नवमः पटलः

प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.


अथाभिवक्ष्ये सकलप्रपञ्चमूलात्मिकायाः प्रकृतेर्यथावत् ।
मन्त्रं तु साङ्गं सहुताभिषेकजपार्चनाद्यं सकलार्थसिद्ध्यै ॥१॥

घनवत्र्मकृष्णगतिशान्तिबिन्दुभिः
कथितः परः प्रकृतिवाचको मनुः ।
दुरितापहोऽर्थसुखधर्ममोक्षदो
भजतामशेषजनरञ्जनक्षमः ॥२॥

शक्तिः स्यादृषिरस्य तु गायत्री चोदिता मनोश्छन्दः ।
बोधस्वरूपवाची संवित्प्रोक्ता च देवता गुरुभिः ॥३॥

नेत्रकरणर्तुदिनकरभुवनविकारस्वराग्निबिन्दुयुजा ।
व्योम्नाङ्गषट्ककॢप्तिर्जातिविभिन्नेन चापि सम्प्रोक्ता ॥४॥

अग्नीन्दुयोगविकृता लिपयो हि सृष्टा-
स्ताभिः प्रलोमपठिताभिरिदं शरीरम् ।
भूतात्मकं त्वगसृगादियुतं समस्तं
संव्यापयेन्निशितधीर्विधिना यथावत् ॥५॥

अन्त्यावूष्मस्वमून्वादिषु खलिपिषु तांस्तांश्चतुर्वर्गवर्णे-
ष्वेतानस्यम्यदस्तद्दति तदपि परेषु स्वरेषु क्रमेण ।
संहृत्य स्थानयुक्तं क्षपित सकलदेहो ललाटस्थितान्तः-
प्राप्तिव्याप्तद्विसप्तादिकभुवनतलो यातु मद्भावमेव ॥६॥

मूलाधारात्स्फुरिततटिदाभा प्रभा सूक्ष्मरूपो-
द्गच्छन्त्यामस्तकमणुतरा तेजसां मूलभूता ।
सौषुम्नाध्वाचरणनिपुणा सा सवित्रानुबद्धा
ध्याता सद्योऽमृतमथ रवेः स्रावयेत्सार्धसोमात् ॥७॥

शिरसि निपतिता या बिन्दुधारा सुधाया
भवति लिपिमयी सा ताभिरङ्गं मुखाद्यम् ।
विरचयतु समस्तं पातितान्तश्च तेज-
स्यनल इव घृतस्योद्दीपयेदात्मतेजः ॥८॥

संहृत्य चोत्पाद्य शरीरमेवं तेजोमर्यं व्याप्तसमस्तलोकम् ।
सङ्कल्प्य शक्त्यात्मकमात्मरूपं तच्चिह्नमात्मन्यपि सन्दधीत ॥९॥

उद्यद्भास्वत्समाभां विजितनवजपामिन्दुखण्डावनद्ध-
द्योतन्मौलिं त्रिणेत्रां विविधमणिलसत्कुण्डलां पद्मगां च ।
हारग्रैवेयकाञ्चीगुणमणिवलयाद्यैर्विचित्राम्बराढ्या-
मम्बां पाशाज्रुशेष्टाभयकरकमलामम्बिकां तां नमामि ॥१०॥

धातू द्वौ स्तो रक्षणव्यापकार्थौ पाद्योऽशाद्यस्तत्प्रभावात्तयोश्च ।
सर्वं संरक्ष्याथ सर्वात्मना यो व्याप्नोत्यंशं स्यादसौ पाशवाची ॥११॥

अं स्यादात्मा कुर्धरा कुस्तनुर्वा
भागार्थः स्याच्छोऽथ वा वृत्तिवाची ।
भूश्चेद्भूतान्यन्यथा चेच्छरीरा-
ण्याकृष्यात्मन्याहरेदज्रुशाख्यः ॥१२॥

स्मृते यथा संसृतिचक्रचङ्क्रमोद्भवाद्धनापायसमुत्थितादपि ।
वियोजयत्यात्मतनुं नरं भयात्तथाभयस्याभयसंज्ञिता विभोः ॥१३॥

मुख्यार्थवाची वरशब्द उक्तः स्याद्वाञ्छितार्थश्च वराभिधानम् ।
मुख्यं त्वभीष्टं स्मृतिमात्रकेण ददाति योऽसौ वरदोऽवगम्यः ॥१४॥

दीक्षाकॢप्त्यै पुरोक्ते रचयतु विधिवन्मण्डलं मण्डपे त-
द्व्यक्तं युक्तं च कान्त्या त्रिगुणितविलसत्र्किणकं वर्णकीर्णम् ।
आपीतं केसरेष्वारचितहरिहराणैश्च मध्ये समायै-
स्तैरग्रे माययाढ्यं कमलमथ बहिः प्रोक्तचिह्नैरुपेतम् ॥१५॥

शक्त्याविः साध्यमिन्द्रानिलनिऋतिगबीजाभिबद्धं पुरोऽग्रे-
स्तत्कोणोल्लासिमायं हरिहरविलसद्गण्डमेभिः समायैः ।
वर्णैश्चावेष्टितं तत्त्रिगुणितमिति विख्यातमेतत्सुयन्त्रं
स्यादायुष्यं च वश्यं धनकरममितश्रीपदं कीर्त्तिदं च ॥१६॥

हृल्लेखाख्यां गगनां रक्तां च करालिकां महोच्छुष्माम् ।
मूर्धनि वदने गुह्ये पदयोन्र्यस्येत्तदङ्गैश्च ॥१७॥

गायत्रीं न्यसतु गले स्तनेऽथ सव्ये
सावित्रीं पुनरपरे सरस्वतीं च ।
सव्येंसे सरसिजसम्भवं मुकुन्दं
हृद्देशे पुनरपरांसके शिवं च ॥१८॥

अलिकांसपाश्र्वकुक्षिषु पाश्र्वांसापरगलहृत्सु च क्रमशः ।
ब्रह्माण्याद्या विधिवन्न्स्तव्या मातरोऽष्ट मन्त्रितमैः ॥१९॥

सजया विजया च तथाजिताह्वया चापराजिता नित्या ।
तदनु विलासिनिदोग्ध्र्यौ साघोरा मङ्गला नव प्रोक्ताः ॥२०॥

एवं सम्पूज्य पीठं तदनु नव घटान्पञ्चवा र्किणकायां
पत्राग्रेषु न्यसेत्काञ्चनरजतताम्रोद्भवान्मार्त्तिकान्वा ।
एकं वा र्किणकायां सुमतिरथ विनिक्षिप्य कुम्भं यथाव-
त्सम्पूर्यावाहयेत्त्रिष्वपि विधिषु पुनर्वक्ष्यमाणक्रमेण ॥२१॥

मधुनाथ महारवैश्च साकं
विधिना मध्यगतं प्रपूर्य कुम्भम् ।
अभिवाह्य कलाः प्रवेष्टयीत
प्रवराभ्यामथ तन्नवांशुकाभ्याम् ॥२२॥

ऐन्द्रं घृतेन यमदिक्प्रभवं च दध्ना
क्षीरेण वारुणमथो तिलजेन सौम्यम् ।
क्षीरद्रुचर्मदशमूलकपुष्पसिद्ध-
क्वाथेन कोणनिलयानपि पूरयेच्च ॥२३॥

मूत्रेणैन्द्रं गोमयेनापि याम्यं
क्षीरेणाप्यं सौम्यजं चैव दध्ना ।
मध्यप्रोक्तं र्सिपषा पञ्च कुम्भा-
न्संस्थाप्यापः पूरणीयाः क्रमेण ॥२४॥

गोमूत्रगोमयोदकपयोदधिधृतांशकाः क्रमात्प्रोक्ताः ।
एकार्धधातुसत्त्वाद्येके सर्वाणि वा समानि स्युः ॥२५॥

तारभवाभिरथग्र्भिः क्रमेण संयोजयेच्च गव्यानि ।
आत्माष्टाक्षरमन्त्रैरथ वा योज्यानि पञ्चभिः पञ्च ॥२६॥

यद्येककलशकॢप्तौ विधिरपि पञ्चाशदोषधिक्वाथैः ।
पूरयतु पञ्चभिर्वा गव्यैस्तोयात्मकेऽष्टगन्धाप्तिः ॥२७॥

अत्रोत्तरस्यां दिशि पज्र्जे च पलाशचर्मोत्क्वथितैः पयोभिः ।
सम्पूरणीयः कलशो यथावत्सुवर्णवस्त्रादियुतः सुशुद्धः ॥२८॥

द्वारेषु मण्डपस्य द्वौ द्वौ कलशौ सुशुद्धजलपूर्णौ ।
संस्थाप्य च वसनाद्यैः प्रवेष्टयित्वाभिपूजनीयाः स्युः ॥२९॥

ऊध्र्वेन्द्रयाम्यसौम्यप्रत्यक्षु च भूतवर्णकाः क्रमशः ।
हृल्लेखाद्यास्तदनु च पूर्ववदङ्गानि पूजनीयानि ॥३०॥

गायत्रीं शतमखजे निशाचरोत्थे
सावित्रीं पवनगते सरस्वतीं च ।
ब्रह्माणं हुतभुजि वारुणे च विष्णुं
बीजेऽग्रे समभियजेदथेशमैशे ॥३१॥

रक्ता रक्ताकल्पा चतुर्मुखी कुण्डिकाक्षमालेऽब्जे ।
दधती प्राग्बीजस्य गायत्री तादृशोऽग्निगो ब्रह्मा ॥३२॥

अरिदरगदाब्जहस्ता किरीटकेयूरहारसम्भिन्ना ।
निशिचरबीजसमुत्था सावित्री वरुणगस्तथा विष्णुः ॥३३॥

टज्रक्षाल्यभयवरान्धती च त्रीक्षणेन्दुकलितजटा ।
वाणी वायव्यस्था विशदाकल्पा तथेश्वरस्त्वैशे ॥३४॥

ब्रह्माण्याद्यास्तद्बहिरनन्तरं वासवादिकाशेशाः ।
पूज्याः पूर्वोक्तैरुपचारैः सम्यङ्निजेष्टाप्त्यै ॥३५॥

यदि नवकलशास्तेष्वथ सम्पूज्या मातरोऽष्टदिक्क्रमशः ।
हृल्लेखाद्याः पूज्या मध्यादिषु पञ्च चेद्भवन्ति घटाः ॥३६॥

प्रथमं घृतजं ततः कषायं
दधि पश्चात्क्वथितं पयः कषायम् ।
अथ तैलकषायकामधूत्थं
द्विजवृक्षोत्क्वथितं ततोऽभिषिञ्चेत् ॥३७॥

द्वारगकुम्भघृतैरथ सलिलैः पुनरन्तरासेकम् ।
कुर्यान्मुखकरचरणक्षालनमपि साचमादिकं मन्त्री ॥३८॥

विधिवत्कृताभिषेको द्वात्रिंशल्लक्षमथ जपेन्मन्त्रम् ।
निजकरदत्ताघ्र्यामृतजलपोषितभानुमत्प्रभोऽनुदिनम् ॥३९॥

भूत्वा शक्तिः स्वयमथ दिनेशेन्दुवैश्वानराणा-
मैक्यं कुर्वन्प्रणवमनुना शक्तिबीजेन भूयः ।
आकृष्यान्तर्बहिरपि समाधाय बुद्ध्यैव तेजो
जप्यान्मन्त्री ज्वलनहुतशिष्टान्नभुक्प्रोक्तसङ्ख्यम् ॥४०॥

अथ तु हविष्यप्राशी नक्ताशी वा जपेन्मनुं त्वेवम् ।
परिपूर्णायां नियमितजपसङ्ख्यायां समारभेद्धोमम् ॥४१॥

जपाद्दशांशं जुहुयादथाष्टद्रव्यैर्गुडक्षौद्रघृतावसिक्तैः ।
वर्णौषधीसिद्धजलाभिषेकं कृत्वा द्विजानभ्यवहारयेच्च ॥४२॥

ततोऽस्य प्रत्ययास्त्वेवं जायन्ते जपतोऽमुना ।
अधिष्ठितं निश्यदीपं निस्तमिस्रं गृहं भवेत् ॥४३॥

ततः कृत्वा जपह्रासं समुपासीत शक्तितः ।
युक्तात्मा नित्यत्योगेन प्रागुक्तविधिनार्चयेत् ॥४४॥

अश्वत्थविप्राङ्घ्रिपबिल्वनाम्नां तर्कारिकप्लक्षकसेव्यकानाम् ।
प्रसारिणीकाष्मरिरोहिणानामुदुम्बरीपाटलडुण्डुकानाम् ॥४५॥

पलं पलार्धं त्वथ कषमर्धं तेषां तु भागः कथितः क्रमेण ।
एतैः श्रितेनाथ जलेन वासौ सम्पूरणीयः कलशो यथावत् ॥४६॥

प्रत्यब्दसेकाद्भफ़िवता शतायुर्मेधेन्दिरावात्रहितश्च रोगैः ।
मासेषु जन्मस्वभिषेकतः स्यादुर्वीपतिर्मङ्क्षु महापृथिव्याः ॥४७॥

अर्काभस्तेजसासौ भवति नलिनजा सन्ततं किङ्करी स्या-
द्रोगा नश्यन्ति दृष्ट्वा तमथ च धनधान्याकुलं तत्समीपम् ।
देवानित्यं नमोऽस्मै विदधति फणिनो नैव दंशन्ति पुत्राः
सम्पन्नाः स्युः सपुत्रास्तनुविपदि परं धाम विष्णोः स भूयात्।४८।
शक्तिप्रग्रस्तसाध्यं हरशरकलमायावृतं वह्निगेह-
द्वन्द्वाश्रिप्राप्तमायं प्रतिविवरलसच्छक्तिबद्धं बहिश्च ।
कोणोद्यद्दण्डदण्डि त्रिलिपि हरिहराबद्धगण्डं विलोमा-
र्णावीतं कोर्युगाष्टोदरनरहरिचिन्तात्मकं षड्गुणाख्यम् ॥४९॥

षडङ्गुलप्रमाणेन वर्तुलं कर्तुरालिखेत् ।
षडङ्गुलावकाशेन तद्बहिश्च प्रवर्तयेत् ॥५०॥

वर्तुलं तावता भूयस्तद्बहिश्च तृतीयकम् ।
मध्यवर्तुलमध्ये तु हृल्लेखाबीजमालिखेत् ॥५१॥

द्वितीयवतुलाश्लिष्टमीषच्छिलष्टषडश्रकम् ।
पुटितं मण्डलं वह्नेरस्पृशन्मध्यवर्तुलम् ॥५२॥

इन्द्राग्निरक्षोवरुणवाय्वीशान्ताश्रकं लिखेत् ।
षट्सु कोणान्तरालेषु हृल्लेखाषट्कमालिखेत् ॥५३॥

एकैकान्तरितास्तास्तु सम्बध्युरितरेतरम् ।
शिखाभिरान्तराभिस्तु बाह्याबाह्याभिरान्तराः ॥५४॥

मध्यवर्तुलसंस्थाया हृल्लेखायाः कपोलयोः ।
अधरे साध्यनामार्णं साधकस्योत्तरे लिखेत् ॥५५॥

अन्तराग्निश्रियोः कर्म साधकांशे समालिखेत् ।
हरमायाः पञ्चकृत्वः स्युर्बहिर्गर्भवर्तुलम् ॥५६॥

तद्बहिः शरमायाश्च कलमायाश्च तद्बहिः ।
लिखेन्मायां बिन्दुमतीं वह्नेः कोणेषु षट्स्वपि ॥५७॥

वह्नेः कोणत्रये श्रीमत्पक्षीये त्रितयं लिखेत् ।
शक्तिश्रीकामबीजानां सदण्डं साधकार्णवत् ॥५८॥

वह्निस्तु वह्निपक्षीये तान्येवादण्डवन्ति च ।
संसाध्य नामवर्णानि स्पष्टनिष्टानभाञ्जि च ॥५९॥

बाह्यरेखामन्तरा स्युर्वर्णाः क्रमगताः शुभाः ।
तद्बहिः प्रतिलोमाश्च ताः स्युर्लेखकपाटवात् ॥६०॥

ततो विर्दिभतं भूमेर्मण्डलद्वयमालिखेत् ।
महादिक्स्थनृसिंहार्णं चिन्तारत्नाश्रिताश्रकम् ॥६१॥

बहिः षोडशशूलाज्र्ं शोभनं व्यक्तवर्णवत् ।
एतद्यन्त्रं समालिख्य पद्मारचयेत्ततः ॥६२॥

रुचिरद्वादशदलं षट्त्रिंशत्केसरोज्ज्वलम् ।
पूर्वोक्तलक्षणोपेतं शुभं दृष्टिमनोहरम् ॥६३॥

अभ्यच्र्य पीठं नवशक्तिकान्त-
मङ्गानि बीजेषु च षट्सु भूयः ।
गायत्रिसावित्रिसरस्वतीश्च
यजेदथ श्रीरतिपुष्टिसंज्ञाः ॥६४॥

ब्रह्माणमथ च विष्णुं महेश्वरं धनदमदनगणनाथान् ।
अभ्यर्चयेच्च षट्स्वपि वह्नेः कोणेषु तद्बहिः क्रमशः ॥६५॥

रक्तामनङ्गकुसुमां कुसुमातुरां च
नित्यामनङ्गमदनां मदनातुरां च ।
गौरीं तथैव गगनां गगनस्य रेखां
पद्मां भवप्रमथिनीं शशिशेखरां च ॥६६॥

एता द्विषट् प्रतिदलं प्रतिपूज्य शक्ती-
स्तद्बाह्यतो यजतु मातृगणं क्रमेण ।
इन्द्रादिकान्बहिरतश्च तदायुधानि
सम्पूज्य पूर्वविधिनामुमथाभिषिञ्चेत् ॥६७॥

योऽमुमर्चयति मुख्यविधानं सिद्धशक्तिरपि सञ्जपहोमैः ।
स श्रियो निलयनं त्रिदशानां वन्द्यतां व्रजति विष्णुसमानः ॥६८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे नवमः पटलः ॥

N/A

References : N/A
Last Updated : January 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP