अस्त्रशस्त्रादिलक्षणम्।३९॥
प्रणवव्याहृत्याद्या व्याहृतितारान्तिका च मन्त्री च ।
जप्त्वा शताक्षरी स्यादिहपरलोकप्रसिद्धये दिनशः ॥४०॥
मनुममुमघशान्त्यै पत्पदाद्यं प्रजप्या-
द्गदगणरहितायाप्यायुषेऽनुष्टुबाद्यम् ।
विमलमतिररातिध्वंसने त्रिष्टुबाद्यं
दिनमनु दिनवक्त्रे वत्सरं संयतात्मा ॥४१॥
शताक्षरमनोरयं क्रम उदीरितः सङ्ग्रहा-
द्भजेदमुमतन्द्रिते दिनश एव मन्त्री रहः ।
अभीष्टफलसिद्धये सुयशसे च दीर्घायुषे-
ऽप्यशेषजनरञ्जनाय चिरमिन्दिरावाप्तये ॥४२॥
संवादसूक्तविहितं विधानमथ साङ्गदेवतारूपम् ।
वक्ष्यामि साधकानामनुदिनमभिवाञ्छितप्रदानकरम् ॥४३॥
ऋषिरपि संवननोऽस्यानुष्टुप्च त्रिष्टुबुच्यते च्छन्दः ।
संवादाद्यः प्रोक्तः संज्ञानाद्यश्च देवता वह्निः ॥४४॥
ब्रह्माख्यो हृदयमनुः शिरश्च विष्णू
रुद्रः स्यादिह तु शिखेश्वरश्च वर्म ।
नेत्रे द्वे भवति सदाशिवस्तथास्त्रं
सर्वात्मेत्यथ कथितं षडङ्गमेवम् ॥४५॥
धवलनलिनराजच्चन्द्रमध्ये निषण्णं
करविलसितपाशं साज्रुशं साभयं च ।
सवरदममलेन्दुक्षीरगौरं त्रिणेत्रं
प्रणमत सुरवक्त्रं मुङ्क्षु संवादयन्त्रम् ॥४६॥
सहस्रकाणां दशभिश्चतुर्भिर-
प्यथो सहस्रैश्च चतुर्भिरन्वितम् ।
जपेन्मनुं सम्यगथाभिदीक्षितः
पयोन्धसान्ते जुहुयाद्दशांशकम् ॥४७॥
यजेत्पुराङ्गैश्च तदर्चनाविधौ
पुर्निद्वतीयावरणेऽग्निमूर्तिभिः ।
अनन्तरं च त्रिदिवेश्वरादिभिः
क्रमेण वह्निं विधिनेति पूजयेत् ॥४८॥
संवादसूक्ते विधिनेत्यनेन
संसाधिते कर्म करोतु मन्त्री ।
चतुःशतं चापि दशोत्तरेण
चतुश्चतुष्कं प्रजपेद्धुनेद्वा ॥४९॥
पायसेन मधुरत्रयभाजा विप्रराजतरुजैः कुसुमैर्वा ।
र्सिपषा स्तनजवृक्षसमिद्भिर्वाञ्छितार्थविधये प्रजुहोतु ॥५०॥
जुहुयात्कलाचतुष्कैः प्रत्यृचमायोज्य कादिवर्गचतुष्कैः ।
तद्वच्च पयशलाद्यैर्वर्गैः संयोज्य पूर्ववन्मतिमान् ॥५१॥
तद्वदृचं प्रतियोज्य त्रिष्टुप्पादांश्च पूर्वसङ्ख्येन ।
जुहुयात्र्सिपःसिक्तं पायसमचिरेण कार्यसमवाप्त्यै ॥५२॥
प्रतिपादमथक्र्पादं प्रतियोज्य जुहोतु पूर्ववन्मतिमान् ।
तेनाभीष्टावाप्तिर्नचिरेण नरस्य हस्तगा भवति ॥५३॥
अक्षरपादात्त्रिष्टुब्युक्तैः सूक्तैस्तु पूर्वसङ्ख्येन ।
जुहुयात्समाजरूपं संवादयितुं प्रतर्पयेद्वाग्भिः ॥५४॥
उद्दिश्य यद्यदिह मन्त्रितमो जुहोति
सूक्तैरमा निगदितैस्त्रिविधैश्च मन्त्रैः ।
व्यस्तैर्यथाविभवतो विधिवत्समस्तै-
स्तत्तस्य सिध्यति समग्रमयत्नमेव ॥५५॥
ऋग्वारुणी ध्रुवा स्वाद्या या सा त्रिष्टुब्निगद्यते ।
ऋषिर्वसिष्ठस्त्रिष्टुप्च च्छन्दो वारीशदेवता ॥५६॥
अष्टभिः सप्तभिः षड्भिः पुनस्तावद्भिरक्षरैः ।
षडङ्गानि विधेयानि तन्मन्त्रसमुदीरितैः ॥५७॥
अङ्गुल्यग्रससन्धिपायुशिवसंज्ञाधारनाभिष्वथो
कुक्षौ पृष्ठहृदोरुरोजगलदोःसन्ध्यग्रवक्त्रेषु च ।
गण्डघ्राणविलोचनश्रवणयुग्भ्रूमध्यमध्येषु के
सर्वाङ्गेषु तथा न्यसेद्विशदधीर्वर्णैः समर्थैः क्रमात् ॥५८॥
अच्छांशुकाभरणमाल्यविलेपनाढ्यः
पाशाज्रुशाभयवरोद्यतदोः सरोजः ।
स्वच्छारविन्दवसतिः सुसितः प्रसन्नो
भूयाद्विभूतिविधये वरुणश्चिरं वः ॥५९॥
अङ्गैरष्टभिरहिपैर्दिशाधिपैः समभिपूज्य वारीशम् ।
कलशैः पुनरभिषिञ्चेत्परमगुरुर्मन्त्रजापिनं शिष्यम् ॥६०॥
वसुभिः प्रसाद्य देशिकमथ शिष्यो मनुमिमं जपेल्लक्षम् ।
जुहुयाच्च दुग्धपक्वैरन्नैरयुतं घृताप्लुतैर्मतिमान् ॥६१॥
ऋगियमृणमोचनी स्याज्जपैर्हुतैस्तर्पणैश्च मन्त्रविदः ।
सम्प्राप्तदुर्गतेरपि सद्यो हृद्यां च संवहेल्लक्ष्मीम् ॥६२॥
इक्षोः सितैश्च शकलैर्घृतसंसिक्तैश्चतुर्दिनं जुहुयात् ।
सकलोपद्रवशान्त्यै तथर्णमुक्त्यै च सम्पदे सुचिरम् ॥६३॥
वैतससमिदयुतहुताद्वृष्टिमकालेऽपि वितनुते वरुणः ।
गव्यक्षीरसमेतात्त्रिदिनकृताद्दिनमुखेषु मुदितमनाः ॥६४॥
शतभिषजि समुदितेऽर्के चतुःशतं पायसं हुनेत्सघृतम् ।
ऋणमोचनाय लक्ष्म्यै जनसंवननाय शुक्रवारे वा ॥६५॥
पाशाबद्धं वैरिणमज्रुशसम्प्रोतमम्बुधेः पारे ।
ध्यायन्परे क्षिपन्तं वरुणं जुहुयाच्च वा तथा प्रजपेत् ॥६६॥
पाशनिबद्धं वैरिणमसिना च्छित्वाशु नाशयन्तममुम् ।
ध्यायन्वेतससमिधा गोमूत्रयुजा हुनेत्तदपहत्यै ॥६७॥
दौग्धान्नैर्भृगुवारे घृतसंसिक्तैः कृतश्च हवनविधिः ।
ऋणमोक्षदश्च विविधोपद्रवशमकृद्रमाकरः प्रोक्तः ॥६८॥
पश्चिमसन्ध्यासमये पश्चिमवदनोऽनलं समाराध्य ।
ऋचमेनामभिजप्याच्चतुःशतं सकलदुःखनाशाय ॥६९॥
शालीघृतसंसिक्ताः सरिदन्तरतो जुहोतु परसेनाम् ।
संस्तम्भयितुं त्रिदिनं सुमना मन्त्री चतुःशतावृत्त्या ॥७०॥
प्रत्यङ्मुखोऽथ मन्त्री प्रतर्पयेद्वा जलैः सुशुद्धतरैः ।
यः सोऽप्युपद्रवाणां रुन्धेरन्निवहं श्रियं समृच्छति च ॥७१॥
बहुना किमनेन मन्त्रिमुख्यो मनुनाशु प्रतिसाधयेदभीष्टम् ।
हवनक्रिययाथ तर्पणैर्वा सजपैः पाशभृतो महामहिम्नः ॥७२॥
अथ लवणमनुं वदामि साङ्गं
सजपं सप्रतिपत्तिकं सहोमम् ।
विधिवद्विहितेन येन सर्वां
जगतीमात्मवशे करोति मन्त्री ॥७३॥
लवणाम्भसि चेत्याद्या द्वितीया लवणे इति ।
देहेति च तृतीया स्यात्सदग्ध्वेति चतुथ्र्यपि ॥७४॥
ऋक्पञ्चमी तु या ते स्याद्यथा प्रोक्तमथर्वणि ।
ऋग्भिराभिस्तु पञ्चाङ्गं पञ्चभिर्वा समीरितम् ॥७५॥
चिट्यक्षरैः षडङ्गं वा प्रणवाद्यैर्निगद्यते ।
पञ्चभिश्च त्रिभिरपि पञ्चभिः पञ्च चाक्षरैः ॥७६॥
सपञ्चभिर्युगार्णेण जातियुक्तैः समाहितः ।
अङ्गिराः स्यादृषिश्छन्दोऽनुष्टुबत्रैव देवता ।
अग्निरात्री तथा दुर्गा भद्रकाली समीरिता ॥७७॥
अरुणोऽरुणपज्र्जसन्निहितः स्रुवशक्तिवराभययुक्तकरः ।
अमितार्चिरजात्तगतिर्विलसन्नयनत्रितयोऽवतु वो दहनः ॥७८॥
नीलवरांशुककेशकलापा नीलतनुर्निबिडस्तनभारा ।
साज्रुशपाशसशूलकपाला यामवती भवतोऽवतु नित्यम् ॥७९॥
करकमलविराजच्चक्रशङ्खातिशूला
परिलसितकिरीटा पातितानेकदैत्या ।
त्रिणयनलसिताङ्गी तिग्मरश्मिप्रकाशा
पवनसखनिभाङ्गी पातु कात्यायनी वः ॥८०॥
सुरौद्रसितदंष्ट्रिका त्रिणयनोध्र्वकेशोल्बणा
कपालपरशूल्लसड्डमरुका त्रिशूलाकुला ।
घनाघननिभा रणद्रुचिरकिज्र्णिईमालिका
भवद्विभवसिद्धये भवतु भद्रकाली चिरम् ॥८१॥
खेटासिमुसलतोमरकपालशक्तीः सपाशसृणि दधती ।
दंष्ट्रोग्रा सिंहस्था रात्रिकालिका ध्येया ॥८२॥
अयुतं नियतो मत्रमृक्पञ्चकसमन्वितम् ।
प्रजपेत्त्रिसहस्रं वा सम्यगेनं समाहितः ॥८३॥
दशांशेन हुनेत्सिद्ध्यै हविषा घृतसंयुजा ।
एवं कृते प्रयोगार्हो मन्त्री भूयान्न चान्यथा ॥८४॥
वह्निरात्री वरे स्यातां वश्याकर्षणकर्मणोः ।
दुर्गाकाल्यौ तथा देव्यौ शस्ते मारणकर्मणि ॥८५॥
आरभ्य कर्मकृन्मन्त्री तृतीयां कृष्णपक्षजाम् ।
सन्दीक्षितो भवेत्पूते मन्दिरे मन्त्रजापवान् ॥८६॥
निखन्यात्तत्र कुण्डं च दोर्मात्रं त्र्यश्रमेखलम् ।
चतुष्कं सुन्दराकारं पुत्तलीनां च कारयेत् ॥८७॥
एतां साध्यक्र्षवृक्षेण शालिपिष्टेन चापराम् ।
चक्रीकरमृदा चान्यां मधूच्छिष्टेन चेतराम् ॥८८॥
तासु हृद्देशलिखितसाध्याख्यासु समाहितः ।
सम्यक्संस्थापयेत्प्राणान्साध्यादानीय साधकः ॥८९॥
उक्तानां दारवीं कुण्डे खनेन्मन्त्राभिमन्त्रिताम् ।
विष्टरां विष्टरस्याधः पादस्थाने च मृन्मयीम् ॥९०॥
लम्बयेदम्बरे सिद्धमयीमूध्र्वमधोमुखीम् ।
पुनः कृष्णाष्टमीरात्रौ पूर्वयामे गते सति ॥९१॥
रक्तमाल्याम्बरो मन्त्री कृतरक्तानुलेपनः ।
सम्यक्कृतलिपिन्यासप्राणायामादिकः शुचिः ॥९२॥
कुडुवं पोतलवणं सुश्लक्ष्णं परिचूर्णितम् ।
दधिक्षौद्रघृतक्षीरैः प्रोक्षयित्वा सुशोधितम् ॥९३॥
आलोड्य गुडमध्वाज्यैर्विस्पष्टावयवामथ ।
तेन पुत्तलिकां मन्त्री चार्वङ्गीं कारयेत्सुधीः ॥९४॥
तस्यां च स्थापयेत्प्राणान्गुर्वादेशविधानतः ।
अष्टोध्र्वशतसङ्ख्यं वा तथाष्टोध्र्वसहस्रकम् ॥९५॥
ऋक्पञ्चकं पञ्चविंशत्सङ्ख्यं प्रतिकृतिं स्पृशन् ।
जपित्वाङ्गीनि विन्यस्येत्स्वाङ्गप्रतिकृतावपि ॥९६॥
सतारैश्चिटिमन्त्रार्णैश्चतुर्विंशतिसङ्ख्यकैः ।
शिरोललाटदृक्कर्णनासास्यचिबुकेष्वपि ॥९७॥
सकण्ठहृदयोरोजकुक्षिनाभिकटीषु च ।
मेढ्रपायूरुजान्वाख्यजङ्घाङ्घ्रिषु च विन्यसेत् ॥९८॥
अधो गुह्यादभेदः स्यादूध्र्वं भेदेऽन्विते सति ।
आत्मन्येवं प्रविन्यस्य पुनः प्रतिकृतौ न्यसेत् ॥९९॥
अङ्गुष्ठसन्धिप्रदजङ्घाजानूरुपायुषु ।
सलिङ्गनाभिजठरहृदयेषु स्तनद्वये ॥१००॥
कन्धराचिबुकास्येषु घ्राणदृक्कर्णयुग्मके ।
ललाटशिरसोन्र्यस्येत्प्रतिमायां च संहरेत् ॥१०१॥
उपलिप्याथ कुण्डं तद्बहिर्गोमयवारिणा ।
साध्यसम्मुख आसीन आदध्याद्धव्यवाहनम् ॥१०२॥
प्रज्वाल्य साध्योडुतरुकाष्टैरभ्यच्र्य दीप्तिमान् ।
राजीकुशीतपुष्पाद्भिश्चषके रजतादिके ॥१०३॥
देवतां प्रतिपाद्याघ्र्यं दत्त्वा कार्यार्थसिद्धये ।
उपतिष्ठेद्धुतस्यादावन्ते मन्त्रैरितीरितैः।१०४॥
त्वमाननममित्रघ्न निशायां हव्यवाहन ।
हविषा मन्त्रदत्तेन तृप्तो भव मया सह ॥१०५॥
जातवेदो महादेव तप्तजाम्बूनदप्रभ ।
स्वाहपते विश्वमक्ष लवणं दह शत्रुहन् ॥१०६॥
ईशे ईश्वरि शर्वाणि ग्रस्तं मुक्तं त्वया जगत् ।
महादेवि नमस्तुभ्यं वरदे कामदा भव ॥१०७॥
तमोमयि महादेवि महादेवस्य सुव्रते ।
स्त्रिया मे पुरुषं गत्वा वशमानय देहि मे ॥१०८॥
दुर्गे दुर्गादिरहिते दुर्गसंशोधनार्गले ।
चक्रशङ्खधरे देवि दुष्टशत्रुभयङ्करि ॥१०९॥
नमस्ते दह शत्रुं मे वशमानय चण्डिके ।
शाकम्भरि महादेवि शरणं मे भवानघे ॥११०॥
भद्रकालि भवाभीष्टे भद्रसिद्धिप्रदायिनि ।
सपत्नान्मे दह दह पच शोषय तापय ॥१११॥
शूलादिशक्तिवङ्काद्यैरुत्कृत्योत्कृत्य मारय ।
महादेवि महाकालि रक्षात्मानं कुमारिके ॥११२॥
पुनः प्रतिकृतेरङ्गसप्तकं निशितायसा ।
दक्षपादादिकं छित्वा पञ्चर्चं प्रजपेन्मनुम् ॥११३॥
साध्यं संस्मृत्य शितधीर्जुहुयात्सप्तसङ्ख्यया ।
दक्षिणं चरणं पूर्वं ततो दक्षार्धकं पुनः ॥११४॥
दक्षहस्तं तृतीयं स्याद्गलादूध्र्वं चतुर्थकम् ।
पञ्चमं वामहस्तं स्यात्षष्ठं वामार्धमेव च ॥११५॥
सप्तमं वामपादं स्यादन्यापि स्याद्धुतक्रिया ।
सप्त सप्त विभागो वा क्रमादङ्गेषु सप्तसु ॥११६।
एकादशांशभिन्नैर्वा तदङ्गैः सप्तभिर्हुनेत् ।
होमोऽन्यथा वा पूर्वं तु दक्षिणश्चरणो भवेत् ॥११७॥
द्वितीयो दक्षिणकरस्तृतीयः शिर उच्यते ।
वामबाहुश्चतुर्थस्तु मध्यादूध्र्वं तु पञ्चकम् ॥११८॥
अधोभागस्तु षष्ठः स्याद्वामभागस्तु सप्तकः ।
हुत्वैवं पूर्वसम्प्रोक्तैरुपस्थापकमन्त्रकैः ॥११९॥
अर्चयित्वा दण्डदीर्घं प्रणमेद्धव्यवाहनम् ।
सकर्षस्वर्णयुक्ताङ्गां शोणां दद्यात्सतर्णकाम् ॥१२०॥
दक्षिणां सप्तकर्षां तु दद्यान्मारणकर्मणि ।
अंशुकं रुचकं धान्यं दत्त्वा सम्प्रीणयेद्गुरुम् ॥१२१॥
एवं कृतेन मन्त्रीष्टं लभते होमकर्मणा ।
अथ वा मारणाकाङ्क्षी साध्यवामाङ्घ्रिपांसुभिः ॥१२२॥
सनिम्बतिलसिद्धार्थव्रणकृत्तैलसंयुतैः ।
हिङ्गुत्रिकटुकोपेतैर्महिषीमूत्रपेषितैः ॥१२३॥
वराहपारावतयोः पुरीषेण समन्वितैः ।
एतैश्च सम्मिश्रयतु लोणं पूर्वोक्तसङ्ख्यकम् ॥१२४॥
पूर्ववत्पुत्तलीं तेन लोणचूर्णेन कारयेत् ।
प्राणान्प्रतिष्ठापयेच्च तत्र पूर्वोक्तसङ्ख्यकम् ॥१२५॥
पूर्वोक्ताभिः पुत्तलीभिः कुण्डे दक्षिणदिङ्मुखे ।
दुर्गां वा भद्रकालीं वा प्रतिपद्य यथेरिताम् ॥१२६॥
उपस्थिते त्वर्धरात्रे सव्यपाणिस्थशस्त्रकः ।
वामपादं समारभ्य जुहुयात्पूर्वसङ्ख्यया ॥१२७॥
समापयेद्दक्षपादं विकारेणायसो वशी ।
त्रिसप्ताहप्रयोगेण मारयेद्रिपुमात्मनः ॥१२८॥
तस्यां रात्र्यामुपोष्याथ परेऽहनि च साधकः ।
प्राणायामादिभिरपि गायत्रीजपहोमकैः ॥१२९॥
विमुक्तपापो भूत्वा तु स पुर्निवहरेत्सुखम् ।
यां कल्पयन्त्यपामार्गराजीघृतहवींषि च ॥१३०॥
पृथगष्टोत्तरशतावृत्त्या हुत्वा बलिं हरेत् ।
यो मे पुरस्तादित्यादिदशमन्त्रैर्बलिं हरेत् ॥१३१॥
इति लवणमनोर्विधानमेवं
प्रणिगदितं विधिवत्प्रयोगभिन्नम् ।
विधिममुमथ साधु सम्प्रयुञ्ज्या-
द्व्रजति फलं निजवाञ्छितं चिराय ॥१३२॥
अथ वा लवणैः परागभूतै-
र्मधुराक्तैः पुनरष्टमीनिशाद्यम् ।
जुहुयात्तु चतुर्दशीनिशान्तं
कुडुबोन्मानितमेभिरेव मन्त्रैः ॥१३३॥
नारीनरान्वा नगरं नृपान्वा
ग्रामं जनान्वा मनसोऽनुकूलान् ।
वशीकरोत्येव हुतक्रियेयं
चिराय नैवात्र विचारणीयम् ॥१३४॥
वस्तुनोक्तेन क्रियतां साङ्गोपाङ्गेन पुत्तली ।
तस्यां तु साध्यलिङ्गायां प्राणाद्यर्पणमाचरेत् ॥१३५॥
निक्षिप्य हृदये किञ्चित्कीटान्तां संस्पृशन्पुनः ।
प्राणार्पणेन यत्कार्यं क्षिप्रं कुयाद्विचक्षणः ॥१३६॥
अथास्य हृदये स्मृत्वा वर्तुलं वायुमण्डलम् ।
कृष्णषड्बिन्दुगं वायुं वायुगर्भं विचिन्तयेत् ॥१३७॥
तत्र भूतास्तु तन्मात्राशब्दाद्यं श्रवणादिकम् ।
धातून्मनश्च बुद्धिं च सङ्क्षिपेदप्यहङ्क्रियाम् ॥१३८॥
तत्सर्वं तेन चण्डेन समीरेण समीरितम् ।
अवामनासारन्धेरण स्वसमीपमुपानयेत् ॥१३९॥
प्रवेशयेच्च पुत्तल्यां पुनस्तेनैव वत्र्मना ।
प्राणप्रतिष्ठामन्त्रेण लब्धप्राणादिकां तथा ॥१४०॥
याद्यष्टकान्भ्रमरवद्धृदयाम्बुजस्थां
तत्केसरार्प्तिपरागपरिष्कृताङ्गान् ।
सञ्चिन्त्य साध्यहृदयेऽपि तथैव भूयः
साध्याम्बुजस्थानलिपिस्वकीयैः ॥१४१॥
हृत्पद्ममध्यस्थिततन्तुजालैरेकैकमेकोत्पतितैः क्रमेण ।
निश्वासमात्रेण सुखं प्रविष्टास्तत्प्राणमार्गेण हरेद्विरेफान् ॥१४२॥
वायव्याग्नेयैन्द्रवारीण्महेशक्रव्यात्सोमप्रेतनाथाश्रितेषु ।
किञ्जल्केषु प्राणभूतद्विरेफांस्तत्सम्बन्धांस्तन्तुभिर्बिन्दुभूतैः ॥१४३॥
अवामनासामार्गेणैवाकृष्याकृष्य पुत्तलीम् ।
प्रवेशयेत्सुधीः प्राणान्प्राणाद्यर्पणयोगतः ॥१४४॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे त्रिंशः पटलः ॥
N/A
References : N/A
Last Updated : January 21, 2026

TOP