पञ्चमः पटलः

प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.


अथ प्रवक्ष्ये विधिवन्मनूनां दीक्षाविधानं जगतो हिताय ।
येनोपलब्धेन समाप्नुवन्ति सिद्धिं परत्रेह च साधकेशाः ॥१॥

दद्याच्च दिव्यभावं क्षिणुयाद्दुरितान्यतो भवेद्दीक्षा ।
मननात्तत्त्वपदस्य त्रायत इति मन्त्र उच्यते भयतः ॥२॥

दैवादिकस्याप्यथ मानुषादेः पैत्रादिकस्याप्यथ वत्सरस्य ।
आदिं समारभ्य समग्रसम्पद्यतेन दीक्षाविधिमारभेत ॥३॥

शुभकर्मणि दीक्षायां मण्टपकरणे गृहादिविधिषु तथा ।
विहितो वास्तुबलिः स्याद्रक्षाविघ्नोपशान्तिसम्पद्भ्यः ॥४॥

अभवत्पुराथ किलवास्तुपुमानिति विश्रुतो जगदुपद्रवकृत् ।
चतुरश्रसंस्थितिरसौ निहितो निहतः क्षितौ सुरगणैर्दितिजः ॥५॥

तद्देहसंस्थिता ये देवास्ते विश्रुतास्त्रिपञ्चाशत् ।
मण्डलमध्याद्यच्र्या यथा तथोक्तक्रमेण कथ्यन्ते ॥६॥

कृत्वावनिं समतलां चतुरश्रसंस्था-
मष्टाष्टकोद्यतपदां च सकोणसूत्राम् ।
तस्या चतुष्पदसमन्वितमध्यकोष्ठे
ब्रह्मातु साधकवरेण समर्चनीयः ॥७॥

प्राग्याम्यवारुणोदग्दिक्कोष्ठचतुष्पदेषु समभियजेत् ।
आर्याख्यं सविवस्वत्संज्ञं मित्रं महीधरं क्रमशः ॥८॥

कोणद्वयार्धकोष्ठेष्वच्र्याः सावित्रसवितृशक्राह्वाः ।
सेन्द्रजयरुद्रतज्जयसापश्च तथापवत्सकोऽग्न्याद्याः ॥९॥

अश्रेः पाश्र्वोत्थपदद्वन्द्वे शर्वं गुहार्यमणौ च तथा ।
जम्भकपिलिपिञ्छाख्यौ चरकिविदार्यौ च पूतनाः प्रोक्ताः ॥१०॥

अर्घपदाद्यन्तासु च चतसृषु दिक्षु क्रमेण बहिरच्र्याः ।
वासवयमजलशशिनामष्टावष्टौ च मन्त्रिणा विधिना ॥११॥

ईशानाख्यः स पर्जन्यो जयन्तः शक्रभास्करौ ।
सत्यो वृषान्तरिक्षौ च देवताः प्रागुदीरिताः ॥१२॥

अग्निः पूषा च वितथो यमश्च ग्रहरक्षकः ।
गन्धर्वो भृङ्गराजश्च मृगो दक्षदिगाश्रिताः ॥१३॥

नित्र्र+तिदौवारिकश्चैव सुग्रीवो वरुणस्तथा ।
पुष्पदन्तासुरौ शोषरोगौ प्रत्यग्दिगाश्रिताः ॥१४॥

वायुर्नागश्च मुख्यश्च सोमो भल्लाट एव च ।
अर्गलाख्योऽदितिस्तद्वद्दितिः सौम्यदिगाश्रिताः ॥१५॥

इतीरितानामपि देवतानां चित्राणि कृत्वा रजसा पदानि ।
पयोऽन्धसा साधुबलिर्विधेयो द्रव्यैश्च वा तन्त्रविशेषसिद्धैः ॥१६॥

भूयो भूमितले समे विरहिते लोमास्थिलोष्टादिभिः
कर्तव्यं नवसप्तपञ्चकमितैर्हस्तैः परीणाहतः ।
युक्तं द्वारचतुष्ककल्पितपयोभूरुट् चतुस्तोरणं
दर्भस्रक्परिवीतमुज्ज्वलतलं स्यात्संवृतं मण्डपम् ॥१७॥

सप्ताहतो वा नवरात्रतो वा प्रागेव दीक्षादिवसाद्यथावत् ।
सपालिकापञ्चमुखीशरावचतुष्टये बीजनिवापमुक्तम् ॥१८॥

अन्यस्मिन्भवने सुसंवृततरे शुद्धे स्थले मण्डलं
कुर्यात्प्राग्वरुणायतं पदचतुष्कोपेतभानूदरम् ।
पीतारक्तसितासितं प्रतिपदं वह्व्यादिशर्वान्तिकं
याम्योदीच्यसमायतं प्रणिगदन्त्यन्ये च तन्मन्त्रिणः ॥१९॥

वैष्णव्यस्त्वथ पालिका अपि चतुर्विंशाङ्गुलोच्छ्रायकाः
वैरिञ्च्यो घटिकास्तु पञ्चवदना द्व्यष्टाङ्गुलोच्छ्रायकाः ।
शैवाः स्युर्द्विषडङ्गुला अपि शरावाह्वा जलक्षालिताः
सूत्रैश्च प्रकलय्य पङ्क्तिषु च ताः प्रोक्तक्रमाद्विन्यसेत् ॥२०॥

पृथगपि शालीतण्डुलपूर्णासु सदभबद्धकूर्चासु ।
मृद्वालुकाकरीषैः क्रमेण पूर्णानि तानि पात्राणि ॥२१॥

शालीकङ्गुश्यामातिलसर्षपमुद्गमाषनिष्पावाः ।
खल्वाढकीसमेता बीजानि विदुः प्ररोहयोग्यानि ॥२२॥

प्रक्षाल्य तानि निवपेदभिमन्त्र्य मूल-
बीजेन साधकवरस्त्वपि पात्रकेषु ।
विप्राशिषा च विधिवत्प्रतिपाद्यमान-
शङ्खादिमुख्यतरपञ्चमहास्वनैश्च ॥२३॥

हारिद्राद्भिः सम्यगभ्युक्ष्य वस्त्रै-
राच्छाद्याद्भिः सिञ्चतां पञ्चघोषैः ।
सायम्प्रातः शर्वरीषु प्रदद्या-
दुक्तौद्र्रव्यैस्तद्बलिं साधकेशः ॥२४॥

भूतपितृयक्षनागब्रह्मशिवा देवताश्च विष्ण्वन्ताः ।
ताभ्यः क्रमेण रात्रिषु सप्तसु वा नवसु बलिर्देयः ॥२५॥

लाजतिलनक्तरजो दधिसक्त्वन्नानि भूतकूराख्यम् ।
पित्र्यं तिलतण्डुलकं सोडुम्बिकधानलाजकं याक्षम् ॥२६॥

केरोदसक्तुपिष्टं नागं पद्माक्षतं च वैरिञ्च्यम् ।
अन्नापूपं शैवं गुलोदनं वैष्णवं च दुग्धान्नम् ॥२७॥

कृसरं च वैष्णवेयं यदि नवरात्रं क्रमेण बलिरुक्तः ।
तारादिकैर्नमोऽन्तैः स्वैः स्वैरपिनामभिश्च बलिमन्त्रः ॥२८॥

पात्राणि त्रिविधान्यपि परितः पुनरष्टादिक्षु बलिकॢप्तिः ।
बीजारोपणकर्म प्रथितमिदं सार्वकामिकं भवति ॥२९॥

प्रागेव लक्षणयुतानि च मण्टपेऽस्मि-
न्कुण्डानि कारयतु सम्यगथो दिशासु ।
आखण्डलार्कभववारिपभाधिपानां
दोर्मात्रकाणि विलसद्गुणमेखलानि ॥३०॥

चतुरश्रमर्धशशिबिम्बविलसितमथ त्रिकोणम् ।
पद्मदलरुचिरवृत्तमिति ब्रुवते सुधाविधिषु कुण्डलक्षणम् ॥३१॥

विंशद्भिश्चतुरधिकाभिरङ्गुलीभिः
सूत्रेणाप्यथ परिसूत्र्य भूमिभागम् ।
ताभिश्च प्रखनतु तावतीभिरेकां
त्यक्त्वा चाङ्गुलिमपि मेखलाश्च कार्याः ॥३२॥

सत्त्वपूर्विकगुणान्विताः क्रमाद्-
द्वादशाष्टाचतुरङ्गुलोच्छ्रिताः ।
सर्वतोऽङ्गुलिचतुष्कविस्तृता
मेखलाः सकलसिद्धिदा मताः ॥३३॥

योनिस्तत्पश्चिमस्यामथ दिशि चतुरश्रस्थलारब्धनाळा
तन्मध्योल्लासि रन्ध्रोपरिपरि वितताश्वत्थपत्रानुकारा ।
उत्सेधायामकाभ्यां प्रकृतिविकृतिसंज्ञाङ्गुलाष्टाङ्गुला स्या-
द्विस्तृत्या द्वादशार्धाङ्गुलमितनमिताग्रा निविष्टेव कुण्डे ॥३४॥

अथवा दिशि कुण्डमुत्तरस्यां प्रविदध्याच्चतुरश्रमेकमेव ।
गदितैरपि लक्षणैः समेतापघनं दृष्टिमनोहरं च कान्त्या ॥३५॥

ततो मण्टपमध्ये तु स्थण्डिलं गोमयाम्बुना ।
उपलिप्य यथान्यायं तस्य मध्ये निधापयेत् ॥३६॥

सूत्रं प्राक् प्रत्यगात्ताग्रं विप्राशीर्वचनैः सह ।
गुणितेनाभितो मत्स्यौ मध्यादारभ्य विन्यसेत् ॥३७॥

तन्मध्यस्थितयाम्योदगग्रं सूत्रं निधापयेत् ।
ततो मध्यात्सपद्धस्तमानेन च दिशं प्रति ॥३८॥

सूत्रेषु मकरान्न्यस्येत्स्पष्टानन्योन्यतः समात् ।
सूत्राग्रमकरेभ्यस्तु न्यसेत्कोणेषु मत्स्यकान् ॥३९॥

कोणमत्स्यस्थिताग्राणि दिक्षु सूत्राणि पातयेत् ।
ततो भवेच्चतुष्कोष्ठं चतुरश्रं च मण्डलम् ॥४०॥

तत्राग्निमारुतं सूत्रं नैत्र्र+तेशं निपातयेत् ।
प्राग्याम्यवारुणोदीच्यसूत्राग्रमकरेषु च ॥४१॥

निहिताग्रयुगं सूत्रं चतुष्कं प्रतिपातयेत् ।
कृत एवं भवेयुस्ते कोणकोष्ठेषु मत्स्यकाः ॥४२॥

एषु प्राग्वारुणात्सूत्रान्याम्योदीच्यां निपातयेत् ।
षट्पञ्चाशत्पदानि स्युरधिकानि शतद्वयात् ॥४३॥

यदा तदाजो विभजेत्पदानि क्रमशः सुधीः ।
पदैः षोडशभिर्मध्ये पद्मं वृत्तत्रयान्वितम् ॥४४॥

तैरष्टचत्वारिंशद्भी राशिः स्याद्वीथ्यशीतिभिः ।
सद्वादशैः शतपदैः शोभायुग्द्वारकोणकम् ॥४५॥

द्वाराणि पदषट्काणि शोभाख्याः स्युश्चतुष्पदाः ।
चतुष्पदाश्चोपशोभाः षट्पदं कोणकं भवेत् ॥४६॥

वृत्तवीथ्योरारचयेन्मध्ये सूत्रचतुष्टयम् ।
प्राग्याम्यवारुणोदीच्यसूत्राग्रमकरेषु च ॥४७॥

निहिताग्रयुगं सूत्रं तद्भवेद्राशिमण्डलम् ।
र्किणकायाः केसराणां दलसन्धेर्दलस्य च ॥४८॥

दलाग्रवृत्तिराशीनां वीथ्याः शोभोपशोभयोः ।
वृत्तानि चतुरश्राणि व्यक्तास्थानानि कल्पयेत् ॥४९॥

भवेन्मण्डलमध्यार्धे र्किणका चतुरङ्गुला ।
त्र्यङ्गुलाः केसराश्च स्युः सन्धिश्च चतुरङ्गुला ॥५०॥

तथा दलानां मानं तदग्रद्व्यङ्गुलकं भवेत् ।
अन्तरालं पृथग्वृत्तत्रयस्य द्व्यङ्गुलं भवेत् ॥५१॥

ततश्च राशिचक्रं स्यात्स्वं स्वं वर्णविभूषितम् ।
राशिमङ्गुलकैः कुर्यात्षड्भिर्नवभिरेव वा ॥५२॥

द्वात्रिंशदङ्गुलं ह्येतत्परस्तात्तावदिष्यते ।
वृत्तचक्रमुशन्त्येके चतुरश्रं च तद्विदः ॥५३॥

यदि वा वर्तुलमराः स्युश्च द्वादशराशयः ।
ते स्युः पिपीलिकामध्या मातुलङ्गनिभा अपि ॥५४॥

चक्रं च चतुरश्रं च त्र्यश्रा द्वादशराशयः ।
भवेयुः पज्र्जदलनिभा वा कथिता बुधैः ॥५५॥

तद्वही रुचिरान्कुर्याच्चतुरान्कल्पशाखिनः ।
ललितान्रूढकुसुमान्फलपल्लवशोभितान् ॥५६॥

जलजैः स्थलजैर्वापि सुमनोभिः समन्वितान् ।
हंससारसकारण्डशुकभ्रमरकोकिलैः ॥५७॥

मयूरचक्रवाकाद्यैरारूढविटपानतान् ।
सर्वर्तुनिष्कृतिकरान्विलोचनमनोहरान् ॥५८॥

तद्बहिः पार्थिवं कुर्यान्मण्डलं कृष्णकोणकम् ।
मण्डलानि तु तत्त्वज्ञो राश्यन्तान्येव कारयेत् ॥५९॥

राशेरन्यत्र रचयेत्प्रमोहादन्यमण्डलम् ।
आवाह्य देवतामन्यामर्चयेदन्यदेवताम् ॥६०॥

उभाभ्यां लभते शापं मन्त्री तरलदुर्मतिः ।
कालात्मकस्य देवस्य राशिव्याप्तिमजानता ॥६१॥

कृतं समस्तं व्यर्थं स्यादज्ञेन ज्ञानमानिना ।
तस्मात्सर्वप्रयत्नेन राशीन्साधिपतीन्क्रमात् ॥६२॥

अवगम्यानुरूपाणि मण्डलानि च मान्यधीः ।
उपक्रमेदर्चयितुं होतुं वा सर्वदेवताः ॥६३॥

रजांसि पञ्चवर्णानि पञ्चद्रव्यात्मकानि च ।
पीतशुक्लारुणशितिश्यामान्येतानि भूतशः ॥६४॥

हारिद्रं स्याद्रजः पीतं तण्डुलं च सितं भवेत् ।
तथा दोषा रजःक्षारसंयुक्तं रक्तमुच्यते ॥६५॥

कृष्णं दग्धपुलाकोत्थं श्यामं बिल्वदलादिजम् ।
सितेन रजसा कार्याः सीमा रेखा विपश्चिता ॥६६॥

अङ्गुलोत्सेधविस्ताराः सर्वमण्डलकर्मसु ।
पीताः स्यात्र्किणका रक्तशुक्लपीताश्च केसराः ॥६७॥

दलान्यच्छान्यन्तरालं श्यामचूर्णेन पूरयेत् ।
सितरक्तासितैर्वर्णैर्वृत्तत्रयमुदीरितम् ॥६८॥

नानावर्णविचित्रा स्युश्चित्राकाराश्च वीथयः ।
द्वारशोभोपशोभाश्राः सितरक्तनिशासिताः ॥६९॥

राशिचक्रावशिष्टानि कोणानि श‍ृणु यानि वै ।
पीठपादानि तानि स्युररुणान्यपि तानि वा ।
तत्तत्पादोक्तवर्णानि तत्तदाकारवन्ति वा ॥७०॥

अथवारुणानि च दलानि तथा दलसन्धिरप्यसितरुग्भवति ।
असितारुणाच्छरजसा विहितान्यपि वर्तुलानि कथयन्त्यपरे ॥७१॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे पञ्चमः पटलः ॥

N/A

References : N/A
Last Updated : January 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP