एकादशः पटलः
प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.
अथ श्रियो मन्त्रविधिः समासतो
जगद्धिताय प्रतिवक्ष्यतेऽधुना ।
सहाङ्गभेदैः सजपार्चनाहुत-
क्रमैः समभ्युद्धरणाय दुर्गतेः ॥१॥
वियत्तुरीयस्तु विलोमतोऽनल-
प्रदीपितो वामविलोचनाञ्चितः ।
सचन्द्रखण्डः कथितो रमामनु-
र्मनोरथावाप्तिमहासुरद्रुमः ॥२॥
ऋषिर्भृगुश्छन्दसि चोदिता निचृत्समीरिता श्रीरपि देवता पुनः ।
दृगक्षिकर्णेनमनुस्वरानलान्वितेन चास्थ्ना विहितं षडङ्गकम् ॥३॥
भूयाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभा
शुभ्राभ्राभेभयुग्मद्वयधृतकरकुम्भाद्भिरासिच्यमाना ।
रत्नौघाबद्धमौलिर्विमलतरदुकूलार्तवालेपनाढ्या
पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रिये वः ॥४॥
सन्दीक्षितोऽथ गुरुणा मनुवर्यमेनं
सम्यग्जपेन्निशितधीर्दिनननाथलक्षम् ।
अभ्यर्चयन्नहरहः श्रियमादरेण
मन्त्री सुशुद्धचरितो रहितो वधूभिः ॥५॥
जपावसाने दिनकृत्सहस्रसङ्ख्यैः सरोजैर्मधुरत्रयाक्तैः ।
हुनेत्तिलैर्वा विधिनाथ बैल्वैः समिद्वरर्मन्त्रिवरस्त्रिभिर्वा ॥६॥
रुचिराष्टपत्रमथ वारिरुहं गुणवृत्तराशिचतुरश्रयुतम् ।
प्रविधाय पीठमपि तत्र यजेन्नवशक्तिभिः सह रमां तु ततः ॥७॥
विभूतिरुन्नतिः कान्तिर्हृष्टिः कीर्त्तिश्च सन्नतिः ।
पुष्टिराकृष्टित्र्र+द्धिश्च रमाया नव शक्तयः ॥८॥
आवाह्यसम्यक्कलशे यथावत्समर्चनीया विधिना रमासौ ।
जप्त्वा यथाशक्ति पुनर्गुरुस्तु संसेचयेत्संयतमात्मशिष्यम् ॥९॥
अङ्गैः प्रथमावृतिरपि मूर्तीभचतुष्कनिधियुगैरपरा ।
शक्त्यष्टकेन चान्या चरमा ककुबीश्वरैः समभ्यच्र्या ॥१०॥
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।
दमकः शललश्चैव गुग्गुलश्च कुरण्डकः ॥११॥
बलाकी विमला चैव कमला वनमालिका ।
विभीषिका द्राविका च शाङ्करी वसुमालिका ॥१२॥
अयनैव च पूर्वसेवया परितुष्टा कमला प्रसीदति ।
धनधान्यसमृद्धिसङ्कुलामचिरादेव च मन्त्रिणे श्रियम् ॥१३॥
अम्भस्युरोजद्वयसे हि तिष्ठंस्त्रिलक्षमेनं प्रजपेच्च मन्त्री ।
श्रियं विचिन्त्यार्कगतां यथावद्दरिद्रताया भवति प्रमुक्तः ॥१४॥
वसतावुपविश्य कैटभारेः कमलावृक्षतलेऽथ वा त्रिलक्षम् ।
जपतोऽपि भवेच्च काङ्क्षितार्थादधिकं वत्सरतो वसुप्रपञ्चः ॥१५॥
जुहुयादशोकदहने सघृतैरपि तण्डुलैः सकलवश्यतमम् ।
खदिरानले त्रिमधुरैरपि तैर्धनदं च राजकुलवश्यमपि ॥१६॥
रसमधुरनलिनानां लक्षहोमादलक्ष्मी-
परिगतमपि जन्तुं प्राप्नुयाच्छ्रीः समग्रा ।
घनविभवसमृद्ध्या नित्यमाह्लादयन्ती
त्यजति न करुणाद्र्रा तस्य सा सन्ततिं च ॥१७॥
बिल्वं श्रीसूक्तजापी निजभुवि मुखजो वर्धयित्वास्य पूर्वं
पत्रैस्त्रिस्वादुयुक्तैः कुसुमफलसमिद्भिस्ततस्कन्धभैदैः ।
तन्मूलैर्मण्डलात्प्राक्सुनियतचरितोऽसौ हुतान्निर्मलात्मा
रूपं पश्येद्रमायाः कथमपि न पुनस्तत्कुले स्यादलक्ष्मीः ॥१८॥
हृदयेकमलवर्णतः परस्ता-
दमृतनन्तयुगं ततश्च सिन्यै ।
हुतवहदयितेत्यसौ रमायाः
प्रवरधनार्थिभिरर्थितो हि मन्त्रः ॥१९॥
दक्षोऽस्य स्यादृषिश्छन्दसि सुमतिभिरुक्तो विराड्देवता च
श्रीदेवीपद्मिनीभ्यां हृदयकशिरसी विष्णुपत्न्या शिखा च ।
मेदोरेफाह्वदार्णैरपि च कमलरूपाक्षरैवर्मसास्रां
ताराद्याभिर्नमोन्ताभिरिति निगदितं जातियुक्ताभिरङ्गम् ॥२०॥
पद्मस्था पद्मनेत्रा कमलयुगवराभीतियुग्दोःसरोजा
देहोत्थाभिः प्रभाभिस्त्रिभुवनमखिलं भासुरा भासयन्ती ।
मुक्ताहाराभिरामोन्नतकुचकलशा रत्नमञ्जीरकाञ्ची-
ग्रैवेयोम्र्यङ्गदाढ्या धृतमणिमकुटा श्रेयसे श्रीर्भवेदः ॥२१॥
ध्यात्वैवं श्रियमपि पूर्वकॢप्तपीठे
पद्मादौ प्रथममथर्चयेत्तदङ्गैः ।
अष्टाभिर्दलमनुशक्तिभिस्तदन्ते
लोकेशैरिति विधिनार्चयेत्समृद्ध्यै ॥२२॥
दीक्षातो जपतु रमारमेशभक्तो
लक्षणां दशकममुं मनुं नियत्या ।
स श्रीमान्बहुधनधान्यसङ्कुलः स-
न्मेधावी भवति च वत्सरेण मन्त्री ॥२३॥
इति मन्त्रजपादृतधीर्मधुरत्रितयैरयुतं जुहुयात्कमलैः ।
परिशुद्धमना नचिरात्स पुनर्लभते निजवाञ्छितमर्थचयम् ॥२४॥
समुद्रगायामवतीर्य नद्यां स्वकण्ठमात्रे पयसि स्थितः सन् ।
त्रिलक्षजाप्याढ्यतमोऽब्दमात्रान्मन्त्री भवेन्नात्र विचारणीयम् ॥२५॥
नन्द्यावर्तैर्जुहुत भगभेऽभ्यच्र्य लक्ष्मीं सहस्रं
तावद्बैल्वैस्त्रिमधुरयुतैर्वा फलैः पौर्णमास्याम् ।
पञ्चम्यां वा सितसरसिजैः शुक्रवारेऽच्छपुष्पै-
रन्यैर्मासं प्रतिहुतविधिर्वत्सरैः स्याद्धनाढ्यः ॥२६॥
ताररमामायाश्रीः कमले कमलालये प्रसीदयुगम् ।
बीजानि तानि पुनरपि समहालक्ष्मीहृदिन्दिरामन्त्रः ॥२७॥
त्रिभिस्तु वर्णैर्हृदयं शिरोभिः
स्यात्पञ्चभिश्चाथ शिखा त्रिवर्णा ।
त्रिभिस्तथा वर्म चतुर्भिरस्त्रं
पृथक् त्रिबीजापुटितैस्तदङ्गम् ॥२८॥
हस्तोद्यद्वसुपात्रपज्र्जयुगादर्शा स्फुरन्नूपुर-
ग्रैवेयाङ्गदहारकज्र्णमहामौलिज्वलत्कुण्डला ।
पद्मस्था परिचारिकापरिवृता शुक्लाङ्गरागांशुका
देवी दिव्यगणानता भवदघप्रध्वंसिनी स्याद्रमा ॥२९॥
लक्षं जपेन्मनुमिमं मधुरत्रयाक्तै-
र्बैल्वैः फलैः प्रतिहुनेदयुतं तदन्ते ।
आराधयेदनुदिनं प्रतिवक्ष्यमाण-
मार्गेण दुर्गतिभयाद्रहितो भवेत्सः ॥३०॥
श्रीधरश्च हृषीकेशो वैकुण्ठो विश्वरूपकः ।
वासुदेवादयश्चाङ्गावरणात्समनन्तरम् ॥३१॥
भारतीपार्वतीचान्द्रीशचीभिरपि संयुता ।
दमकादिस्तृतीयानुरागाद्यैश्च चतुथ्र्यपि ॥३२॥
अनुरागो विसंवादो विजयो वल्लभो मदः ।
हर्षो बलश्च तेजश्चेत्यष्टौ बाणा महाश्रियः ॥३३॥
अनन्तब्रह्मपर्यन्तैः पञ्चमीन्द्रादिभिर्मता ।
चक्रपद्मान्तिकैः षष्ठीवङ्काद्यैरावृतिः श्रियः ॥३४॥
सम्पूज्यैवं श्रियमनुदिनं यो जपेन्मन्त्रमेनं
प्रोक्तां सङ्ख्यां सहुतविधिमप्युच्छ्रितां प्राप्य लक्ष्मीम् ।
द्वित्रादर्वाग्भवति पशुपुत्रादिभोगैः समृद्धो
वर्षाद्देहापदि च पदमभ्येति नित्यं स विष्णोः ॥३५॥
श्रीमन्त्रेष्विति गदितेषु भक्तियुक्तः
श्रीसूक्तान्यपि च जपेद्यजेद्धुनेच्च ।
सूक्ते तु प्रथमतरे स्वयं मुनिः स्या-
दन्येषां मुनय इमे भवन्ति भूयः ॥३६॥
आनन्दः कर्दमश्चैव चिल्कीतश्चेन्दिरासुतः ।
ऋचामथो तदन्यासामृषयः समुदीरिताः ॥३७॥
आद्ये सूक्तत्रये च्छन्दोऽनुष्टुप्कांसे बृहत्यपि ।
तदन्त्ययोस्त्रिष्टुबाख्यां परस्तादष्टके पुनः ॥३८॥
अनुष्टुबन्त्ये प्रस्तारपङ्क्तिश्छन्दांसि वै क्रमात् ।
श्र्यग्नी स्यातां देवते च न्यासाङ्गविधिरुच्यते ॥३९॥
मूर्धाक्षिकर्णनासामुखगलदोर्हृदयनाभिगुह्येषु ।
पायूरुजानुजङ्घाचरणेषु न्यसतु सूक्तकैः क्रमशः ॥४०॥
सहिरण्मयी च चन्द्रारजतहिरण्यस्रजे हिरण्याख्या ।
अङ्गानि जातियुञ्ज्यथ हिरण्यवर्णाह्वया तथास्त्रं स्यात् ॥४१॥
अरुणकमलसंस्था तद्रजःपुञ्जवर्णा
करकमलधृतेष्टाभीतियुग्माम्बुजा च ।
मणिमकुटविचित्रालङ्कृताकल्पाजातै-
र्भवतु भुवनमाता सन्ततं श्रीः श्रिये वः ॥४२॥
प्रारभ्याच्छां प्रतिपदमथ प्राप्तदीक्षो वियुक्त-
स्तन्वङ्गीभिस्तनुविमलवासाः सुधौतद्विजाद्यः ।
एकादश्यामपि परिसमाप्यार्कसाहस्रिकान्तं
जापं मन्त्री प्रयजतु रमां प्राक्तनप्रोक्तपीठे ॥४३॥
पद्मा सपद्मवर्णा पद्मस्थाद्र्रा च तर्पयन्त्यभिधा ।
तृप्ता ज्वलन्त्यभिख्या स्वर्णप्राकारसंज्ञका चेति ॥४४॥
मध्ये दिशाधिपाङ्गावृत्योरेतास्ततश्च वङ्कादीन् ।
प्रयजेच्चतुरावरणं निगदितमिति सूक्तकल्पितविधानम् ॥४५॥
अन्नघृताभ्यां जुहुयादर्चास्वष्टोत्तरं शतं मन्त्री ।
आवाहनासनाघ्र्यकपाद्याचमनमधुपर्कसेकानि ॥४६॥
वासोभूषणगन्धान्सुमनोयुतधूपदीपभोज्यानि ।
सोद्वासनानि कुर्याद्भक्तियुतः पञ्चदशभिरथ मनुभिः ॥४७॥
व्यस्तैरपि च समस्तैः पूजायां संयतात्मकः सिद्ध्यै ।
पक्वैर्बिल्वसमिद्भिः पयोन्धसा र्सिपषा क्रमाज्जुहुयात् ॥४८॥
एकैकं त्रित्रिशतं द्वादश्यां भोजयीत विप्रांश्च ।
मन्दारकुन्दकुमुदकनन्द्यावर्ताह्वमालतीजात्यः ॥४९॥
कह्लारपद्मरक्तोत्पलकेतकचम्पकादयो ग्राह्याः ।
परिषिञ्चेत्त्रिशो नित्यं सूक्तैस्तैः स्नानकर्मणि ॥५०॥
आदित्याभिमुखो जप्यात्तावत्तावच्च तर्पयेत् ।
अर्चयेद्विधिना तेन दिनशो जुहुयात्त्रिशः ॥५१॥
एवं करोति षण्मासं योऽसौ स्यादिन्दिरापतिः ।
उद्बुद्धमात्रे नलिने नवनीतं विनिक्षिपेत् ॥५२॥
सर्किणके सकिञ्जल्कोदरे पत्रान्तरालके ।
पुनः पद्मं तदुद्धृत्य समिद्धे तु हुताशने ॥५३॥
जुहुयादन्त्ययाथर्चा शतमष्टोत्तरं जपेत् ।
चत्वारिंशच्छुक्रवारैर्महाश्रीस्तस्य जायते ॥५४॥
कांसोऽस्मीत्यनया सम्यगेकादश घृताहुतीः ।
षण्मासं जुह्वतो नित्यं भूयात्प्रायो महेन्दिरा ॥५५॥
सूक्तैरेतैर्जुहुत जपताभ्यर्चयीतावगाहे-
त्सिञ्चेद्वक्त्रे दिनमनु तथा संयतस्तर्पयीत ।
संशुद्धात्मा विविधधनधान्याकुलाभ्यन्तरोऽसौ
मन्त्री सर्वैर्भुवि बहुमतः श्रीमतां स्यात्पुरोगः ॥५६॥
श्रीलक्ष्मीर्वरदा विष्णुपत्नी च सवसुप्रदा ।
हिरण्यरूपा सस्वर्णमालिनी रजतस्रजा ॥५७॥
ससुवर्णप्रभा स्वर्णप्राकारा पद्मवासिनी ।
पद्महस्ता पद्मपूर्वप्रिया मुक्तापदादिका ॥५८॥
अलङ्कारा तथा सूर्या चन्द्रा बिल्वप्रियेश्वरी ।
भुक्तिः प्रपूर्वा मुक्तिश्च विभूत्यृद्धिसमृद्धयः ॥५९॥
तुष्टिः पुष्टिश्च धनदा तथान्या तु धनेश्वरी ।
श्रद्धा सभोगीनी भोगदात्री धातृविधातृके ॥६०॥
द्वात्रिंशदेताः श्रीदेव्या ये मन्त्राः समुदीरिताः ।
तारादिका नमोन्ताश्च तैरर्चासु बलिं हरेत् ।
तर्पयेच्च महादेवीं दिनादौ मन्त्रवित्तमः ॥६१॥
नाभ्यक्तोऽद्यान्न नग्नः सलिलमवतरेन्न स्वपेद्वाशुचिः स-
न्नाभ्यज्यान्नैव चाद्यात्तिलरुहलवणे केवले नैव दोषम् ।
वक्त्रे लिम्पेद्वदेन्नानृतमपि मलिनः स्यान्न बिम्बाम्बुजन्म-
द्रोणान्नो धारयेत्के भुवमपि न वृथैवालिखेदिन्दिरार्थी ॥६२॥
सुविमलचरितः स्याच्छुद्धमाल्यानुलेपा-
भरणवसनदेहो मुख्यगन्धोत्तमाङ्गः ।
सुविशदनखदन्तः शुद्धधीर्विष्णुभक्तो
विमलरुचिरशय्यः स्याच्चिरायेन्दिरार्थी ॥६३॥
दुष्टां कष्टान्ववायां कलहकलुषितां मार्गदृष्टामनिष्टा-
मन्यासक्तामसक्तामतिविपुलकृशाङ्गीमतिह्रस्वदीर्घाम् ।
रोगार्तां भोगलोलां प्रतिपुरुषचलां राजकान्तामकान्तां
काकाक्षीमेकचारां ग्रहकुसुमयुतां च स्पृशेदिन्दिरार्थी ॥६४॥
शान्तः शश्वत्स्मितमधुरपूर्वाभिभाषी दयाद्र्रो
देवाचार्यातिथिदहनपूजारतः पुण्यशीलः ।
नित्यस्नायी नियमनिरतः प्रत्यगाशामुखाशी
मन्त्री वर्णाश्रमदृढरतिः स्याच्चिरायेन्दिरार्थी ॥६५॥
श्रीमन्त्रभक्तः श्रितविष्णुदीक्षः
श्रीसूक्तजापी शितधीः सुशीलः ।
स्वदारतुष्टो मितभाषणाशी
लोकप्रियः स्याच्चिरमिन्दिरार्थी ॥६६॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे एकादशः पटलः ॥
N/A
References : N/A
Last Updated : January 21, 2026

TOP