संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| प्रथमः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः प्रथमः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य प्रथमः पटलः Translation - भाषांतर अकचटतपयाद्यैः सप्तभिर्वर्णवर्गै-रिवरचितमुखबाहापादमध्याख्यहृत्का ।सकलजगदधीशा शाश्वता विश्वयोनिर्इवतरतु परिशुद्धिं चेतसः शारदा वः ॥१॥अथाभवन्ब्रह्महरीश्वराख्याःपुरा प्रधानात्प्रलयावसाने ।गुणप्रभिन्ना जगतोऽस्य सृष्टि-स्थितिक्षयस्पष्टनिविष्टचेष्टाः ॥२॥स्वनिष्पत्तिं च कृत्यं च ते विचिन्त्य समाविदन् ।वक्तारमजमव्यक्तमरूपं मायिनं विभुम् ॥३॥मूत्र्याभासेन दुग्धाब्धौ झषशङ्खसमाकुले ।मरुत्सङ्घट्टनोत्कीर्णलहरीकणशीतले ॥४॥उद्यदादित्यकिरणप्रशान्तशिशिरोदये ।पूर्णचन्द्रकरामर्शप्रतिक्षुब्धजलाशये ॥५॥अनन्तभोगे विमले फणायुतविराजिते ।शयितं शार्ङ्गिणं शर्वशौरिपद्मभुवस्तदा ॥६॥तुष्टुवुर्हृष्टमनसो विष्टरश्रवसं विभुम् ।सूक्तिभिः स्तुतिभिः प्रीतः स्वमूर्ति स व्यदर्शयत् ॥७॥नीलोत्पलदलप्रख्यां नीलकुञ्चितमूर्धजाम् ।अष्टमीचन्द्रविभ्राजल्ललाटामायतभ्रुवम् ॥८॥रक्तारविन्दनयनामुन्नसीमरुणाधराम् ।मन्दस्मिताधरमुखीं लसन्मकरकुण्डलाम् ॥९॥कम्बुग्रीवां पृथुद्व्यंसविसरद्भुजमण्डलाम् ।अनेकरत्नप्रत्युप्तवलयाङ्गदमुद्रिकाम् ॥१०॥हारतारावलीराजत्पृथूरोव्योममण्डलाम् ।कौस्तुभोद्भासितोरस्कां श्रीवत्सद्युतिदीपिताम् ॥११॥लसदौदरिकाबन्धभास्वरां सम्भृतोदरीम् ।गम्भीरनाभिं विपुलजघनां पीतवाससम् ॥१२॥पृथुवृत्तोरुमापूर्णजानुमण्डलबन्धुराम् ।वृत्तजङ्घां गूढगुल्फां प्रपदाजितकच्छपाम् ॥१३॥तनुदीर्घाङ्गुलीभास्वन्नखराजिविराजिताम् ।चक्रस्वस्तिकशङ्खाब्जध्वजाज्र्तिपदद्वयाम् ॥१४॥तां दृष्ट्वा तरलात्मानो विध्यधोक्षजशङ्कराः ।अतिष्ठन्नितिकर्तव्यमूढास्तत्राब्रवीदजः ॥१५॥स्वामिन्प्रसीद विश्वेश के वयं केन भाविताः ।किम्मूलाः किङ्क्रियाः सर्वमस्मभ्यं वक्तुमर्हसि ॥१६॥इति पृष्टः परं ज्योतिरुवाच प्रमिताक्षरम् ।यूयमक्षरसम्भूताः सृष्टिस्थित्यन्तहेतवः ॥१७॥तैरेव विकृतिं यातास्तेषु वो जायते लयः ।इति तस्य वचः श्रुत्वा तमपृच्छत्सरोजभूः ॥१८॥अक्षरं नाम किं नाथ कुतो जातं किमात्मकम् ।इति पृष्टो हरिस्तेन सरोजोदरयोनिना ॥१९॥मूलार्णमर्णविकृतीर्विकृतेर्विकृतीरपि ।तत्प्रभिन्नानि मन्त्राणि प्रयोगांश्च पृथग्विधान् ॥२०॥वैदिकांस्तान्त्रिकांश्चैव सर्वानित्थमुवाच ह ।प्रकृतिः पुरुषश्चेति नित्यौ कालश्च सत्तम ॥२१॥अणोरणीयसी स्थूलत्स्थूला व्याप्तचराचरा ।आदित्येन्द्वादितेजोमद्यद्यत्तत्तन्मयी विभुः ॥२२॥न श्वेतरक्तपीतादिवर्णैर्निर्धार्य सोच्यते ।न गुणेषु न भूतेषु विशेषेण व्यवस्थिता ॥२३॥अन्तरान्तर्बहिश्चैव देहिनां देहपूरणी ।स्वसंवेद्यस्वरूपा सा दृश्या देशिकर्दिशतैः ॥२४॥ययाकाशस्तमो वापि लब्धा या नोपलभ्यते ।पुन्नपुंसकयोस्तुल्याप्यङ्गनासु विशिष्यते ॥२५॥प्रधानमिति यामाहुर्या शक्तिरिति कथ्यते ।या युष्मानपि मां नित्यमवष्टभ्यातिवर्तते ॥२६॥साहं यूयं तथैवान्यद्यद्वेद्यं तत्तु सा स्मृता ।प्रलये व्याप्यते तस्यां चराचरमिदं जगत् ॥२७॥सैव स्वां वेत्ति परमा तस्या नान्योऽस्ति वेदिता ।सा तु कालात्मना सम्यङ्मयैव ज्ञायते सदा ॥२८॥लवादिप्रलयान्तोऽयं कालः प्रस्तूयते ह्यज ।नलिनीपत्नसंहत्यां सूक्ष्मसूच्यभिवेधने ॥२९॥दले दले तु यः कालः स कालो लववाचकः ।लवैस्त्रुटिः स्यात्त्रिंशद्भिः कलां तावत्त्रुटिं विदुः ॥३०॥काष्ठा तावत्कला ज्ञेया तावत्काष्ठो निमेषकः ।सोऽङ्गुलिस्फोटतुल्यश्च मात्राष्टाभिस्तु तैः स्मृता ॥३१॥कालेन यावता स्वीयो हस्तः स्वं जानुमण्डलम् ।पर्येति मात्रा सा तुल्या स्वयैकश्वासमात्रया ॥३२॥षष्ट्युत्तरैस्तु त्रिशतैर्निश्वासैर्नाडिका स्मृता ।द्विनाडिका मुहूर्तः स्यात्त्रिंशद्भिस्तैरर्हिनशम् ॥३३॥त्रिंशद्भिरप्यहोरात्रैर्मासो द्वादशभिस्तु तैः ।संवत्सरो मानुषोऽयमहोरात्रं दिवौकसाम् ॥३४॥तथा दिव्यैरहोरात्रैस्त्रिशतैः षष्टिसंयुतैः ।दिव्यः संवत्सरो ज्ञेयो दिव्यैः संवत्सरैस्तु तैः ॥३५॥भवेद्वादशसाहस्रैर्भिन्नैरेकं चतुर्युगम् ।तैः सहस्रैः शतानन्द तवैकं दिनमिष्यते ॥३६॥तावती तव रात्रिश्च कथिता कालवेदिभिः ।तथाविधैरहोरात्रैंस्त्रिशद्भिर्मासमृच्छति ॥३७॥तथाविधैर्द्वादशभिर्मासैरब्दस्तव स्मृतः ।तथाविधानामब्दानां शतं त्वमपि जीवसि ॥३८॥तवायुर्मम निःश्वासः कालेनैवं प्रचोद्यते ।स जानाति विपाकांश्च तस्यां सम्यग्व्यवस्थितान् ॥३९॥सोऽन्वीक्ष्य त्वादृशामायुः परिपाकं प्रदास्यति ।प्रकृतेश्च क्वचित्कालो विकृतिं प्रतिपादयेत् ॥४०॥सा तत्त्वसंज्ञा चिन्मात्रज्योतिषः सन्निधेस्तथा ।विचिकीर्षुर्घनीभूत्वा क्वचिदभ्येति बिन्दुताम् ॥४१॥कालेन भिद्यमानस्तु स बिन्दुर्भवति त्रिधा ।स्थूलसूक्ष्मपरत्वेन तस्य त्रैविध्यमिष्यते ॥४२॥स बिन्दुनादबीजत्वभेदेन च निगद्यते ।बिन्दोस्तस्माद्भिद्यमानाद्रवोऽव्यक्तात्मको भवेत् ॥४३॥स रवः श्रुतिसम्पन्नैः शब्दब्रह्मेति कथ्यते ।तद्विस्तारप्रकारोऽयं यथा वक्ष्यामि साम्प्रतम् ॥४४॥अव्यक्तादन्तरुदितविभेदगहनात्मकम् ।महन्नाम भवेत्तत्त्वं महतोऽहङ्कृतिस्तथा ॥४५॥भूतादिकवैकारिकतैजसभेदक्रमादहङ्कारात् ।कालप्रेरितया गुणघोषयुजा शब्दसृष्टिरथ शक्त्या ॥४६॥शब्दाद्व्योम स्पर्शतस्तेन वायु-स्ताभ्यां रूपाद्वह्निरेतै रसाच्च ।आपस्त्वेभिर्गन्धतोऽभूद्धराद्याभूताः पञ्च स्युर्गुणानां क्रमेण ॥४७॥खमपि सुषिरचिह्नमीरणः स्या-च्चलनपरः परिपाकवान्कृशानुः ।जलमपि रसवद्घना धरा तेसितशितिपाटलशुभ्रपीतभासः ॥४८॥वृत्तं व्योम्नो बिन्दुषट्काञ्चितं तद्-वायोरग्नेः स्वस्तिकोद्यत्त्रिकोणम् ।अब्जोपेतार्धेन्दुमद्बिम्बमाप्यंस्याद्यज्ञोद्यच्चातुरश्रं धरायाः ॥४९॥निवृत्तिसंज्ञा च तथा प्रतिष्ठाविद्याह्वया शान्तिसशान्त्यतीते ।स्युः शक्तयः पञ्च धरादिभूत-प्रोत्थाः क्रमान्नादकलादिभूताः ॥५०॥पुटयोरुभयोश्च दण्डसंस्थापृथिवी तोयमधः कृशानुरूध्र्वम् ।पवनस्त्वथ पाश्र्वगोऽपि मध्येगगनं भूतगतिस्तनूद्भवेयम् ॥५१॥व्योम्नि मरुदत्र दहनस्तत्रापस्तासु संस्थिता पृथिवी ।सचराचरात्मकानि च तस्यां जातानि सर्वभूतानि ॥५२॥श्रोत्रत्वगक्षिजिह्वाघ्राणान्यपि चेन्द्रियाणि बुद्धेः स्युः ।वाक्पाणिपादपायूपस्थानि च कर्मसंज्ञानि तथा ॥५३॥वचनादाने सगती सविसर्गानन्दकौ च सम्प्रोक्ताः ।वागाद्यर्थाः समना बुद्धिरहज्ररश्चित्तमपि करणम् ॥५४॥भूतेन्द्रियेन्द्रियार्थैरुद्दिष्टस्तत्त्वपञ्चविंशतिकः ।व्यानन्दकैश्च तैरपि तत्त्वचतुर्विंशतिस्तथा प्रोक्ताः ॥५५॥करणोपेतैरेतैस्तत्त्वान्युक्तानि रहितवचनाद्यैः ।भूतानीन्द्रियदशकं समनः प्रोक्तो विकारषोडशकः ॥५६॥अव्यक्तमदहङ्कृतिभूतानि प्रकृतयः स्युरष्टौ च ।तन्मात्राहङ्काराः समहान्तः प्रकृतिविकृतयः सप्त ॥५७॥सत्त्वं रजस्तम इति सम्प्रोक्ताश्च त्रयोगुणास्तस्याः ।तत्सम्बन्धाद्विकृतैर्भेदत्रितयैस्ततं जगत्सकलम् ॥५८॥देवाः सश्रुतयः स्वराः समरुतो लोकाश्च वैश्वानराःकालाः शक्तियुतास्त्रिवर्गसहितास्तिस्रस्तथा वृत्तयः ।नाड्योऽन्यच्च जगत्त्रयेऽत्र नियतं यद्वस्तु सम्बध्यतेविश्वेषां स्थितये चरन्त्यविरतं सूर्येन्दुवैश्वानराः ॥५९॥एष सर्गः समुत्पन्न इत्थं विश्वं प्रतीयते ।विश्वप्रतीतौ हि यतः प्रपञ्चस्त्ववगम्यते ॥६०॥शब्दब्रह्मेति यत्प्रोक्तं तदुद्देशः प्रवत्र्यते ।अतः परमवाच्यं हि स्वसंवेद्यस्वरूपतः ॥६१॥शब्दब्रह्मेति शब्दावगम्यमर्थं विदुर्बुधाः ।स्वतोऽर्थानवबोधत्वात्प्रोक्तो नैतादृशो रवः ॥६२॥स तु सर्वत्र संस्यूतो जाते भूताकरे पुनः ।आविर्भवति देहेषु प्राणिनामर्थविस्मृतः ॥६३॥प्रकृतौ कालनुन्नायां गुणान्तःकरणात्मनि ।देहश्चतुर्विधो ज्ञेयो जन्तोरुत्पत्तिभेदतः ॥६४॥औद्भिदः स्वेदजोऽण्डोत्थश्चतुर्थस्तु जरायुजः ।उद्भिद्य भूमिमुद्गच्छत्यौद्भिदः स्थावरस्तु सः ॥६५॥निर्दष्टस्कन्धविटपपत्रपुष्पफलादिभिः ।पञ्चभूतात्मकः सर्वः क्ष्मामधिष्ठाय जायते ॥६६॥अम्बुयोन्यग्निपवननभसां समवायतः ।स्वेदजः स्विद्यमानेभ्यो भूवह्न्यद्भ्यः प्रजायते ॥६७॥यूकमत्कुणकीटाणुस्त्रुट्याद्याः क्षणभङ्गुराः ।अण्डजो वर्तुलीभूताच्छुक्लशोणितसम्पुटात् ॥६८॥कालेन भिन्नात्पूर्णात्मा निर्गच्छन्प्रक्रमिष्यति ।अहिगोधावयोभेदशिंशुमारादिकश्च सः ॥६९॥जरायुजस्तु ग्राम्यातः क्रियातः स्त्र्यतिसम्भवः ।स जायते चतुर्विंशत्तत्त्वसंयुक्तदेहवान् ॥७०॥स्वस्थानतश्च्युताच्छुक्लाद्बिन्दुमादाय मारुतः ।गर्भाशयं प्रविशति यदा तुल्यं तदापरः ॥७१॥आर्तवात्परमं बीजमादायास्याश्च मूलतः ।यदा गर्भाशयं नेष्यत्यथ सम्मिश्रयेन्मरुत् ॥७२॥मायीयं नाम योषोत्थं पौरुषं कार्मणं मलम् ।आणवं नाम सम्पृक्तं मिलितं तन्मलद्वयम्।७३॥सूक्ष्मरूपाणि तत्त्वानि चतुर्विंशन्मलद्वये ।तत्र युक्तिनयत्याशु ततस्तद्गर्भमारुतः ॥७४॥सङ्क्षोभ्य संवर्धयति तन्मलं शोणिताधिकम् ।स्त्री स्याच्छुक्लाधिकं ना स्यात्समभागं नपुंसकम् ॥७५॥स्वर्गाभिर्मरुदग्न्यद्भिः क्लेद्यते क्वाथ्यते च तत् ।सान्द्रीभूतं तदह्नैव मातुरङ्गुष्ठसम्मितम् ॥७६॥आयामि बुद्बुदाकारं परेऽहनि विजृम्भते ।पक्षेण चतुरश्रं स्यान्मातुर्भुक्तरसात्मवत् ॥७७॥मिलितादपि तस्मात्तु पृथगेव मलद्वयात् ।किट्टभूतद्वयं पूर्वं बीजयुग्मं समुन्नमेत् ॥७८॥ऊध्र्वं तु मरुता नुन्नं तस्मादपि फलद्वयात् ।उभयात्मिक्यधोवृत्ता नाडी दीर्घा भवदृजुः ॥७९॥अवाङ्मुखी सा तस्याश्च भवेत्पक्षद्वये द्वयम् ।नाड्योस्तत्सन्धिबन्धाः स्युः सप्तान्या नाडयो मताः ॥८०॥ततो या प्रथमा नाडी सा सुषुम्नेति कथ्यते ।या वामेडेति सा ज्ञेया दक्षिणा पिङ्गला स्मृता ॥८१॥या वाममुष्कसम्बन्धा सा श्लिष्यन्ती सुषुम्नया ।दक्षिणं वृक्कमाश्रित्य धनुर्वक्रा हृदि स्थिता ॥८२॥वामांसजत्र्वन्तरगा दक्षिणां नाडिकामियात् ।तथा दक्षिणमुष्कोत्था नाडी या वामरन्ध्रगा ॥८३॥अन्या धमन्यो याः प्रोक्ता गान्धारीहस्तिजिह्विका ।सपूषालम्बुषा चैव यशस्विन्यपि शङ्खिनी ॥८४॥कुहूरिति च विद्वद्भिः प्रधाना व्यापिकास्तनौ ।काचिन्नाडी बहिर्वक्त्रा या मातुर्हृदि बध्यते ॥८५॥यथा तत्पुष्टिमाप्नोति केदार इव कुल्यया ।मातुराहाररसजैर्धातुभिः पुष्यते क्रमात् ॥८६॥क्रमवृद्धौ परञ्ज्योतिष्कला क्षेत्रज्ञतामियात् ।सक्षेत्रज्ञं मलं तत्तु सभूतं सगुणं पुनः ॥८७॥सदोषं दूष्यसम्पन्नं जन्तुरित्यभिधीयते ।फलकोशद्वयं तत्तु व्यक्तं पुंसो न तु स्त्रियः ॥८८॥नपुंसकस्य किञ्चित्तु व्यक्तिरत्रोपलक्ष्यते ।मध्यस्थायाः सुषुम्नायाः पर्वपञ्चकसम्भवाः ॥८९॥शाखोपशाखतां प्राप्ताः सिरालक्षत्रयात्परम् ।अर्धलक्षमिति प्राहुः शरीरार्थविशारदाः ॥९०॥तद्भेदांश्च बहूनाहुस्ताभिः सर्वाभिरेव च ।व्याप्नोति सर्वतो वायुर्येन देहः प्रवत्र्यते ॥९१॥देहेऽपि मूलाधारे तु समुदेति समीरणः ।नाडीभ्यामस्तमभ्येति घ्राणतो द्विषडङ्गुले ॥९२॥अहोरात्रमिनेन्दुभ्यमूध्र्वाधोवृत्तिरुच्यते ।वामदक्षिणनाडीभ्यां स्यादुदग्दक्षिणायनम् ॥९३॥अत्रापि चेतनायतोरागतिं बहुधा विदुः ।रेतःशोणितजं प्राहुरेकेऽन्ये मातुराहृतात् ॥९४॥आहाराद्रसजं प्राहुः केचित्कर्मफलं विदुः ।कश्चिदस्य परं धाम्नो व्याप्तिमेव विवक्षति ॥९५॥कश्चित्कर्मप्रकारज्ञः पितुर्देहात्मनासकृत् ।सम्बध्य मथनोद्रेकविधिना शुक्लधातुतः ॥९६॥तत्परन्धाम सौजस्कं सङ्क्रान्तं मारुतेन तु ।ब्रूते रक्तव्यतिकृताद्दीपाद्दीपान्तरं यथा ॥९७॥कश्चित्तु भौतिकव्याप्ते जन्मकाले वपुष्यथ ।कुतश्चिदेत्य जीवात्मा निष्पन्न इति शंसति ॥९८॥बहुना किं पुनः पुंसः सान्निध्यात्प्रविजृम्भिता ।प्रकृतिर्गुणसम्भिन्ना त्रिदोषात्मा महीयसी ॥९९॥पञ्चभूतमयी सप्तधातुभिन्ना च भौतिकैः ।पञ्चभिश्च गुणैर्युक्ता पञ्चेन्द्रियविचारिणी ॥१००॥पञ्चेन्द्रियार्थगा भूयः पञ्चबुद्धिप्रभाविनी ।पञ्चकर्मेन्द्रियगता पञ्चत्वादाप्रवर्तते ॥१०१॥परेण धाम्ना समनुप्रबद्धामनस्तदा सा तु महाप्रभावा ।यदा तु सङ्कल्पविकल्पकृत्यायदा पुर्निनश्चिनुते तदा सा ॥१०२॥स्याद्बुद्धिसंज्ञा च यदा प्रवेत्तिज्ञातारमात्मानमहङ्कृतिः स्यात् ।तदा यदा सा त्वभिलीयतेऽन्त-श्चित्तं च निर्धारितमर्थमेषा ॥१०३॥यदा स्वयं व्यञ्जयितुं यतेतमहीयसी सा करणैः क्रमेण ।तदा तु बिन्दुस्फुटनोद्भवस्यरवस्य सम्यक्प्रविजृम्भितं स्यात् ॥१०४॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे प्रथमः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP