चतुर्दशः पटलः
प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.
अथ कथिष्ये मन्त्रं चतुरक्षरसंज्ञकं समासेन ।
प्रणवो भुवनाधीशो दण्डिखमस्यादिको विसर्गान्तः ॥१॥
ऋषिरस्याजश्छन्दो गायत्रं देवता च भुवनेशी ।
अङ्गानि षट् क्रमेण प्रोक्तानि प्रणवशक्तिबीजाभ्याम् ॥२॥
भास्वद्रत्नौघमौलिस्फुरदमृतरुचो रञ्जयच्चारु रेखां
सम्यक्सन्तप्तकार्तस्वरकमलनजपाभासुराभिः प्रभाभिः ।
विश्वाकाशावकाशं ज्वलयदशिशिरं धर्तृ पाशाज्रुशेष्टा-
भीतीनां भङ्गितुङ्गस्तनमवतु जगन्मातुरार्कं वपुर्वः ॥३॥
सन्दीक्षितोऽथ प्रजपेच्च मन्त्रं मन्त्री पुनर्लक्षचतुष्कमेनम् ।
पुष्पैस्तदन्ते द्विजवृक्षजातैः स्वादुप्लुतैर्वा जुहुयात्सरोजैः ॥४॥
मनोरथार्कात्मतया त्वनेन प्रवत्र्यतेऽघ्र्येपहिता प्रपूजा ।
समे सुमृष्टे रचयेद्विविक्ते शुद्धे तले स्थण्डिलमङ्गणस्य ॥५॥
प्रजयेदथ प्रभूतां विमलां साराह्वयां समाराध्याम् ।
परमसुखामग्न्यादिष्वश्रिषु मध्ये च पीठकॢप्तेः प्राक् ॥६॥
ह्रस्वत्रयक्लीबवियोजिताभिः क्रमात्कृशान्विन्दुयुताभिरज्भिः ।
सहाभिपूज्या नव शक्तयः स्युः प्रोद्योतनाः प्राज्यतरप्रभावाः ॥७॥
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ।
अमोघा विद्युता चैव नवमी सर्वतोमुखी ॥८॥
ब्रह्माविष्णुशिवात्मकं समीर्य सौराय योगपीठाय ।
प्रोक्त्वेति नतिमपि पुनः समापयेत्पीठमन्त्रमहिमरुचेः ॥९॥
आवाह्य हाल्र्लेखिकमर्कमघ्र्यपाद्याचमाद्यैर्मधुपर्कयुक्तैः ।
प्रपूजयेदावरणैः समस्तसम्पत्त्यवाप्त्यै तदधीनचेताः ॥१०॥
हृल्लेखाद्याः पञ्च च यष्ट्वाङ्गैस्तदनु मातृभिः पश्चात् ।
ओङ्काराद्यैराशापालैरभ्यर्चयेत्क्रमान्मन्त्री ॥११॥
प्रतिपूज्य शक्तिमिति तत्र पुरः
प्रणिधाय ताम्ररचितं चषकम् ।
प्रजपन्मनुं प्रतिगतक्रमतः
प्रतिपूरयेत्सुविमलैः सलिलैः ॥१२॥
अक्षतकुशयवदूर्वातिलसर्षपकुसुमचन्दनोपेतैः ।
प्रस्थग्राह्यच्छिद्रं स्वैक्यं सम्भावयन्समाहितधीः ॥१३॥
इष्ट्वा दिनेशमथ पीठगतं तथैव
व्योमस्थितं परिवृतावरणं विलोक्य ।
अष्टोत्तरं शतमथ प्रजपेन्मनुं तं
पूर्वोत्तरं निजकरेण पिधाय पात्रम् ॥१४॥
भूयोऽभ्यच्र्य सुधामयं जलमथो तद्गन्धपुष्पादिभि-
र्जानुभ्यामवनिं गतश्चषकमप्यामस्तकं प्रोद्धरन् ।
दद्यान्मण्डलबद्धदृष्टिहृदयो भक्त्याघ्र्यमोजोबल-
ज्योतिर्दीप्तियशोधृतिस्मृतिकरं लक्ष्मीप्रदं भास्वते ॥१५॥
अथ कृतपुष्पाञ्जलिरपि पुनरष्टशतं जपेन्मनुं मन्त्री ।
यावद्रश्मिषु भानोव्र्याप्नोत्यम्भः सुधामयं तदपि ॥१६॥
अमृतमयजलावसिक्तगात्रो दिनपतिरप्यमृतत्वमातनोति ।
धनविभवसुदारमित्रपुत्रं पशुगणजुष्टमनन्तभोगयोगि ॥१७॥
तस्मादिनाय दिनशो ददताद्दिनादौ
दैन्यापनोदितनवे दिनवल्लभाय ।
अघ्र्यं समग्रविभवस्त्वथ वार्कवारे
पारं स गच्छति भवाह्वयवारिराशेः ॥१८॥
अनुदिनमर्चयितव्यः पुंसा विधिनामुनाथ वा रवये ।
दद्यादघ्र्यद्वयमपि कुर्याद्वा वाञ्छितार्थसमवाप्त्यै ॥१९॥
एकीकृत्य समस्तवस्त्वनुगतानादित्यचन्द्रानला-
न्वेदाद्येन गुणात्मकेन सगुणानाकृष्य हृल्लेखया ।
सर्वं तत्प्रतिमथ्य तावपि समावष्टभ्य हंसात्मना
नित्यं शुद्धमनन्यमक्षरपदं मन्त्रंई भवेद्योगतः ॥२०॥
अथ वदाम्यजपामनुमुत्तमं सकलसंसृतियापनसाधनम् ।
दुरितरोगविषापहरं नृणामिह परत्र च वाञ्छितसिद्धिदम् ॥२१॥
विष्णुपदं ससुधाकरखण्डं चन्द्रयुगावधिकं वतुरीयम् ।
क्षेत्रविदो मनुरेष समुक्तो यं प्रजपत्यपि सन्ततमात्मा ॥२२॥
ऋष्याद्या ब्रह्मदैव्यादिगायत्रीपरमात्मकः ।
हंसाक्लीबकलादीर्घयुजाङ्गानि समाचरेत् ॥२३॥
अरुणकनकवर्णं पद्मसंस्थं च गोरी-
हरनियमितचिह्नं सौम्य तानूनपातम् ।
भवतु भवदभीष्टावाप्तये पाशटज्र-
भयवरदविचित्रं रूपमर्धाम्बिकेशम् ॥२४॥
प्रजपेद्वादशलक्षं मनुमिमाज्यान्वितैश्च दौग्धान्नैः ।
तावत्सहस्रमानं जुहुयात्सौरे समर्चनापीठे ॥२५॥
निक्षिप्य कलमस्मिन्पूर्वोक्तानामपामथैकेन ।
आपूर्य चोपचर्य च विद्वानङ्गैः प्रपूजयेत्पूर्वम् ॥२६॥
ऋतवसुरनरसंज्ञास्तथर्तवो बद्रिपूर्विकाजान्ताः ।
आशोपाशास्थेयास्ततो दिशापास्ततश्च वङ्काद्याः ॥२७॥
इति परिपूज्य च कलशं
पुनरभिषिच्याथ नियमितोऽघ्र्यमपि ।
दद्यादिनाय चैहिक-
पारत्रिकसिद्धये चिरं मन्त्री ॥२८॥
इन्दुद्वयोदितसुधारसपूर्णसार्ण-
सम्बद्धबिन्दुसुसमेधितमादिबीजम् ।
सञ्चिन्त्य यो मनुमिमं भजते मनस्वी
स्वात्मैक्यतोऽथ दुरितैः परिमुच्यतेऽसौ ॥२९॥
व्योमानुगेन च सुधाम्बुमुचा सुदामा
प्रद्योतमानसविनिःसृतशीतरुग्भ्याम् ।
आबाधिता दहनचन्द्रलसन्महोभ्यां
रोगापमृत्युविषदाहरुजः प्रयान्ति ॥३०॥
हंसाण्डाकाररूपं स्रुतपरमसुधं मूर्ध्नि चन्द्रं ज्वलन्तं
नीत्वा सौषुम्नमार्गं निशितमतिरथ व्याप्तदेहोपगात्रम् ।
स्मृत्वा सञ्जप्य मन्त्रं पलितविषशिरोरुग्ज्वरोन्मादभूता-
पस्मारादींश्च मन्त्री हरति दुरितदौर्भाग्यदारिद्र्यदोषैः ॥३१॥
विधाय लिपिपज्र्जं मनुयुतोल्लसत्र्किणकं
निधाय घटमत्र पूरयतु वारिणा तन्मुखम् ।
विधाय शशिनात्ममन्त्रयुतवामदोष्णा पुनः
सुधायितरसैः स्वसाध्यमभिषेचयेत्तज्जलैः ॥३२॥
नारी नरो वा विधिनाभिषिक्तो
मन्त्रेण तेनेति विषद्वयोढैः ।
रोगैस्तदाधिप्रभवैर्वियुक्त-
श्चिराय जीवेत्करणैः सुशुद्धैः ॥३३॥
करेण तेनैव जलाभिपूर्णं प्रजप्य मन्त्री करकं पिधाय ।
सुधायितैस्तैर्विषिणं निषिञ्चेद्विषं निहन्यादपि कालकूटम् ॥३४॥
गदितं निजपाणितलं विषिणः
शिरसि प्रविधाय जलैः शितधीः ।
अचिरात्प्रतिमोचयते विषतो
मतिमानथ तक्षकदष्टमपि ॥३५॥
इत्यजपामन्त्रविधिः सम्प्रोक्तः सङ्ग्रहेण मन्त्रिवराः ।
यं प्राप्य सकलवसुसुखधर्मयशोभुक्तिमुक्तिभाजः स्युः ॥३६॥
अरुणा शिखिदीर्घयुता हृल्लेखा श्वेत्तया युतानन्ता ।
प्रोक्तः प्रयाजनानां तिलकस्तु यथार्थवाचको मन्त्रः ॥३७॥
गुहयादाचरणतलं कण्ठादागुह्यमागलं कान्तान् ।
विन्यस्य मन्त्रबीजान्क्रमेण मन्त्री करोतु चाङ्गानि ॥३८॥
मन्त्रस्य मध्यमनुना दीर्घयुजाङ्गानि चेह कथितानि ।
ध्यायेत्पुनरहिमकरं मन्त्री निजवाञ्छितार्थलाभाय ॥३९॥
अरुणसरोरुहसंस्थस्त्रिदृगरुणोऽरुणसरोजयुगलधरः ।
कलिताभयवरदो द्युतिबिम्बोऽमितभूषणस्त्विनोऽवतु वः ॥४०॥
कृतसन्दीक्षो मन्त्री दिनकरलक्षं जपेन्मनुं जुहुयात् ।
तावत्सहस्रमन्नैः सघृतैर्मधुराप्लुतैस्तिलैरथ वा ॥४१॥
प्रागभिहितेन विधिना पीठाद्यं प्रतिविधाय तत्र पुनः ।
विन्यस्य कलशमस्मिन्प्रपूजयेत्तरणिमपि च सावरणम् ॥४२॥
अङ्गैः प्रथमावरणं ग्रहैर्द्वितीयं तृतीयमाशेशैः ।
मुख्यतरगन्धसुमनोधूपाद्यैरात्तभक्तिनम्रमनाः ॥४३॥
प्रागादिदिशासंस्थाः शशिबुधगुरुभार्गवाः क्रमेण स्युः ।
आग्नेयादिष्वश्रिषु धरणिजमन्दाहिकेतवः पूज्याः ॥४४॥
शुभ्रसितपीतशुक्ला रक्तासितधूम्रकृष्णकाः क्रमशः ।
चन्द्राद्याः केत्वन्ता वामोरुन्यस्तवामकरलसिताः ॥४५॥
अपरकराभयमुद्राविकृतमुखोऽहिः कराहिताञ्जलियुक् ।
दंष्ट्रोग्रास्यो मन्दः सुवर्णसदृशांशुकादिभूषश्च ॥४६॥
सम्पूज्यैवं विधिना विधिवद्गोरोचनादिभिद्र्रव्यैः ।
दद्यादघ्र्यं रवये मन्त्री निजवाञ्छितार्थलाभाय ॥४७॥
गोरोचनास्रतिलवैणवराजिरक्त-
शीताख्यशालिकरवीरजपाकुशाग्रान् ।
श्यामाकतण्डुलयुतांश्च यथाप्रलाभा-
न्संयोज्य भक्तिभरतोऽघ्र्यविधिर्विधेयः ॥४८॥
कृत्वा मण्डलमष्टपत्रलसितं तत्र्किणकायां तथा
पत्राग्रेषु निधाय कुम्भनवकं तत्पूरयित्वा जलैः ।
आवाह्य क्रमशो ग्रहान्नव समाराध्याभिषेकक्रियां
कुर्याद्यो ग्रहवैकृतादि विलयं यान्त्यस्य लक्ष्मीर्भवेत् ॥४९॥
गृहपरिमितमिष्ट्वा पूर्वकॢप्त्या दिनेशं
प्रतिजुहुत निजक्र्षे वैकृते वा ग्रहाणाम् ।
शुभमतिरुपरागे चन्द्रभान्वोः स्वभे वा
रिपुनृपजभये वा घोररूपे गदे वा ॥५०॥
अर्कद्विजाङ्घ्रिपमयूरकपिप्पलाश्च
सोदुम्बराः खदिरशम्यभिधाः सदूर्वाः ।
दर्भाह्वयाश्च समिधोऽष्टशतं क्रमेण
सव्याहृतीनि घृतहव्यघृतानि होमः ॥५१॥
सोमादीनां दिशि दिशि समाधाय वह्निं यथाव-
द्धोमे सम्यक्कृतवति मुदं यान्ति सर्वे ग्रहाश्च ।
युद्धे सम्यग्जयमपि रुजः शान्तिमायुश्च दीर्घं
कृत्वा शान्तिं व्रजति पुनेरकत्र वा सर्वहोमः ॥५२॥
अमुना विधिना हुतार्चनाद्यैः
प्रभजेद्यो दिनशो नरो दिनेशम् ।
मणिभिः स धनैश्च धान्यवर्यैः
परिपूर्णावसथो भवेच्चिराय ॥५३॥
त्यद्यन्त आर्यसूर्यर्णा मेधारेचिकया गुणः ।
व्यत्ययोऽष्टाक्षरः प्रोक्तः सौरः सर्वार्थसाधकः ॥५४॥
देवभाग ऋषिः प्रोक्तो गायत्री च्छन्द उच्यते ।
आदित्यो देवता चास्य कथ्यन्तेऽङ्गान्यतो मनोः ॥५५॥
सत्यब्रह्माविष्णुरुद्रैः साग्निभिः सर्वसंयुतैः ।
तेजोज्वालामणिं हुम्फट्स्वाहान्तैरङ्गमाचरेत् ॥५६॥
आदित्यं रविभानू भास्करसूर्यौ न्यसेत्स्वरैर्लघुभिः ।
सशिरोमुखहृद्गुह्यकचरणेषु क्रमश एव मन्त्रितमः ॥५७॥
सशिरोमुखगलहृदयोदरनाभिशिवाङघ्रिषु प्रविन्यस्येत् ।
प्रणवाद्यैरष्टार्णैः क्रमेण सोऽयं तदक्षरन्यासः ॥५८॥
अरुणोरुणपज्र्जे निषण्णः कमलेऽभीतिवरौ करैर्दधानः ।
स्वरुचाहितमण्डलस्त्रिणेत्रो रविराकल्पशताकुलोऽवताद्वः ॥५९॥
सन्दीक्षितस्तु मन्त्री मन्त्रं प्रजपेत्तु वर्णलक्षं तम् ।
जुहुयात्त्रिमधुरसिक्तैर्दुग्धतरुसमिद्वरैर्वसुसहस्रम् ॥६०॥
अथ वा सघृतैरन्नैः समर्चयेन्नित्यशोऽघ्र्यमपि दद्यात् ।
पूर्वोक्त एव पीठे कुम्भं प्रणिधाय साधु सम्पूर्य ॥६१॥
शुद्धाद्भिररुणवासोयुगेन संवेष्ट्य पूजयेत्क्रमशः ।
अङ्गावृतैः परस्तादादित्याद्यैरुषादिशक्तियुतैः ॥६२॥
मातृभिररुणान्ताभिग्र्रहैः सुरैश्चान्तसूर्यपरिषद्भिः ।
सोषा सप्रज्ञा च प्रभा च सन्ध्या च शक्तयः प्रोक्ताः ॥६३॥
सम्पूज्यैवं दिनेशं पटुमतिरथ जप्त्वा च हुत्वाभिषेकं
कृत्वा दत्तेन सङ्ख्यां वसुमपि गुरवे सांशुकं भोजयेच्च ।
विप्रानादित्यसङ्ख्यानिति विदितमनुं नित्यशोऽघ्र्यं च दद्या-
द्वारे वा भास्करीये शुभतरचरितो वल्लभाय ग्रहाणाम् ॥६४॥
इतीह दिनकृन्मनुं भजति नित्यशो भक्तिमा-
न्य एष निचितेन्दिरो भवति नीरुजो वत्सरात् ।
समस्तदुरितापमृत्युरिपुभूतपीडादिका-
नपास्य सुसुखी च जीवति परं च भूयात्पदम् ॥६५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे चतुर्दशः पटलः ॥
N/A
References : N/A
Last Updated : January 21, 2026

TOP