पञ्चविंशः पटलः
प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.
अथाभिधास्यामि मनुं समासा-
त्प्रासादसंज्ञं जगतो हिताय ।
ये न प्रजप्तेन तथार्चितेन
हुतेन सिद्धिं लभते यथेष्टम् ॥१॥
प्रसादनत्वान्मनसो यथावत्प्रासादसंज्ञास्य मनोः प्रदिष्टा ।
अन्त्यात्तृतीयः प्रतिलोमतः स्यादनुग्रहार्धेन्दुयुतश्च मन्त्रः ॥२॥
ऋषिरस्य वामदेवः पङ्क्तिश्छन्दोऽस्य देवतेशः स्यात् ।
तेनैवाक्लीबकलादीर्घयुजाङ्गानि तस्य बीजेन ॥३॥
शूलाही टज्र्घण्टासिसृणिकुलिशपाशाग्न्यभीतीर्दधानं
दोर्भिः शीतांशुखण्डप्रतिघटितजटाभारमौलिं त्रिणेत्रम् ।
नानाकल्पाभिरामापघनमभिमतार्थप्रदं सुप्रसन्नं
पद्मस्थं पञ्चवक्त्रं स्फटिकमणिनिभं पार्वतीशं नमामि ॥४॥
ईशानादीन्मन्त्रवित्पञ्च मन्त्रानङ्गुष्ठादिष्वङ्गुलीषु क्रमेण ।
न्यस्येदज्भिव्र्युत्क्रमाद्व्योमगाभिह्र्रस्वख्याभिस्ताभिरेवाङ्गुलीभिः ॥५॥
ईशानस्तत्पुरुषोऽघोराख्यो वामदेवसंज्ञश्च ।
सद्योजाताह्वय इति मन्त्राणां देवताः क्रमात्पञ्च ॥६॥
मूर्धाननत्दृद्गुह्यकपादेषु च नामभिः स्वबीजाद्यैः ।
ऊध्र्वप्राग्दक्षोदक्पश्चिमगेष्वाननेषु विन्यस्येत् ॥७॥
प्रतिपाद्य निजं शरीरमेवं प्रजपेदिन्द्रियलक्षकं शिवात्मा ।
जुहुयाच्च दशांशतस्तदन्ते मधुराक्तैः करवीरजप्रसूनैः ॥८॥
अथ वा कुसुमैर्जपासमुत्थैः कमलैर्वा विमलेन पायसेन ।
नृपवृक्षभवैः समिद्वरैर्वा जुहुयात्साधकसत्तमः समृद्ध्यै ॥९॥
अष्टपत्रगुणवृत्तराशिभिर्वीथिकल्पतरुभिः समावृतम् ।
मण्डलं प्रतिविधाय शूलिनः पीठमत्र नवशक्तिभिर्यजेत् ॥१०॥
वामा ज्येष्ठा रौद्री काल्या कलबलाद्यविकलिन्यौ ।
सबलप्रमथिनिसर्वभूतदमन्यौ मनोन्मनीं च यजेत् ॥११॥
तारादिकं नतिमपि प्रोक्त्वा भगवत्पदं चतुथ्र्यन्तम् ।
सकलगुणात्मपदान्ते शक्तिं युक्ताय चेति सम्भाष्य ॥१२॥
भूयोऽनन्तायेति च योगान्ते पीठमात्मने चेति ।
नमसा युक्तं ब्रूयात्पीठाख्योऽयं मनुः समुद्दिष्टः ॥१३॥
न्यासक्रमेण देहे मन्त्री गन्धादिकमपि पूज्य ।
पूर्वोक्तदिक्षु मूर्तीर्विदिक्षु सनिवृत्तिपूर्विकाश्च यजेत् ॥१४॥
सद्यो वेदाक्षमालाभयवरदकरः कुन्दमन्दारगौरो
वामः काश्मीरवर्णोऽभयवरदपरश्चाक्षमालाविलासी ।
अक्षस्रग्वेदपाशाज्रुशडमरुकखट्वाङ्गशूलान्कपालं
बिभ्राणो भीमदंष्ट्रोऽञ्जनरुचिरतनुर्भीतिदश्चाप्यघोरः ॥१५॥
विद्युद्वर्णोऽथ वेदाभयवरदकुठारान्दधत्पूरुषाख्यः
प्रोक्ताः सर्वे त्रिणेत्रा विधृतमुखचतुष्काश्चतुर्बाहवश्च ।
मुक्तागौरोऽभयेष्टाधिककरकमलोऽघोरतः पञ्चवक्त्र-
स्त्वीशो ध्येयोऽम्बुजन्मोद्भवमुररिपुरुद्रेश्वराः स्युः शिवान्ताः ॥१६॥
भूतानां शक्तित्वाद्व्याप्तित्वाज्जगति वा निवृत्त्याद्याः ।
तेजोरूपाः करपदवर्णविहीना मनीषिभिः प्रोक्ताः ॥१७॥
अनन्तसूक्ष्मौ च शिवोत्तमश्च तथैकपूर्वावपि नेत्ररुद्रौ ।
त्रिमूर्तिश्रीकण्ठशिखण्डिनश्च प्रागादिपत्रेषु समर्चनीयाः ॥१८॥
शूलाशनिशरचापोल्लासितदोर्दण्डभीषणाः सर्वे ।
पद्मासनाश्च नानाविधभूषणभूषितास्त्रिणेत्राः स्युः ॥१९॥
पाटलपीतसितारुणशितिरक्तशशिप्रभाश्च धूम्रान्ताः ।
कोटीरघटितविलसच्छशिशकलयुताश्च मूर्तयः क्रमशः ॥२०॥
उमा चण्डेश्वरो नन्दी महाकालो गणेश्वरः ।
वृषो भृङ्गिरिटः स्कन्दः सम्पूज्याश्चोत्तरादितः ॥२१॥
कनकविडूरजविद्रुममरकतमुक्तासिताच्छरक्ताभाः ।
पद्मासनसंस्थाश्च क्रमादुमाद्या गुणान्तिकाः प्रोक्ताः ॥२२॥
पुनराशेशास्तदनु च कुलिशाद्यादिक्रमेण सम्पूज्याः ।
प्रासादविधानमिदं निगदितमिति सकलवर्गसिद्धिकरम् ॥२३॥
अमुना विधिना महेशपूजां दिनशो यः कुरुते समाहितात्मा ।
स तु सम्यगवाप्य दृष्टभोगान्परमन्ते परिपूर्णमेति धाम ॥२४॥
वक्ष्यामि शैवागमसारमष्टत्रिंशत्कलान्यासविधिं यथावत् ।
सपञ्चभिब्र्रह्महरीशपूर्वैः सष्र्यादिकैः साङ्गविशेषकैश्च ॥२५॥
ईशोऽनुष्टुब्भूरीश्वराः स तत्पुरुषसंज्ञगायत्र्यापः ।
पुनरग्न्यनुष्टुबापो वामदेवः कतिभर्गहरस्त्वनुष्टुब्भगयुक् ॥२६॥
इन्द्रियतारसमेतं सर्वज्ञायेति हृच्छिरस्त्वमृते ।
तेजोमालिनिपूर्वं तृप्ताय ब्रह्मशिरस इति कथितम् ॥२७॥
ज्वलितशिखिशिखेत्यनादिबोधाय चान्वितेति शिखा ।
वङ्किआणे वङ्काधराय स्वाहास्वतन्त्राय वर्म नेत्रं च ।
सौ सौ हौ बिन्दुयुतं सम्प्रोक्त्वा लुप्तशक्तये च तथा ॥२८॥
सश्रीपशुहुम्फडनन्तशक्तये तथास्त्रं स्यात् ।
समुनिच्छन्दोदैवतयुक्तं तदङ्गषट्कमिति कथितम् ॥२९॥
करदेहमुखन्यासं मन्त्रैः पूर्ववदाचरेत् ।
कलाः प्रविन्यसेद्देहे वक्ष्यमाणक्रमेण तु ॥३०॥
ताः स्युः पञ्च चतस्रोऽष्टौ त्रयोदश चतुर्द्वयम् ।
अष्टत्रिंशत्कलाः सम्यङ् न्यस्तव्या मन्त्रवित्तमैः ॥३१॥
दिक्षु प्राग्याम्यवारीवसुपनिजभुवामैन्द्रवार्रिकराज्ञां
हृद्ग्रीवांसद्वयीनाभ्युदरचरमवक्षःसु गुह्याज्र्योश्च ।
सोर्वोर्जान्वोः सजङ्घास्फिगुभयकटीपाश्र्वपद्दोस्तलेषु
घ्राणे कं बाहुयुग्मेष्वतिविशदमतिर्विन्यसेदङ्गुलीभिः ॥३२॥
विन्यासः प्रतिमाकृतौ च नितरां सान्निध्यकृत्स्यादयं
देहे चापि शरीरिणां निगदितः सामथ्र्यकारीति च ।
आस्ते यत्र तथामुनैव दिनशो विन्यस्तदेहः पुमा-
न्क्षेत्रं देशममुं च योजनमितं शैवागमज्ञा विदुः ॥३३॥
न्यस्यैवं पञ्चभिब्र्रह्मभिरथ शिवमाराधयेदृग्भिराभि-
र्मध्यप्राग्याम्यसौम्यापरदिशि पुनरङ्गैरनन्तादिभिश्च ।
अन्यो माद्यैर्दिशापैः पुनरपि कुलिशाद्यैर्यजेदेवमुक्तं
पाञ्चब्रह्मं विधानं सकलसुखयशोभुक्तिमुक्तिप्रदं च ॥३४॥
पञ्चाक्षरविहितविधिं वक्ष्ये जपतामभीष्टसिद्धिकरम् ।
सिद्धेन येन देही प्रेत्येह च वाञ्छितं फलं लभते ॥३५॥
मेषो विषो विसर्गी मृत्युः साक्षी सवाक्षरः पवनः ।
ताराद्भवति यदस्मात्तदादिरभिधीयते मनुप्रवरः ॥३६॥
अस्याक्षराण्यमूनि च
पञ्च स्युः पञ्चभूतगानि तथा ।
जगदपि भूतारब्धं
तेन हि जगदात्मतोदितास्य मनोः ॥३७॥
प्रोक्तमृष्यादिकं पूर्वमङ्गवर्णैस्तु मन्त्रकैः ।
अङ्गुलीदेहवक्त्रेषु मूलमन्त्राक्षरादिकान् ॥३८॥
न्यसेत्तत्पुरषाघोरसद्योवामेशसंज्ञकान् ।
सतर्जनीमध्यमान्त्यानामिकाङ्गुष्ठकेषु च ॥३९॥
वक्त्रहृत्पादगुह्याख्यमूर्धस्वपि च नामभिः ।
प्राग्याम्यवारुणोदीच्यवक्त्रेष्वपि च मूर्धसु ॥४०॥
बिभ्रद्दोर्भिः कुठारं मृगमभयवरौ सुप्रसन्नो महेशः
सर्वालङ्कारदीप्तः सरसिजनिलयो व्याघ्रचर्मात्तवासाः ।
ध्येयो मुक्तापरागामृतरसकलिताद्रिप्रभः पञ्चवक्त्र-
स्त्र्यक्षः कोटीरकोटीघटिततुहिनरोचिष्कलोत्तुङ्गमौलिः ॥४१॥
अक्षरलक्षचतुष्कं जप्यात्तावत्सहस्रमपि जुहुयात् ।
शुद्धैस्तिलैर्घृतैर्वा दुग्धान्नैर्दुग्धभूरुहेध्मैर्वा ॥४२॥
तत्पुरुषाद्याः सर्वे प्रधानसम्प्रोक्तबाहुहेतियुताः ।
उल्लासिमुखचतुष्कास्तेजोरूपो विलक्षणस्त्वीशः ॥४३॥
आवृतिराद्या मूर्तिभिरङ्गैरन्या पराप्यनन्ताद्यैः ।
अपरोमादिभिरपरेन्द्राद्यैरपरा तदायुधैः प्रोक्ता ॥४४॥
कथयामि मनोविधानमन्य-
न्मुनिपूज्यं प्रवरं पिनाकपाणेः ।
स्वतनौ परिकल्प्य पीठमङ्गा-
न्यपि विन्यस्य तथैव मन्त्रवर्णान् ॥४५॥
हृन्मुखांसोरुयुग्मेषु षड्वर्णान्क्रमतो न्यसेत् ।
कर्णमूले तथा नाभौ पाश्र्वयुक्पृष्ठहृत्सु च ॥४६॥
मूर्धास्यनेत्रघ्राणेषु दोःपत्सन्ध्यग्रकेषु च ।
सशिरोवक्त्रहृदयजठरोरुपदेष्वपि ॥४७॥
हृदाननपरश्वेणाभीत्याख्यवरदेषु च ।
मुखांसहृदयेषु त्रीन्पदान्पादोरुकुक्षिषु ॥४८॥
ऊध्र्वाधःक्रमतो न्यस्येद्गोलकान्यासमुत्तमम् ।
पुनस्तत्पुरुषाघोरसद्योवामेशसंज्ञकान् ॥४९॥
ललाटद्व्यंसजठरहृदयेषु क्रमान्न्यसेत् ।
पुनस्तत्प्रतिपत्त्यर्थं जपेन्मन्त्रमिमं सुधीः ॥५०॥
नमोऽस्तु स्थाणुभूताय ज्योतिर्लिङ्गावृतात्मने ।
चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शम्भवे ॥५१॥
कुर्यादनेन मन्त्रेण निजदेहे समाहितः ।
मन्त्री पुष्पाञ्जलिं सम्यक्त्रिशः पञ्चश एव वा ॥५२॥
पूर्वोक्त एव पीठे प्रागङ्गैर्मूर्तिशक्तिभिस्तदनु ।
वृषपालचण्डदुर्गागुहनन्दिगणपसैन्यपाः पूज्याः ॥५३॥
अन्या च वासवाद्यैः पुनरुपहारैः क्रमेण भक्तिमता ।
अभ्र्यिचते हुते च स्तोतव्यः संस्तवेन पुनरीशः ॥५४॥
(शिवस्तुतिः)
नमो विरिञ्चविष्ण्वीशभेदेन परमात्मने ।
सर्गसंस्थितिसंहारव्यावृत्तिव्यक्तवृत्तये ॥५५॥
नमश्चतुर्धा प्रोद्भूतभूतभूतात्मने भुवः ।
भूरिभारार्तिसंहत्र्रे भूतनाथाय शूलिने ॥५६॥
विश्वग्रासाय विलसत्कालकूटविषाशिने ।
तत्कलज्रज्र्तिग्रीवनीलकण्ठाय ते नमः ॥५७॥
नमो ललाटनयनप्रोल्लसत्कृष्णवत्र्मने ।
ध्वस्तस्मरनिरस्ताधियोगिध्याताय शम्भवे ॥५८॥
नमो देहार्धकान्ताय दग्धदक्षाध्वराय च ।
चतुर्वर्गेष्वभीष्टार्थदायिने मायिनेऽणवे ॥५९॥
स्थूलाय मूलभूताय शूलदारितविद्विषे ।
कालहन्त्रे नमश्चन्द्रखण्डमण्डितमौलये ॥६०॥
विवाससे कपर्दान्तभ्र्रान्ताहिसरिदिन्दवे ।
देवदैत्यासुरेन्द्राणां मौलिघृष्टाङ्घ्रये नमः ॥६१॥
भस्माभ्यक्ताय भक्तानां भुक्तिमुक्तिप्रदायिने ।
व्यक्ताव्यक्तस्वरूपाय शङ्कराय नमो नमः ॥६२॥
नमोऽन्धकान्तकरिपवे पुरद्विषे
नमोऽस्तु ते द्विरदवराहभेदिने ।
विषोल्लसत्फणिकुलबद्धमूर्तये
नमः सदा वृषवरवाहनाय ते ॥६३॥
वियन्मरुद्धुतवहवार्वसुन्धरा-
मखेशरव्यमृतमयूखमूर्तये ।
नमः सदा नरकभयावभेदिने
भवेह नो भवभयभङ्गकृद्विभो ॥६४॥
(इति शिवस्तुतिः)
स्तुत्वेन्दुखण्डपरिमण्डितमौलिमेव-
मुद्वासयेत्पुनरमुं हृदयाम्बुजे स्वे ।
अभ्यच्र्य देवमभिसंयतचित्तवृत्ति-
र्भूत्वा शिवो जपतु मन्त्रमहेशमेनम् ॥६५॥
सन्तप्र्य विप्रान्पुनरेवमेव
सम्पूजयेदिन्दुकलावतंसम् ।
जपेद्यथाशक्ति शिवस्वरूपी
भूत्वा ततोऽन्ते च शिवः स भूयात् ॥६६॥
अमुमेव मनुं लक्षं मन्त्री हृल्लेखयाभिसंरुद्धम् ।
जप्त्वा नृपतरुसमिधां मधुरयुजा मनुसहस्रकं जुहुयात् ॥६७॥
वन्दे हरं वरदशूलकपालहस्तं
साभीतिमद्रिसुतयोज्ज्वलदेहकान्तिम् ।
वामोरुपीठगतया निजवामहस्त-
न्यस्तारुणोत्पलरुचा परिरब्धदेहम् ॥६८॥
आवृतिरङ्गैराद्या हृल्लेखाद्याभिरनु वृषाद्यैश्च ।
मात्राशेशैरुक्तं पञ्चावरणं विधानमीशस्य ॥६९॥
आप्यायिनी शशियुताप्यरुणाग्निमाया
बिन्द्वन्तिका चलकुलीभुवनेन्दुयुक्ता ।
दीर्घाकलायुतशिवश्च शिवायवर्णा-
स्याच्छूलिनो मनुरयं वसुवर्णयोगी ॥७०॥
वामाज्र्न्यस्तवामेतरकरकमलायास्तथा वामबाहु-
व्यस्तारक्तोत्पलायाः स्तनविधृतिलसद्वामबाहुः प्रियायाः ।
सर्वाकल्पाभिरामो धृतपरशुमृगेष्टः करैः काञ्चनाभो
ध्येयः पद्मासनस्थः स्मरललिततनुः सम्पदे पार्वतीशः ॥७१॥
पञ्चार्णोक्ताङ्गाद्यः पञ्चब्रह्मप्रदिष्टपूजश्च ।
वसुमितलक्षजपोऽयं मन्त्रस्तावत्सहस्रहोमश्च ॥७२॥
इति जपहुतपूजाध्यानकैरीशयाजी
प्रियतरचरितः स्यात्सर्वतो देहभाजाम् ।
धनविभवयशःश्रीसम्पदा दीर्घजीवी
तनुविपदि च शैवं तत्परं धाम भूयात् ॥७३॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे पञ्चविंशः पटलः ॥
N/A
References : N/A
Last Updated : January 21, 2026

TOP