संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| त्रयोविंशः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः त्रयोविंशः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य त्रयोविंशः पटलः Translation - भाषांतर अथ प्रवक्ष्यामि नृसिंहमन्त्रस्यानुष्टुभः सङ्ग्रहतो विधानम् ।साङ्गं सजापं सहुतक्रमं च सार्चाविधानं निजवाञ्छिताप्त्यै ॥१॥उग्रं वीरयुतं महान्तिकमथो विष्णुं ज्वलन्तान्वितंसम्प्रोक्त्वाथ च सर्वतोमुखनृसिंहार्णं तथा भीषणम् ।भद्रं मृत्युयुतं च मृत्युमपि च प्रोक्त्वा नमाम्यायुतंभूयोऽहम्पदमुद्धरेन्मनुमिमं मन्त्री समस्तार्थकम् ॥२॥ब्रह्मा प्रजापतिर्वा प्रोक्त ऋषिर्नारदश्च विद्वद्भिः ।छन्दोऽनुष्टुबुदाहृतमथ विष्णुर्देवता नृसिंहाख्यः ॥३॥वर्णैश्चतुर्भिरुदितं हृदयं शिरश्चतावद्भिरष्टभिरथास्य शिखा प्रदिष्टा ।षड्भिश्च वर्म नयनं च चतुर्भिरस्त्रंप्रोक्तं क्रमेण मनुनाक्षरशः षडङ्गम् ॥४॥सशिरोललाटदृग्युगमुखकरपदसन्धिकेषु साग्रेषु ।उदरहृदोर्गलपाश्र्वेष्वपरे ककुदि क्रमान्न्यसेद्वर्णान् ॥५॥प्रतिपत्तिरस्य चोक्ता प्रसन्नता क्रूरता विशेषेण ।द्विविधा प्रसन्नया स्यात्मसाधनपूजान्यया प्रयोगविधिः ॥६॥जान्वोरासक्ततीक्ष्णस्वनखरुचिलसद्बाहुसंस्पृष्टकेश-श्चक्रं शङ्खं च दोभ्र्यां दधदनलसमज्योतिषा भग्नदैत्यः ।ज्वालामालापरीतं रविशशिदहनत्रीक्षणं दीप्तजिह्वं ।दंष्ट्रोग्रं धूतकेशं वदनमपि वहन्पातु वो नारसिंहः ॥७॥उद्यद्भास्वत्सहस्रप्रभमशनिनिभत्रीक्षणैर्विक्षरन्तंवह्नीनह्नाय विद्युत्ततिविततसटाभीषणं भूषणैश्च ।दिव्यैरादीप्तदेहं निशितनखलसद्बाहुदण्डैरनेकैःसम्भिन्नं भिन्नदैत्येश्वरतनुमतनुं नारसिंहं नमामि ॥८॥नरसिंहममुं धियैव पूर्वं प्रणिपत्याघ्र्यकपाद्यसाचमाद्यैः ।प्रयजेत्सहगन्धपुष्पधूपादिभिरेवं प्रवरैश्च नृत्तगीतैः ॥९॥सुविशदमतिरथ बहिरपि सम्यक्सम्पूज्य वैष्णवं पीठम् ।तत्रावाह्य च नरहरिमुपचारैः सम्यगर्चयेत्प्रवरैः ॥१०॥अङ्गैः प्रथमावृतिरपि पक्षीन्द्रानन्तशर्वकमलभवैः ।सश्रीह्रीधृतिपुष्टिभिरपरोक्ता लोकपालकैरन्या ॥११॥प्राक्प्रत्यग्यमशशिनां दिगाश्रया मूर्तयोऽनलादिषु च ।स्युः शक्तय इत्येवं भक्त्या परया युतोऽर्चयेद्देवम् ॥१२॥द्वात्रिंशके सहस्रैरधिकृतिरयुतैर्भवेत्पुरश्चरणम् ।तावद्भिस्तावद्भिर्लक्षैः सिद्धिः समीरितास्य मनोः ॥१३॥विकृतिद्विगुणसहस्रैर्जुहुयादाज्यान्वितैश्च दुग्धान्नैः ।जपसम्पूर्तौ मन्त्री दिनशः सम्पूजयेच्च नरसिंहम् ॥१४॥विधाय तद्बीजविशिष्टर्किणकं चतुश्चतुर्वर्णलसद्दलाष्टकम् ।सुलक्षितं मण्डलमन्यलक्षणैर्निधाय तस्मिन्कलशं प्रपूर्य च ॥१५॥यथोक्तमार्गेण समच्र्य साष्टकं सहस्रसङ्ख्यं प्रजपेन्मनुं ततः ।त्रिरुच्चरन्मन्त्रमथाभिषेचयेद्यमेष मृत्योविरिफ्?निवर्तते मुखात् ॥१६॥वर्णान्तानलभुवनार्धेन्दुभिरुक्तं नृसिंहबीजमिदम् ।तन्नास्ति सम्यगमुना मन्त्रविदा साधितेन यदसाध्यम् ॥१७॥विभवानुरूपतोऽस्मै दातव्या दक्षिणा च निजगुरवे ।प्राणप्रदानकत्र्रे न तु कार्यं वित्तशाठ्यममलधिया ॥१८॥सम्प्रीणयित्वा गुरुमात्मशक्त्या सम्भोजयेद्विप्रवरान्यथावत् ।स त्वैहिकी सिद्धिमवाप्य शुद्धं परं परत्रापि पदं समेति ॥१९॥दूर्वात्रिकैरष्टसहस्रसङ्ख्यै-राराध्य मन्त्री जुहुयादथाप्सु ।शान्तिं प्रयान्त्येव तदोपसर्गाआपो हि शान्ता इति च श्रुतिः स्यात् ॥२०॥उत्पाते महति सति ह्युपद्रवाणांहोमोऽयं भवति च शान्तिदो नराणाम् ।यद्वान्यन्निजमनसेप्सितं च कामंतच्चाप्नोत्यखिलनृणां प्रियश्च भूयात् ॥२१॥दुःस्वप्नेष्वपि दृष्टेष्ववशिष्टा जाग्रता निशा नेया ।जपमानमन्त्रशक्त्या सुस्वप्नो भवति तत्क्षणादेव ॥२२॥चरन्वने दुष्टमृगाहिचोरव्यालाकुले मन्त्रममुं जपेद्यः ।असाधितं साधितमेव तस्य न विद्यते भीर्बहुरूपजाता ॥२३॥जप्तेनाष्टसहस्रं कलशेनाप्यहिविषार्तमभिषिञ्चेत् ।अतिविषमेण विषेणाप्यसौ विमुक्तः सुखी भवति ॥२४॥मूषिकलूतावृश्चिकबहुपादाद्युत्थितं विषं शमयेत् ।अष्टोत्तरशतजापान्मनुरयमभिमन्त्रितं च भस्माद्यम् ॥२५॥सशिरोक्षिकण्ठदद्गलकुक्षिरुजाज्वरविसर्पवमिहिक्काः ।मन्त्रौषधाभिचारककृतान्विकारानयं मनुः शमयेत् ॥२६॥नरहरिवपुषात्मना गृहीतं हरिणशिशुं निजवैरिणं विचिन्त्य ।क्षिपतु गगनतः क्षितौ सुदूरं यमनुदिनं प्रतिचाट्यते समासात् ॥२७॥यां च दिशं प्रति मनुना क्षिप्तोऽसौ तां दिशं प्रयात्यचिरात् ।पुत्रकलत्रधनादींस्त्यक्त्वा त्वपुनर्निवृत्तये सहसा ॥२८॥नरहरिवपुषात्मना निजारिं नखरखराग्रसमग्रभिन्नदेहम् ।क्षणमिव निहतं विचिन्त्य खादन्निव जपतां मनुमेष नाशमेति ॥२९॥पूर्वतरे मृत्युपदे विधाय निजसाध्यनाम मन्त्रितमः ।क्रूरेण चक्षुषा तं दहन्निवालोक्य जपतु सप्तदिनम् ॥३०॥दिनशोऽष्टोध्र्वसहस्रं म्रियते रिपुरस्य नात्र सन्देहः ।मारणकर्म न शस्तं क्रियते यद्ययुतमथ जपेच्छान्त्यै ॥३१॥वश्याकृष्टिद्वेषण मोहोच्चाटादिकानि यदि वाञ्छेत् ।तदर्हया प्रतिपत्त्या तत्तत्कर्म प्रसाधयेन्मन्त्री ॥३२॥दिनमनु दिननाथं पूजयित्वा दिनादौनरहरिमपि सम्यक्प्रोक्तमार्गेण मन्त्री ।तदनु तदनुमत्या भस्मना मन्त्रितेनप्रतिरचयतु राज्ञे वाप्यभीष्टाय रक्षाम् ॥३३॥न्यासोक्तेषु स्थानेष्वपि न्यसेद्भस्मना समन्त्रार्णम् ।अखिलोपद्रवशान्त्यै सम्पत्त्यै वाञ्छितार्थसंसिद्ध्यै ॥३४॥अथ परराष्ट्रजयेच्छो राज्ञः कुर्यात्प्रयोगविधिमेवम् ।नरहरिमपि विधिना तं हिरण्यकशिपुद्विषं समभ्यच्र्य ॥३५॥तस्य पुरस्ताद्विधिवन्निधाय वह्निं विभीततरुकाष्ठैः ।उज्ज्वलिते च ज्वलने समूलतूलैः शरेध्मदशशतकैः ।खादन्निवोच्चरन्मनुमरींश्च भिन्दन्निव क्षिपेत्समिधः ॥३६॥हुत्वा परराष्टेरभ्यः पृतनां सन्नाह्य च पुरस्तस्याः ।निघ्नन्तं रिपुसेनां स्मरन्नृसिंहं पुरेव दितितनयात् ॥३७॥यावज्जितारिरेष्यति नृपतिस्तावज्जपेत्स्मरन्नेवम् ।सेन्द्रसुरासुररक्षोयक्षानपि जयति का कथा मनुजे ॥३८॥श्रीकामः श्रीप्रसूनैर्दशकमथ शतानां हुनेद्बिल्वकाष्ठै-स्तत्पत्रैर्वा प्रसूनैः सुमतिरथ समिद्भिः फलैर्वा तदीयैः ।पुत्रेप्सुः पुत्रजीवेन्धनचितदहने तत्फलैर्वा सहस्रंदूर्वाभिस्त्वायुषेऽब्दादभिमतमखिलं प्राप्नुयान्मन्त्रजापी ॥३९॥ब्राह्मीं वचां वाष्टशताभिजप्तांप्रातः समद्यान्नृहिंर विचिन्त्य ।सम्प्राप्य मेधां स तु वेदशास्त्र-निष्णातधीः स्यादपि वासरेण ॥४०॥उक्तैः किमत्र बहुभिर्मनुनामुनैवसम्प्रार्थितं सकलमेव लभेद्विधिज्ञः ।तस्मादमुं भजत तत्प्रतिपन्नचित्ताःसंसारसागरसमुत्तरणार्थिनो ये ॥४१॥पाशाज्रुशान्तरितशक्तिनृसिंहबीजै-र्वर्मास्त्रयुङ्मनुरयं कथितः षडर्णः ।ऋष्यादिकाः स्वभवपङ्क्तिकनारसिंहावर्णैश्च मन्त्रनिहितैः कथितं षडङ्गम् ॥४२॥अव्यान्निव्र्याजरौद्राकृतिरभिविवृतास्योल्लसत्तीक्ष्णदंष्ट्र-श्चक्रं शङ्खं च पाशाज्रूशकुलिशगदादारणाख्यान्दधानः ।रक्ताकारश्च नाभेरध उपरि सितो दिव्यभूषाविशेषोदेवोऽर्काग्नीन्दुनेत्रो निखिलसुखकरो नारसिंहश्चिरं वः ॥४३॥हृल्लेखान्तःस्थसाध्यं दहनपुरयुगाश्रिस्थमन्त्रार्णमन्तः-सिंहानुष्टुप्चतुर्वर्णकलसितदलाढ्यं कलाकेसरं च ।वृत्तोद्यद्व्यञ्जनावेष्टितमवनिपुराश्रस्थचिन्तोपलं त-द्यन्त्रं रक्षःपिशाचामयविषयरिपुध्वंसनं नारसिंहम् ॥४४॥इति विरचितयन्त्रप्रोज्ज्वले मण्डले प्रा-क्समभिहितकषायाम्भोभिरापूर्य कुम्भम् ।प्रतियजतु तदङ्गैरस्त्रभेदैस्तदीयै-स्तदनु मखशताद्यैः साधुवङ्कादिकैश्च ॥४५॥रथचरणशङ्खपाशाज्रुशकुलिशगदाह्वयानि चास्त्राणि ।दारुणमुद्राकरयोर्ययोस्तदीयौ कृपाणखेटाख्यौ ॥४६॥इति कृतदीक्षः प्रजपेदक्षरलक्षप्रमाणकं मन्त्रम् ।जुहुयाच्च षट्सहस्रं जपावसाने घृतेन शुद्धेन ॥४७॥खरमञ्जरीसमुत्थं जुहुयादथ मञ्जरीसहस्रतयम् ।प्रस्नातपञ्चगव्यं सप्तदिनं भूतशान्तये मन्त्री ॥४८॥छिन्नरुहां समिधां त्रिसहस्रं यश्च जुहोति चतुर्दिनमात्रम् ।दुग्धयुजं नचिरान्मनुजानां होमविधिज्र्वरशान्तिकरः स्यात् ॥४९॥अस्य यन्त्रमभिलिख्य भूर्जके साधु चाथ तृणराजपत्रके ।मन्त्रजप्तमपि शीर्षबन्धनाज्जूर्तिविभ्रमशिरोरुजापहम् ॥५०॥रक्तोत्पलैः प्रतिदिनं मधुरत्रयाक्तै-र्यो वा जुहोति नियमेन सहस्रसङ्ख्यैः ।मासेन वाञ्छितमवाप्स्यति मन्त्रजापीस्याद्वत्सरेण धनधान्यसमृद्धगेहः ॥५१॥आरक्तैस्तरणिसहस्रकं प्रफुल्लै-रम्भोजैस्त्रिमधुरसंयुतैर्जुहोति ।लक्ष्मीः स्यादथ महती महत्तथायुःसम्प्राप्तः सकलजगत्प्रियश्च भूयात् ॥५२॥लाजाभिस्त्रिमधुरसंयुताभिरह्नोमासार्धं प्रतिजुहुयान्मुखे सहस्रम् ।कन्यार्थी प्रतिलभते वरोऽथ कन्यांकन्या वा भवति वरार्थिनी वराढ्या ॥५३॥तिलैः सराजीखरमञ्जरीसमि-द्धविधृतैश्च द्विसहस्रसङ्ख्यकैः ।प्रजुह्वतो नैव रुजा ग्रहोद्भवान चाभिचारक्षतिरस्य जायते ॥५४॥दशाधिकशतैः पयोधृतयुतैश्च दूर्वात्रयै-र्हुनेद्दिनमुखेऽपि यो नरहिंर विचिन्त्यानले ।अवाप्य स तु दीर्घमायुरखिलैर्वियुक्तो गदैःसुखी भवति मानवो निजकलत्रपुत्रादिभिः ॥५५॥विस्तारैः किं प्रतिजपति यो मन्त्रमेनं यथोक्तंलब्ध्वा कामान्समभिलषितानाशु मन्त्री स भूयः ।द्रव्यैराढ्यो द्विजनृपवरैः पूजितः शान्तचेताःस्यादप्यन्ते परमपरिशुद्धं परं धाम विष्णोः ॥५६॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे त्रयोविंशः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP