संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्|

षड्विंशः पटलः

प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.


अथ प्रवक्ष्यते मन्त्रो दक्षिणामूर्तिसंज्ञकः ।
जपतामिष्टसंसिद्धिविधानसुरपादपः ॥१॥

अत्रिः क्षिणा कालकर्णकामिकायुग्र्येक्षराः ।
तुध्यामध्यगताः स्युभ्र्यं वटमूलनिवासिने ॥२॥

नैधातृनिरताङ्गाय नमो रुद्राय शम्भवे ।
तारशक्तिनिरुद्धोऽयं मन्त्रः षट्त्रिंशदक्षरः ॥३॥

शुकः प्रोक्तो मुनिश्छन्दोऽनुष्टुप्च समुदाहृतम् ।
दक्षिणामूर्तिरुद्रोऽस्य देवता समुदीरिता ॥४॥

तारशक्त्यादिकैर्हाङाद्यन्तैर्मन्त्राक्षरैः क्रमात् ।
ऋत्वक्षिवसुवस्वग्निगुणवर्णैर्विभागशः ॥५॥

मन्त्री कुर्यात्षडङ्गानि जातियुञ्जि समाहितः ।
कालिकश्रुतिदृग्गण्डद्वयनासास्यके दश ॥६॥

दोः सन्धिकण्ठस्तनहृन्नाभिकट्यन्धुषु क्रमात् ।
पत्सन्धिषु पुनर्द्वाभ्यां मन्त्रविद्व्यापकं न्यसेत् ।
एवं न्यस्तशरीरोऽथ चिन्तयेन्मन्त्रदेवताम् ॥७॥

मुद्रां भद्रार्थदात्रीं सपरशुहरिणां बाहुभिर्बाहुमेकं
जान्वासक्तं दधानो भुजगवरसमाबद्धकक्ष्यो वटाधः ।
आसीनश्चन्द्रखण्डप्रतिघटितजटः क्षीरगौरस्त्रिणेत्रो
दद्यादाद्यैः शुकाद्यैर्मुनिभिरभिनुतो भावशुद्धिं भवो वः ॥८॥

प्राक्प्रोक्तविधानेन च सम्यक्सम्पूज्य साधु कलशाद्यैः ।
कृतसन्दीक्षो मन्त्री जप्यादेनं मनुं समाहितधीः ॥९॥

द्वात्रिंशदयुतमानं जप्याच्च जुहोतु तद्दशांशमितैः ।
दुग्धाप्लुतैस्तिलैर्वा साज्येन पयोन्धसा द्वयेनापि ॥१०॥

जप्त्वैवं मन्त्रमेनं दिनमनु गिरिशं पूजयित्वा च हुत्वा
नत्वा स्तुत्वा मनोवाक्तनुभिरवहितः प्राप्य कामानशेषान् ।
व्याख्याता चागमानां भुवि कविषु वरः साधु वेदान्तवेदी
वादीट् सोऽद्वैतविद्याविमलतरमतिर्याति शैवं पदं तत् ॥११॥

जीवशिखिकर्णरेफान्प्रतिवीप्स्य प्रादिकांश्च पुनरपि तान् ।
मेधाप्यायिनियान्तांस्तानेव तरान्तिकान्सतनुरूपान् ॥१२॥

आभाष्य चटप्रचटौ सकहवमौ बन्धघातयौ वीप्स्य ।
प्रोक्त्वा वर्मास्त्रावधि समुद्धरेच्छक्तिपूर्वकं मन्त्रम् ॥१३॥

ऋषिरस्याघोराख्यः सम्प्रोक्तस्त्रिष्टुबुच्यते च्छन्दः ।
रुद्रोऽप्यघोरपूर्वः समीरितो देवता तथास्य मनोः ॥१४॥

हृत्पञ्चभिस्तदर्णैः शिरो हि षड्भिः शिखा तथा दशभिः ।
तावद्भिरेव कवचं दृगष्टभिर्द्वादशभिरपि चास्त्रम् ॥१५॥

कदृगास्यकण्ठहृन्नाभ्यन्धूरुषु जानुजङ्घयोः पदयोः ।
एकादशधा भिन्नैर्मन्त्रार्णैन्र्यसतु विग्रहे मन्त्री ॥१६॥

पञ्चभिरथो सषड्भिर्द्वाभ्यामप्यष्टभिश्चतुर्भिश्च ।
षड्भिश्चतुस्त्रयेण च षड्भिद्यर्द्वाभ्यां च भेदितैः क्रमशः ॥१७॥

कालाभ्राभः कराग्रैः परशुडमरुकौ खड्गखेटौ च बाणे-
ष्वासौ शूलं कपालं दधदतिभयदो भीषणास्यस्त्रिणेत्रः ।
रक्ताकाराम्बरो हि प्रवरघटितगात्रोऽरिनागग्रहादी-
न्खादन्निष्टार्थदायी भवदनभिमतच्छित्तये स्यादघोरः ॥१८॥

स्वच्छो मुमुक्षोस्तु भवेदघोरः
काम्यक्रियायामपि रक्तवर्णः ।
कृष्णोऽभिचारे ग्रहवैकृते च
प्रोक्तो जपः स्यादपि लक्षमानम् ॥१९॥

घृतावसिक्तैस्तिलतण्डुलैश्च जयावसाने जुहुयाद्दशांशम् ।
घृतप्लुतैर्वाथ हविर्भिरेवं तावत्प्रजुह्वन्समुपैति कामान् ॥२०॥

हृल्लेखास्थितसाध्याक्षरविलसत्र्किणकं कलावीतम् ।
वर्गाष्टकात्तकेसरमन्त्ये सहळक्षयाक्षरोल्लसितम् ॥२१॥

मन्त्राक्षरत्रयोद्यद्दलमध्यदलाग्रकं च तद्बाह्ये ।
वह्निपुटाश्रिसामाश्रितकवचास्त्रं प्रतिविलिख्य यन्त्रमिदम् ॥२२॥

कृत्वा समाप्य मण्डलमत्र विनिक्षिप्य पूरयेत्कलशम् ।
पीठे पिनाकपाणेर्गव्यैर्वा क्वाथकॢप्ततोयैर्वा ॥२३॥

अङ्गावृतेरनु च हेतिभिरीरिताभिः
पश्चाच्च मातृभिरथापि दिशाधिनाथैः ।
सम्पूजयीत विधिनेति षडक्षरोक्त-
मार्गेण वा मनुपरिस्फुरणाय मन्त्री ॥२४॥

आज्यापामार्गसमित्तिलसर्षपपायसाज्यकैश्च पृथक् ।
रात्रौ सहस्रहोमाद्भूतद्रोहादिशान्तिरुद्दिष्टा।२५॥

सितकिंशुकनिर्गुण्डीकनकापामार्गजन्मनां समिधाम् ।
पृथगपि सहस्रहोमान्निग्रहमोक्षोऽचिराद्ग्रहाणां स्यात् ॥२६॥

गव्याक्तैर्जुहुयात्पृथग्दशशतं मन्त्री मयूरेध्मकै-
र्भूयस्तैश्चतुरङ्गुलैश्च शिवपञ्चम्यां निशायां हुनेत् ।
र्सिपर्मार्गसपञ्चगव्यचरुर्सिपः ससम्पातकं
हुत्वा तत्प्रतिभोजयेत्प्रतिशमं यान्त्येव सर्वे ग्रहाः ॥२७॥

षट्कोणे र्किणकायां स्फुरयुगलवृतां साध्यगर्भां च शक्तिं
कोणाग्रे प्रस्फुरद्वन्द्वकमथ विलिखेन्मन्त्रवर्णान्दलेषु ।
षड्वेदद्वन्द्वषड्वेदकचतुर्युगपट्सङ्ख्यकान्बाह्यषट्के
वर्मास्त्रार्णां तदेतद्ग्रहगदभयहृद्यन्त्रमाघोरमाहुः ॥२८॥

न च रिपवो न च रोगा न ग्रहपीडा न शस्त्रबाधा च ।
न क्ष्वेलरुजा मत्र्यान्स्पृशन्त्यघोरास्त्रमन्त्रजापपरान् ॥२९॥

तस्मादघोरास्त्रमनुं प्रजप्यात्समर्चयेत्तद्विहितं यथावत् ।
हुनेच्च तेनैव समस्तवाञ्छासंसिद्धये चाथ विमुक्तये च ॥३०॥

खसप्तमः कर्णयुतोऽर्धचन्द्रवा-
ल्ँलपञ्चमो द्वीन्दुयुतो ध्रुवादिकः ।
मनुः स्वयं मृत्युजयात्मकः स्फुटं
समीरितः साधकरक्षणक्षमः ॥३१॥

ऋषिरस्य कहोलाख्यश्छन्दो देव्यादिका च गायत्री ।
स्याद्देवता च मृत्युञ्जयरुद्रोऽङ्गान्यथाचरेद्भृगुणा ॥३२॥

स्फुटितनलिनसंस्थं मौलिबद्धेन्दुरेखा-
गलदमृतजलाद्र्रं चन्द्रवह्न्यर्कनेत्रम् ।
स्वकरकलितमुद्रापाशवेदाक्षमालं
स्फटिकरजतमुक्तागौरमीशं नमामि ॥३३॥

जप्तव्योऽयं मन्त्रवर्यस्त्रिलक्षं दीक्षापूर्वं होमकृत्स्याद्दशांशैः ।
दुग्धाज्याक्तैः शुद्धखण्डैर्गलूच्या गुर्वादेशात्साधको हव्यवाहे ॥३४॥

अर्चा कार्या नित्यशः शैवपीठे
स्यादप्यङ्गैर्लोकपालैस्तदस्त्रैः ।
सम्यक्पूजावस्तुभिर्मन्त्रजापैः
प्रोक्तं ह्येतन्मृत्युभेत्तुर्विधानम् ॥३५॥

इति जपहुतार्चनाद्यैः सिद्धो मन्त्रोक्तमूर्तिविहितमनुः ।
सम्भावयेन्निजान्तर्योगं कृत्यापमृत्युनाशकरम् ॥३६॥

तारनालमथ मध्यपत्रकं हाद्यर्किणकयुतं क्रमोत्क्रमात् ।
चिन्तयेन्नियतमन्तरा शिवं नीरुजे च नियतायुषेऽब्जयोः ॥३७॥

ऊध्र्वाधःप्रोतपद्मद्वयदलनिचितैरक्षराद्यैर्ध्रवाद्यै-
राद्यन्तैर्मन्दमन्दप्रतिगलितसुधापूरसंसिच्यमानम् ।
ईशानं सूक्ष्मरूपं विमलतरसुषुम्नान्तरा सन्निषण्णं
ध्यायन्नाप्नोति रोगैर्नियतपरिहृतः सञ्जपाद्दीर्घमायुः ॥३८॥

आदौ तारं विलिखतु ससाध्याह्वयं र्किणकायां
दिक्पत्रेष्वप्यपरमपरं चापि तत्कोणकेषु ।
भूयो भूमेः पुरमनु मृगाज्र्ं तदश्रेषु टान्तं
जप्त्वा बन्धं ग्रहगदविषध्वंसि यन्त्रं तदेतत् ॥३९॥

इति कृतयन्त्रविभूषितमण्डलमध्ये निधाय कलशमपि ।
आपूर्य चाभिषिञ्चेच्छ्रीवश्यकरं ग्रहाभिचारहरम् ॥४०॥

ततश्छिन्नोद्भवानां तु समिद्भिश्चतुरङ्गुलैः ।
दुग्धसिक्तैः समिद्धेऽग्नौ षट्सहस्रद्वयं हुनेत् ॥४१॥

यस्तु वह्नौ जुहोत्येवं यावत्सङ्ख्येन साधकः ।
तावत्सङ्ख्यैः सुधाकुम्भैरग्निः प्रीणाति शङ्करम् ॥४२॥

आप्यायितोऽग्निना शर्वः साधकस्येप्सितान्वरान् ।
प्रदद्यादायुराद्यांश्च दुरन्तान्प्रलयान्तिकान् ॥४३॥

मन्त्रान्ते साध्याख्यां पालययुगलं प्रतीपमपि मन्त्रम् ।
प्रोक्त्वा समापयेन्मनुमयमपि मृत्युञ्जयाह्वयो मन्त्रः ॥४४॥

अथ वामलकमलपुटान्तरितं शिशुवेषभूषणं रुद्रम् ।
ध्यात्वा जपेद्यथावद्धुतकॢप्त्या मृत्युनाशनं दृष्टम् ॥४५॥

चतुरङ्गुलपरिमाणैरमृताखण्डैरथार्कसाहस्रम् ।
जुहुयाच्च दुग्धसिक्तैरारोग्यायायुषे च लक्ष्म्यै च ॥४६॥

अमृतावटतिलदूर्वाः पयो घृतं पायसं क्रमेणेति ।
सप्तद्रव्याण्युक्तान्येतैर्जुहुयात्पृथक्सहस्रतयम् ॥४७॥

तीवेर ज्वरे घोरतरेऽभिचारे
सोन्मादके दाहगदे च मोहे ।
तनोति शान्तिं नचिरेण होमः
सञ्जीवनं चाब्दशतप्रमाणम् ॥४८॥

सम्भोजयेद्धोमदिने च विप्रा-
न्सप्ताधिकान्स्वादुभिरन्नजातैः ।
सतर्णका गाश्च हुतावसाने
दद्याद्विजेभ्यो हुतकर्मकृभ्द्यः ॥४९॥

निजजन्मदिने शतं शतं यो
जुहुयाद्द्रव्यवरैः ससप्तसङ्ख्यैः ।
मधुरैरपि भोजयेच्च विप्रा-
नभिवाञ्छन्नियमेन दीर्घमायुः ॥५०॥

अथ वा सप्तभिरैतैद्र्रव्यैरेकेन वा सहस्रतयम् ।
जन्मक्र्षे होममात्रान्निरुपद्रवमुत्तमं व्रजेदायुः ॥५१॥

दूर्वात्रितयैर्जुहुयान्मन्त्रविदेकादशाहुतीर्दिनशः ।
जित्वापमृत्युरोगान्प्रयात्यसावायुषश्च दैघ्र्यमपि ॥५२॥

जन्मक्र्षाणां त्रितये च्छिन्नाकाष्मर्यवकुलकैरिध्मैः ।
क्रमशो हुनेत्सहस्रं नश्यन्त्यपमृत्युरोगदुरितानि ॥५३॥

सितसिद्धार्थसहस्राहुत्या नश्यन्त्युपद्रवा ज्वरजाः ।
तद्वदपामार्गहुता मृत्युञ्जयमप्यरोगतां लभते ॥५४॥

प्रोक्तैध्र्यानजपार्चनाहुतविधानाद्यैश्च मृत्युञ्जयं
यो मन्त्री प्रभजन्मनुं प्रतिदिनं प्रातः प्रसन्नाशयः ।
तस्येष्टानि भवन्ति संसृतिरपि स्फीता च पुत्रादयः
सम्पन्नः सुसुखी च जीवति चिरं देहापदि स्याच्छिवः ॥५५॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे षड्विंशः पटलः ॥

N/A

References : N/A
Last Updated : January 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP