अष्टमः पटलः

प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.


अथ प्रवक्ष्यामि सुदुर्लभास्यै विद्यां विशिष्टां त्रिपुराभिधानाम् ।
धात्रीप्रभेदापि जगत्यवाप्तत्रिंशत्प्रकारा त्रिदशाभिवन्द्या ॥१॥

त्रिमूर्तिसर्गाच्च पुराभवत्वात्त्रयीमयत्वाच्च पुरैव देव्याः ।
लये त्रिलोक्या अपि पूरणत्वात्प्रायोऽम्बिकायास्त्रिपुरेति नाम ॥२॥

व्योमेन्दुवह्न्यधरबिन्दुभिरेकमन्य-
द्रक्ताच्छकेन्द्रशिखिभिः सरमार्धचन्द्रैः ।
अन्यद्यु शीतकरपावकमन्वमन्तै-
र्बीजैरमीभिरुदिता त्रिपुरेति विद्या ॥३॥

वागैश्वर्यातिशयदतया वाग्भवं बीजमुक्तं
त्रैलोक्यक्षोभणवशताकृष्टिदं कामराजम् ।
शाक्तं क्ष्वेलापहरणकविताकारकं मन्त्रमेत-
त्प्रोक्तं धर्मद्रविणसुखमोक्षप्रदं साधकानाम् ॥४॥

नाभेरथाचरणमाहृदयाच्च नाभिं
मूध्र्नस्तथा हृदयमित्यमुना क्रमेण ।
बीजैस्त्रिभिन्र्यसतु हस्ततले च सव्ये
दक्षाह्वये द्वितीयमप्युभये तृतीयम् ॥५॥

मूर्धनि गुह्यहृदोरपि नेत्रत्रितये च कर्णयोरास्ये ।
अंसद्वये च पृष्ठे कूर्परयोर्नाभिमण्डले न्यस्येत् ॥६॥

वाग्भवेन पुनरङ्गुलीष्वथो विन्यसेच्च पुनरुक्तमार्गतः ।
अङ्गषट्कममुना विधाय तद्देवतां विशदधीर्विचिन्तयेत् ॥७॥

आताम्रार्कायुताभां कलितशशिकलारञ्जितप्तां त्रिणेत्रां
देवीं पूर्णेन्दुवक्त्रां विधृतजपपटीपुस्तकाभीत्यभीष्टाम् ।
पीनोत्तुङ्गस्तनार्तां वलिलसितविलग्नामसृक्पज्र्राज-
न्मुण्डस्रङ्मण्डिताङ्गीमरुणतरदुकूलानुलेपां नमामि ॥८॥

दीक्षां प्राप्य विशिष्टलक्षणयुजः सत्सम्प्रदायाद्गुरो-
र्लब्ध्वा मन्त्रममुं जपेत्सुनियतस्तत्त्वार्धलक्षावधि ।
स्वाद्वक्तैश्च नवैः पलाशकुसुमैः सम्यक् समिद्धेऽनले
मन्त्री भानुसहस्रकं प्रति हुनेदश्वारिसूनैरपि ॥९॥

प्राणायामैः पवित्रीकृततनुरथ मन्त्री निजाधारराज-
द्योनिस्थां दिव्यरूपां प्रमुदितमनसाभ्यर्चयित्वोपचारैः ।
आबद्ध्वा योनिमुद्रामपि निजगुदलिङ्गान्तरस्थां प्रदीप्तां
भूयो द्रव्यैः सुशुद्धैररुणरुचिभिरित्यारभेद्बाह्यपूजाम् ॥१०॥

वामादिशक्तिसहितं परिपूज्य पीठं
तत्र प्रकल्प्य विधिवन्नवयोनिचक्रम् ।
योनौ निधाय कलशं त्वथ मध्यगाथा-
मावाह्य तां भगवतीं प्रयजेत्क्रमेण ॥११॥

वह्नेः पुरद्वितयवासवयोनिमध्य-
सम्बद्धवह्निवरुणेशसमाश्रिताश्री ।
देव्यर्चनाय विहितं मुनिभिः पुरैव
लोके सुदर्लभमिदं नवयोनिचक्रम् ॥१२॥

वामा ज्येष्ठा रौद्रिका साम्बिकेच्छा-
ज्ञानाभिख्या सक्रिया कुब्जिकाह्वा ।
बह्वी चान्या स्याद्विषघ्नी च दूत-
र्याह्वा सर्वानन्दका शक्तयः स्युः ॥१३॥

प्राङ्मध्ययोन्योः पुनरन्तराले सम्पूजयेत्प्राग्गुरुपादपङ्क्तिम् ।
पराभिधानामपराह्वयां च परापराख्यामपि वाग्भवादिम् ॥१४॥

तेनैव चाङ्गानि विदिग्दिशासु मन्त्री यथोक्तक्रमतः प्रपूज्य ।
तन्मध्ययोनेरभितः शरांश्च सम्पूज्येत्पञ्चममग्रभागे ॥१५॥

सुभगा भगा भगान्ते र्सिपणी भगमालिनी अनङ्गाह्वा ।
तत्पूर्वकुसुमसंज्ञा तदादिके चाथ मेखलामदने ॥१६॥

सम्पूज्य योनिषु च मातृगणं सचण्डि-
कान्तर्दलेष्वभियजेदसिताङ्गकाद्यैः ।
तैर्भैरवैः सह सुगन्धसुपुष्पधूप-
दीपादिकैर्भगवतीं प्रवरैः निवैद्यैः ॥१७॥

असिताङ्गाख्यो रुरुरपि चण्डः क्रोधाह्वयस्तथोन्मत्तः ।
सकपालिभीषणाख्यः संहारश्चाष्टभैरवाः कथिताः ॥१८॥

इति क्रमाप्त्या विहिताभिषेकः सम्प्रीणयित्वा द्रविणैर्गुरुं च ।
जप्त्वार्चयित्वोक्ततयाथ हुत्वा युञ्जीत योगांश्च गुरूपदिष्टान् ॥१९॥

अच्छाभः स्वच्छवेषो धरणिमयगृहे वाग्भवं लक्षमेकं
यो जप्यात्तद्दशांशं विहितहुतविधिर्मन्त्रजप्ताञ्जनादिः ।
काव्यैर्नानार्थवृत्तैस्त्रिभुवनमखिलं पूरयेन्मन्त्रजापी
मारात्र्या विह्वलाभिः पुनरयमनिशं सेव्यते सुन्दरीभिः ॥२०॥

रक्ताकल्पोऽरुणतरदुकूलार्तवालेपनाढ्यो
मौनी भूसद्मनि सुखनिविष्टो जपेल्लक्षमेकम् ।
बीजं मन्त्री रतिपतिमयं प्रोक्तहोमावसाने
योऽसौ लोके स सुरमनुजैः पूज्यते सेव्यते च ॥२१॥

ससुरासुरसिद्धयक्षविद्याधरगन्धर्वभुजङ्गचारणानाम् ।
प्रमदामदवेगतो विकीर्णाभरणाः स्रस्तुदुकूलकेशजालाः ॥२२॥

अतिदुःसहमन्मथव्यथाभिः प्रथितान्तःपरितापवेपिताङ्ग्यः ।
घनधर्मजतोयबिन्दुमुक्ताफलसक्तोरुकुचान्तबाहुमूलाः ॥२३॥

रोमाञ्चकञ्चुकितगात्रलताघनोद्य-
दुत्तुङ्गपीनकुचकुम्भनिपीडिताङ्ग्यः ।
औत्सुक्यभारपृथुवेपथुखेदसन्न-
पादारविन्दचलनस्खलनाभियाताः ॥२४॥

मारसायकनिपातदारिता रागसागरनिमग्नमूर्तयः ।
श्वासमारुततरङ्गिताधरा बाष्पपूरभरविह्वलेक्षणाः ॥२५॥

मस्तकारचितदोर्द्वयाञ्जलिप्राभृता हरिणशाबलोचनाः ।
वाञ्छितार्थकरणोद्यताश्च तद्दृष्टिपातमभि सन्नमन्ति ताः ॥२६॥

धरापवरके तथा जपतु लक्षमन्यं मनुं
सुशुक्लकुसुमांशुकाभरणलेपनाढ्यो वशी ।
अमुष्य वदनादनारततयोच्चरेद्भारती
विचित्रपदपद्धतिर्भवति चास्य लोको वशे ॥२७॥

पलाशपुष्पैर्मधुरत्रयाक्तैर्होमं विदध्यादयुतावधिं यः ।
सरस्वतीमन्दिरमाशु भूयात्सौभाग्यलक्ष्म्योश्च स मन्त्रजापी ॥२८॥

राजीकरञ्जाह्वशमीवटोत्थैः समिद्वरैः बिल्वभवैः प्रसूनैः ।
त्रिस्वादुयुक्तैर्हवनक्रियाशु नरेन्द्रनारीनररञ्जनी स्यात् ॥२९॥

मालतीवकुलजैर्दलैर्दलैश्चन्दनाम्भसि घने निमज्जितैः ।
श्रीकरीकुसुमकैर्हुतक्रिया सैव चासु कविताकरी मता ॥३०॥

अनुलोमविलोममन्त्रमध्यस्थितसाध्याह्वयुतं प्रजप्य मन्त्री ।
पटुसंयुतया जुहोतु राज्या नरनारीनरपान्वशे विधातुम् ॥३१॥

मधुरत्रयेण सह विल्वजैः फलै-
र्हवनक्रियाशु जनतानुरञ्जनी ।
अपि सैव साधकसमृद्धिदायिनी
दिनशो विशिष्टकमलाकरी मता ॥३२॥

खण्डैः सुधालतोत्थैस्त्रिमधुरयुक्तैर्जुहोतु मन्त्रितमः ।
सकलोपद्रवशान्त्यै जरापमृत्युप्रणोदनाय वशी ॥३३॥

फुल्लैर्बिल्वप्रसूनैस्तदभिनवदलैरुक्तवाराहिपुष्पैः
प्रत्यग्रैर्बन्धुजीवैररुणसरसिजैरुत्पलैः कैरवाह्वैः ।
नन्द्यावर्तैः सकुन्दैर्नृपतरुकुसुमैः पाटलीनागपुष्पैः
स्वाद्वक्तैरिन्दिराप्त्यै जुहुत च दिनशः र्सिपषा पायसेन ॥३४॥

मूलाधारात्स्फुरन्तीं शिखिपुरपुटवीतां प्रभां विद्युदाभा-
मार्कात्तन्मध्यगेन्दोः स्रवदमृतमुचा धारया मन्त्रमय्या ।
सद्यः सम्पूर्यमाणां त्रिभुवनमखिलं तन्मयत्वेन मन्त्री
ध्यायन्मुच्येत वैरूप्यकदुरितजरारोगदारिद्र्यदोषैः ॥३५॥

वह्वेर्बिम्बद्वयपरिवृताधारसंस्थं समुद्य-
द्वालार्काभं स्वरगणसमावेष्टितं वाग्भवाख्यम् ।
वाण्या स्वीयाद्वदनकुहरात्सन्ततं निःसरन्त्या
ध्यायेन्मन्त्री प्रततकिरणप्रावृतं दुःखशान्त्यै ॥३६॥

हृत्पद्मस्थितभानुबिम्बविलसद्योन्यन्तरालोदितं
मध्याह्नार्कसमप्रभं परिवृतं वर्णैः कभाद्यन्तगैः ।
ध्यायेन्मन्थराजबीजमखिलब्रह्माण्डविक्षोभकं
राज्यैश्वर्यविनिन्दिनीमपि रमां दत्त्वा जगद्रञ्जयेत् ॥३७॥

मूध्र्नोऽथ द्वादशान्तोदितशशधरबिम्बस्थयोनौ स्फुरन्तं
संवीतं व्यापकार्णैर्धवलरुचि मकारस्थितं बीजमन्त्यम् ।
ध्यात्वा सारस्वताच्छामृतजललुलितं दिव्यकाव्यादिकर्ता
नित्यं क्ष्वेलापमृत्युग्रहदुरितविकारान्निहन्त्याशु मन्त्री ॥३८॥

योनेः परिभ्रमितकुण्डलिरूपिणीं तां
रक्तामृतद्रवमुचा निजतेजसैव ।
व्योमस्थलं सकलमप्यभिपूर्य तस्मि-
न्नावेश्य मङ्क्षु वशयेद्वनिता नरांश्च ॥३९॥

गुह्यस्थितं वा मदनस्य बीजं
जपारुणं रक्तसुधाः स्रवन्तम् ।
विचिन्त्य तस्मिन्विनिवेश्य साध्यां
वशीकरोत्येव विदग्धलोकम् ॥४०॥

अन्त्यं बीजमथेन्दुकुन्दधवलं सञ्चिन्त्य चित्ताम्बुजे
तद्भूतां धृतपुस्तकाक्षवलयां देवीं मुहुस्तन्मुखात् ।
उद्यन्तं निखिलाक्षरं निजमुखे नानारसस्रोतसा
निर्यान्तं च निरस्तसंहृतिभयो भूयात्स वाग्वल्लभः ॥४१॥

सङ्क्षेपतो निगदिता त्रिपुराभिधाना
विद्या सजापहवना सविधानपूजा ।
सोपासना च सकलाभ्युदयप्रसिद्ध्यै
वाणीरमाप्तिविधये जगतो हिताय ॥४२॥

विद्येशीं त्रिपुरामिति प्रतिजपन्यो वा भवेन्नित्यश-
स्तद्वक्रादथ नूतनार्थविशदा वाणी सदा निःसरेत् ।
सम्पत्त्या नृपनन्दिनी ततयशःपूरा भवेदिन्दिरा
तस्यासौ प्रतियाति सर्वमुनिभिः सम्प्रार्थनीयं पदम् ॥४३॥

मध्ये वद्यक्षरयोः सदवदवाग्वक्षरा निचन्द्रयुगे ।
प्रोक्ता दशाक्षरीयं कण्वविराजौ च वागृषिप्रभवाः ॥४४॥

कश्रोत्रनयननासावदनान्धुगुदेषु विन्यसेद्वर्णान् ।
स्वरपुटितैरथ हल्भिः कुर्यादङ्गानि षट् क्रमान्मन्त्री ॥४५॥

अमलकमलसंस्था लेखिनीपुस्तकोद्य-
त्करयुगलसरोजा कुन्दमन्दारगौरा ।
धृतशशधरखण्डोल्लासिकोटीरचूडा
भवतु भवभयानां भङ्गिनी भारती वः ॥४६॥

अक्षरलक्षजपान्ते जुहुयात्कमलैः सितैः पयोभ्यक्तैः ।
त्रिमधुरयुतैः सुशुद्धैरयुतं नियतात्मकस्तिलैरथ वा ॥४७॥

मातृकोक्तविधिनाक्षराम्बुजे शक्तिभिश्च विनियुज्य पूर्ववत् ।
पीठमन्त्रवचसा महेश्वरीं पूजयेत्प्रथममङ्गमन्त्रकैः ॥४८॥

योगा सत्या विमला ज्ञाना बुद्धिः स्मृतिस्तथा मेधा ।
प्रज्ञेत्याभिर्मातृभिरपि लोकेशैः प्रपूजयेत्क्रमशः ॥४९॥

इति सिद्धमनुर्मनोजदूरो नचिरादेव कविर्भवेन्मनस्वी ।
जपहोमरतः सदावगच्छेद्वनितां वागधिपेति गौरवेण ॥५०॥

न्यासान्वितो निशितधीः प्रजपेत्सहस्र-
मह्नो मुखेऽनुदिवसं प्रपिबेत्तदापः ।
तन्मन्त्रिताः पुनरयत्नत एव वाचः
सिद्धिर्भवेदभिमता परिवत्सरेण ॥५१॥

हृदयद्वयसे स्थितोऽथ तोये
रविबिम्बे प्रतिपद्य वागधीशाम् ।
जपतस्त्रिसहस्रसङ्ख्यमर्वा-
क्कविता मण्डलतो भवेत्प्रभूता ॥५२।
पलाशबिल्वप्रसवैस्तयोश्च समिद्वरैः स्वादुयुतैश्च होमः ।
कवित्वसौभाग्यकरः समृद्धलक्ष्मीप्रदो रञ्जनकृच्चिराय ॥५३॥

चतुरङ्गुलजैः समित्प्रसूनैर्जुहुयाद्यो मधुरत्रयावसिक्तैः ।
मनुजः समवाप्य धीविलासानचिरात्काव्यकृतां भवेत्पुरोगः ॥५४॥

सुविमलनखदन्तपाणिपादो
मुदितमनाः परदूषणेषु मौनी ।
हरिहरकमलोद्भवाङ्घ्रिभक्तो
भवति चिराय सरस्वतीनिवासः ॥५५॥

आद्यन्तप्रणवगशक्तिमध्यसंस्था
वाग्भूयो भवति सरस्वतीचडेन्ता ।
नत्यन्तो मनुरयमीशसङ्ख्यवर्णः
सम्प्रोक्तो भुवि भजमानपारिजातः ॥५६॥

सुषुम्नाग्रे भूरयुगमध्ये नवके तथैव रन्ध्राणाम् ।
विन्यस्य मन्त्रवर्णान्कुर्यादङ्गानि षट्क्रमाद्वाचा ॥५७॥

हंसारूढा हरहसितहारेन्दुकुन्दावदाता
वाणी मन्दस्मितयुतमुखी मौलिबद्धेन्दुलेखा ।
विद्या वीणामृतमयघटाक्षस्रगादीप्तहस्ता
शुभ्राब्जस्था भवदभिमतप्राप्तये भारती स्यात् ॥५८॥

दिनकरलक्षं प्रजपेन्मन्त्रमिमं संयतेन्द्रियो मन्त्री ।
द्वादशसहस्रकमथो सितसरसिजनागचम्पकैर्जुहुयात् ॥५९॥

पूजायां पाश्र्वयुगे ससंस्कृता प्राकृता च वाग्देव्याः ।
केवलवाङ्मयरूपा सम्पूज्याङ्गैश्च शक्तिभिस्तदनु ॥६०॥

प्रज्ञा मेधा श्रुतिरपि शक्तिः स्मृत्याह्वया च वागीशी ।
सुमतिः स्वस्तिरिहाभिर्मातृभिराशेश्वरैः क्रमात्प्रयजेत् ॥६१॥

इति निगदितो वागीश्वर्याः सहोमजपार्चना-
विधिरनुदिनं मन्त्री त्वेनां भजन्परिमुच्यते ।
सकलदुरितैर्मेधालक्ष्मीयशोभिरवाप्यते
परमपरमां भक्तिं प्राप्योभयत्र च मोदते ॥६२॥

इति मातृकाविभेदान्प्रभजन्मन्त्रत्रयं च मन्त्रितमः ।
प्रजपेदेनां स्तुतिमपि दिनशो वाग्देव्यनुग्रहाय बुधः ॥६३॥

(वागीश्वरस्तुतिः)
अमलकमलाधिवासिनि मनसो वैमल्यदायिनि मनोज्ञे ।
सुन्दरगात्रि सुशीले तव चरणाम्भोरुहं नमामि सदा ॥६४॥

अचलात्मजा च दुर्गा कमला त्रिपुरेति भेदिता जगति ।
या सा त्वमेव वाचामीश्वरि सर्वात्मना प्रसीद मम ॥६५॥

त्वच्चरणाम्भोरुहयोः प्रणामहीनः पुर्निद्वजातिरपि ।
भूयादनेडमूकस्त्वद्भक्तो भवति देवि सर्वज्ञः ॥६६॥

मूलाधारमुखोद्गतबिसतन्तुनिभप्रभाप्रभावतया ।
विधृतलिपिव्राताहितमुखकरचरणादिके प्रसीद मम ॥६७॥

वर्णतनोऽमृतवर्णे नियतमनिर्र्विणतेऽपि योगीन्द्रैः ।
निर्णीतिकरणदूरे वर्णयितुं देवि देहि सामथ्र्यम् ॥६८॥

ससुरासुरमौलिलसन्मणिप्रभादीपिताङ्घ्रियुगनलिने ।
सकलागमस्वरूपे सर्वेश्वरि सन्निधिं विधेहि मयि ॥६९॥

पुस्तकजपवटहस्ते वरदाभयचिह्नचारुबाहुलते ।
कर्पूरामलदेहे वागीश्वरि शोधयाशु मम चेतः ॥७०॥

क्षौमाम्बरपरिधाने मुक्तामणिभूषणे मुदावासे ।
स्मितचन्द्रिकाविकासितमुखेन्दुबिम्बेऽम्बिके प्रसीद मम ॥७१॥

विद्यारूपेऽविद्यानाशिनि विद्योतितेऽन्तरात्मविदाम् ।
गद्यैः सपद्यजातैराद्यैर्मुनिभिः स्तुते प्रसीद मम ॥७२॥

त्रिमुखि त्रयीस्वरूपे त्रिपुरे त्रिदशाभिवन्दिताङ्घ्रियुगे ।
त्रीक्षणविलसितवक्त्रे त्रिमूर्तिमूलात्मिके प्रसीद मम ॥७३॥

वेदात्मिके निरुक्तज्योतिव्र्याकरणकल्पशिक्षाभिः ।
सच्छन्दोभिः सन्ततकॢप्तषडङ्गेन्द्रिये प्रसीद मम ॥७४॥

त्वच्चरणसरसिजन्मस्थितिमहितधियां न लिप्यते दोषः ।
भगवति भक्तिमतस्त्वयि परमां परमेश्वरि प्रसीद मम ॥७५॥

बोधात्मिके बुधानां हृदयाम्बुजचारुरङ्गनटनपरे ।
भगवति भवभङ्गकरीं भक्तिं भद्रार्थदे प्रसीद मम ॥२६॥

वागीशीस्तवमिति यो जपार्चनाहवनवृत्तिषु प्रजपेत् ।
स तु विमलचित्तवृत्तिर्देहापदि नित्यशुद्धमेति पदम् ॥७७॥

(इति वागीश्वरस्तुतिः)

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे अष्टमः पटलः ॥

N/A

References : N/A
Last Updated : January 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP