संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्|

त्रयोदशः पटलः

प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.


अथ वक्ष्यामि दुर्गाया मन्त्रान्साङ्गान्सदेवतान् ।
सजपार्चाहुतविधीन्प्रीत्यर्थं मन्त्रजापिनाम् ॥१॥

तारो मायामरेशोऽत्रिपीठो बिन्दुसमन्वितः ।
स एव च विसर्गान्तो गायै नत्यन्तिको मनुः ॥२॥

दुर्गास्य देवता च्छन्दो गायत्रं नारदो मुनिः ।
तारो माया च दुर्गायै ह्रामाद्यन्ताङ्गकल्पना ॥३॥

शङ्खारिचापशरभिन्नकरां त्रिणेत्रां
तिग्मेतरांशुकलया विलसत्किरीटाम् ।
सिंहस्थितां ससुरसिद्धनुतां च दुर्गां
दूर्वानिभां दुरितवर्गहरीं नमामि ॥४॥

कृताभिषेकदीक्षस्तु वसुलक्षं जपेन्मनुम् ।
तदन्ते जुहुयात्र्सिपःसंयुक्तेन पयोन्धसा ॥५॥

अष्टसाहस्रसङ्ख्यैस्तु तिलैर्वा मधुराप्लुतैः ।
पीठार्चायां प्रयष्टव्याः क्रमात्तच्छक्तयो नव ॥६॥

प्रभा माया जया सूक्ष्मा विशुद्धा नन्दिनी तथा ।
सुप्रभा विजया सर्वसिद्धिदा नवमी तथा ॥७॥

अच्र्या ह्रस्वत्रयक्लीबरहितैश्च स्वरैरिमाः ।
तारान्ते वङ्कामाभाष्य नखदंष्ट्रायुधानि च ॥८॥

महासिंहाय चेत्युक्त्वा वर्मास्त्रनतयः क्रमात् ।
सिंहमन्त्रोऽयमित्येवं सम्प्रोक्ता पीठकल्पना ॥९॥

अङ्गैः स्यादावृतिः पूर्वा द्वितीया शक्तिभिः स्मृता ।
अष्टायुधैस्तृतीया स्याल्लोकपालैश्चतुथ्र्यपि ॥१०॥

तदायुधैः पञ्चमी च दुर्गायजनमीदृशम् ।
जया च विजया कीर्त्तिः प्रीतिश्चाथ प्रभाह्वया ॥११॥

श्रद्धा मेधा श्रुतिरपि शक्तयः स्वाक्षरादिकाः ।
चक्रशङ्खगदाखड्गपाशाज्रुशशरा धनुः ॥१२॥

क्रमादष्टायुधाः प्रोक्ता दौर्गा दुर्गतिहारिणः ।
इत्थं दुर्गामनौ जापहुतार्चाभिः प्रसाधिते ॥१३॥

मन्त्रीन्दिरावान्भवति दीर्घायुर्दुरिताञ्जयेत् ।
यान्यानिच्छति कामान्स्वांस्तांस्तान्प्राप्नोति यत्नतः ॥१४॥

विधाय विधिनानेन कलशं चाभिषेचयेत् ।
यमसौ भूतवेतालपिशाचाद्यैर्विमुच्यते ।
राजाभिषिक्तो विधिना सपत्नानमुना यजेत् ॥१५॥

अमुना विधिना कृताभिषेका ललना पुत्रमवाप्नुयाद्विनीतम् ।
हवनात्तिलसर्षपैः सहस्रद्वितयैराशु भवेच्च गर्भरक्षा ॥१६॥

अनयैव जपाभिषेकहोम-
क्रियया स्यादनुरञ्जनं जनानाम् ।
भजतां सकलार्थसाधनार्थं
मुनिवर्यैः परिकल्पितोऽयमादौ ॥१७॥

उत्तिष्ठपदं प्रथमं पुरुषि ततः किम्पदं स्वपिषियुक्तम् ।
भयमपि मेऽन्ते समुपस्थितमित्युच्चार्य यदिपदं प्रवदेत् ॥१८॥

शक्यमशक्यं वोक्त्वा तन्मे भगवति निगद्य शमयपदम् ।
प्रोक्त्वा ठद्वितययुतं सप्तत्रिंशाक्षरो मनुः प्रोक्तः ॥१९॥

आरण्यकोऽत्यनुष्टुब्वनदुर्गाख्याः क्रमेण भगवत्याः ।
ऋष्यादिकाः स्वमनुना विहितान्यङ्गानि वाक्यभिन्नेन ॥२०॥

षड्भिश्चतुर्भिरष्टभिरष्टार्णैः षड्भिरपि च पञ्चार्णैः ।
जातियुतैश्च विदध्यादङ्गानि च षट् क्रमेण विशदमतिः ॥२१॥

पद्वयसन्धिगुदान्ध्वाधारोदरपाश्र्वहृत्स्तनेषु गले ।
दोःसन्धिवदनानासाकपोलदृक्कर्णयुग्भ्रुके न्यस्येत् ॥२२॥

हेमप्रख्यामिन्दुखण्डात्तमौलिं
शङ्खारिष्टाभीतिहस्तां त्रिणेत्राम् ।
हेमाब्जस्थां पीतवस्त्रां प्रसन्नां
देवीं दुर्गां दिव्यरूपां नमामि ॥२३॥

अरिशङ्खकृपाणखेटबाणान्सधनुःशूलकर्तिजनीर्दधाना ।
भवतां महिषोत्तमाङ्गसंस्था नवदूर्वासदृशी श्रियेऽस्तु दुर्गा ॥२४॥

चक्रदरखड्गखेटकशरकार्मुकशूलसंज्ञककपालैः ।
ऋष्टिमुसलकुन्तनन्दकवलयगदाभिण्डिपालशक्त्याख्यैः ॥२५॥

उद्यद्विकृतिभुजाढ्या महिषाङ्गे सजलजलदसङ्काशा ।
सिंहस्था वाग्निनिभा पद्मस्था वाथ मरकतप्रख्या ॥२६॥

व्याघ्रत्वक्परिधाना सर्वाभरणान्विता त्रिणेत्रा च ।
अहिकलितनीलकुञ्चितकुन्तलविलसत्किरीटशशिशकला ॥२७॥

सर्पमयवलयनूपुरकाञ्चीकेयूरहारसम्पन्ना ।
सुरदितिजाभयभयदा ध्येया कात्यायनी प्रयोगविधौ ॥२८॥

संयतचित्तो लक्षचतुष्कं जप्त्वा हुनेद्दशांशेन ।
व्रीहितिलाज्यहविर्भिः सम्यक्सञ्चिन्त्य भगवतीमनले ॥२९॥

पीठे पूर्वप्रोक्ते पूज्याङ्गैः शक्तिभिस्तथाष्टाभिः ।
अष्टायुधैश्च मातृभिराशेशैः क्रमश एव दुर्गेयम् ॥३०॥

आर्या दुर्गा भद्रा सभद्रकाली तथाम्बिकाख्या च ।
क्षेम्या सवेदगर्भा क्षेमकरी चेति शक्तयः प्रोक्ताः ॥३१॥

अरिदरकृपाणखेटकबाणधनुःशूलसंयुतकपालाः ।
अष्टायुधाः क्रमोक्ताः पूर्वविधानवदथोदितं शेषम् ॥३२॥

इत्थं जपार्चनाहुतसिद्धमनोर्मन्त्रिणः प्रयोगविधिः ।
विहितो जपः प्रतिदिनं निजरक्षायै शतं सहस्रं वा ॥३३॥

उद्दिश्य यद्यदेनं मनुं जपेदथ सहस्रमयुतं वा ।
तत्तन्मन्त्री लभ्येदचिरात्तदनुग्रहादसाध्यमपि ॥३४॥

स्नात्वार्काभिमुखः सन्नाभिद्वयसेऽम्भसि स्थितो मन्त्री ।
अष्टोध्र्वशतं प्रजपेन्निजवाञ्छितसिद्धये च लक्ष्म्यै च ॥३५॥

ध्यात्वा त्रिशूलहस्तां ज्वरसर्पग्रहविपत्सु जन्तूनाम् ।
संस्पृश्य शिरसि जप्यात्तज्जन्योपद्रवं शमयेत् ॥३६॥

अयुतं तिलैर्वनोत्थै राजीभिर्वा हुनेत्समिद्भिर्वा ।
मायूरिकीभिरचिरात्सोऽपस्मारादिकांश्च नाशयति ॥३७॥

जुहुयाद्रोहिणसमिधामयुतं मन्त्री पुनः सशुङ्गानाम् ।
सर्वापदां विमुक्त्यै सर्वसमृद्ध्यै ग्रहादिशान्त्यै च ॥३८॥

आर्कैः समित्सहस्रैः प्रतिजुहुयादर्कवारमारभ्य ।
दशदिनतोऽर्वाग्वाञ्छितसिद्धिर्देव्याः प्रसादतो भवति ॥३९॥

शुद्धैः सारैरिध्मैस्त्रिदिनं वा सप्तरात्रकं वापि ।
प्रतिशकलं प्रतिजुहुयान्मनुना निजवाञ्छिताप्तये मन्त्री ॥४०॥

विशिखानां त्रिंशत्कं पुरो निधायाथ तीक्ष्णतैलेन ।
जुहुयात्सहस्रकं वायुतमपि सङ्ख्यासु पूरितासु पुनः ॥४१॥

सम्पातिततैलेन च शरान्समभ्यज्य पूर्ववज्जप्यात् ।
तानथ शूरो धन्वी शुद्धाचारः प्रवेधयेद्बाणान् ॥४२॥

प्रतिसेनाया मध्ये सा धावति सद्य एव सम्भ्रान्ता ।
भूयो गुरुं धनैरपि धान्यैः परिपूजयेच्च कारयिता ॥४३॥

अष्टोत्तरशतजप्तं यच्छिरसि प्रक्षिपेच्चिताभस्म ।
स तु विद्विष्टो लोकैर्देशाद्देशान्तरं परिभ्रमति ॥४४॥

कारस्करस्य पत्रैरष्टसहस्रैर्निपातितैर्मरुता ।
जुहुयात्सपादपांसुभिरुच्चाटकरं भवेद्रिपोः सद्यः ॥४५॥

सेनां संस्तम्भयितुं विषतरुसुमनःसहस्रकं जुहुयात् ।
तावद्भिस्तत्पत्रैर्जुहुयान्मन्त्री च तां निवर्तयितुम् ॥४६॥

विषतरुमयीं च शत्रोः प्रतिकृतिमसकृत्प्रतिष्ठितप्राणाम् ।
छित्त्वा च्छित्त्वा काकोलूकवसाक्तैः सहस्रमष्टौ च ॥४७॥

असितचतुर्दश्यां तद्गात्रैर्जुहुयादरण्यकेऽर्धनिशि ।
त्रिचतुर्दशीप्रयोगादर्वाङ् म्रियते रिपुर्न सन्देहः ॥४८॥

स्ववसारक्तोपेतैर्जुहुयात्पत्रैरुलूकवायसयोः ।
म्रियतेऽरातिर्मत्तस्तून्मत्तसमित्सहस्रहोमेन ॥४९॥

संस्थापितानिलां तां प्रतिकृतिमुष्णोदके विनिक्षिप्य ।
प्रजपेदुन्मादः स्याच्छत्रोर्दुग्धाभिषेकतः शान्तिः ॥५०॥

रविबिम्बगतामरुणां करयुगपरिकॢप्तशूलतर्जनिकाम् ।
ध्यात्वायुतं प्रजप्यान्मारयितुं सद्य एव रिपुनिवहम् ॥५१॥

असिखेटकरार्कस्था क्रुद्धा मारयति सैव जपविधिना ।
सिंहस्था बाणधनुष्करा समुच्चाटयेदरीनचिरात् ॥५२॥

विषतरुसमिदयुतहुतादथ करिणो रोगिणो भवन्त्यचिरात् ।
तत्पर्णैश्च विनाशस्तेषामुच्चाटनं च तत्पुष्पैः ॥५३॥

आनित्यसमिद्धोमाद्रोगा नश्यन्ति दन्तिनामचिरात् ।
तत्पुष्पैर्मुधराक्तैर्होमाच्च वशीभवन्ति मातङ्गाः ॥५४॥

त्रिमधुरयुतैरनित्यकपत्रैर्मत्ता भवन्ति ते सद्यः ।
रक्षाकरस्तु करिणां तज्जापितपञ्चगव्यलेपः स्यात् ॥५५॥

आज्यतिलराज्यनित्यकदुग्धोदकपञ्चगव्यतण्डुलकैः ।
सघृतैश्च प्रत्येकं सहस्रहवनं गजाश्वर्धनकृत ॥५६॥

द्विजभूरुहं महान्तं छित्त्वा निर्भिद्य पञ्चधा भूयः ।
आशाक्रमेण पञ्चायुधा विधेयाश्च साधुशिल्पविदा ॥५७॥

शङ्खः सनन्दकोऽरिः शाङ्र्गः कौमोदकी दिशाक्रमतः ।
पञ्चेति पञ्चगव्ये निधाय जप्याच्च पञ्चसाहस्रम् ॥५८॥

तावद्धृतेन जुहुयात्तेष्वथ सम्पात्य साधु सम्पातम् ।
पुनरपि तावज्जप्त्वा मध्याद्यवटेषु पञ्चगव्ययुतम् ॥५९॥

संस्थाप्य समीकृत्य च बलिं हरेत्तत्र तत्र तन्मन्त्रैः ।
पुरराष्ट्रग्रामाणां कार्या रक्षैवमेव मन्त्रविदा ॥६०॥

यस्मिन्देशे विहिता रक्षेयं तत्र वर्धते महालक्ष्मीः ।
धनधान्यसमृद्धिः स्याद्रिपुचोराद्याश्च नैव बाधन्ते ॥६१॥

पद्मोत्पलकुमुदहुतैर्नृपपत्नीब्राह्मणान्वशीकुरुते ।
कह्लारलोणहोमैर्विट्छूद्राञ्जातिभिस्तथा ग्रामम् ॥६२॥

अथवारिदरगदाम्बुजकरं मुकुन्दं विचिन्त्य रविबिम्बे ।
व्यत्यस्तपुरुषभगवतिपदं मनुं जपतु सर्वसिद्धिकरम् ॥६३॥

साध्याख्याक्षरर्गिभतं मनुममुं पत्रे लिखित्वा च त-
च्चक्रीहस्तमृदा कृतप्रतिकृतेर्विन्यस्य मन्त्री हृदि ।
सप्ताहं त्वथ पुत्तलीमभिमुखे संस्थाप्य सन्ध्यात्रये
जप्यादष्टशतं चिराय वशतां गच्छत्यसौ निश्चयः ॥६४॥

व्रीहीणां जुहुयान्नरोऽष्टशतकं संवत्सराद्ब्रीहिमा-
न्गोदुग्धैः पशुमान्धृतैः कनकवान्दध्ना च सर्र्विद्धमान् ।
अन्नैरन्नसमृद्धिमांश्च मधुभिः स्याद्रत्नवान्दूर्वया-
प्यायुष्मान्प्रतिपद्धुतेन महतीं सद्यः श्रियं प्राप्नुयात् ॥६५॥

छान्तं मरुत्तुरीयवर्णयुतं सवाद्यं
संवीपस्य शूलिनिपदं च सदुष्टशब्दम् ।
पञ्चान्तकं सदहनं परिभाष्य हान्तं
हुम्फड्द्विठान्तमिति शूलिनिमन्त्रमेतत् ॥६६॥

ऋषिर्दीर्घतमाश्छन्दः ककुब्दुर्गा च देवता ।
दुर्गा हृद्वरदा शीर्षं शिखा स्याद्विन्ध्यवासिनी ॥६७॥

वर्म चासुरर्मिदन्या युद्धपूर्वप्रिये तथा ।
त्रासयद्वितयं चास्त्रं देवसिद्धसुपूजिते ॥६८॥

नन्दिन्यन्ते रक्षयुगं महायोगेश्वरीति च ।
शूलिन्याद्यं तु पञ्चाङ्गं हुम्फडन्तमितीरितम् ।
अङ्गकर्मैव रक्षाकृत्प्रोक्तं ग्रहनिवारणम् ॥६९॥

बिभ्राणा शूलबाणास्यरिसदरगदाचापपाशान्कराब्जै-
र्मेघश्यामा किरीटोल्लिखितजलधरा भीषणा भूषणाढ्या ।
सिंहस्कन्धाधिरूढा चतसृभिरसिखेटान्विताभिः परीता
कन्याभिर्भिन्नदैत्या भवतु भवभयध्वंसिनी शूलिनी वः ॥७०॥

एवं विचिन्त्य पुनरक्षरलक्षमेनं
मन्त्री जपेत्प्रतिजुहोतु दशांशतोऽन्ते ।
आज्येन साज्यहविषा प्रयजेच्च देवी-
मङ्गाष्टशक्तिनिजहेतिदिशाधिनाथैः ॥७१॥

दुर्गा च वरदा विन्ध्यवासिन्यसुरर्मिदनी ।
युद्धप्रिया देवसिद्धपूजिता नन्दिनी तथा ॥७२॥

महायोगेश्वरी चाष्टशक्तयः समुदीरिताः ।
रथाङ्गशङ्खासिगदाबाणकार्मुकसंज्ञिताः ॥७३॥

सशूलपाशा यष्टव्या दिक्क्रमादष्ट हेतयः ।
दीक्षाजपहुतार्चाभिः सिद्धिः कर्म समाचरेत् ।
आमयोन्मादभूतापस्मारक्ष्वेलशमादिकम् ॥७४॥

उद्घूर्णैः प्रहरणकैरुदीर्णवेगैः
शूलाद्यैर्निजमथ शूलिनीं विचिन्त्य ।
आविश्य क्षणमिव जप्यमानमन्त्र-
स्यावृत्त्या द्रुतमपयान्ति भूतसङ्घाः ॥७५॥

अन्तराथ पुनरात्मरोगिणामम्बिकामपि निजायुधाकुलाम् ।
संविचिन्त्य जपतोऽरिमुद्रया विद्रवन्त्यवशविग्रहा ग्रहाः ॥७६॥

अहिमूषिकवृश्चिकादिजं वा बहुपात्कुक्कुरलूतिकोद्भवं वा ।
विषमाशु विनाशयेन्नराणां प्रतिपत्त्यैव च विन्ध्यवासिनी सा ॥७७॥

आधाय बाणे निशितेऽथ देवीं क्षेमङ्करीं मन्त्रमिमं जपित्वा ।
तद्वेधनादेव विपक्षसेना दिशो दशाधावति नष्टसंज्ञा ॥७८॥

आत्मानमार्यां प्रतिपद्य शूल-
पाशान्वितां वैरिबलं प्रविश्य ।
मन्त्रं जपन्नाशु परायुधानि
गृह्णाति मुष्णाति च बोधमेषाम् ॥७९॥

तिलसिद्धार्थैर्जुहुयाल्लक्षं मन्त्री सपत्नामयुतम् ।
स तु रोगाभिहतात्मा मृतिमेति न तत्र सन्देहः ॥८०॥

त्रिमधुरयुक्तैश्च तिलैरष्टसहस्रं जुहोति योऽनुदिनम् ।
अप्रतिहतास्य शक्तिर्भूयात्प्रागेव वत्सरतः ॥८१॥

र्सिपषाष्टशतहोमतोऽमुना वाञ्छितं सकलमब्दतो भवेत् ।
दूर्वया त्रिकयुजेप्सितं लभेत्सम्यगष्टशतसङ्ख्यया हुतात् ॥८२॥

क्षुरिकाकृपाणनखरा मन्त्रेणानेन साधु सञ्जप्ताः ।
सम्पाताज्यसुसिक्ता अप्रतिहतशक्तयो भवन्ति युधि ॥८३॥

गोमयविहिताङ्गुलिकां जुहुयाच्छतमष्टपूर्वकं मन्त्री ।
दिवसैः सप्तभिरिष्टौ द्विष्टौ च मिथो वियोगिनौ भवतः ॥८४॥

अस्पृष्टकुं गोमयमन्तरिक्षे सङ्गृह्य जप्त्वा त्रिसहस्रमानम् ।
धियासतां वै निखनेन्नराणां संस्तम्भनं द्वारि चमूमुखे च ॥८५॥

पानीयान्धःपाणिमार्यां प्रसन्नां
ध्यात्वा ग्रामं वा पुरं वापि गच्छन् ।
जप्त्वा मन्त्रं तर्पयित्वा प्रविष्टो
मृष्टं भोज्यं प्राप्नुयाद्भृत्यवर्गैः ॥८६॥

आर्कैर्मन्त्री त्रिमधुरयुतैरर्कसाहस्रमिध्मै-
राश्वत्थैर्वा त्वतिविशदचेतास्तिलैर्वा जुहोतु ।
यानुद्दिश्यावहितमनसा तन्मये सम्यगग्नौ
ते वश्याः स्युर्विधुरितधियो नात्र कार्यो विचारः ॥८७॥

कुर्यात्प्रयोगानपि दावदुर्गाकल्पोदितान्वै मनुनामुना च ।
मन्त्री जपार्चाहुतितर्पणाद्यान्नाल्पो हि मन्वोरनयोर्विशेषः ॥८८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे त्रयोदशः पटलः ॥

N/A

References : N/A
Last Updated : January 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP