विंशः पटलः
प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.
अथ प्रवक्ष्यामि च मासभेद-
भिन्नानि यन्त्राण्यपि सङ्ग्रहेण ।
रेखाक्रमद्युन्ति विचित्रवर्ण-
लसन्ति विष्णोश्च विधानभाञ्जि ॥१॥
यैः कुर्युरिष्टाप्तिनिविष्टचेष्टा धरण्यनन्तादिकसंज्ञकानि ।
व्रतान्यभीष्टार्थदकल्पवृक्षैरनारतेनैव च साधकेशाः ॥२॥
मेषादिकं यच्च चतुष्कमादौ मासेषु तद्वायुगृहावृतं स्यात् ।
सिंहादिकं भूगृहसंवृतं च चापादिकं पार्थिवयुग्मवीतम् ॥३॥
मेषादिकेषु त्रिगुणात्मकानि चराणि भास्वद्गुणितात्मकानि ।
स्थिराण्यतो षड्गुणितानि तज्ज्ञैरुक्तानि यन्त्राण्युभयात्मकानि ॥४॥
तानि त्रिषड्द्वादशकात्मकोक्तैः स्युर्लक्षणैरप्यभिलक्षितानि ।
स्वैः स्वैश्च नामप्रविभक्तरूपभेदैर्बहिर्वेष्टितबिम्बकानि ॥५॥
त्रिगुणितमपि यन्त्रमष्टपत्रा-
वृतमथ षड्गुणितं हि षड्दलाभ्याम् ।
स्थिरगतमपि चाष्टयुग्मपत्रं
तदपि च षड्युगपत्रशोभितं वा ॥६॥
पद्मं चरोभस्थिरसंज्ञकेषु रक्तप्रपीताच्छदलादिवर्णम् ।
मासेषु यन्त्रोदरकॢप्ततत्तन्मासाभिधामूत्र्यभिधाक्षराढ्यम् ॥७॥
केशवमेषादीनां ये दीर्घा मुक्तिराशिवर्णानाम् ।
ते वृत्तानि भवन्ति च निगदितमिति यन्त्रकॢप्तिसामान्यम् ॥८॥
सुवर्णगोक्षीरजपाशिलालपीतेन्द्रनीलारुणकैरवाभाः ।
काश्मीरमेघाञ्जनरोचिषश्च क्रमेण वर्णैरपि केशवाद्याः ॥९॥
इतीरिताश्चारुकिरीटहारकेयूरपीताम्बरकादितुल्याः ।
सचक्रशङ्खाः सगदाम्बुजाश्च सम्पूजनीयास्तपनैः क्रमेण ॥१०॥
धात्रर्यममित्राख्या वरुणांशभगा विवस्वदिन्दुयुताः ।
पूषाह्वयपर्जन्यौ त्वष्टा विष्णुश्च भानवः प्रोक्ताः ॥११॥
प्रथमं केशवधातृकमितरन्नारायणार्यमाख्यं च ।
अन्या माधवमैत्रं परमपि गोविन्दवारुणं प्रोक्तम् ॥१२॥
पञ्चममपि विष्ण्वशं मधुसूदनभगवपञ्च षष्ठमपि ।
त्रिविक्रमविवस्वदाख्यं सप्तममन्यच्च वामनैन्द्रमपि ॥१३॥
श्रीधरपौष्णं नवमं दशमं च हृषीकनाथपर्जन्यम् ।
अम्बुजनाभं त्वाष्ट्रं दामोदरवैष्णवं विधानमिति ॥१४॥
आदौ विधानेषु समेतमूर्तिशक्तीश्चतस्रोऽभियजेद्यथावत् ।
राशिष्वथो भानुयुताश्च मूर्तीः प्रवक्ष्यमाणं च निरूप्य मन्त्री ॥१५॥
वृषहरिवृश्चिककलशात्मकेष्वथो केतुकेशवाद्यैश्च ।
मत्स्यादिकशेषाद्ये समभियजेदन्तरा समावरणे ॥१६॥
प्रानुप्रोद्यत्स्वराष्ट्रद्वितयवृतमहाबीजकं शक्तिलक्ष्मी-
कामैरात्ताग्निकोणं बहिरभिवृतसिंहान्वितक्रोडमन्त्रम् ।
बिन्दूनामन्तरालेष्वपि च विलिखितैः कादिवर्गैश्च युक्तं
षड्भिर्वायव्यगेहावृतमभिमतकामप्रदं मेषयन्त्रम् ॥१७॥
गौरीन्दिरा रतिधृती वसुधा पुष्टिक्षमासरस्वत्यः ।
मूत्र्योश्च मध्यमावृतिराशेशात्प्राग्ध्वजादिरपि कथिता ॥१८॥
हयरथगजभृत्यादिनरिभवशौर्यादिसिद्धिं च ।
तेजो यशश्च विपुलं पूजयितुर्वितनुते विधानमिदम् ॥१९॥
वर्णैराद्यैरमन्तैः समभिवृतमहाबीजमञ्मध्यराज-
त्पान्तक्षाद्यक्षराढ्यं गुहनयनहुताश्रिराजन्मथार्णम् ।
अश्रेर्गण्डद्वयोद्यत्पचलिपिपरिवीतं च नाद्यैः सकान्तैः
काद्यैर्नान्तैश्च यन्त्रं बहुविधफलदं पूजितं स्याद्वृषोत्थम् ॥२०॥
नित्यानन्दा व्यापिनी व्योमरूपा
शान्तिर्विद्यारूपिणी च प्रतिष्ठा ।
कल्यामोघा चण्डिका दीप्तजिह्वे-
त्येवं प्रोक्ताथावृतिः स्यात्तृतीया ॥२१॥
सुरभिहयमहिषदासीदासाभरणांशुकादिसिद्धिकरम् ।
वृषजं विधानमेतद्देहान्ते सिद्धिदं परस्य सतः ॥२२॥
प्रागच्छन्मात्रभिख्यालिपिपरिवृतबीजं स्वरावीतवृत्तं
शाद्यैः क्षान्तैस्तदाद्यैरपि परिवृतगण्डं तदश्रात्तजुंसम् ।
भाद्यैः कान्तैः प्रवीतं मयरलवहयुग्बिन्दुकं वायुगेहा-
वीतं वाञ्छाप्रदानप्रसवगुणयुतं युग्मजं यन्त्रमेतत् ॥२३॥
इन्द्राणी कौमारिका ब्रह्मजाता
वाराह्याख्या वैष्णवी चाथ लक्ष्मीः ।
चामुण्डा माहेश्वरी स्यात्तृतीया
रक्षाप्रज्ञाश्रीप्रदं स्याद्विधानम् ॥२४॥
पाशाद्यष्टाक्षरार्णप्रतिपुटितमहाष्टाक्षरावेष्टितान्त-
र्बीजं शाखान्तरूढे गगननृहरिबीजात्तकोणं बहिश्च ।
कामिन्यष्टाक्षराद्यन्तगहरिहरबीजावृतं प्रत्यनूद्य
द्वर्णाढ्यं वायुगेहस्थितभिति गदितं कर्कटोत्थं च यन्त्रम् ॥२५॥
रक्ता रमा कराली कमला चण्डेन्द्रिरा महोच्छुष्मा ।
श्रीरिति मूर्तियुगलयोर्मध्यगता चावृतीरियं चापि ॥२६॥
भूतिर्विभूतिरुन्नतिनतिधृतिरतयश्च संयतिद्युतयः ।
आवृतिरेका प्रोक्ता श्रीवश्यकरं विधानमिति कथितम् ॥२७॥
ऊष्मार्णाष्टाक्षरावेष्टितहृदयमथ द्वादशार्णात्तकोणं
सान्तः स्थात्माष्टवर्णैः क्रमगतविगतैरुल्लसत्तत्त्वगण्डम् ।
सिंहानुष्टुब्द्वयार्णान्तरितवृतकलालङ्कृतं चाथ वह्नि-
प्राणेशानक्षपाटाश्रितकचटतपत्वच्छलं सिंहयन्त्रम् ॥२८॥
पुष्टिस्तुष्टिर्धृतिरपि कृतिः शान्तिकान्तिप्रमादा
मेधा हर्षा स्मृतिरभिमता कान्तिका स्यात्तृतीया ।
कृष्णः सत्यो नृहरिवरदौ विश्वमूर्त्तिर्वरेण्यः
शौरिः शूरो नरमुरजितौ विष्णुजिष्णू चतुर्थी ॥२९॥
विपक्षनिग्रहं तेजो यशश्च धनसङ्गमम् ।
करोत्यर्चयितृणां च विधानमिति सिंहजम् ॥३०॥
सर्गाद्यान्ताद्यमन्तैरभिवृतहृदयं दण्डिभिश्चापि हाही-
हूहैहौहोभिरात्ताश्रिकमथ तु शिखाद्योतिवर्गान्त्यवर्णम् ।
वर्णैः प्रत्यन्वितैः प्रावृतमवनिपुराश्रोल्लसत्कामबीजं
क्लिन्ने स्वाहार्णयुक्तं महिततरफलं कन्यकोत्थं च यन्त्रम् ॥३१॥
अत्राच्र्यो मधुसूदनस्त्वथ हृषीकेशाह्वयो मोहिनी
वैकुण्ठो विरजा हरिः सरसिजा शाङ्र्गी तमोहारिणी ।
ब्रघ्नाख्यः कमलावती च समुकुन्दाख्यो रमेति क्रमा-
न्मत्स्याद्यैश्च सुताश्च गोमहिषसौभाग्यप्रदं पावनम् ॥३२॥
आद्यैरावीतबीजं ग्रहवलययुतं हुम्फडायुक्तकोणं
बाह्ये पाशाज्रुशार्णावृतमथ युगषण्मूर्तिनामार्णमर्णैः ।
प्रत्यन्वेष्यद्भिरुद्यद्धरियुतहरवर्णैश्च वीतं धरायाः
कोणेषूद्यन्नृसिंहाक्षरमिति कथितं स्यात्तुलायन्त्रमेतत् ॥३३॥
प्राक्प्रोक्तैश्चक्राद्यैरुक्तास्य समावृतिस्तृतीया स्यात् ।
प्रातोपलब्धिमेतत्करोति वाणिज्यलाभं च ॥३४॥
अक्लीबद्वादशाज्द्वादशलिपिवृतहृल्लेखमश्रिद्विषट्क-
प्रोल्लास्यष्टाक्षरोष्मार्र्णकमपि लिपिभिः कादिभिश्चाभिवीतम् ।
तद्बाह्ये चन्द्रबिम्बप्रपुटितवसुधामण्डलाश्रिप्रराज-
त्क्लीबार्णं वृश्चिकोत्थं प्रवरतरफलप्राप्तिदं यन्त्रमेतत् ॥३५॥
चिद्रूपा चिन्मया चिन्तामणिः श्रीः क्षोणिसंज्ञिता ।
रतिश्च पावनी धारा धरणी तारणी तथा ॥३६॥
द्राविणी मोहिनी चेति तृतीयेयं समावृतिः ।
अन्वयाप्तिं धर्मरतिं प्राप्नुयादस्य चार्चनात् ॥३७॥
षट्कोणाबद्धबाणासनविवरलसन्नारसिंहं तदन्तः
शक्तेर्बाह्ये परानुप्ररचितलघुसन्ध्यर्णयुक्पञ्चकाढ्यम् ।
अश्रिष्वाबद्धशिष्टस्वरमुपरिलसच्छूलकं चात्तवर्गं
भूम्योरष्टाश्रकोद्यद्यदुजुहुलवकं चापयन्त्रं तदेतत् ॥३८॥
हर्षाह्वा सुनदारुणा सगगना घोरा रमा द्राविणी
वीरा वीरिणिहारिणी सहरिणी मन्दारिका द्वादश ।
प्रोक्तेयं च समावृतिः पुनरिदं सम्पूजयन्प्राप्नुया-
ल्लक्ष्मीसन्ततिबुद्धिवश्यपटुताकान्तीश्च भक्तिं शुभाम् ॥३९॥
मध्यस्थायाः परीतौ विलसदनुपरात्तस्वरप्राक्परार्धं
सिंहार्णान्ताश्रि गण्डस्फुरितहरिहरार्णं ग्रहार्णावृतं च ।
तद्बाह्ये षोडशार्णाक्षरवृतमुभकुद्योतितं कोणराज-
त्सोऽहं हंसाक्षराढ्यं मकरभवमिदं यन्त्रमिष्टार्थदायि ॥४०॥
मेधा हर्षा श्रद्धा कृपा रतिर्वा सरस्वती प्रीतिः ।
वाणी चेति तृतीया वृतिरुक्ता मकरजे विधानेऽस्मिन् ॥४१॥
स्वक्षेत्रर्वितनः स्युग्र्रहाः क्रमात्केशवादिमूर्तियुताः ।
अर्चयितृणामेतद्धनधान्यसमृद्धिदं विधानं स्यात् ॥४२॥
शक्तिश्रीकामबीजैः पुटितहरिहरब्रह्मभिश्चावृतान्त-
र्बीजं कोणद्विषट्कस्फुरितनृहरिबीजप्रतिद्योतितं च ।
आदिक्षान्तैश्च वर्णैर्वृतमवनिपुरद्वन्द्वकोणान्तकाम-
श्रीशक्तिक्ष्मार्णचिन्तामणिमनु तदिदं श्रीकरं कुम्भयन्त्रम् ॥४३॥
अच्युतकामिनिभानुमनोज्ञा विश्वतनुर्विमला हरिभद्रे ।
सूक्ष्मसरस्वतिनन्दनसन्ध्या स्यादिति मध्यगता वृतिरेषा ॥४४॥
अवनिपशुपुत्रसम्पदमपि पितृसौख्यं च हृत्प्रबोधं च ।
कुरुते विधानमेतत्प्रयोक्तुरन्ते च निर्वृतिं परमाम् ॥४५॥
व्यन्वेष्यद्ध्रस्वदीर्घाच्समभिवृतमहाबीजमश्रेषु षट्सु
द्योतत्सौर्मारलक्ष्मीगिरिदुहितृधराबीजकप्रोंसमेतम् ।
वीतं काद्यैः कषान्तैर्बहिरपि च कुकोणाष्टवो?ल्लासिहंसं
सर्वार्थान्साधकेभ्यो वितरति विधिवत्कल्पितं मीनयन्त्रम् ॥४६॥
हृष्टिर्वृष्टिस्तुष्टिरिष्टा सुपुष्टिः
कान्तिर्मेधा मङ्गला वामसंज्ञा ।
दुर्गा प्रज्ञा भारती मध्यसंस्था
वाक्सामथ्र्यं श्रीकरं स्याद्विधानम् ॥४७॥
एभिर्विधानैर्धरणीव्रतादि-
दीक्षाविधीन्ये विधिना प्रकुर्युः ।
ते पुण्यभाजो नितरां समृद्धाः
सपुत्रदाराः सुखिनो भवन्ति ॥४८॥
दीर्घायुषो मुख्यतरेन्दिराश्च महाप्रभावाः स्वसमानवीर्याः ।
कलेबरान्ते विगताधयस्ते विष्णोरनन्यं पदमाप्नुवन्ति ॥४९॥
एभिर्विधेयाः कलशाश्च तत्तन्मासोक्तयन्त्रेषु नरैर्यथावत् ।
निजेप्सितं प्राप्य मनोरथान्ते भुक्तेश्च मुक्तेरनुभावकाः स्युः ॥५०॥
कर्षोन्मिते च हाटकपट्टे पत्रं विलिख्य चतुरश्रे ।
तद्वित्र्यंशकृते वा कलशेषु विनिक्षिपेच्च दीक्षासु ॥५१॥
अभिषिच्य यन्त्रकनकं गुरवे प्रददातु संयतः सुमतिः ।
दुरितापनोदविधये द्युतये यशसे श्रिये च मतिसंयतये ॥५२॥
एषां यागविधीनामेकेन तु पूजयंस्तदवसाने ।
तत्तन्मूर्तिप्रीत्यै संस्तोतव्योऽनया हरिः स्तुत्या ॥५३॥
(हरिस्तुतिः)
प्रसीद भगवन्मह्यमज्ञानात्कुण्ठितात्मने ।
तवाङ्घ्रिपज्र्जरजोरागिणीं भक्तिमुत्तमाम् ॥५४॥
अज प्रसीद भगवन्नमितद्युतिपञ्जर ।
अप्रमेय प्रसीदास्मद्दुःखहन्पुरुषोत्तम ॥५५॥
स्वसंवेद्यस्वरूपास्मदानन्दात्मन्ननामय ।
अचिन्त्यसार विश्वात्मन्प्रसीदेश निरञ्जन ॥५६॥
प्रसीद तुङ्ग तुङ्गानां प्रसीद शिव शोभन ।
प्रसीद स्पष्ट गम्भीआर गम्भीराणां महाद्युते ॥५७॥
प्रसीद व्यक्त विस्तीर्ण विस्तीर्णानामणोरणो ।
प्रसीदाद्र्राद्र्रजातीनां प्रसीदान्तान्तदायिनाम् ॥५८॥
गुरोर्गरीयः सर्वेश प्रसीदानन्य देहिनाम् ।
जय माधव मायात्मञ्जय केशव केशिहन् ॥५९॥
जय सुन्दर सौम्यात्मञ्जय शाश्वत शङ्खभृत् ।
जय शाङ्र्गधर श्रीमञ्जय नन्दकनन्दन ॥६०॥
जय चक्रगदापाणे जयाजय्य जनार्दन ।
जय रत्नाकराबन्ध किरीटाक्रान्तमस्तक ॥६१॥
जय पक्षिपतिच्छायानिरुद्धार्ककराकर ।
नमस्त नरकाराते नमस्ते मधुसूदन ॥६२॥
नमस्ते नलिनापाङ्ग नमस्ते नयनाञ्जन ।
नमः पापहरेशान नमः सर्वभयापह ॥६३॥
नमः सम्भृतसर्वात्मन्नमः सम्भृतकौस्तुभ ।
नमस्त नयनातीत नमो विक्रान्तवाक्पथ ॥६४॥
नमो विभिन्नज्ञेयांश नमः स्मृतिपथातिग ।
नमस्त्रिमूर्तिभेदेन सर्गस्थित्यन्तहेतवे ॥६५॥
विष्णवे त्रिदशारातिजिष्णवे परमात्मने ।
चक्रभिन्नारिचक्राय चक्रिणे चक्रबन्धवे ॥६६॥
विश्वाय विश्ववन्द्याय विश्वभूतात्मने नमः ।
नमोऽस्तु योगिध्येयाय नमोऽस्त्वध्यात्मरूपिणे ॥६७॥
भुक्तिप्रदाय भक्तानां नमस्ते मुक्तिदायिने ।
मनोवाक्कायचेष्टाः स्युध्र्यानस्तुतिनमस्क्रियाः ॥६८॥
देवेश कर्म सर्वं मे भवेदाराधनं तव ।
विषयेष्वपि सङ्गो मे हुतं विष्णो तवाच्युत ॥६९॥
(इति हरिस्तुतिः)
इति हवनजपार्चाभेदतो विष्णुपूजा-
निरतहृदयकर्मा यस्तु मन्त्री चिराय ।
स खलु सकलकामान्प्राप्य हृष्टान्तरात्मा
जननमृतिवियुक्तामुत्तमां मुक्तिमेति ॥७०॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे विंशः पटलः ॥
N/A
References : N/A
Last Updated : January 21, 2026

TOP