संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| सप्तदशः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः सप्तदशः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य सप्तदशः पटलः Translation - भाषांतर अथ मन्मथमन्त्रविधिं विधिनाकथयामि सहोमविधिं सजपम् ।मथनस्य पुरामपि मोहकरंव्यथिताखिलसिद्धसुरादिगणम् ॥१॥अजकलाप्रथमावनिशान्तिभिर्युतसुधाकरखण्डविकासिभिः ।निगदितो मनुरेष मनोभुवः सकलधर्मयशोर्थसुखावहः ॥२॥ऋष्यादिकाश्च सम्मोहनगायत्रीमनोभवाः प्रोक्ताः ।बीजेन दीर्घभाजा कथितान्यङ्गान्यमुष्य जातियुजा ॥३॥अरुणमरुणवासोमाल्यदामाङ्गरागंस्वकरकलितपाशं साज्रुशास्त्रेषुचापम् ।मणिमयमकुटाद्यैर्दीप्तमाकल्पजातै-ररुणनलिनसंस्थं चिन्तयेदङ्गयोनिम् ॥४॥तरणिलक्षममुं मनुमादरात्समभिजप्य हुनेच्च दशांशकैः ।तदनु किंशुकजैः प्रसवैः शुभैस्त्रिमधुराद्र्रतरैर्निजसिद्धये ॥५॥मोहिनी क्षोभिणी त्रासी स्तम्भिन्यार्किषणी तथा ।द्राविणीह्लादिनीक्लिन्नाक्लेदिन्यः स्मरशक्तयः ॥६॥आशान्तिद्वयवामश्रुतिसर्गैद्र्रयुगकलबलैश्च ससैः ।शोषणमोहनसन्दीपनतापनमादनान्यजेत्क्रमशः ॥७॥अनङ्गरूपा सानङ्गमदनानङ्गमन्मथा ।अनङ्गकुसुमानङ्गकुसुमातुरसंज्ञका ॥८॥अनङ्गशिशिरानङ्गमेखलानङ्गदीपिका ।अङ्गाशापालयोर्मध्ये बाणानङ्गावृतीर्यजेत् ॥९॥आलिख्यात्र्किणकायामनलपुरपुटे मारबीजं ससाध्यंतद्रन्ध्रेष्वङ्गषट्कं बहिरपि गुणशो मारणाय त्रिवर्णान् ।मालामन्त्रं दलाग्रेष्वपि गुहमुखशः पार्थिवाश्रिष्वनङ्गंकुर्याद्यन्त्रं तदेतद्भुवनमपि वशे का कथा मानवेषु ॥१०॥प्रोक्त्वाथ कामदेवाय विद्महे तदनु पुष्पबाणाय ।तथा च धीमह्यन्ते तन्नोऽनङ्गः प्रचोदयाद्गायत्री ॥११॥नत्यन्ते कामदेवाय प्रोक्त्वा सर्वजनं वदेत् ।प्रियायेति तथा सर्वजनसम्मोहनाय च ॥१२॥वीप्सयित्वा ज्वलपदं प्रज्वलं च प्रभाषयेत् ।पुनः सर्वजनस्येति हृदयं मम चेत्यथ ॥१३॥वशमुक्त्वा कुरुं वीप्स्य कथयेद्वह्निवल्लभाम् ।प्रोक्तो मदनमन्त्रोऽष्टचत्वारिंशद्भिरक्षरैः ॥१४॥इति यन्त्रकॢप्तकलशो बहुशः कतमं नरं न परिमोहयति ।प्रमदावनीश्वरसभानगरादिकमीश्वरीनपि वशे कुरुते ॥१५॥वक्ष्ये विधानमन्यन्मनोभवस्याथ मोहनं जगतः ।येनार्चितः स देवो वाञ्छितमखिलं करोति मन्त्रविदाम् ॥१६॥अमृतोद्भवो मकरकेतनश्च सङ्कल्पजाह्वयाक्षरूपौ ।इक्षुधनुर्धरपुष्पशराख्यावङ्गानि वह्निजायान्तानि ॥१७॥अरुणतरवसनमाल्यानुलेपनाभरणमिषुशरासधरम् ।न्यस्तशरबीजदेहो ध्यायेदात्मानमङ्गजं रुचिरम् ॥१८॥अङ्गबाणावृतेरूध्र्वं पूज्याः षोडश शक्तयः ।युवतिर्विप्रलम्भा च ज्योत्स्ना सुभ्रूर्मदद्रवा ॥१९॥सुरता वारुणी लोला कान्तिः सौदामिनी तथा ।कामच्छत्रा चन्द्रलेखा शुकी च मदनाह्वया ॥२०॥योनिर्मायावती चेति शक्तयः स्युर्मनोभुवः ।शोको मोहो विलासश्च विभ्रमो मदनातुरः ॥२१॥अपत्रपो युवा कामी चूतपुष्पो रतिप्रियः ।ग्रीष्मस्तपान्त ऊर्जश्च हेमन्तः शिशिरो मदः ॥२२॥चतुथ्र्यामावृतौ पूज्याः स्युर्मारपरिचारकाः ।परभृत्सारसौ चैव शुकमेघाह्वयौ तथा ॥२३॥अपाङ्गभ्रूविलासौ द्वौ हावभावौ स्मरप्रियाः ।माधवी मालती चैव हरिणाक्षी मदोत्कटा ।एताश्चामरहस्ताः स्युः पूज्याः कोणेषु संस्थिताः ॥२४॥हृल्लेखया स्व नाम्ना च शक्त्यादीनां समर्चनम् ।इन्द्राद्यैः सप्तमी पूज्या स्मरार्चाविधिरीदृशः ॥२५॥मदनविधानमितीत्थं प्रोक्तं योऽनेन पूजयेद्विधिना ।स तु सकललोकपूज्यो भवेन्मनोज्ञश्च मन्दिरं लक्ष्म्याः ॥२६॥विलसदहङ्कारतनुर्मनःशिवो विभ्रमास्पदीभूतः ।बुद्धिशरीरां नारीं नरः सदा चित्तयोनिमभिगच्छेत् ॥२७॥इति मदनयोगरत्या यो रमयेन्नित्यशो निजां वनिताम् ।स तु भुक्तिमुक्तिकामी वनिताजनहृदयमोहनो भवति ॥२८॥आत्मानं मदनं ध्यायेदाशुशुक्षणिरूपिणम् ।तद्बीजाग्रं शिवज्वालातनुं तन्वीतनुं तथा ॥२९॥सुधामयीं च तद्योनिं नवनीतमयं स्मरेत् ।सङ्गच्छेच्च शिवज्वालालीढं तद्धृदयादिकम् ॥३०॥आलिङ्गेदग्निसंस्पर्शद्रुततद्रूपकामृतम् ।रसनाशिखया कर्षेत्तद्दन्तवसनामृतम् ॥३१॥कुसुमास्त्रधिया बाह्ये स्पृशेत्कररुहैरपि ।हानिं न कुर्याज्जीवस्य मन्त्री विशदमानसः ॥३२॥रतावथोऽधोमध्योध्र्वक्रमेणैवं समाहितम् ।निजप्रियां भजेदेवं सा मारशरविह्वला ।छायेवानपगा तस्य भवेदेवं भवान्तरे ॥३३॥साध्याख्या कामवर्णैः प्रतिपुटितलसत्र्किणकं पत्रराज-त्तार्रित्वक्पक्षजाष्टादशसमिदृतुगण्डान्तगान्ताक्षराढ्यम् ।आशाशूलाज्र्तिं तद्विपतिरिपुदले सम्यगालिख्य सेरंमारं जप्त्वास्य यामाशयति वशगता भा भवेत्सद्य एव ॥३४॥हंसारूढो मदनस्त्रैलोक्यक्षोभको भवेदाशु ।द्युयुतो रञ्जनकृत्स्याज्जीवोपेतस्तथायुषे शस्तः ॥३५॥तारयुजा त्वमुनाग्नौ हुत्वा सम्पातितेन चाज्येन ।सम्भोजयेत्पतिं स्वं वनिता स नितान्तरञ्जितो भवति ॥३६॥दध्यक्ताभिर्जुहुयाल्लाजाभिः कन्यकां समाकाङ्क्षन् ।कन्यापि वरं लभते विधिना नित्यानुरक्तममुनैव ॥३७॥अभिनवैः सुमनोभिरशोकजैर्दधितिलैर्विहिता हवनक्रिया ।परमवश्यकरी परिकाङ्क्षितामपि लभेदचिरादिव कन्यकाम् ॥३८॥अभीष्टदायी स्मरणादपि स्मर-स्तथा जपादर्चनया विशेषतः ।प्रसादतोऽस्याखिललोकर्वितन-श्चिराय वश्याश्च भवन्ति मन्त्रिणः ॥३९॥कृङा मध्यगताः ष्णायगोव्यर्णा यल्लमध्यगाः ।गोपीजनवकाराः स्युर्भायस्वाहास्मरादिकाः ॥४०॥ऋषिस्तु नारदोऽस्य स्याद्गायत्रं छन्द इष्यते ।मन्त्रस्य देवता कृष्णस्तदङ्गविधिरुच्यते ॥४१॥मूलमन्त्रचतुर्वर्णचतुष्केण द्विकेन च ।प्रोक्तान्यङ्गानि भूयोऽमुं चिन्तयेद्देवकीसुतम् ॥४२॥अव्यान्मीलत्कलापद्युतिरहिरिपुपिञ्छोल्लसत्केशजालोगोपीनेत्रोत्पलाराधितललितवपुर्गोपगोबृन्दवीतः ।श्रीमद्वक्त्रारविन्दप्रतिहसितशशाज्रकृतिः पीतवासादेवोऽसौ वेणुवाद्यक्षपितजनधृतिर्देवकीनन्दनो वः ॥४३॥अयुतद्वितयावधिर्जपः स्यादरुणैरम्बुरुहैर्हृतो दशांशैः ।मुरजिद्विहिते तु पीठवर्ये दिनशो नन्दसुतः समर्चनीयः ॥४४॥अङ्गाशेड्वङ्काद्यैः परिवृत्य च पायसेन सुसितेन ।हैयङ्गवीनकदलीफलदधिभिः प्रीणयेच्च गोविन्दम् ॥४५॥जुहुयाद्दुग्धहविर्भिविमलैः र्सिपःसितोपलोपेतैः ।इष्टं तुष्टो लक्ष्मीं समावहेत्सद्य एव गोविन्दः ॥४६॥बालं नीलाम्बुदाभं नवमणिविलसत्किज्र्णिईजालनद्ध-श्रोणीजङ्घान्तयुग्मं विपुलरुरुनखप्रोल्लसत्कण्ठभूषम् ।फुल्लाम्भोजाभवक्त्रं हतशकटपतत्पूतनाद्यं प्रसन्नंगोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ ॥४७॥वन्द्यं देवैर्मुकुन्दं विकसितकरवन्दाभमिन्दीवराक्षंगोपीगोबृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम् ।नीलग्रीवाग्रपिञ्छाकलनसुविलसत्कुन्तलं भानुमन्तंदेवं पीताम्बराढ्यं यजतु च दिनशो मध्यमेऽह्नो रमायै ॥४८॥विक्रान्त्या ध्वस्तवैरिव्रजमजितमपास्तावनीभारमाद्यै-रावीतं नारदाद्यैर्मुनिभिरनुदिनं तत्त्वनिर्णीतिहेतोः ।सायाह्ने निर्मलं तं निरुपममजरं पूजयेन्नीलभासंमन्त्री विश्वोदयस्थित्यपहरणपरं मुक्तिदं वासुदेवम् ॥४९॥त्रिकालमेवं प्रविचिन्त्य शार्ङ्गिणंप्रपूजयेद्यो मनुजो महामनः ।स धर्ममर्थं सुसुखं श्रियं परा-मवाप्य देहापदि मुक्तिमाप्नुयात् ॥५०॥ग्रामं गच्छन्नगरमपि वा मन्त्रजापी मनुष्योदेवेशं तं मुखमनु मुहुस्तर्पयेद्दुग्धबुद्ध्या ।शुद्धैस्तोयैः स तु बहुरसोपेतमाहारजातंदद्यान्नित्यं प्रचुरधनधान्यांशुकाद्यैर्मुकुन्दः ॥५१॥भिक्षावृत्तिर्दिनमनु तमेवं विचिन्त्यात्मरूपंगोपस्त्रीभ्यो मुहुरपहरन्तं मनोभिः सहैव ।लीलावृत्त्या ललितललितैश्चेष्टितैर्दुग्धर्सिप-र्दध्याद्यं वा स पुनरमितामेति भिक्षां गृहेभ्यः ॥५२॥ध्यानी मन्त्री मन्त्रजापी च नित्यं यद्यद्वाञ्छन्यत्र यत्र प्रयाति ।तत्तत्प्राप्त्वा तत्र तत्र प्रकामं प्रीतः क्रीडेद्देववन्मानुषेषु ॥५३॥एवं देवं पूजयन्मन्त्रमेनंजप्यान्मन्त्री सर्वलोकप्रियः स्यात् ।इष्टान्कामान्प्राप्य सम्पन्नवृत्ति-रिनत्यं शुद्धं तत्परं धाम भूयात् ॥५४॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे सप्तदशः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP