दशमः पटलः

प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.


अथ वक्ष्ये सङ्ग्रहतो द्वादशगुणिताख्यमद्य यन्त्रवरम् ।
सम्पूज्य येन शक्तिं भुक्तेर्मुक्तेव्र्रजेन्नरोऽनुभवम् ॥१॥

व्याहृत्यावीतशक्तिज्वलनपुरयुगद्वन्द्वसन्ध्युत्थशक्त्या-
वीतं कोणात्तदुर्बीजकमनु च कपोलात्तगायत्रिमन्त्रम् ।
आग्नेयावीतमर्णैर्वृतमनुविगतैर्भूपुराभ्यां च रन्ध्रे
क्षौं चिन्तारत्नकं द्वादशगुणितमिदं यन्त्रमिष्टार्थदायि ॥२॥

पूर्वोक्तमानक्लृप्त्या मन्त्री त्रितयं विलिख्य वृत्तानाम् ।
विलिखेदन्तर्वर्तुलमनुशक्तिं स्पष्टबिन्दुनिष्ठानाम् ॥३॥

द्वादशमध्यमवर्तुलरेखा बहिरालिखेच्च शक्तीनाम् ।
हरियमवरुणधनाधिपदिक्षु द्वे द्वे च ताः क्रमेण स्युः ॥४॥

ईशाग्निऋतिमरुतां दिक्ष्वेकैकं विलिख्य भूयश्च ।
बीजान्तरालनिर्गतशूलाज्र्तिकोणषट्कयुगमग्नेः ॥५॥

मण्डलयुगयुगलं स्यादस्पृशदान्तरितवर्तुलं विशदम् ।
शक्तिं प्रवेष्टयेच्च प्रतिलोमव्याहृतीभिरन्तःस्थाम् ॥६॥

रविकोणेषु दुरन्तां मायां विलिखेदथाग्रबिन्दुमतीम् ।
एकैकान्तरितास्ताः परस्परं शक्तयश्च सम्बध्युः ॥७॥

गायत्रीं प्रतिलोमतः प्रविलिखेदग्नेः कपोलं बहि-
र्द्वे द्वे चैव लिपी बहिश्च रचयेद्भूयस्तथा त्रिष्टुभम् ।
वर्णान्प्रानुगतांश्च भूपुरयुगे सिंहाख्यचिन्तामणिं
लिख्याद्यन्त्रमशेषदुःखशमनायोक्तं पुरा देशिकैः ॥८॥

बहिरपि षोडशपत्रं वृत्तविचित्रं च राशिवीथियुतम् ।
रचयेन्मण्डलमेवं पुनर्यथोक्तं निधापयेत्कलशम् ॥९॥

आदावङ्गावरणमनु हृल्लेखिकाद्याश्चतस्रो
ब्रह्माण्याद्याः षोडशविकृतिद्वन्द्वसङ्ख्याक्रमेण ।
सार्धं भूयश्चतसृभिरथो षष्टिभिर्लोकपालै-
र्वङ्काद्यैरष्टममपि समभ्यर्चयेद्भक्तिनम्रः ॥१०॥

कराली विकराली च उमा देवी सरस्वती ।
दुर्र्गा शची उषा लक्ष्मीः श्रुतिः स्मृतिधृती तथा ॥११॥

श्रद्धा मेधा मतिः कान्तिरार्या षोडश शक्तयः ।
विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा ॥१२॥

रुद्रवीर्या प्रभानन्दा पोषणी ऋद्धिदा शुभा ।
कालरात्री महारात्री भद्रकाली कपालिनी ॥१३॥

विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी ।
निशुम्भशुम्भमथनी महिषासुरर्मिदनी ॥१४॥

इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी ।
नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥१५॥

अम्बिका ह्लादिनी चैव द्वात्रिंशच्छक्तयो मताः ।
पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च ॥१६॥

श्रद्धा स्वाहा स्वधाख्या च मायाभिख्या वसुन्धरा ।
त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी ॥१७॥

सुरूपा बहुरूपा च स्कन्दमाताच्युतप्रिया ।
विमला सामला चैव अरुणी वारुणी तथा ॥१८॥

प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ।
सन्ध्या माता सती हंसा र्मिदका वङ्किआका परा ॥१९॥

देवतामा भगवती देवकी कमलासना ।
त्रिमुखीसप्तमुख्यौ च सुरासुरविर्मिदनी ॥२०॥

सलम्बोष्ठ्यूध्र्वकेश्यौ च बहुशिश्ना वृकोदरी ।
रथरेखाह्वया चैव शशिरेखा तथापरा ॥२१॥

पुनर्गगनवेगाख्या वेगा च पवनादिका ।
भूयो भुवनवेगाख्या तथैव मदनातुरा ॥२२॥

अनङ्गानङ्गमदना भूयश्चानङ्गमेखला ।
अनङ्गकुसुमा विश्वरूपासुरभयङ्करी ॥२३॥

अक्षोभ्यासत्यवादिन्यौ वङ्कारूपा शुचिव्रता ।
वरदा चैव वागीशी चतुःषष्टिः प्रकीर्तिताः ॥२४॥

इष्ट्वा यथोक्तमिति तं कलशं निजं वा
पुत्रं तथाप्तमपि शिष्यमथाभिषिञ्चेत् ।
आस्तिक्ययुक्तमथ सत्यरतं वदान्यं
विप्रप्रियं कुलकरं च नृपोत्तमं वा ॥२५॥

विधानमेतत्सकलार्थसिद्धिकरं परं पावनमिन्दिराढ्यम् ।
आयुष्करं वश्यकरं रिपूणां प्रध्वंसनं मुक्तिफलप्रदं च ॥२६॥

पाशाज्रुशमध्यगया शक्त्याथ जपार्चनाहुतादियुतम् ।
वक्ष्ये यन्त्रविधानं त्रैलोक्यप्राभृतायमानमिदम् ॥२७॥

अष्टाशात्तार्गलाविर्हगलयवरगाच्यपूर्वपाश्चात्त्यषट्कं
कोष्ठोद्यत्साङ्गसाष्टाक्षरयुगयुगलाष्टाक्षराख्यं बहिश्च ।
मायोपेतात्मयुग्मस्वरमिलितलसत्केसरं साष्टपत्रं
पद्यं तन्मध्यर्वितत्रितयपरिलसत्पाशशक्त्यज्रुशार्णम् ॥२८॥

पाशाज्रुशावृतमनुप्रतिलोमगैश्च
वर्णैः सरोजपुटितेन घटेन चापि ।
आवीतमिष्टफलभद्रघटं तदेत-
द्यन्त्रोत्तमं भुवि घटार्गलनामधेयम् ॥२९॥

प्राक्प्रत्यगर्गले हलमथ पुनराग्नेयमारुते च हयम् ।
दक्षोत्तरे हवार्णं नैत्र्र+तशैवे हरं द्विपङ्क्तिं लिखेत् ॥३०॥

विलिखेच्च र्किणकायां पाशाज्रुशसाध्यसंयुतां शक्तिम् ।
अभ्यन्तराष्टकोष्ठेष्वङ्गान्यवशेषितेषु चाष्टार्णौ ॥३१॥

कोष्ठेषु षोडशस्वथ षोडशवर्णं तथा मनुं मन्त्री ।
पद्मस्य केसरेष्वथ युगस्वरात्मान्वितां तथा मायाम् ॥३२॥

एकैकेषु दलेषु त्रिशस्त्रिशः र्किणकागतान्वर्णान्र् ।
पाशाज्रुशबीजाभ्यां प्रवेष्टयेद्बाह्यतश्च नलिनस्य ॥३३॥

अनुलोमविलोमगतैः प्रवेष्टयेदक्षरैश्च तद्बाह्ये ।
तदनु घटेन सरोजस्थितेन तद्वक्त्रकेऽम्बुजं च लिखेत् ॥३४॥

बिन्द्वन्तिका प्रतिष्ठा सन्दिष्टा पाशबीजमिति मुनिभिः ।
निजभूर्दहनाप्यायिनिशशधरखण्डान्वितोऽज्रुशो भवति ॥३५॥

पाशश्रीशक्तिस्वरमन्मथशक्तीन्दिराज्रुशाश्चेति ।
एकं कामिनिरञ्जिनि ठद्वयमपरं त्विहाष्टवर्णं स्यात् ॥३६॥

अथ गौरि रुद्रदयिते योगेश्वरि सकवचास्त्रठद्वितयैः ।
बीजादिकमिदमुक्तं शाक्तेयं षोडशाक्षरं मन्त्रम् ॥३७॥

इति कृतदलसुविभूषितमतिरुचिरं लोकनयनचित्तहरम् ।
कृतोज्ज्वलं मण्डलमपि पीठाद्यं पुरेव परिपूज्य ॥३८॥

पूर्वप्रोक्तैः क्वाथैरेकेनापूर्य पूरयेत्कलशम् ।
हृल्लेखाद्यङ्गाख्यौ मात्रसुरेशादिकौ च कुलिशादिम् ॥३९॥

एवं सम्पूज्य देवीं कलशमनुशुभैर्गन्धपुष्पादिकैस्ता-
न्दध्याज्यक्षौद्रसिक्तैस्त्रिशतमथ पृथग्दुग्धवीरुत्समिद्भिः ।
हुत्वा दत्वा सुवर्णांशुकपशुधरणीर्दक्षिणार्थं द्विजेभ्यः
सम्पूज्याचार्यवर्यं वसुभिरमलधीः संयतात्माभिषिञ्चेत् ॥४०॥

इति कृतकलशोऽयं सिच्यते येन पुंसा
स भवति कविरेनं नित्यमालिङ्गति श्रीः ।
धनदिनरजनीशैस्तुल्यतेजा महिम्ना
निरुपमचरितोऽसौ देहिनां स्यात्पुरोगः ॥४१॥

जपेच्चतुर्विंशतिलक्षमेवं सुयन्त्रितो मन्त्रवरं यथावत् ।
हविष्यभोजी परिपूर्णसङ्ख्ये जपे पुनर्होमविधिर्विधेयः ॥४२॥

पयोद्रुमाणां च समित्सहस्रषट्कैर्दधिक्षौद्रघृतावसिक्तैः ।
तिलैश्च तावज्जुहुयात्पयोक्तैर्द्विजोत्तमानभ्यवहारयेच्च ॥४३॥

गुरुमपि परिपूज्य काञ्चनाद्यै-
र्जपति च मन्त्रमथो सहस्रमात्रम् ।
भजति च दिनशोऽमुमर्चनायां
विधिविहितं विधिमादरेण भूयः ॥४४॥

सङ्क्षेपतो निगदितो विधिरर्चनायाः
शक्तेरमुं भजतु संसृतिमोचनाय ।
कान्त्यै श्रियै च यशसे जनरञ्जनाय
सिद्ध्यै प्रसिद्धमहसोऽस्य परस्य धाम्नः ॥४५॥

गजमृगमदकाश्मीरैर्मन्त्रितमः सुरभिरोचनोपेतैः ।
विलिखेदलक्तकरसालुलितैर्यन्त्राणि सकलकार्यार्थी ॥४६॥

राज्या पटुसंयुतया सपाशशक्त्यज्रुशेन मन्त्रेण ।
स्वाद्वक्तयाभिजुह्वन्निश्युर्वीशांस्तथोर्वशीं वशयेत् ॥४७॥

एभिर्विधानैर्भुवनेश्वरीं तां समर्चयित्वाथ जपंश्च मन्त्री ।
स्तुत्यानयाभिष्टुवतां समग्र प्रीत्यै समस्तार्तिविभञ्जिकायाः ॥४८॥

(भुवनेश्वरीस्तुतिः)
प्रसीद प्रपञ्चस्वरूपे प्रधाने
प्रकृत्यात्मिके प्राणिनां प्राणसंज्ञे ।
प्रणोतुं प्रभो प्रारभे प्राञ्जलिस्त्वां
प्रकृत्याप्रतक्र्ये प्रकामप्रवृत्ते ॥४९॥

स्तुतिर्वाक्यबद्धा पदात्मैव वाक्यं
पदं त्वक्षरात्माक्षरस्त्वं महेशि ।
ध्रुवं त्वां त्वमेवाक्षरैस्त्वन्मयैस्तो-
ष्यसि त्वन्मयी वाक्प्रवृत्तिर्यतः स्यात् ॥५०॥

अजाधोक्षजत्रीक्षणाश्चापि रूपं
परं नाभिजानन्ति मायामयं ते ।
स्तुवन्तीशि तां त्वाममी स्थूलरूपां
तदेतावदम्बेह युक्तं ममापि ॥५१॥

नमस्ते समस्तेशि बिन्दुस्वरूपे
नमस्ते रवत्वेन तत्त्वाभिधाने ।
नमस्ते महत्त्वं प्रपन्ने प्रधाने
नमस्ते त्वहङ्कारतत्त्वस्वरूपे ॥५२॥

नमः शब्दरूपे नमो व्योमरूपे
नमः स्पर्शरूपे नमो वायुरूपे ।
नमो रूपतेजोरसाम्भःस्वरूपे
नमस्तेऽस्तु गन्धात्मिके भूस्वरूपे ॥५३॥

नमः श्रोत्रचर्माक्षिजिह्वाख्यनासा-
सवाक्पाणिपत्यायुसोपस्थरूपे ।
मनोबुद्ध्यहङ्कारचित्तस्वरूपे
विरूपे नमस्ते विभो विश्वरूपे ॥५४॥

रवित्वेन भूत्वान्तरात्मा दधासि
प्रजाश्चन्द्रमस्त्वेन पुष्णासि भूयः ।
दहस्यग्निमूर्ति वहन्त्याहृतं वा
महादेवि तेजस्त्रयं त्वत्त एव ॥५५॥

चतुर्वक्त्रयुक्ता लसद्धंसवाहा
रजः संश्रिता ब्रह्मसंज्ञां दधाना ।
जगत्सृष्टिकार्यं जगन्मातृभूते
परं तत्पदं ध्यायसीशि त्वमेव ॥५६॥

विराजत्किरीटा लसच्चक्रशङ्खा
वहन्ती च नारायणाख्यां जगत्सु ।
गुणं सत्त्वमास्थाय विश्वस्थितिं यः
करोतीह सोंशोऽपि देवि त्वमेव ॥५७॥

जटाबद्धचन्द्राहिगङ्गा त्रिणेत्रा
जगत्संहरन्ती च कल्पावसाने ।
तमः संश्रिता रुद्रसंज्ञां दधाना
वहन्ती परश्वक्षमाले विभासि ॥५८॥

सचिन्ताक्षमाला सुधाकुम्भलेखा-
धरा त्रीक्षणार्धेन्दुराजत्कपर्दा ।
सुशुक्लांशुकाकल्पदेहा सरस्व-
त्यपि त्वन्मयैवेशि वाचामधीशा ॥५९॥

लसच्चक्रशङ्खा चलत्खड्गभीमा
नदिन्त्सहवाहा ज्वलत्तुङ्गमौलिः ।
द्रवद्दैत्यवर्गा स्तुवत्सिद्धसङ्घा
त्वमेवेशि दुर्गा विसर्गाविहीने ॥६०॥

पुरारातिदेहार्धभागो भवानी
गिरीन्द्रात्मजात्वेन यैषा विभासि ।
महायोगिवन्द्यां महेशासुनाथा
महेश्यम्बिका तत्त्वतस्त्वन्मयैव ॥६१॥

लसत्कौस्तुभोद्भासिते व्योमनीले
वसन्ती च वक्षःस्थले कैटभारेः ।
जगद्वल्लभां सर्वलोकैकनाथां
श्रियं तां महादेव्यहं त्वामवैमि ॥६२॥

अजाद्रीगुहाब्जाक्षपोत्रीन्द्रकाणां
महाभैरवस्यापि चिह्नं वहन्त्यः ।
विभो मातरः सप्ततद्रूपरूपाः
स्फुरन्त्यस्त्वदंशा महादेवि ताश्च ॥६३॥

समुद्यद्दिवाकृत्सहस्रप्रभासा
सदा सन्तताशेषविश्वावकाशे ।
लसन्मौलिबद्धेन्दुरेखे सपाशा-
ज्रुशाभीत्यभीष्टात्तहस्ते नमस्ते ॥६४॥

प्रभाकीर्त्तिकान्तीन्दिरारात्रिसन्ध्या-
क्रियाशातमिस्राक्षुधाबुद्धिमेधाः ।
स्तुतिर्वाङ् मतिः सन्नतिः श्रीश्च शक्ति-
स्त्वमेवेशि येऽन्ये च शक्तिप्रभेदाः।६५॥

हरे बिन्दुनादैः सशक्त्याख्यशान्तै-
र्नमस्तेऽस्तु भेदैः प्रभिन्नैरभिन्ने ।
सदा सप्तपाताललोकाचलाब्धि-
ग्रहद्वीपधातुस्वरादिस्वरूपे ॥६६॥

नमस्ते नमस्ते समस्तस्वरूपे
समस्तेषु वस्तुष्वनुस्यूतशक्ते ।
अतिस्थूलसूक्ष्मस्वरूपे महेशि
स्मृते बोधरूपेऽप्यबोधस्वरूपे ॥६७॥

मनोवृत्तिरस्तु स्मृतिस्ते समस्ता
तथा वाक्प्रवृत्तिः स्तुतिः स्यान्महेशि ।
शरीरप्रवृत्तिः प्रणामक्रिया स्या-
त्प्रसीद क्षमस्व प्रभो सन्ततं मे ॥६८॥

(इति भुवनेश्वरस्तुतिः)
हृल्लेखाजपविधिमर्चनाविशेषा-
नेतांस्तां स्तुतिमपि नित्यमादरेण ।
योऽभ्यस्येत्स खलु परां श्रियं च गत्वा
शुद्धं तद्व्रजति पदं परस्य धाम्नः ॥६९॥

इति हृल्लेखाविहितो विधिरुक्तः सङ्ग्रहेण सकलोऽयम् ।
अस्मिन्निष्णातमना मन्त्री योगी स एव भोगी च ॥७०॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे दशमः पटलः ॥

N/A

References : N/A
Last Updated : January 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP