संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्|

अष्टादशः पटलः

प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.


अथ प्रणवसंज्ञकं प्रतिवदामि मन्त्रं परं
सजापमपि सार्चनं सहुतकॢप्ति सोपासनम् ।
अशेषदुरितापहं विविधकामकल्पद्रुमं
विमुक्तिफलसिद्धिदं विमलयोगिसंसेवितम् ॥१॥

आद्यस्वरः समेतोऽमरेण सधसप्तमश्च बिन्दुयुतः ।
प्रोक्तः स्यात्प्रणवमनुस्त्रिमात्रिकः सर्वमन्त्रसमवायी ॥२॥

मन्त्रस्यास्य मुनिः प्रजापतिरथ च्छन्दश्च देव्यादिका
गायत्री गदिता जगत्सु परमात्माख्यस्तथा देवता ।
अक्लीबैर्युगमध्यगध्रुवयुतैरङ्गानि कुर्यात्स्वरै-
र्मन्त्री जातियुतैश्च सत्यरहितैर्वा व्याहृतीभिः क्रमात् ॥३॥

विष्णुं भास्वत्किरीटाङ्गदवलयुगाकल्पहारोदराङ्घ्रि-
श्रोणीरूपं सवक्षोमणिमकरमहाकुण्डलामण्डिताङ्गम् ।
हस्तोद्यच्चक्रशङ्खाम्बुजगदममलं पीतकौशेयमाशा-
विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥४॥

दीक्षितो मनुमिमं शतलक्षं सञ्जपेत्प्रतिहुनेच्च दशांशम् ।
पायसैर्घृतयुतैश्च तदन्ते विप्रभूरुहभवाः समिधो वा ॥५॥

र्सिपःपायसशालीतिलसमिदाद्यैरनेन यो जुहुयात् ।
ऐहिकपारत्रिकमपि स तु लभते वाञ्छितं फलं नचिरात् ॥६॥

अभ्यच्र्य वैष्णवमथो विधिनैव पीठ-
मावाह्य तत्र सकलार्थकरं मुकुन्दम् ।
अङ्गैः समूर्तियुगशक्तियुगैः सुरेन्द्र-
वङ्कादिकैर्यजतु मन्त्रिवरः क्रमेण ॥७॥

वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।
स्फटिकस्वर्णदूर्वेन्द्रनीलाभा वर्णतो मताः ॥८॥

चतुर्भुजाश्चक्रशङ्खगदापज्र्जधारिणः ।
किरीटकेयूरिणश्च पीताम्बरधरा अपि ॥९॥

सशान्तिश्रीसरस्वत्यौ रतिश्चाश्रिदलाश्रिताः ।
अच्छपद्मरजोदुग्धदूर्वावर्णाः स्वलङ्कृताः ॥१०॥

आत्मान्तरात्मपरमज्ञानात्मानस्तु मूर्तयः ।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च शक्तयः ॥११॥

ज्वलज्ज्वालासमाभाः स्युरात्माद्या मूर्तिशक्तयः ।
इति पञ्चावरणकं विधानं प्रणवोद्भवम् ॥१२॥

इत्थं मन्त्री तारममुं जापहुतार्चा-
भेदैरङ्गीकृत्य च योगानपि युञ्ज्यात् ।
यैः संलब्ध्वा चेह समग्रां श्रियमन्ते
शुद्धं विष्णोर्धाम परं प्राप्स्यति योगी ॥१३॥

करपादमुखादिविहीनमनारतदृश्यमनन्यगमात्मपदम् ।
यमिहात्मनि पश्यति तत्त्वविदस्तमिमं किल योगमिति ब्रुवते ॥१४॥

योगाप्तिदूषणपरं त्वथ कामकोप-
लोभप्रमोहमदमत्सरतेति षट्कम् ।
वैरं जयेत्सपदि योगविदेनमङ्गै-
र्योगस्य धीरमतिरष्टभिरिष्टदैश्च ॥१५॥

यमनियमासनपवनायामाः प्रत्याहृतिश्च धारणया ।
ध्यानं चापि समाधिः प्रोक्तान्यङ्गानि योगयोग्यानि ॥१६॥

सत्यमहिंसा समता धृतिरस्तेयं क्षमार्जवं च तथा ।
वैराग्यमिति यमः स्यात्स्वाध्यायतपोऽर्चनाव्रतानि तथा ॥१७॥

सन्तोषश्च सशौचो नियमः स्यादासनं च पञ्चविधम् ।
पद्मस्वस्तिकभद्रकवङ्काकवीराह्वयं क्रमात्तदपि ॥१८॥

रेचकपूरककुम्भकभेदात्त्रिविधः प्रभञ्जनायामः ।
मुञ्चेद्दक्षिणयानिलमथानयेद्वामया च मध्यमया ॥१९॥

संस्थापयेच्च नाड्येत्येवं प्रोक्तानि रेचकादीनि ।
षोडशतद्विगुणचतुःषष्टिकमात्राणि तानि च क्रमशः ॥२०॥

चित्तात्मैक्यधृतस्य प्राणस्य स्थानसंहृतिः स्थानात् ।
प्रत्याहारो ज्ञेयश्चैतन्ययुतस्य सम्यगनिलस्य ॥२१॥

स्थानस्थापनकर्म प्रोक्ता स्याद्धारणेति तत्त्वज्ञैः ।
यो मनसि देवताया भावः स्यात्तस्य मन्त्रिणः सम्यक् ॥२२॥

संस्थापयेच्च तत्रेत्येवं ध्यानं वदन्ति तत्त्वविदः ।
सत्तामात्रं नित्यं शुद्धमपि निरञ्जनं च यत्प्रोक्तम् ॥२३॥

तत्प्रविचिन्त्य स तिंस्मश्चित्तलयः स्यात्समाधिरुद्दिष्टः ।
अष्टाङ्गैरिति कथितैः पुनराशु निगृह्यतेऽरिरात्मविदा ॥२४॥

अथ वा शोषणदहनप्लावनभेदेन शोधिते देहे ।
पञ्चाशद्भिर्मात्राभेदैर्विधिवत्समायमेत्प्राणान् ॥२५॥

पञ्चाशदात्मकोऽपि च कलाप्रभेदेन तार उद्दिष्टः ।
तावन्मात्रायमनात्कलाश्च विधृता भवन्ति तत्त्वविदा ॥२६॥

पूर्वमिडाया वदने विचिन्तयेद्धूम्रमानिलां बीजम् ।
तेनागतेन देहं प्रशोषयेत्सान्तराधिकरचरणम् ॥२७॥

पिङ्गलया प्रतिमुञ्चेत्तथैव कार्शानवेन रक्तरुचा ।
प्रतिदह्य पूर्वविधिना मुञ्चेन्नैशाकरेण सुसितेन ॥२८॥

सम्पूरयेत्सुधामयजलशीकरर्विषणा तनुं सकलाम् ।
निर्माय मानसेन च परिपूर्णमनाश्चिरं भूयात् ॥२९॥

सुजीर्णमितभोजनः सुखसमात्तनिद्रादिकः
सुशुद्धतलसद्गृहे विरहिते च शीतादिभिः ।
पटाजिनकुशोत्तरे सुविशदे च मृद्वासने
निमीलितविलोचनः प्रतिविशेत्सुखं प्राङ्मुखः ॥३०॥

प्रसारितं वामकरं निजाज्रे निधाय तस्योपरि दक्षिणं च ।
ऋजुः प्रसन्नो विजितेन्द्रियः सन्नाधारमत्यन्तसमं स्मरेत्स्वम् ॥३१॥

तन्मध्यगतं प्रणवं प्रणवस्थं बिन्दुमपि च बिन्दुगतम् ।
नादं विचिन्त्य तारं यथावदुच्चारयेत्सुषुम्नान्तम् ॥३२॥

तन्मध्यगतं शुद्धं शब्दब्रह्मातिसूक्ष्मतन्तुनिभम् ।
तेजः स्मरेच्च तारात्मकमपि मूलं चराचरस्य सदा ॥३३॥

ओज्ररो गुणबीजं प्रणवस्तारो ध्रुवश्च वेदादिः ।
आदिरुमध्यो मपरो नामन्यस्य त्रिमात्रिकश्च तथा ॥३४॥

अस्य तु वेदादित्वात्सर्वमनूनां प्रयुज्यतेऽथादौ ।
योनिश्च सर्वदेहे भवति च स ब्रह्म सर्वसंवादे ॥३५॥

ऋक् च तदाद्यादिः स्यात्तन्मध्यान्तं यजुश्च मान्तादिः ।
सामापि तस्य भेदा बहवः प्रोक्ता हि लोकवेदेषु ॥३६॥

उच्चार्योच्चार्य च तं क्रमान्नयेदुपरि षड्द्वयान्तान्तम् ।
मनसा स्मृते यदास्मिन्मनो लयं याति तावदभ्यस्येत् ॥३७॥

अथ वा बिन्दुं वर्तुलमावर्तैस्त्रिभिरुपेतमेवमिव ।
प्रोतं रविबिम्बेन च समभ्यसेत्स्रुतसुधामयं तेजः ॥३८॥

अपमृत्युरोगपापजिदचिरेण सुसिद्धिदो नृणां योगः ।
अथवा मूलाधारोत्थिता प्रभा बिसविभेदतन्तुनिभा ॥३९॥

वदनामृतकरबिम्बस्यूता ध्यातामृताम्बुलवलुलिता ।
स्थावरजङ्गमविषहृद्योगोऽयं नात्र सन्देहः ॥४०॥

अथ वा त्रिवलयबिन्दुगधाम प्रणवेन सन्नयेदूध्र्वम् ।
पीतोर्णातन्तुनिभं सौषुम्नेनैव वत्र्मना योगी ॥४१॥

तस्मिन्निधाय चित्तं विलयं गमयेद्दिनेशसङ्ख्यान्ते ।
पुनरावृत्तिविहीनं निर्वाणपदं व्रजेत्तदभ्यासात् ॥४२॥

अथ वादिबीजमौ पुनरुमपि विषे तमपि संहरेद्बिन्दौ ।
बिन्दुं नादे तमपि च शक्तौ शक्तिं तथैव शान्ताख्ये ॥४३॥

तेजस्यनन्यगे चिति निर्द्वन्द्वे निष्कले सदानन्दे ।
सूक्ष्मे च सर्वतो मुखकरपदनयनादिलक्षणालक्ष्ये ॥४४॥

स्वात्मनि संहृत्यैवं करणेन्द्रियवर्गनिर्गमापेतः ।
निर्लीनपुण्यपापे निरुच्छ्वसन्ब्रह्मभूत एव स्यात् ॥४५॥

अथ वा योगोपेताः पञ्चावस्था क्रमेण विज्ञाय ।
ताभिर्युञ्जीत सदा योगी सद्यः प्रसिद्धये मुक्तेः ॥४६॥

जाग्रत्स्वप्नसुषुप्ती तुरीयतदतीतकौ पुनस्तासु ।
स्वैरिन्द्रियैर्यदात्मा भुङ्क्ते भोगान्स जागरो भवति ॥४७॥

संज्ञारहितैरपि तैस्तस्यानुभवो भवेत्पुनः स्वप्नः ।
आत्मनिरुद्युक्ततया नैराकुल्यं भवेत्सुषुप्तिरपि ॥४८॥

पश्यति परं यदात्मा निस्तमसा तेजसा तुरीयं तत् ।
आत्मपरमात्मपदयोरभेदतो व्याप्नुयाद्यदा योगी ॥४९॥

तच्च तुरीयातीतं तस्यापि भवेन्न दूरतो मुक्तिः ।
अथ वा सूक्ष्माख्यायां पश्यन्त्यां मध्यमाख्यवैखर्योः ॥५०॥

ससुषुम्नाग्रकयोरपि युञ्जीयाज्जाग्रदादिभिः पवनम् ।
बीजोच्चारो जाग्रद्बिन्दुः स्वप्नः सुषुप्तिरपि नादः ॥५१॥

शक्त्यात्मना तुरीयः शान्ते लय आत्मनस्तुरीयान्तम् ।
अङ्गुष्ठगुल्फजङ्घाजानुद्वितयं च सीवनी मेढ्रम् ॥५२॥

नाभिर्हृदयं ग्रीवा सलम्बिकाग्रं तथैव नासाग्रम् ।
भूरमध्यललाटाग्रसुषुम्नाग्रं द्वादशान्तमित्येवम् ॥५३॥

उत्क्रान्तौ परकायप्रवेशने चागतौ पुनः स्वतनौ ।
स्थानानि धारणायाः प्रोक्तानि मरुत्प्रयोगविधिनिपुणैः ॥५४॥

स्थानेष्वेष्वात्ममनःसमीरसंयोगकर्मणोऽभ्यासात् ।
अचिरेणोत्क्रान्त्याद्या भवन्ति संसिद्धयः प्रसिद्धतराः ॥५५॥

कण्ठे भ्रूमध्ये हृदि नाभौ सर्वाङ्गके स्मरेत्क्रमशः ।
लवरसमीरखवर्णैरनिलमहाकालवञ्चनेयं स्यात् ॥५६॥

अवनिजलानलमारुतविहायसां शक्तिभिश्च तद्बिम्बैः ।
मारूप्यमात्मनश्च प्रतिनीत्वा तत्तदाशु जयति सुधीः ॥५७॥

एवं प्रोक्तैर्योगैरायोजयतोऽन्वहं तथात्मानम् ।
अचिरेण भवति सिद्धिः समस्तसंसारमोचनी नित्या ॥५८॥

इति योगमार्गभेदैः प्रतिदिनमारूढयोगयुक्तधियः ।
सिद्धय उपलक्ष्यन्ते मोक्षपुरीसम्प्रवेशनद्वाराः ॥५९॥

कम्पः पुलकानन्दौ वैमल्यस्थैर्यलाघवानि तथा ।
सकलप्रकाशवित्तेत्यष्टावस्थाः प्रसूचकाः सिद्धेः ॥६०॥

त्रैकाल्यज्ञानोहौ मनोज्ञता च्छन्दतो मरुद्रोधः ।
नाडीसङ्क्रमणविधिर्वाक्सिद्धिर्देहतश्च देहाप्तिः ॥६१॥

ज्योतिःप्रकाशनं चेत्यष्टौ स्युः प्रत्ययायुजः सिद्धेः ।
अणिमा महिमा च तथा लघिमा गरिमेशिता वशित्वं च ॥६२॥

प्राप्तिः प्राकाम्यं चेत्यष्टैश्वर्याणि योगयुक्तस्य ।
अष्टैश्वर्यसमेतो जीवन्मुक्तः प्रवक्ष्यते योगी ।
योगानुभवमहामृतरसपानानन्दनिर्भरः सततम् ॥६३॥

इत्येवं प्रणवविधिः समीरितोऽयं
भक्त्या तं प्रभजति यो जपादिभेदैः ।
सम्प्राप्नोत्यनुततनित्यशुद्धबुद्धं
तद्विष्णोः परमतरं पदं नराग्र्यः ॥६४॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे अष्टादशः पटलः ॥

N/A

References : N/A
Last Updated : January 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP