पञ्चदशः पटलः

प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.


अथ चन्द्रमनुं वक्ष्ये सजपार्चाहुतादिकम् ।
हिताय मन्त्रिणां साघ्र्यविधानं च समासतः ॥१॥

भृगुः ससद्यः सार्धेन्दुर्बिन्दुहीनः पुनश्च सः ।
विषानन्तौ मान्तनती मन्त्रोऽयं सोमदैवतः ॥२॥

दीर्घभाजा स्वबीजेन कुर्यादङ्गानि वै क्रमात् ।
विचिन्तयेत्पुनर्मन्त्री यथावन्मन्त्रदेवताम् ॥३॥

अमलकमलसंस्थः सुप्रसन्नाननेन्दु-
र्वरदकुमुदहस्तश्चारुहारादिभूषः ।
स्फटिकरजतवर्णो वाञ्छितप्राप्तये वो
भवतु भवदभीष्टोद्योतिताज्र्ः शशाज्र्ः ॥४॥

दीक्षितः प्रजपेन्मन्त्री रसलक्षं मनुं वशी ।
पञ्चमीदशमीपञ्चदशीषु तु विशेषतः ॥५॥

अयुतं प्रजपेन्मन्त्री सायाह्नेऽभ्यच्र्य भाधिपम् ।
पयोन्नेनहुनेद्भूयः सघृतेन सहस्रकम् ॥६॥

सर्सिपषा पायसेन षट्सहस्रं हुनेत्ततः ।
पीठकॢप्तौ तु सोमान्तं परिपूज्यार्चयेद्विधुम् ॥७॥

केसरेष्वङ्गपूजा स्याच्छक्तीस्तद्बहिरर्चयेत् ।
रोहिणीं कृत्तिकाख्यां च रेवतीं भरणीं तथा ॥८॥

रात्रिमाद्र्राह्वयां ज्योत्स्नां कलां च क्रमतोऽर्चयेत् ।
दलाग्रेषु ग्रहानष्टौ दिशानाथाननन्तरम् ॥९॥

सुसितैर्गन्धकुसुमैः पात्रै रूप्यमयैस्तथा ।
शक्तयः फुल्लकुन्दाभास्तारहारविभूषणाः ॥१०॥

सितमाल्याम्बरालेपा रचिताञ्जलयो मताः ।
इति सिद्धमनुर्मन्त्री शशिनं मूर्ध्नि चिन्तयेत् ॥११॥

त्रिसहस्रं जपेद्रात्रौ मासान्मृत्युञ्जयो भवेत् ।
हृदयाम्भोजसंस्थं तं भावयन्प्रजपन्मनुम् ॥१२॥

राज्यैश्वर्यं वत्सरेण प्राप्नुयादप्यकिञ्चनः ।
आहाराचारनिरतो जपेल्लक्षचतुष्टयम् ॥१३॥

असंशयतरं तेन निधानमुपलभ्यते ।
घोरा ज्वरा गराः शीर्षरोगाः कृत्याश्च कामिलाः ॥१४॥

तन्मन्त्रायुतजापेन नश्यन्ति सकलापदः ।
नित्यशः प्रजपेन्मन्त्रं पूर्णासु विजितेन्द्रियः ॥१५॥

जपेन्मनुं यथाशक्ति लक्ष्मीसौभाग्यसिद्धये ।
त्रितयं मण्डलानां तु कृत्वा पाश्चात्त्यपौर्विकम् ॥१६॥

आसीनः पश्चिमे मध्ये संस्थे द्रव्याणि विन्यसेत् ।
पूर्वस्मिन्पज्र्जोपेते पूर्ववत्सोममर्चयेत् ॥१७॥

राकायामुदये राज्ञो निजकार्यं विचिन्तयेत् ।
संस्थाप्य राजतं तत्र चषकं परिपूरयेत् ॥१८॥

गव्येन शुद्धपयसा स्पृष्टपात्रो जपेन्मनुम् ।
अष्टोत्तरशतावृत्त्या दद्यादघ्र्यमथेन्दवे ॥१९॥

विद्यामन्त्रेण मन्त्रज्ञो यथावत्तद्गतात्मना ।
विद्याविद्यापदे प्रोक्त्वा मालिनीति च चन्द्रिणी ॥२०॥

चन्द्रमुख्यनिजायां च निगदेत्प्रणवादिकम् ।
प्रतिमासं च षण्मासात्सिद्धिमेष्यति काङ्क्षितम् ॥२१॥

इष्टाय दीयते कन्या कन्यां विन्देन्निजेप्सिताम् ।
अमितां श्रियमाप्नोति कान्तिं पुत्रान्यशः पशून् ।
सोमाघ्र्यदाता लभते दीर्घमायुश्च विन्दति ॥२२॥

इति सोममन्त्रसिद्धिं प्रणिगदितः सङ्ग्रहेण मन्त्रविदाम् ।
उपकृतयेऽमितलक्ष्म्यै मेधायै प्रेत्य चेह सम्पत्त्यै ॥२३॥

अथाग्निमन्त्रान्सकलार्थसिद्धि-
करान्प्रवक्ष्ये जगतो हिताय ।
सष्र्यादिकॢप्तीनपि साङ्गभेदा-
न्सार्चाविशेषान्सजपादिकांश्च ॥२४॥

वियतो दशमोर्ऽइघसर्गयुक्तो भुवसर्गौ भृगुलान्तषोडशाचः ।
हुतभुग्दयिता ध्रुवादिकोऽयं मनुरुक्तः सुसमृद्धिदः कृशानोः ॥२५॥

भृगुरपि तदृषिश्छन्दो गायत्री देवताग्निरुद्दिष्टः ।
प्राक्प्रोक्तान्यङ्गानि विशः समुक्तैश्च मन्त्रवाक्यैर्वा ॥२६॥

शक्तिस्वस्तिकपाशान्साज्रुशवरदाभयान्दधात्त्रिमुखः ।
मकुटादिविविधभूषोऽवताच्चिरं पावकः प्रसन्नो वः ॥२७॥

जपेदिमं मनुमृतुलक्षमादरा-
द्दशांशतः प्रतिजुहुयात्पयोन्धसा ।
सर्सिपषाप्यसिततरैश्च षाष्टिकैः
समर्चयेदथ विधिवद्विभावसुम् ॥२८॥

पीता श्वेतारुणा कृष्णा धूम्रा तीव्रा स्फुलिङ्गिनी ।
रुचिरा कालिनी चेति कृशानोर्नव शक्तयः ॥२९॥

पीठे तनूनपातः प्रागङ्गैरष्टमूर्तिभिस्तदनु ।
भूयश्च शतमखाद्यैर्विधिनाथ हिरण्यरेतसं प्रयजेत् ॥३०॥

आज्यैरष्टाध्र्वशतं प्रतिपदमारभ्य मन्त्रविद्दिनशः ।
चतुरो मासाञ्जुहुयाल्लक्ष्मीरत्यायता भवेत्तस्य ॥३१॥

शुद्धाभिः शालीभिर्दिनमनुजुहुयात्तथाब्दमात्रेण ।
शालीशालि गृहं स्याद्गोमहिषाद्यैश्च सङ्कुलं तस्य ॥३२॥

शुद्धान्नैर्घृतसिक्तैः प्रतिदिनमग्नौ समेधिते जुहुयात् ।
अन्नसमृद्धिर्महती स्यादस्य निकेतनेऽब्दमात्रेण ॥३३॥

जुहुयात्तिलैः सुशुद्धैः षण्मासाज्जायते महालक्ष्मीः ।
कुमुदैः कह्लारैरपि जातीकुसुमैश्च जायते सिद्धिः ॥३४॥

पालाशैः पुनरिध्मकैः सरसिजैर्बिल्वैश्च रक्तोत्पलै-
र्दुग्धोर्वीरुहसम्भवैः खदिरजैव्र्याघातवृक्षोद्भवैः ।
दूर्वाख्यैश्च शमीविकज्र्तभवैरष्टोध्र्वयुक्तं शतं
नित्यं वा जुहुयात्प्रतिप्रतिपदं मन्त्री महासिद्धये ॥३५॥

तारं व्याहृतयश्चाग्निर्जातवेद इहावह ।
सर्वकर्माणि चेत्युक्त्वा साधयाग्निवधूर्मनः ॥३६॥

ऋष्याद्याः पूर्वोक्ता मन्त्रेणाङ्गानि वर्णभिन्नेन ।
भूतर्तुकरणसेन्द्रियगुणयुग्मैर्जातिभेदितैस्तदपि ॥३७॥

अथ वा शक्तिस्वस्तिकदर्भाक्षस्रक्स्रुवस्रुगभयवरान् ।
दधदमिताकल्पो यो वसुरवतात्कनकमालिकालसितः ॥३८॥

वत्सरादेश्चतुर्दश्यां दिनादावेव दीक्षितः ।
मन्त्रं द्वादशसाहस्रं जपेत्सम्यगुपोषितः ॥३९॥

अर्चयेदङ्गमूर्तीश्च लोकेशकुलिशादिभिः ।
समिदाद्यममावास्यां परिशोध्य यथाविधि ॥४०॥

ब्राह्मणान्भोजयित्वा च स्वयं भुक्त्वा समाहितः ।
परेऽह्नि प्रतिपद्येतैर्जुहुयार्दिचतेऽनले ॥४१॥

मन्त्री वटसमिद्व्रीहितिलराजिहविर्घृतैः ।
अष्टोत्तरशतावृत्त्या हुनेदेकैकशः क्रमात् ॥४२॥

दशाहमेवं कृत्वा तु पुनरेकादशीतिथौ ।
शक्त्या प्रतप्र्य विप्रांश्च प्रदद्याद्गुरुदक्षिणाम् ॥४३॥

सुवर्णवासोधान्यानि शोणां गां च सतर्णकाम् ।
पुनरष्टोत्तरं मन्त्री सहस्रं दिनशो जपेत् ॥४४॥

विधिनेति विधातुरग्निपूजामचिरेणैव भवेन्महासमृद्धिः ।
धनधान्यसुवर्णरत्नपूर्णा धरणी गोवृषपुत्रमित्रकीर्णा ॥४५॥

प्रजपेदथ वा सहस्रसङ्ख्यं
दिनशो वत्सरतो भवेन्महाश्रीः ।
जुहुयात्प्रतिवासरं शताख्यं
हविषाब्देन भवेन्महासमृद्धिः ॥४६॥

पालाशैः कुसुमैर्हुनेद्दधिघृतक्षौद्राप्लुतैर्मण्डलं
नित्यं साष्टशतं तथैव करवीरोत्थैः समृद्ध्यै हुनेत् ।
षण्मासं कपिलाघृतेन दिनशोऽप्यष्टौ सहस्रं तथा
होतव्यं लभते स राजसदृशीं लक्ष्मीं यशो वा महत् ॥४७॥

उत्पूर्वात्तिष्ठशब्दात्पुरुषहरिपदे पिङ्गलान्ते निगद्य
प्रोच्याथो लोहिताक्षं पुनरपि च वदेद्देहि मेदान्क्रमेण ।
भूयो ब्रूयात्तथा दापय शशियुगलार्णांश्चतुर्विंशदर्णः
प्रोक्तो मन्त्रोऽखिलेष्टप्रतरणसुरसद्माङ्घ्रिपः स्यात्कृशानोः ॥४८॥

ऋष्याद्याः स्युः पूर्ववदृतृभूतदिशात्रिकरणयुगलार्णैः ।
मूलमनुनाथ कुर्यादङ्गानि क्रमश एव मन्त्रितमः ॥४९॥

हैमाश्वत्थसुरद्रुमोदरभुवो निर्यान्तमश्वाकृतिं
वर्षन्तं धनधान्यरत्ननिचयान्रन्ध्रैः स्वकैः सन्ततम् ।
ज्वालापल्लवितस्वरोमविवरं भक्तार्तिसम्भेदनं
वन्दे धर्मसुखार्थमोक्षसुखदं दिव्याकृतिं पावकम् ॥५०॥

जप्याच्च लक्षमानं मन्त्री सन्दीक्षितोऽथ मनुमेनम् ।
जुहुयाच्च तदवसाने घृतसिक्तैः पायसैर्दशांशेन ॥५१॥

अङ्गैर्हुतवहमूर्तिभिराशेशैः संयजेत्तदस्रैश्च ।
पावकमिति मन्त्रितमो गन्धाद्यैरनुदिनं तदुपहारैः ॥५२॥

दिनावतारे मनुमेनमन्वहं जपेत्सहस्रं नियमेन मन्त्रवित् ।
अधृष्यतायै यशसे श्रिये रुजां विमुक्तये युक्तमतिस्थायुषे ॥५३॥

शालीतण्डुलकैः सितैश्च पयसा कृत्वा हविः पावकं
गन्धाद्यैः परिपूज्य तेन हविषा संंंवत्र्य पिण्डं महत् ।
आज्यालोलितमेकमेव जुहुयाज्जप्त्वा मनुं मन्त्रवि-
त्साष्टोध्र्वं प्रतिपद्यथो शतमतः स्यादिन्दिरा वत्सरात् ॥५४॥

अष्टोत्तरं शतमथो मृगमुद्रयैव
मन्त्री प्रतिप्रतिपदं जुहुयात्पयोन्नैः ।
साज्यैर्भवेन्न खलु तत्र विचारणीयं
संवत्सरात्स च निकेतनमिन्दिरायाः ॥५५॥

अष्टोध्र्वशतं हविषा मन्त्रेणानेन नित्यशो जहुयात् ।
षण्मासादाढ्यतमो भवति नरो नात्र सन्देहः ॥५६॥

शालीभिः शुद्धाभिः प्रतिदिनमष्टोत्तरं शतं जुहुयात् ।
धनधान्यसमृद्धः स्यान्मन्त्री संवत्सरार्धमात्रेण ॥५७॥

आज्यैरयुतं जुहुयात्प्रतिमासं प्रतिपदं समारभ्य ।
अतिमहती लक्ष्मीः स्यादस्य तु षण्मासतो न सन्देहः ॥५८॥

अरुणैः पुनरुत्पलैः शतं यो
मधुराक्तैः प्रजुहोति वत्सरार्धम् ।
मनुनाप्यमुना दशाधिकं स
पलभेन्मङ्क्षु महत्तरां च लक्ष्मीम् ॥५९॥

जातीपलाशकरवीरजपाख्यबिल्व-
व्याघातकेसरकुरण्डभवैः प्रसूनैः ।
एकैकशः शतमथो मधुरत्रयाक्तै-
र्जुह्वत्प्रतिप्रतिपदं श्रियमेति वर्षात् ॥६०॥

खण्डैश्च सप्तदिनमप्यमृतालतोत्थै-
र्मन्त्री हुनेद्गुणसहस्रमथो पयोक्तैः ।
सम्यक्समच्र्य दहनं नचिरेण जन्तु-
श्चातुर्थिकादिविषमज्वरतो वियुञ्ज्यात् ॥६१॥

क्षीरद्रुमत्वगभिपक्वजलैर्यथाव-
त्सम्पूर्य कुम्भमभिपूज्य कृशानुमत्र ।
जप्त्वा मनुं पुनरमुं त्रिसहस्रमानं
सेकक्रिया ज्वरहरी ग्रहवैकृतघ्नी ॥६२॥

पयसि हृदयदघ्ने भानुमालोक्य तिष्ठ-
न्प्रजपतु च सहस्रं नित्यशो मन्त्रमेनम् ।
स दुरितमपमृत्युं रोगजातांश्च हित्वा
व्रजति नियतसौख्यं वत्सराद्दीर्घमायुः ॥६३॥

मनुनामुनाष्टशतजप्तमथ प्रपिबेज्जलं ज्वलनदीपनकृत् ।
गुरु भुक्तमप्युदरगं त्वमुना परिजापितं पचति कुक्ष्यनलः ॥६४॥

हुनेदरुणपज्र्जैस्त्रिमधुराप्लुतैर्नित्यशः
सहस्रमृतुमासतः पृथुतरा रमा जायते ।
प्रतिप्रतिपदं हुनेदिति बुधो धिया वत्सरा-
द्विनष्टवसुरप्यसौ भवति चेन्दिरामन्दिरम् ॥६५॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे पञ्चदशः पटलः ॥

N/A

References : N/A
Last Updated : January 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP