संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| सप्तविंशः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः सप्तविंशः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य सप्तविंशः पटलः Translation - भाषांतर अथ सजपहुताद्यो वक्ष्यते साधुचिन्ता-मणिरभिमतकामप्राप्तिकल्पद्रुमोऽयम् ।अनलकषमरेफप्राणसद्यान्तवाम-श्रुतिहिमधरखड्गैर्मण्डितो मन्त्रराजः ॥१॥ऋषिरपि काश्यप उक्तश्छन्दोऽनुष्टुप्च देवतोमेशः ।यान्तैः षड्भिर्वर्णैरङ्गं वा देवतार्धनारीशः ॥२॥अहिशशधरगङ्गाबद्धतुङ्गाप्तमौलि-स्त्रिदशगणनताङ्घ्रिस्त्रीक्षणः स्त्रीविलासी ।भुजगपरशुशूलान्खड्गवह्नी कपालंशरमपि धनुरीशो बिभ्रदव्याच्चिरं वः ॥३॥हावभावललितार्धनारिकं भीषणार्धमपि वा महेश्वरम् ।पाशसोत्पलकपालशूलिनं चिन्तयेज्जपविधौ विभूतये ॥४॥अथ वा षोडशशूलव्यग्रभुजा त्रिणयनाभिनद्धाङ्गी ।अरुणांशुकानुलेपनवर्णाभरणा च भगवती ध्येया ॥५॥विहितार्चनाविधिरथानुदिनं प्रजपेद्दशायुतमितं मतिमान् ।अयुतं हुनेत्त्रिमधुराद्र्रतरैस्तिलतण्डुलैस्तदवसानविधौ ॥६॥शैवोक्तपीठेऽङ्गपदैर्यथावद् वृक्षेचदुर्गुर्नगशैर्मुखाद्यैः ।समातृभिर्दिक्पतिभिर्महेशं पञ्चोपहारैर्विधिनार्चयीत ॥७॥आरभ्यादिज्वलनं दिक्संस्थैरष्टभिर्मनोरर्णैः ।आराधयेच्च मातृभिरिति सम्प्रोक्तः प्रयोगविधिरपरः ॥८॥कात्पूर्वं हसलिपिसंयुतं जपादौजप्तृणां प्रवरमितीह केचिदाहुः ।प्रासादाद्ययुतजपेन मङ्क्षु कुर्या-दावेशादिकमपि नीरुजां च मन्त्री ॥९॥शिरसोऽवतरन्निशेशबिम्ब-स्थितमज्भिर्वृतमागलत्सुधाद्र्रम् ।अपमृत्युहरं विषज्वराप-स्मृतिविभ्रान्तिशिरोरुजापहं च ॥१०॥निजवर्णविकीर्णकोणवैश्वानरगेहद्वितयावृतत्रिकोणे ।विगतस्वरवीतमुत्तमाङ्गे स्मृतमेतत्क्षपयेत्क्षणाद्ग्रहार्तिम् ॥११॥वहेर्बिम्बे वह्निवत्प्रज्वलन्तंन्यस्त्वा बीजं मस्तके ग्रस्तजन्तोः ।ध्यात्वावेशं कारयेद्बन्धुजीवंतज्जप्तं वा सम्यगाघ्राणनेन ॥१२॥शुक्लादिः शुक्लभाः पौष्टिकशमनविधौ कृष्टिवश्येषु रक्तोरक्तादिः क्षोभसंस्तोभनविधिषु हकारादिको हेमवर्णः ।धूम्रोऽङ्गामर्दनोच्चाटनविधिषु समीरादिकोऽदादिरुक्तःपीताभः स्तम्भनादौ मनुरतिविमलो भुक्तिभाजामदादिः ॥१३॥कृष्णाभः प्राणगेहस्थितमथ नयने ध्यातमान्ध्यं विधत्तेबाधिर्यं कर्णरन्ध्रेर्ऽइदतमपि वदने कुक्षिगं शूलमाशु ।मर्मस्थाने समीरं सपदि शिरसि वा दुःसहं शीर्षरोगंवाग्रोधं कण्ठनालेऽवनिवृतमथ तन्मण्डले पीतमेतत् ॥१४॥प्रालेयत्विषि च स्वरावृतमिदं नेत्रे स्मृतं तद्रुजंयोनौ वामदृशोऽस्रविस्रुतिमथो कुक्षौ च शूलं जपेत् ।विस्फोटे सविषे ज्वरे तृषि तथा रक्तामये बिभ्रमेदाहे शीर्षगदे स्मरेद्विधिमिमं सन्तृप्तये मन्त्रवित् ॥१५॥साध्याया हृदयकुशेशयोदरस्थंप्राणाख्यं दृढमवबध्य बीजवर्णैः ।तेजस्तच्छिरसि विधुं विधाय वातेनाकर्षेदपि निजवाञ्छयैव मन्त्री ॥१६॥पारिभद्रसुमनोदलभद्रं वह्निबिम्बगतमक्षरमेतत् ।संस्मरेच्छिरसि यस्य स वश्यो जायते न खलु तत्र विचारः ॥१७॥निजनामगर्भमथ बीजमिदंप्रविचिन्त्य योनिसुषिरे सुदृशः ।वशयेत्क्षणाच्छिततया मनसःस्रवयेच्च शुक्लमथ वा रुधिरम् ॥१८॥निजशिवशिरःश्रितं तद्बिम्बं स्मृत्वा प्रवेशयेद्योनौ ।यस्यास्तत्सम्पर्कात्तां च क्षरयेत्क्षणेन वशयेच्च ॥१९॥पररेफगर्भधृतसाध्यपदं त्रिकगं हुताशयुतषट्कवृतम् ।विगतस्वरावृतमगारभुवि स्थितमेतदाशु वशयेद्रमणान् ॥२०॥मधुरत्रयसंयुतेन शाली-रजसा पुत्तलिकां विधाय तेन ।मनुना जुहुयात्तया विभज्यत्रिदिनं यस्य कृते वशो भवेत्सः ॥२१॥विषपावकोद्यदभिधानगदं ठगतं कुकोणयुतलाङ्गलिकम् ।अहिपत्रकॢप्तपरिजप्तमिदं शिरसो रुजं प्रशमयेददनात् ॥२२॥कण्ठे केनावनद्धार्पितदहनयुजा मज्जया मेन वामंदक्षं संवेष्ट्य वक्षोरुहमनलसमीरौभिरंसद्वयं च ।वक्त्रे नाभौ च दीर्घं सुमतिरथ विनिक्षिप्य बिन्दुं निशेशंवक्षस्याधाय बद्ध्वा चिरमिव विहरेत्कन्दुकैरात्मसाध्यैः ॥२३॥कृत्वा वह्नेः परमनु मनुं बन्धुजीवेन तस्मि-न्नाधायाग्निं विधिवदभिसम्पूज्य चाज्यैः शताख्यम् ।त्रैलोहाख्ये प्रतिविहितसम्पातमष्टोत्तरं त-द्धुत्वा जप्तं दुरितविषवेतालभूतादिहारि ॥२४॥साध्याख्यागर्भमेनं लिख दहनपुरे र्किणकायां षडश्रंबाह्येऽश्रिष्वङ्गमन्त्रान्दलमनु परितो बीजवर्णान्विभज्य ।भूयोऽचः कादियादीस्त्रिषु वृतिषु कुगेहाश्रके नारसिंहंतस्मिन्कार्यो यथावत्कलशविधिरयं सर्वरक्षाकरः स्यात् ॥२५॥टान्ते लिख्यात्कलाभिर्वृतमनुमनलावासयुग्मेन वह्नि-द्योतत्कोणेन बाह्ये तदनु सवितृबिम्बेन काद्यार्णभाजा ।तद्बाह्ये क्ष्मापुराभ्यां लिखितनृहरियुक्ताश्रकाभ्यां तदेत-द्यन्त्रं रक्षाकरं स्याद् ग्रहगदविषमक्ष्वेलजूत्र्यादिरोगे ॥२६॥बिम्बद्वन्द्वे कृशानोर्विलिखतु मणिमेनं ससाध्यं तदश्रि-ष्वग्न्यादीन्व्यञ्जनार्णान्स्वरयुगलमथो सन्धिषट्के यथावत् ।तारावीतं च बाह्ये कुगृहपरिवृतं गोमयाब्रोचनाभ्यांलाक्षाबद्धं निबध्याज्जपमहितमिदं साधु साध्योत्तमाङ्गे ॥२७॥लक्ष्म्यायुःपुष्टिकरं परं च सौभाग्यवश्यकृत्सततम् ।चोरव्यालमहोरगभूतापस्मारहारि यन्त्रमिदम् ॥२८॥साध्याख्याकर्मयुक्तं दहनपुरयुगे मन्त्रमेनं तदश्रि-ष्वग्निज्वालाश्च बाह्ये विषतरुविटपे साग्रशाखे लिखित्वा ।जप्त्वाष्टोध्र्वं सहस्रं नृहरिकृतधिया स्वापयेत्तत्र शत्रु-व्याघ्रादिक्रोडचोरादिभिरपि च पिशाचादयो न व्रजन्ति ॥२९॥ससिद्धसुरपूजितः सकलवर्गसंसाधकोग्रहज्वररुजापहो विषविसर्पदोषापहः ।किमत्र बहुर्निथनामभिमतार्थचिन्तामणिःसमुक्त इह सङ्ग्रहान्मनुवरस्तु चिन्तामणिः ॥३०॥षष्ठस्वरो हुतवहस्तययोस्तुरीया-वाद्यस्वरो मनुरयं कथितः फडन्तः ।अस्य त्रिको निगदितो मनुरप्यनुष्टुप्छन्दश्च चण्डसहितो मनुदेवतेशः ॥३१॥सप्तज्वलज्वालिनिभिस्तटेन च हतेन च ।सर्वज्वालिनिसंयुक्तैः फडन्तैरङ्गमाचरेत् ॥३२॥अव्यात्कपर्दकलितेन्दुकरः करात्त-शूलाक्षसूत्रककमण्डलुटज्र् ईशः ।रक्ताभवर्णवसनोऽरुणपज्र्जस्थोनेत्रत्रयोल्लसितवक्त्रसरोरुहो वः ॥३३॥कृतसन्दीक्षो मन्त्री जप्याल्लक्षत्रयं च मन्त्रमिमम् ।जुहुयात्त्रिमधुरसिक्तैः सतिलैरपि तण्डुलैर्दशांशेन ॥३४॥व्याघातसमिद्भिर्वा मनुजापी तावतीभिरथ जुहुयात् ।पूर्वोक्तार्चापीठे गन्धाद्यैरर्चर्येच्च चण्डेशम् ॥३५॥चण्डचण्डाय चेत्युक्त्वा प्रवदेद्विद्महेपदम् ।चण्डेश्वराय च प्रोक्त्वा धीमहीपदमुच्चरेत् ॥३६॥तन्नश्चण्ड इति प्रोक्त्वा भूयो ब्रूयात्प्रचोदयात् ।एषा तु चण्डगायत्री जपात्सान्निध्यकारिणी ॥३७॥अङ्गैः समातृभिर्मन्त्री लोकेशैः सम्प्रेपूजयेत् ।कूर्मो विष्णुयुतो दण्डी बीजमस्योच्यते बुधैः ॥३८॥वदेच्चण्डेश्वरायेति बीजादिहृदयान्तिकम् ।अर्चनादिष्विमं मन्त्रं यथावत्सम्प्रयोजयेत् ॥३९॥एवं जपहुतार्चाभिः सिद्धमात्रे तु मन्त्रके ।वाञ्छितादधिकं लभ्येत्काञ्चनं नात्र संशयः ॥४०॥त्र्यक्षरस्य जपो यावत्तावज्जप्यात्षडक्षरम् ।ऐहिकामुष्मिकीं सिद्धिं यथा हि लभते नरः ॥४१॥कृत्वा पिष्टेन शल्याः प्रतिकृतिमनलं चापि काष्ठैश्चिताना--माधायारभ्य पुंसस्त्रिमधुरलुलिता दक्षिणाङ्गुष्ठदेशात् ।छित्त्वा च्छित्त्वाष्टयुक्तं शतमथ जुहुयाद्योषितां वामपादा-द्विप्रादीनां चतुर्णां वशकरमनिशं मन्त्रमेतद्धुतान्तम् ॥४२॥अनुदिनमष्टशतं यो जुहुयात्पुष्पैरनेन मन्त्रेण ।सप्तदिनैः स तु लभते वासस्तद्वर्णसङ्काशम् ॥४३॥अहरहरष्टशतं यो मन्त्रेणानेन तर्पयेदीशम् ।तस्य तु मासचतुष्कादर्वाक्सञ्जायते महालक्ष्मीः ॥४४॥साध्यक्र्षाङ्घ्रिपचर्मणां सुमसृणां पिष्टैश्च लोणैः समंकृत्वा पुत्तलिकां प्रतिष्ठितचलां जप्त्वा च रात्रौ हुनेत् ।सप्ताहं पुरुषोऽङ्गना यदि चिरं वश्यं त्ववश्यं भवे-दस्मिञ्जन्मनि नात्र चोद्यविषयो देहान्तरे संशयः ॥४५॥इति चण्डमन्त्रविहितं विधिव-द्विधिमादरेण य इमं भजते ।स तु वाञ्छितं पदमिहाप्य पुनःशिवरूपतामपि परत्र लभेत् ॥४६॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे सप्तविंशः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP