संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्|

एकोनविंशः पटलः

प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.


अथ पुनरभिवक्ष्ये मन्त्रमष्टाक्षराख्यं
सकलदुरितदुःखध्वान्तसम्भेदभानुम् ।
प्रणवहृदयनारावर्णतोऽन्ते यणार्णौ
मपर इति समुद्दिष्टोऽयमिष्टार्थदायी ॥१॥

तारः शक्त्युत्थतया निर्दिष्टः सोऽहमर्थकः पूर्वम् ।
नार्णः प्रतिषेधार्थो मोकारश्चायमर्थको भवति ॥२॥

सलिलानलपवनधराः क्रमेण नारायणाक्षराः प्रोक्ताः ।
चरमेरस्तु विभक्तिव्यक्त्यर्थं र्दिशतस्तदर्थार्थे ॥३॥

ऋषिरस्य मनोः साध्यनारायण इतीरितः ।
छन्दश्च देवी गायत्री परमात्मा च देवता ॥४॥

अथ क्रुद्धमहावीरद्युसहस्रपदादिकैः ।
उल्कैर्जातियुतैः कुर्यात्पञ्चाङ्गानि मनोः क्रमात् ॥५॥

अष्टाक्षरेण व्यस्तेन कुर्याद्वाष्टाङ्गकं सुधीः ।
सहृच्छिरःशिखावर्मनेत्रास्त्रोदरपृष्ठके ॥६॥

अर्कौघाभं किरीटान्वितमकरलसत्कुण्डलं दीप्तिराज-
त्केयूरं कौस्तुभाभाशबलरुचिरहारं सपीताम्बरं च ।
नानारत्नांशुभिन्नाभरणशतयुजं श्रीधराश्लिष्टपाश्र्वं
वन्दे दोःसक्तचक्राम्बुरुहदरगदं विश्ववन्द्यं मुकुन्दम् ॥७॥

सन्दीक्षितो मनुममुं प्रतिजप्तुमिच्छ-
न्कुर्यान्निजेन वपुषैव तु योगपीठम् ।
अंसोरुयुग्मपदमानननाभिमूल-
पाश्र्वद्वयैर्विहितगात्रसमुज्ज्वलं च ॥८॥

मध्येऽनन्ताद्यैरपि संज्ञानात्मान्तिकैर्यजेन्मन्त्री ।
पीठाख्यमन्त्रपश्चिममथ गन्धाद्यैश्च सम्यगुपचारैः ॥९॥

प्रणवं हृदयं चैव प्रोक्त्वा भगवतेपदम् ।
विष्णवे च समाभाष्य सर्वभूतात्मनेपदम् ॥१०॥

अस्त्रमन्त्रप्रबद्धाशो मन्त्रवर्णांस्तनौ न्यसेत् ।
विन्यस्तैर्यैर्भवन्मन्त्री मन्त्रवर्णात्मको हरिः ॥१२॥

आधारहृद्वदनदोःपदमूलनाभौ
कण्ठे सनाभिहृदयस्तनपाश्र्वपृष्ठे ।
कास्येक्षणश्रवणगन्धवहे च दोःप-
त्सन्ध्यङ्गुलीषु हृदि धातुषु सानिलेषु ॥१३॥

मूर्धेक्षणास्यहृदयोदरसोरुजङ्घा-
पादद्वयेषु लिपिशो न्यसतु क्रमेण ।
गण्डांसकोरुचरणेषु रथाङ्गशङ्ख-
श्रीमद्गदाम्बुजपदेषु समाहितात्मा ॥१४॥

ततोऽष्टाक्षरपूत्र्यर्थं स्मर्तव्यो द्वादशाक्षरः ।
मन्त्रो द्वादशमूर्तीस्तु तत्प्रभिन्नस्तनौ न्यसेत् ॥१५॥

अष्टप्रकृत्यात्मकश्च सम्प्रोक्तोऽष्टाक्षरो मनुः ।
अष्टानां प्रकृतीनां च चतुर्णामात्मनामपि ॥१६॥

द्वादशानां तु संयोगो मन्त्रः स्याद्वादशाक्षरः ।
आदित्या द्वादश प्रोक्ता युक्ता द्वादशमूर्तिभिः ॥१७॥

केशवादिप्रदिष्टानां मूर्तीनां द्वादशादितः ।
आदिस्वरयुता न्यस्येत्ताः स्युर्द्वादश मूर्तयः ॥१८॥

ललाटोदरहृत्कण्ठदक्षपाश्र्वांसतद्गले ।
तथा वामत्रये पृष्ठे ककुदोश्च यथाक्रमम् ॥१९॥

द्वादशाक्षरमन्त्रं च मन्त्रविन्मूर्ध्नि विन्यसेत् ।
मूर्धस्थो वासुदेवस्तु व्याप्नोति सकलां तनुम् ॥२०॥

पुनस्तत्प्रतिपत्त्यर्थं किरीटादिमनुं जपेत् ।
किरीटकेयूरहारपदान्याभाष्य मन्त्रवित् ॥२१॥

मकारान्ते कुण्डलं च चक्रशङ्खगदादिकम् ।
अब्जहस्तपदं प्रोक्त्वा पीताम्बरधरेति च ॥२२॥

श्रीवत्साज्र्तिमाभाष्य वक्षःस्थलमथो वदेत् ।
श्रीभूमिसहितं स्वात्मज्योतिर्द्वयमथो वदेत् ॥२३॥

दीप्तिमुक्ताकरायेति सहस्रादित्यतेजसे ।
हृदन्तः प्रणवादिः स्यात्किरीटादिमनुः स्वयम् ॥२४॥

कृत्वा स्थण्डिलमस्मिन्निक्षिप्य निजासिकां समुपविश्य ।
पीठादिकं निजाङ्गे प्रपूज्य गन्धादिभिः सुशुद्धमनाः ॥२५॥

सद्वादशाक्षरान्तं प्रपूज्य विधिवत्किरीटमन्त्रेण ।
कुर्यात्पुष्पाञ्जलिमपि निजदेहे पञ्चशोऽथ वा त्रयशः ॥२६॥

इति दीक्षितविहितविधिः सम्प्रोक्तोऽष्टाक्षरस्य मन्त्रस्य ।
शुद्धानां विमलधियां दीक्षा प्रतिवक्ष्यतेऽथ सङ्क्षेपात् ॥२७॥

कृत्वा त्रिगुणितादीनामेकं मण्डलमुज्ज्वलम् ।
आत्मार्चनोक्तविधिना शक्तिभिः पीठमर्चयेत् ॥२८॥

विमलोत्र्किषणी ज्ञाना क्रिया योगेति शक्तयः ।
प्रह्वी सत्या तथेशानानुग्रहा नवमी तथा ॥२९॥

निधाय कलशं तत्र पञ्चगव्येन पूरयेत् ।
पयोभिर्वा गवां प्रोक्तैः क्वथितैर्वाष्टन्धकैः ॥३०॥

अष्टाक्षराङ्गैरष्टाष्टवर्णैरष्टाक्षरान्वितैः ।
दलमूले यजेद्भूयो वासुदेवादिकान्क्रमात् ।
सशक्तिकांस्ततो बाह्ये सम्पूज्या हरिहेतयः ॥३१॥

चक्रसशङ्खगदाम्बुजकौस्तुभशाङ्र्गाः सखङ्गवनमालाः ।
रक्ताच्छपीतकनकश्यामलकृष्णकाद्युशुक्लभासः स्युः ॥३२॥

ध्वजश्च वैनतेयश्च शङ्खपद्मौ दिगाश्रिताः ।
विघ्नार्यकौ तथा दुर्गाविष्वक्सेनौ विदिग्गताः ॥३३॥

ध्वजः श्यामो विपो रक्तो निधी शुक्लारुणप्रभौ ।
अरुणश्यामलश्यामपीता विघ्नादयो मताः ॥३४॥

इन्द्रादयस्तद्बहिश्च पूज्या गन्धादिभिः क्रमात् ।
इति विष्णोर्विधानं तु पञ्चावरणमुच्यते ॥३५॥

एवमभ्र्यिचते विष्णावुपचारैस्तु पूर्ववत् ।
अग्निमाधाय कुण्डे तु ब्रह्मयागसमीरितैः ॥३६॥

जुहुयादष्टभिद्र्रव्यैर्मनुनाष्टाक्षरेण तु ।
पृथगष्टशतावृत्त्या हुत्वा दत्वा बलिं ततः ॥३७॥

अभिषिच्य गुरुः शिष्यं प्रवदेत्पूर्ववन्मनुम् ।
द्वात्रिंशल्लक्षमानेन स तु मन्त्रं जपेत्ततः ।
तदर्धसङ्ख्यकं वापि शुद्धाचारो जितेन्द्रियः ॥३८॥

पद्मासनः प्राग्वदनोऽप्रलापी तन्मानसस्तर्जनिर्विजताभिः ।
अक्षस्रजो वाङ्गुलिभिर्जपेत नादिद्रुतं नातिविलम्बितं च ॥३९॥

प्रागीरितैरपि जुहोतु दशांशकं वा
द्रव्यैः शुभैः सरसिजैर्मधुराप्लुतैर्वा ।
रत्नांशुकप्रवरकाञ्चनगोमहीभि-
र्धान्यैर्यथाविभवतः प्रयजेद्गुरूंश्च ॥४०॥

विप्रान्प्रतप्र्य विभवैरथ मन्त्रजापी
संह्लादयेज्जपविधिं च ततः क्रमेण ।
नित्यार्चना च विहिता विधनामुनैव
प्रोक्तक्रमेण विदधात्वथ वात्मपूजाम् ॥४१॥

इति जपहुतार्चनाद्यैर्मन्त्री योऽष्टाक्षरं समभ्यस्येत् ।
स त्वैहिकीं च सिद्धिं सम्प्राप्यान्ते प्रयाति परमपदम् ॥४२॥

अङ्गानि पूर्वं त्वथ मूर्तिशक्तीः सकेशवादींश्च पुरन्दरादीन् ।
समर्चयेद्यस्तु विधानमेतन्नरोऽचिरात्काङ्क्षितमेति कामम् ॥४३॥

यष्टव्यः स्याद्वासुदेवादिरादौ
चक्राद्याः केत्वादिकाः केशवाद्याः ।
इन्द्राद्याश्चेत्येवमेव प्रदिष्टं
तुष्ट्यायुः श्रीकीर्त्तिसिद्ध्यै विधानम् ॥४४॥

स वासुदेवादिकमर्चयित्वा
भूयो ध्वजादींश्च पुरन्दरादीन् ।
क्रमेण विद्वान्विधिनार्चयीते-
त्ययं क्रमश्च त्रिदशाभिपूज्यः ॥४५॥

इत्युक्तविधिचतुष्के पूजयितुरथैकमपि यथाशक्ति ।
अचिरेण भवति लक्ष्मीर्हस्तगता सकलवर्गसिद्धिकरी ॥४६॥

अष्टाक्षराक्षराष्टकमूर्तिविधानानि भेदभिन्नानि ।
वक्ष्याम्यर्चयितृणां वाञ्छितसकलार्थसाधनानि सदा ॥४७॥

सिन्दूरकुन्दकरविन्दकबन्धुजीव-
काश्मीरपद्ममकरन्दरुचः क्रमेण ।
नीलोत्पलाम्बुरुहरागसमानवर्णाः
स्युर्मूर्तयोऽष्ट कथिता मनुवर्णजाताः ॥४८॥

अरिदरगदाब्जहस्ताः सर्वास्तु नकारमोर्णयोर्मन्त्री ।
शङ्खारिगदाब्जकरे लक्षणमन्यत्समानरूपं स्यात् ॥४९॥

या मूर्तिरच्र्यतेऽस्य व्रजन्ति परिवारितां तदवशिष्टाः ।
अवशिष्टेऽन्त्येऽथांशे स्वयं च परिवारितां प्रयाति तदा ॥५०॥

इयमेवावृतिरधिका ध्रुवजे ध्रुवजात्पुरा समुद्दिष्टात् ।
भवति विधानादिति पुनरेषां प्रथमं विधानमुद्दिष्टम् ॥५१॥

अथ द्वितीयाक्षरतोऽङ्गतोऽन्ते
वर्णाष्टमूर्तीरपि मूर्तिशक्तीः ।
यजेद्विधाने च सकेतुलोक-
पालादिकानुक्तविधानकॢप्त्या ॥५२॥

मोकारजे रतिधृती च सकान्तितुष्टि-
पुष्टिस्मृतीरपि च दीप्त्यभिधां च कीर्त्तिम् ।
केत्वादिकं च सशतक्रतुपूर्वकं च
सम्पूजयेद्विमलधीः पुनरन्वितोऽन्ते ॥५३॥

नाकारजेऽङ्गतोऽन्ते प्रपूजयेन्मूर्तिशक्तिलोकेशान् ।
रावर्णजेऽङ्गमूर्तिश्रीभूमायामनोन्मनीस्तदनु ॥५४॥

ह्रीः श्री रतिः सपुष्टिर्मोहनिमाये महादियोगाद्ये ।
माये च तृतीयावृतिरन्यदशेषं पुरैव निर्दिष्टम् ॥५५॥

यकारजेऽरिशङ्खौ च सगदाहलशाङ्र्गकाः ।
मुसलः खड्गशूलौ च तृतीया साक्षरोद्भवे ॥५६॥

शेषो वासुकितक्षककार्कोटकपज्र्जमहापद्माः ।
वरपालगुलिकसंज्ञास्तृतीयमन्यत्समं विधानेऽन्त्ये ॥५७॥

अङ्गैः प्रथमावरणं मूर्तिभिरपि शक्तिभिर्द्वितीयमपि ।
अन्यैः केशवकेत्वादिभ्यां स्यात्पञ्चमं च मत्स्याद्यैः ॥५८॥

मत्स्यः कूर्मवराहौ नृसिंहकुब्जत्रिरामकृष्णाश्च ।
कल्किः सानन्तात्मा पुनरमृतात्मा च षष्ठमहिपाद्यैः ॥५९॥

सप्तममपि लोकेशैरष्टममपि तदायुधैश्च सम्प्रोक्तम् ।
प्रागुक्तेषु विधानेष्वालक्ष्यं नोक्तमत्र यत्तदपि ॥६०॥

अष्टाक्षराक्षरविधानचतुष्कयुग्मं
प्रोक्तक्रमेण विधिनाभियजेद्य एनम् ।
भक्त्या मुकुन्दमनुजापरतो नराग्र्यः
प्राप्नोति वाञ्छितमयत्नत एव कामम् ॥६१॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे एकोनविंशः पटलः ॥

N/A

References : N/A
Last Updated : January 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP