संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्|

अष्टाविंशः पटलः

प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.


अथाखिलार्थानुततैव शक्तिर्युक्ता चतुर्विंशतितत्त्वभेदैः ।
गायत्रिसंज्ञापि च तद्विशेषानथ प्रयोगान्कथयामि साङ्गान् ॥१॥

ताराह्वयो व्याहृतयश्च सप्त गायत्रिमन्त्रः शिरसा समेतः ।
अन्वर्थकं मन्त्रमिमं तु वेदसारं पुनर्वेदविदो वदन्ति ॥२॥

जप्यः स्यादिह परलोकसिद्धिकामै-
र्मन्त्रोऽयं महिततरैर्द्विजैर्यथावत् ।
भूदेवा नरपतयस्तृतीयवर्णाः
सम्प्रोक्ता द्विजवचनेन तत्र भूयः ॥३॥

तेषां शुद्धकुलद्वयोत्थमहसामारभ्य तन्तुक्रियां
तारव्याहृतिसंयुता सहशिरा गायत्र्युपास्या परा ।
सन्ध्योपासनया जपेन च तथा स्वाध्यायभेदैरपि
प्राणायामविधानतः सुमतिभिध्र्यानेन नित्यं द्विजैः ॥४॥

आदौ तारः प्रकृतिविकृतिप्रोत्थितोऽसौ च मूला-
धारादारादलिविरुतिराविश्य सौषुम्नमार्गम् ।
आद्यैः शान्तावधिभिरनुगो मात्रया सप्तभेदैः
शुद्धो मूर्धावधि परिगतः शाश्वतोऽन्तर्बहिश्च ॥५॥

प्रकाशितादौ प्रणवप्रपञ्चता
निगद्यते व्याहृतिसप्तकं पुनः ।
सभूर्भुवः स्वश्च महर्जनस्तपः-
समन्वितं सत्यमिति क्रमेण च ॥६॥

भूःपदाद्या व्याहृतयो भूशब्दस्तदि वर्तते ।
तत्पदं सदिति प्रोक्तं सन्मात्रत्वात्तु भूरतः ॥७॥

भूतत्वात्कारणत्वाच्च भुवःशब्दस्य सङ्गतिः ।
सर्वस्वीकरणात्स्वात्मतया च स्वरितीरितम् ॥८॥

महस्त्वाच्च महत्त्वाच्च महःशब्दः समीरितः ।
तदेव सर्वजनता तस्मात्तु व्याहृतिर्जनः ॥९॥

तपो ज्ञानतया चैव तथा तापतया स्मृतम् ।
सत्यं परत्वादात्मत्वादनन्तज्ञानतः स्मृतम् ॥१०॥

प्रणवस्य व्याहृतीनामतः सम्बन्ध उच्यते ।
अकारो भूरुकारस्तु भुवो मार्णः स्वरीरितः ॥११॥

बिन्दुर्महस्तथा नादो जनः शक्तिस्तपः स्मृतम् ।
शान्तं सत्यमिति प्रोक्तं यत्तत्परतरं पदम् ॥१२॥

प्रणवस्य व्याहृतीनां गायत्र्यैक्यभथोच्यते ।
अत्रापि तत्पदं पूर्वं प्रोक्तं तदनुवण्र्यते ॥१३॥

तद् द्वितीयैकवचनमनेनाखिलवस्तुनः ।
सृष्ट्यादिकारणं तेजोरूपमादित्यमण्डले ॥१४॥

अभिध्येयं परानन्दं परं ब्रह्माभिधीयते ।
यत्तत्सवितुरित्युक्तं षष्ठ्येकवचनात्मकम् ॥१५॥

धातोरिह समुत्पन्नं प्राणिप्रसववाचकात् ।
सर्वासां प्राणिजातीनामिति प्रसवितुः सदा ॥१६॥

वरेण्यं वरणीयत्वात्सेवनीयतया तथा ।
भजनीयतया सर्वैः प्रार्थनीयतया स्मृतम् ॥१७॥

पूर्वस्याष्टाक्षरस्यैवं व्याहृतिर्भूरिति स्मृता ।
पापस्य भञ्जनाद्भर्गो भक्तस्निग्धतया तथा ॥१८॥

देवस्य वृष्टिदानादिगुणयुक्तस्य नित्यशः ।
प्रभूतेन प्रकाशेन दीप्यमानस्य वै तथा ॥१९॥

ध्यैचिन्तायामतो धातोर्निष्पन्नं धीमहीत्यदः ।
निगमाद्येन दिव्येन विद्यारूपेण चक्षुषा ॥२०॥

दृश्यो हिरण्मयो देव आदित्ये नित्यसंस्थितः ।
हीनतारहितं तेजो यस्य स्यात्स हिरण्मयः ॥२१॥

यः सूक्ष्मः सोऽहमित्येवं चिन्तयामः सदैव तु ।
द्वितीयाष्टाक्षरस्यैवं व्याहृतिर्भुव ईरिता ॥२२॥

धियो बुद्धीर्मनोरस्य च्छान्दसत्वाद्य ईरितः ।
कृतश्च लिङ्गव्यत्यासः सूत्रात्सुप्तिङुपग्रहात् ॥२३॥

यत्तु तेजो निरुपमं सर्वदेवमयात्मकम् ।
भजतां पापनाशस्य हेतुभूतमिहोच्यते ॥२४॥

न इति प्रोक्त आदेशः षष्ठ्यासौ युष्मदस्मदोः ।
तस्मादस्माकमित्यर्थः प्रार्थनायां प्रचोदयात् ॥२५॥

तृतीयाष्टाक्षरस्यापि व्याहृतिः स्वरितीरिता ।
एवं दश पदान्यस्यास्त्रयश्चाष्टक्षराः स्मृताः ॥२६॥

षडक्षराश्च चत्वारः स्युश्चतुर्विंशदक्षराः ।
इत्थम्भूतं यदेतस्य देवस्य सवितुर्विभोः ॥२७॥

वरेण्यं भजतां पापविनाशनकरं परम् ।
भर्गोऽस्माभिरभिध्यातं धियस्तन्नः प्रचोदयात् ॥२८॥

उक्तैवमत्र गायत्री पुनस्तच्छिर उच्यते ।
आपो ज्योती रस इति सोमाग्न्योस्तेज उच्यते ॥२९॥

तदात्मकं जगत्सर्वं रसस्तेजोद्वयं युतम् ।
अमृतं तदनाशित्वाद्ब्रह्मत्वाद् ब्रह्म उच्यते ॥३०॥

यदानन्दात्मकं ब्रह्म सत्त्यज्ञानादिलक्षणम् ।
तद्भूर्भुवःस्वरित्युक्तं सोऽहमित्योमुदाहृतम् ॥३१॥

एतत्तु वेदसारस्य शिरस्त्वाच्छिर उच्यते ।
लक्षणैरिति निर्दिष्टो वेदसारेषु निष्ठितः ॥३२॥

फलार्थीं तदवाप्नोति मुमुक्षुर्मोक्षमृच्छति ।
उपव्युषस्येवोत्थाय कृतशौचविधिर्द्विजः ॥३३॥

दन्तानां धावनं चैव जिह्वानिर्लेखनादिकम् ।
कृत्वा स्नात्वा समाचम्य मन्त्रपूतेन वारिणा ॥३४॥

आपो हिष्ठा मयेत्यादिऋग्भिस्तिसृभिरेव च ।
अभ्युक्ष्य शुद्धदेहः सन्नपः पीत्वा समाहितः ॥३५॥

सूर्यश्चेत्यनुवाकेन पुनराचम्य पूर्ववत् ।
अभ्युक्ष्य शुद्धदेहः सन्गृहीत्वाञ्जलिना जलम् ॥३६॥

आदित्याभिमुखो भूत्वा तद्गतात्मोध्र्वलोचनः ।
वेदसारं परं ज्योतिर्मूलभूतं परात्परम् ॥३७॥

हृत्स्थं सर्वस्य लोकस्य मण्डलान्तव्र्यवस्थितम् ।
चिन्तयन्परमात्मानमप ऊध्र्वं विनिक्षिपेत् ॥३८॥

एनस्ताः प्रतिनिघ्नन्ति जगदाप्याययन्ति च ।
ततः प्रदक्षिणीकृत्य पुनराचम्य संयतः ॥३९॥

क्रमात्तारादिमन्त्राणामृष्यादीन्विन्यसेत्सुधीः ।
तत्र तु प्रणवस्यादावृषिरुक्तः प्रजापतिः ॥४०॥

छन्दश्च देवी गायत्री परमात्मा च देवता ।
जमदग्निभरद्वाजभृगुगौतमकाश्यपाः ॥४१॥

विश्वामित्रवसिष्ठाख्यावृषयो व्याहृतीरिताः ।
गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च ॥४२॥

त्रिष्टुब्जगत्यौ च्छन्दांसि कथ्यन्ते देवता अपि ।
सप्तार्चिरनिलः सूर्यो वाक्पतिर्वरुणो वृषा ॥४३॥

विश्वेदेवा इति प्रोक्ताः सप्त व्याहृतिदेवताः ।
हृन्मुखांसोरुयुग्मेषु सोदरेषु क्रमान्न्यसेत् ॥४४॥

विश्वामित्रस्तु गायत्र्या ऋषिश्छन्दः स्वयं स्मृतम् ।
सविता देवता चास्य ब्रह्मा शिर ऋषिः स्मृतः ॥४५॥

छन्दश्च देवी गायत्री परमात्मा च देवता ।
स्थानेषु पूर्वमुक्तेषु सताराव्याहृतीन्र्यसेत् ॥४६॥

गायत्रीं शिरसा विद्वाञ्जपेत्त्रिः स्यादुपासना ।
हृदयेऽधस्तथोध्र्वं च महादिक्ष्वपि संयतः ॥४७॥

व्यापयेद्व्याहृतीः सम्यग्गायत्रीं च शिरोयुताम् ।
सार्थसंस्मृति सञ्जप्यात्त्रिरिदं जपलक्षणम् ॥४८॥

आत्मन्यधश्चोपरितो दिग्भ्यस्ताः समुपानयेत् ।
गायत्रीं पूर्ववज्जप्यात्स्वाध्यायविधिरीदृशः ॥४९॥

एतत्त्रयं त्रिशः कुर्यादृजुकायस्त्वनन्यधीः ।
निरुच्छ्वासः स विज्ञेयः प्राणायामो मनीषिभिः ॥५०॥

ध्यानस्य केवलस्यास्य व्याख्याने र्दिशतः क्रमः ।
त्रिव्याहृत्यादिमभ्यस्येद्गायत्रीं सन्ध्ययोः सुधीः ॥५१॥

शतं वाथ सहस्रं वा मन्त्रार्थगतमानसः ।
पूर्वं प्रपञ्चयागोक्तान्गाणपत्यजपादिकान् ॥५२॥

लिपिन्यासादिकान्साङ्गान्महन्न्यासादिसंयुतान् ।
सनिजष्र्यादिकान्सर्वान्विदध्याद्विधिवद्बुधः ॥५३॥

पादसन्धिचतुष्कान्धुनाभिहृद्गलदोर्द्वयी ।
सन्ध्यास्यनासागण्डाक्षिकर्णभ्रूमस्तकेष्वपि ॥५४॥

वारुणैन्दवयाम्यप्रागूध्र्वकेषु मुखेषु च ।
क्रमेण वर्णान्विन्यस्येद्गायत्र्या मन्त्रवित्तमः ॥५५॥

शिरोभ्रूमध्यनयनवक्त्रकण्ठेषु वै क्रमात् ।
हृन्नाभिगुह्यजान्वाख्यपादेष्वपि पदान्न्यसेत् ॥५६॥

स्त्रब्रह्मविष्णुरुद्रैश्च सेश्वरैः ससदाशिवैः ।
ससर्वात्माह्वयैः कुर्यादङ्गन्यासं समाहितः ॥५७।
एवं कृत्वा तु सिद्ध्यर्थं गायत्रीं दीक्षितो जपेत् ।
अथ त्रिगुणिते प्रोक्ते विचित्रे मण्डलोत्तमे ॥५८॥

शक्तिभिः प्राक्समुक्ताभिः सौरं पीठं समर्चयेत् ।
तत्र निक्षिप्य कलशं यथापूर्वोपचारतः ॥५९॥

गव्यैर्वा पञ्चभिः क्वाथजलैर्वा पूरयेत्ततः ।
तस्मिन्नावाह्य कलशे शक्तिमित्थं विचिन्तयेत् ॥६०॥

मन्दाराह्वयरोचनाञ्जनजपाख्याभैर्मुखैरिन्दुम-
द्रत्नोद्यन्मकुटांशुभिस्ततचतुर्विंशार्णचित्रा तनुः ।
अम्भोजारिदराह्वयौ गुणकपालाख्ये च पाशाज्रुशे-
ष्टाभीतीर्दधती भवेद्भवदभीष्टोत्तारिणी तारिणी ॥६१॥

सञ्चिन्त्य भर्तारमिति प्रभाणां त्रिशक्तिमूर्तीः प्रथमं समच्र्य ।
आदित्यशक्त्याख्यचतुष्टयेन यजेद्वितीयावरणे दिनेशम् ॥६२॥

प्रह्लादिनीं प्रभां नित्यां सविश्वम्भरसंज्ञकाम् ।
विलासिनीप्रभावत्यौ जयां शान्तां क्रमाद्यजेत् ॥६३॥

तमोपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम् ।
पद्मालयां परां शोभां भद्ररूपां तथा यजेत् ॥६४॥

मातृभिश्चारुणाभिश्च षष्ठ्यथो सप्तमीग्रहैः ।
आदित्यपार्षदन्तैरप्यष्टमीन्द्रादिभिः सुरैः ॥६५॥

आवृतिः कथिता चेति विधानं परमीदृशम् ।
गन्धादिभिर्निवेद्यान्तैर्दिनेशं सम्यगर्चयेत् ॥६६॥

अथ पुनरमुमभिषिञ्चे-
त्संयतचित्तं च देशिकः शिष्यम् ।
कृतहुतविधिमपि विधिव-
द्विहितबलिं दत्तदक्षिणं गुरवे ॥६७॥

भूयस्त्वक्षरलक्षं गायत्रीं संयतात्मको जप्त्वा ।
जुहुयात्पायसतिलघृतदूर्वाभिर्दुग्धतरुसमिद्भिरपि ॥६८॥

एकैकं त्रिसहस्रं मन्त्री समभीष्टसिद्धये मुक्त्यै ।
अक्षरसहस्रसङ्ख्यं मुख्यतरैः केवलैस्तिलैर्जुहुयात् ॥६९॥

दुरितोच्छेदनविधये मन्त्री दीर्घायुषे च विशदमतिः ।
आयुष्कामो जुहुयात्पायसहविराज्यकेवलाज्यैश्च ॥७०॥

दूर्वाभिः सतिलाभिः सर्वैस्त्रिसहस्रसङ्ख्यकं मन्त्री ।
अथ तु त्रिमधुरसिक्तैररुणैर्जुहुयात्सरोरुहैरयुतम् ॥७१॥

नष्टश्रीरपि भूयो भवति मनोज्ञश्च मन्दिरं लक्ष्म्याः ।
अन्नाद्यथ्र्यन्नैरपि पालाशैब्र्रह्मवर्चसे जुहुयात् ।
सर्वैरेतैर्जुहुयात्सर्वफलाप्त्यै द्विजेश्वरो मतिमान् ॥७२॥

इति परमरहस्यं वेदसारस्य सारं
गदितमजसुशुद्धैर्योगिभिध्र्यानगम्यम् ।
अमुमथ जपहोमध्यानकाले य एवं
भजति स तु विशुद्धः कर्मभिर्मुक्तिमेति ॥७३॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे अष्टविंशः पटलः ॥

N/A

References : N/A
Last Updated : January 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP