षोडशः पटलः

प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.


अथ सङ्ग्रहेण कथयामि मनुमपि महागणेशितुः ।
यमवहितधियः समुपास्य सिद्धिमधिकां प्रपेदिरे ॥१॥

तारश्रीशक्तिमारावनिगणपतिबीजानि दण्डीनि चोक्त्वा
पश्चाद्विघ्नं चतुथ्र्या वरवरदमथो सर्वयुक्तं जनं च ।
आभाष्य क्ष्वेलमेन्तं वशमिति च तथैवानयेति द्विठान्तः
प्रोक्तोऽयं गाणपत्यो मनुरखिलविभूतिप्रदः कल्पशाखी ॥२॥

ऋषिरपि गणकोऽस्य स्याच्छन्दोनिचृदन्विता च गायत्री ।
सकलसुरासुरवन्दितचरणयुगो देवता महागणपः ॥३॥

प्रणवादिबीजपीठस्थितेन दीर्घस्वरान्वितेन सता ।
अङ्गानि षड्विदध्यान्मन्त्री विघ्नेश्वरस्य बीजेन ॥४॥

मन्दाराद्यैः कल्पकवृक्षविशेषैर्विशिष्टतरफलदैः ।
शिशिरितचतुराशेऽन्तर्बालातपचन्द्रिकाकुले च तले ॥५॥

ऐक्षवजलनिधिलहरीकणजालकवाहिना च गन्धवहेन ।
संसेविते च सुरतरुसुमनःश्रितमधुपपक्षचलनपरेण ॥६॥

रत्नमये मणिवङ्काप्रवालफलपुष्पपल्लवस्य सतः ।
महतोऽधस्तादृतुभिर्युगपत्संसेवितस्य कल्पतरोः ॥७॥

सिंहमुखपादपीठगलिपिमयपद्मे त्रिषट्कोणोल्लसिते ।
आसीनस्त्वेकरदो बृह्दुदरो दशभुजोऽरुणतनुश्च गजवदनः ॥८॥

बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल-
व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।
ध्येयो वल्लभया सपद्मकरयाश्लिष्टो ज्वलद्भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नो विशिष्टार्थदः ॥९॥

करपुष्करधृतकलशस्रुतमणिमुक्ताप्रवालवर्षेण ।
अविरतधारां विकिरन्परितः साधकसमग्रसम्पत्त्यै ॥१०॥

मदजललोलुपमधुकरमालां निजकर्णतालताडनया ।
निर्वासयन्मुहुर्मुहुरमरैरसुरैश्च सेवितो युगपत् ॥११॥

अग्रेऽथ बिल्वमभितश्च रमारमेशौ
तद्दक्षिणे वटजुषौ गिरिजावृषाज्रै ।
पृष्ठेऽथ पिप्पलजुषौ रतिपुष्पबाणौ
सव्ये प्रियङ्गुमभितश्च महीवराहौ ॥१२॥

ध्येयौ च पद्मयुगचक्रदरैः पुरोक्तौ
पाशाज्रुशाख्यपरशुत्रिशिखैरथान्यौ ।
युग्मोत्पलेक्षुमयचापधरौ तृतीया-
वन्यौ शुकाह्वकलमाग्रगदारथाङ्गैः ॥१३॥

ध्येयाः षट्कोणाश्रिषुपरितः पाशाज्रुशाभयेष्टकराः ।
सप्रमदा गणपतयो रक्ताकाराः प्रभिन्नमदविवशाः ॥१४॥

अग्राश्रावामोदः प्रमोदसुमुखौ च तदभितोऽश्रियुगे ।
पृष्ठे च दुर्मुखाख्यस्त्वमुमभितो विघ्नविघ्नकर्तारौ ॥१५॥

सव्यापसव्यभागे तस्य ध्येयौ च शङ्खपद्मनिधी ।
मौक्तिकमाणिक्याभौ वर्षन्तौ धारया धनानि सदा ॥१६॥

सिद्धिसमृद्धी चान्या कान्तिर्मदनावती मदद्रवया ।
द्राविणिवसुधाराख्ये वसुमत्यपि विघ्ननिधियुगप्रमदाः ॥१७॥

ध्यात्वैवं विघ्नपतिं चत्वारिंशत्सहस्रसंयुक्तम् ।
प्रजपेल्लक्षचतुष्कं चतुःसहस्रं च दीक्षितो मन्त्री ॥१८॥

दिनशः स चतुश्चत्वारिंशत्सङ्ख्यं प्रतर्पयेद्विघ्नम् ।
उक्तजपान्ते मन्त्री जुहुयाच्च दशांंशतोऽष्टभिद्र्रव्यैः ॥१९॥

मोदकपृथुका लाजाः ससक्तवः सेक्षुनालिकेरतिलाः ।
कदलीफलसहितानीत्यष्ट द्रव्याणि सम्प्रदिष्टनि ॥२०॥

अनुदिनमर्चयितव्यो जपता मनुमपि च मन्त्रिणा गणपः ।
प्राक्प्रोक्तपद्मपीठे सशक्तिके साधिका मनौ विधिना ॥२१॥

तीव्रा ज्वालिनिनन्दे सभोगदा कामरूपिणी चोग्रा ।
तेजोवती च नित्या सम्प्रोक्ता विघ्ननाशिनी नवमी ॥२२॥

सर्वयुतं शक्तिपदं प्रोक्त्वा कमलासनाय नम इति च ।
आसनमन्त्रः प्रोक्तो नवशक्त्यन्ते समर्चयेदमुना ॥२३॥

आद्या मिथुनैरावृतिरपरा सनिधिभिरपि च षड्विघ्नैः ।
अङ्गैरन्या मातृभिरपरेन्द्राद्यैश्च पञ्चमी पूज्या ॥२४॥

दीक्षाभिषेकयुक्तः प्रजपेत्सम्पूजयेदिति गणेशम् ।
अभिधीयतेऽस्य च पुनर्गुर्वादेशेन मन्त्रिणो दीक्षा ॥२५॥

मध्ये च दिग्दलानां चतुष्टयाग्रे प्रविन्यसेत्कलशान् ।
क्षीरद्रुबिल्वरोहिणपिप्पलफलिनीत्वगुद्भवैः क्वथितैः ॥२६॥

सम्पूजयेद्यथावत्क्रमात्समावाह्य गणपमिथुनानि ।
अभ्यच्र्य चोपचारैर्हुत्वा विधिवत्पुनः समभिषिञ्चेत् ॥२७॥

इति जपहुतार्चनाद्यैः सिद्धो मन्त्रेण कर्म कुर्वीत ।
अष्टद्रव्यैर्वान्यैर्हुनेच्च तत्तत्प्रयोजनावाप्त्यै ॥२८॥

स्वर्णाप्त्यै मधुना च गव्यपयसा गोसिद्धये र्सिपषा
लक्ष्म्यै शर्करया जुहोतु यशसे दघ्ना च सर्वद्र्धये ।
अन्नैरन्नसमृद्धये च सतिलैद्र्रव्याप्तये तण्डुलै-
र्लाजाभिर्यशसे कुसुम्भकुसुमैः साश्वारिजैर्वाससे ॥२९॥

पद्मैर्भूपतिमुत्पलैर्नृपवधूं तन्मन्त्रिणः कैरवै-
रश्वत्थादिसमिद्भिरग्रजमुखान्वर्णान्वधूः पिष्टजैः ।
पुत्तल्यादिभिरन्वहं च वशयेज्जुह्वन्ननावृष्टये
लोणैर्वृष्टिसमृद्धये च जुहुयान्मन्त्री पुनर्वेतसैः ॥३०॥

मन्त्रेणाथ पुरामुनैव चतुरावृत्त्या समातप्र्य च
श्रीशक्तिस्मरभूविनायकरतीर्नाम्नैव बीजादिकम् ।
आमोदादिनिधिद्वयं च सचतुःपूर्वं चतुर्वारकं
मन्त्री तर्पणतत्परोऽभिलषितं सम्प्राप्नुयान्मण्डलात् ॥३१॥

अथ गजलिप्सुर्नृपतिर्गजवनमध्ये प्रसाधयेद्वारि ।
तन्निकटे तु विशालं चतुरश्रं कारयेच्च गृहवर्यम् ॥३२॥

परिवीतदृढावरणं तच्च चतुर्दारतोरणोल्लसितम् ।
तस्मिन्मण्डपवर्ये चतुरश्रामुन्नतां स्थलीं कृत्वा ॥३३॥

उत्तरभागे तस्याः कुण्डं रचयेद्यथा पुरा तत्र ।
चापजहरिभवमानुषचक्रप्रोक्तानथाक्षरान्मन्त्री ॥३४॥

ऊध्र्वादिमेखलासु क्रमेण विलिखेन्निजेष्टसमवाप्त्यै ।
सम्प्रोक्तलक्षणयुतं प्रविरचयेन्मण्डलं स्थलीमध्ये ॥३५॥

आवाह्य विघ्नेश्वरमर्चयित्वा
प्रागुक्तया तत्र विधानकॢप्त्या ।
निवेदयित्वा सह भक्ष्यलैह्यैः
प्राज्यैश्च साज्यैरपि भोज्यजातैः ॥३६॥

आधाय वैश्वानरमत्र कुण्डे समच्र्य मन्त्रैः क्रमशः कृशानोः ।
तैरेव पूर्वं जुहुयाद्घृतेन मन्त्री समृद्ध्या च ततस्त्रिवारम् ॥३७॥

तारेण लक्ष्म्यद्रिसुतास्मरक्ष्माविघ्नेशबीजैः क्रमशोऽनुबद्धैः ।
पदत्रयेणापि च मन्त्रराजं विभज्य मन्त्री नवधा जुहोतु ॥३८॥

पुनः समस्तेन च मन्त्रवर्णसङ्ख्यं प्रजुह्वन्नपि र्सिपषैव ।
पूर्वप्रदिष्टैर्जुहुयादथाष्टद्रव्यैः प्रसिक्तैर्मधुरत्रयेण ॥३९॥

सचतुश्चत्वारिंशत्सहस्रसङ्ख्यैश्चतुःशतैः श्रुतिभिः ।
दशकचतुष्कैर्हुत्वा चत्वारिंशद्भिरन्तरेण दिनैः ॥४०॥

करिकलभाः करिणीभिः सम्पात्यन्तेऽवटेऽत्र गणपतिना ।
प्रतिदिनमभ्यवहार्य च विप्रान्संर्विधतस्तदाशीर्भिः ॥४१॥

तेषां मातङ्गानां दद्यात्पञ्चांशदक्षिणां गुरवे ।
तद्विक्रीतं वसु वा प्रसादितायाथ तद्दशांशं वा ॥४२॥

मिथुनानां गणपानां निध्योश्च तथाङ्गमातृलोकेशानाम् ।
मन्त्री घृतेन हुत्वाभ्यच्र्य च होमं समापयेत्सम्यक् ॥४३॥

पुनरुद्धृत्य निवेद्यादिकं समभ्यच्र्य गणपतिं सावरणम् ।
उद्वास्य स्वे हृदये विहरेदित्यर्चना क्रमोद्दिष्टा ॥४४॥

प्रोक्तस्त्वेवं दशभुजमनुः सङ्ग्रहेणात्र भक्तो
दीक्षां प्राप्तो विधिवदभिजप्त्वाथ हुत्वार्चयित्वा ।
नुत्वा नत्वा दिनमनु तथा तर्पयित्वा स्वकामा-
ल्लँब्ध्वा चान्ते व्रजति मुनिभिः प्रार्थनीयं पदं तत् ॥४५॥

स्मृतिपीठः पिनाकी सानुग्रहो बिन्दुसंयुतः ।
बीजमेतद्भुवः प्रोक्तं संस्तम्भनकरं परम् ॥४६॥

चतुरीयो विलोमेन तारादिर्बिन्दुसंयुतः ।
वैघ्नो मन्त्रो हृदन्तोऽर्चाविधौ होमे द्विठान्तकः ॥४७॥

गणकः स्यादृषिश्छन्दो निचृद्विघ्नश्च देवता ।
बीजेन दीर्घयुक्तेन दण्डिनाङ्गक्रियेरिता ॥४८॥

रक्तो रक्ताङ्गरागांशुककुसुमयुतस्तुन्दिलश्चन्द्रमौलि-
र्नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरात्तनासः ।
हस्ताग्राकॢप्तपाशाज्रुशरदवरदो नागयज्ञाभिभूषो
देवः पद्मासनो वो नवतु नतसुरो भूतये विघ्नराजः ॥४९॥

दीक्षितः प्रजपेल्लक्षचतुष्कं प्राक्समीरितैः ।
जुहुयादष्टभिद्र्रव्यैर्यथापूर्वं दशांशतः ॥५०॥

पीठे तीव्रादिभिः पद्मर्किणकायां विनायकम् ।
आवाह्य पूजयेद्दिक्षु चतुष्र्वपि यजेत्पुनः ॥५१॥

गणाधिपगणेशौ च गणनायकमेव च ।
गणक्रीडं र्किणकायामङ्गैः किञ्जल्कसंस्थितैः ॥५२॥

वक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ ।
लम्बोदरश्च विकटो विघ्नराड्धूमवर्णकौ ॥५३॥

समर्चयेन्मातृवर्गं बाह्ये लोकेश्वरानपि ।
इति प्रोक्ता सङ्ग्रहेण गाणेशीयं समर्चना ॥५४॥

नारिकेलान्वितैर्मन्त्री सक्तुलाजतिलैर्हुनेत् ।
आरभ्याच्छां प्रतिपदं चतुथ्र्यन्तं चतुःशतम् ॥५५॥

दिनशः सर्ववश्यं स्यात्सर्वकामप्रदं नृणाम् ।
तिलतण्डुलकैर्लक्ष्मीवश्यकृच्च यशस्करम् ॥५६॥

मधुरत्रयसिक्ताभिर्लाजाभिः सप्तवासरम् ।
जुहुयात्कन्यकार्थी वा कन्यका वा वरार्थिनी ॥५७॥

चतुथ्र्यां नालिकेरैस्तु होमः सद्यः श्रियावहः ।
हविषा घृतसिक्तेन सर्वकार्यार्थदो हुतः ॥५८॥

दध्यन्नलोणमुद्राभिहुनेन्निशि चतुर्दिनम् ।
इष्टार्थसिद्ध्यै मतिमान्सद्यः संवादसिद्धये ॥५९॥

ईदृशं गणपं ध्यात्वा मन्त्री तोयैः सुधामयैः ।
दिनादौ दिनशस्तस्य तर्पयेन्मस्तके सुधीः ॥६०॥

चत्वारिंशच्चतुःपूर्वं तत्पूर्वं वा चतुःशतम् ।
चत्वारिंशद्दिनात्तस्य काङ्क्षिता सिद्धिरेष्यति ॥६१॥

नवनीते नवे लिख्यादनुलोमविलोमकम् ।
उदरस्थितसाध्याख्यं तद्बीजं तत्प्रतिष्ठितम् ॥६२॥

समीरणं प्रतिष्ठाप्य जप्त्वाष्टशतसङ्ख्यकम् ।
तूष्णीं प्रभक्षयेदेतत्सप्तरात्राद्वशीकरम् ॥६३॥

अन्त्यासनोऽथ सूक्ष्मो लोहितगोऽग्निः पुनः स एव स्यात् ।
सादान्तेनायार्णौ नत्यन्तो मनुरयं स्वबीजाद्यः ॥६४॥

ऋषिदेवते तु पूर्वे च्छन्दस्तु विराडमुष्य सम्प्रोक्ता ।
बीजेन दीर्घभाजा कथितोऽङ्गविधिः क्रमेण बिन्दुमता ॥६५॥

धृतपाशाज्रुशकल्पकलतिकास्वरदश्च बीजपूरयुतः ।
शशिशकलकलितमौलिस्त्रिलोचनोऽरुणतनुश्च गजवदनः ॥६६॥

भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरो ललितः ।
ध्येयोऽनायतदोःपदसरसिरुहः सम्पदे सदा मनुजैः ॥६७॥

दीक्षायुक्तः प्रजपेल्लक्षं मनुमेनमथ तिलैरयुतम् ।
त्रिमधुरसिक्तैर्जुहुयात्पूर्वोक्तैर्वाथ वाष्टभिद्र्रव्यैः ॥६८॥

विघ्नविनायकवीराः सशूलवरदेभवक्त्रकैकरदाः ।
लम्बोदरश्च मातङ्गावृत्योरन्तरा च लोकेशाः ॥६९॥

पूज्याः सितघृतपायसहवनात्सञ्जायते महालक्ष्मीः ।
केवलघृतहुतमुदितो विघ्नः सद्यो वशीकरोति जगत् ॥७०॥

एकमपि नालिकेरं सचर्मलोष्टेन्धनं हुनेन्मन्त्री ।
दिनशश्चत्वारिंशद्दिनतः स तु वाञ्छितार्थमभ्येति ॥७१॥

सह पृथुकसक्तुलाजैस्तिलैरभीष्टार्थसिद्धये जुहुयात् ।
सापूपनालिकेरेक्षुककदलीभिस्तथा सुमधुराभिः ॥७२॥

अष्टभिरेतैर्विहितो होमः सर्वार्थसाधको भवति ।
दिनशः सघृतान्नहुतो गृहयात्रायापको गृहस्थानाम् ॥७३॥

अन्वहमन्वहमादौ गणपं सन्तर्पयेच्चतुःपूर्वम् ।
चत्वारिंशद्वारैः शुद्धजलैरिन्दिराप्तये मन्त्री ॥७४॥

समहागणपतियुत्तैरीवघ्नाद्यैर्दशभिराह्वयैर्दिनशः ।
तर्पणपूजाहुतविधिरपि वाञ्छितसिद्धिदायको भवति ॥७५॥

बिम्बादम्बुदवत्समेत्य सवितुः सोपानकै राजतै-
स्तोयं तोयजविष्टरं ध्रतलतादन्तं सपाशाज्रुशम् ।
नासां साध्यनृके निधाय सुधया तद्रन्ध्रनिर्यातया
सिञ्चन्तं वपुरन्वहं गणपतिं स्मृत्वामृतैस्तर्पयेत् ॥७६॥

प्राग्भाषितानपि विधीन्विधिवद्विदध्या-
न्मन्त्री विशेषविदथान्वहमादरेण ।
एकत्र वा गणपतौ मनुजाः स्वरुच्या
नामानुरूपमनुमेनममी भजन्तु ॥७७॥

इति जपहुतपूजातर्पणैर्विघ्नराजं
प्रभजति मनुजो यस्तस्य शुद्धिर्विशाला ।
भवति सधनधान्या पुत्रमित्रादियुक्ता
विगतसकलविघ्ना विश्वसंवादिनी च ॥७८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे षोडशोः पटलः ॥

N/A

References : N/A
Last Updated : January 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP