एकविंशः पटलः
प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे.
अथोच्यते द्वादशवर्णसंज्ञो मन्त्रस्तु साङ्गः सजपः सहोमः ।
विधानतो यं प्रतिजप्य भक्ता भुक्तेश्च मुक्तेश्च पदं भवेयुः ॥१॥
तारं सहृदयं मध्ये गवते स्युर्भवार्णयोः ।
सुययोश्च तथा देवा मन्त्रोऽयं द्वादशाक्षरः ॥२॥
ऋषिः प्रजापतिश्छन्दो गायत्रं विष्णुरुच्यते ।
देवता हृद्ध्रुवेण स्यान्नमसा शिर उच्यते ॥३॥
चतुर्भिश्च शिखावर्णैः पञ्चभिः कवचं भवेत् ।
प्रोक्तमस्त्रं समस्तेन पञ्चाङ्गविधिरीदृशः ॥४॥
सपादजानुयुगललिङ्गनाभ्युदरेषु च ।
हृद्दोर्गलास्यदृङ्मस्तशिखास्वक्षरतो न्यसेत् ॥५॥
शिखाललाटनेत्रास्यगलदोर्हृदयेषु च ।
स्कुक्षिनाभिलिङ्गाख्यजानुपादेषु विन्यसेत् ॥६॥
हृत्कुक्षिनाभिषु तथा गुह्यजानुपदेष्वधः ।
करकण्ठास्यदृङ्मस्तशिखासूध्र्वं च विन्यसेत् ॥७॥
संहृतेर्दोषसंहारः सृष्टेश्च शुभपुष्टयः ।
स्थितेश्च शान्तिविन्यासस्तस्मात्कार्यस्त्रिधा मतः ॥८॥
हरिमुज्ज्वलचक्रदराब्जगदाकुलदोः परिघं सितपद्मगतम् ।
वलयाङ्गदहारकिरीटधरं नवकुन्दरुचं प्रणमामि सदा ॥९॥
विधिवदथ विहितदीक्षो जपेन्मनुं वर्णलक्षमानममुम् ।
शुद्धैश्च तिलैर्जुहुयाद्वादशसाहस्रकं तथा मन्त्री ॥१०॥
पीठे हरेरथाङ्गैः सशक्तिभिर्मूर्तिभिस्तदनु यजेत् ।
केशवसुरनाथाद्यैरपि देवं भक्तिपूर्वतो विद्वान् ॥११॥
समिधामथ दुग्धवृक्षजानां जुहुयादर्कसहस्रकं सदुग्धम् ।
मनसः परिशुद्धये मनस्वी सघृतेनापि पयोन्धसा सितेन ॥१२॥
द्वादशाक्षरजपं तु सार्चनं यो भजेत्सुनियतो दिने दिने ।
ऐहिकं समुपलभ्य वाञ्छितं प्रेत्य याति पदमक्षयं हरेः ॥१३॥
अथ प्रवक्ष्यामि सुदर्शनस्य विधिं मनोज्ञं ग्रहतेजपादैः ।
यत्सिद्धितः सिद्धिमवाप्य रम्यां सिद्धामुनीन्द्रा अपि सद्य एव ॥१४॥
अन्त्यतुरीयतदादिकभृगुदहनानन्तवह्निवर्मास्त्रैः ।
तारादिर्मनुरुक्तः स्यादभिमतसिद्धिदो रथाङ्गाख्यः ॥१५॥
ऋषिरस्याहिर्बुध्न्यश्छन्दोऽनुष्टुपं देवता विष्णुः ।
चक्रपदैराविसुधी सज्वालाद्यैः शिरोन्वितैरङ्गम् ॥१६॥
ऐन्द्रीं समारभ्य दिशं त्वधस्ता-
दन्तं समुक्त्वा क्रमशो दशानाम् ।
चक्रेण बध्नामि नमस्तथोक्त्वा
चक्राय शीर्षं च दिशां प्रबन्धः ॥१७॥
त्रैलोक्यं रक्ष रक्षेति हुम्फट्स्वाहेति चोदितः ।
तारादिकोऽयं मन्त्रः स्यादग्निप्राकारसंज्ञकः ॥१८॥
तारं तु मूध्न्र्यथ सितारुणकृष्णवर्णं
मध्ये भ्रुवोश्च समथो वदने हकारम् ।
हृद्गुह्यजानुपदसन्धिषु चावशिष्टा-
न्वर्णान्न्यसेदिति तनौ पुनरग्निवर्णान् ॥१९॥
अव्याद्भास्करसप्रभाभिरखिला भाभिर्दिशो भासय-
न्भीमाक्षः क्षरदट्टहासविकसद्दंष्ट्राग्रदीप्ताननः ।
दोर्भिश्चक्रदरौ गदाब्जमुसलास्त्रासींश्च पाशाज्रुशौ
बिभ्रत्पिङ्गशिरोरुहोऽथ भवतश्श्चक्राभिधानो हरिः ॥२०॥
प्रोक्त्वा सुदर्शनायेति विद्महेऽन्ते महापदम् ।
ज्वालाय धीमहे चोक्त्वा तन्नश्चक्रः प्रचोदयात् ॥२१॥
सौदर्शनीयं गायत्री जप्तव्या जप्तुमिच्छता ।
सान्निध्यकारिणीं मुद्रां दर्शयेदनया सुधीः ॥२२॥
नमो भगवते प्रोक्त्वा महासुदर्शनाय च ।
महाचक्राय च तथा महाज्वालाय चेत्यथ ॥२३॥
दीप्तिरूपाय चेत्युक्त्वा सर्वतो रक्ष रक्ष माम् ।
महाबलाय स्वाहेति प्रोक्तस्तारादिको मनुः ।
रक्षाकरः प्रसिद्धोऽयं क्रियमाणेषु कर्मसु ॥२४॥
षट्कोणान्तःस्थतारं विवरलिखितमन्त्राक्षरं सिद्धिराज-
त्स्वाङ्गं बाह्ये कलाकेसरमुदरगताष्टाक्षरं चाष्टपत्रम् ।
पद्मं वर्णैर्विराजद्विकृतिदललसत्षोडशार्णं त्रिवीतं
व्योमान्त्यार्णं स्वनाम्ना विरचितगुणपाशाज्रुशं चक्रयन्त्रम् ॥२५॥
प्रणवहृद्भगवद्युतङे महादिकरथाङ्गचतुर्थिहुमस्त्रकैः ।
निगदितस्त्विह षोडशवर्णको मनुवरो मुनिभिर्विहितादरः ॥२६॥
क्वाथैः पयोभूरुहचर्मसिद्धैर्दुग्धेन गव्यैरपि पञ्चभिर्वा ।
मूत्रैः पशोर्वा प्रतिपूर्य कुम्भं समर्चयेच्चक्रहिंर यथावत् ॥२७॥
अङ्गैः प्रथमावृतिरपि पूज्या चक्रादिभिर्द्वितीया च ।
लक्ष्म्यादिभिस्तृतीया क्रमात्तथेन्द्रादिभिश्चतुर्थी स्यात् ॥२८॥
चक्रशङ्खगदापद्ममुसला धनुरेव च ।
पाशाज्रुशौ पीतरक्तसितश्यामा द्विजस्त्विमाः ॥२९॥
लक्ष्मीः सरस्वती चाथ रतिः प्रीत्याह्वया तथा ।
कीर्त्तिः कान्तिस्तुष्टिपुष्टी क्रमेणैव तु शक्तयः ॥३०॥
सम्पूज्य चैवं विधिना हिंर तु
शिष्यं गुरुः प्रीततमोऽभिषिञ्चेत् ।
भक्त्या स्वशक्त्या विभवैर्द्विजाती-
न्सन्तप्र्य भूयो गुरुणानुशिष्टः ॥३१॥
एकाग्रचित्तो रविलक्षसङ्ख्यं
जपेन्मनुं नित्यकृताभिपूजः ।
तावत्सहस्रं किल सर्षपाश्च
बिल्वाज्यदौग्धानि जुहोतु सम्यक् ॥३२॥
समुद्रतीरेऽप्यथ वाद्रिशृङ्गे समुद्रगानां सरितां च तीरे ।
जपेद्विविक्ते निज एव गेहे विष्णोगृहे वा पुरुषो मनस्वी ॥३३॥
यथोक्तसङ्ख्यं विधिवत्प्रजप्ते
मन्त्रं यथोक्तैश्च हुते हुताशे ।
द्रव्यैरथ स्वार्थपरार्थहेतोः
कुर्यात्प्रयोगान्विधिना यथावत् ॥३४॥
पीताभा र्किणका स्यादरुणतरमरं श्यामलं चान्तरालं
नेमि श्वेतं च बाह्ये विरचितशितिरेखाकुलं पार्थिवान्तम् ।
चक्रद्वन्द्वं लिखित्वा विशदमतिरथो सौम्ययाम्यं च मन्त्री
कुम्भं सम्पूर्य सौम्ये प्ररचयतु तथा दक्षिणे होमकर्म ॥३५॥
षड्विंशच्छतसम्मितैरथ घृतापामार्गजेध्माक्षतैः
सद्राजीतिलपायसैश्च सकलैद्र्रव्यैर्घृतान्तैः क्रमात् ।
हुत्वा तद्धुतशिष्टमत्र विधिवत्क्षिप्त्वा प्रतिद्रव्यकं
प्रस्थार्धान्नकृतं च पिण्डममलं कुम्भोदके मन्त्रवित् ॥३६॥
संस्थाप्य दक्षिणस्यां साध्यं कुम्भेन तेन नीराज्य ।
तमथ घटं सद्रव्यं बहिरारादष्टमे क्षिपेद्राशौ ॥३७॥
अग्न्यादिकमपि सर्वं क्षिपेदथ घटस्य दक्षिणे भागे ।
हुतशिष्टान्नेन बलिं मन्त्रेणानेन मन्त्रवित्कुर्यात् ॥३८॥
हृदयान्ते विष्णुपदं प्रोक्त्वाथ गणेभ्य उच्चरेत्सर्वम् ।
शान्तिकरेभ्यश्च बलिं गृह्ण्न्त्विति शान्तये नमोन्तं स्यात् ॥३९॥
ज्वारादिकां रोगपरम्परां वा विस्मृत्यपस्मारभवां रुजं वा ।
रक्षःपिशाचग्रहवैकृतं वा विधिस्त्वयं मुङ्क्षु हरेद्विकारम् ॥४०॥
पालाशैर्वा स्तनजद्रुमजैर्वा पञ्जरे कृते फलकैः ।
सम्पूर्य पञ्चगव्यैस्तत्र तु संस्थाप्य शुद्धमपि गदिनम् ॥४१॥
पूर्वोद्दिष्टैर्दिक्ष्वपि सजपं जुहुयुः पृथग्द्विजा वशिनः ।
द्रव्यैः स दक्षिणान्तानभ्यच्र्य विमुच्यते रुजो जन्तुः ॥४२॥
विप्रक्षीरद्रुमत्वङ्गलयजपुरकाश्मीरकुष्ठत्रियामा
बिल्वापामागराजीतिलतुलसियुगक्रान्तिदूर्वायवार्कैः ।
लक्ष्मीदेवीकुशागोमयकमलवचारोचनापञ्चगव्यैः
सिद्धेऽग्नौ कुम्भसिद्धं मनुजपमहितं भस्म सर्वार्थदायि ॥४३॥
लक्ष्म्यायुष्करमतुलं पिशाचभूता-
पस्मारादिकमचिरेण नाशयेच्च ।
क्षुद्रादीनपि विविधांस्तथापसर्गा-
नेतस्मान्न परतरा समस्ति रक्षा ॥४४॥
जुहुयाद्गुग्गुलुगुळिकासहस्रकं साष्टकं च मन्त्रितमः ।
त्रिदिनं चतुर्दिनं वा सर्वोपद्रवनिवारणं भवति ॥४५॥
स्वरमञ्जर्याः समिधामयुतं वा मन्त्रवित्तमो जुहुयात् ।
ज्वरभूतामयविस्मृत्यपस्मृतीः शमयितुं नियतचित्तः ॥४६॥
आज्याक्तैजुहुयाच्छ्रिये सरसिजैर्दूर्वाभिरप्यायुषे
मेधायै द्विजभूरुहैश्च कुमुदैः श्वेतैस्तथा वाससे ।
शुद्धाज्यैः पशवेऽप्युदुम्बरभवैः पुत्राय चाश्वत्थजै-
रेकाब्दं विधिवत्सहस्रसमितैरष्टोत्तरं मुक्तये ॥४७॥
चक्रस्य नाभिसंस्थं कृत्वात्मानं मनुं जपेन्मन्त्री ।
स्वयमेकोऽपि न युद्धे मत्र्यो बहुभिः पराजितो भवति ॥४८॥
मन्त्री सुनियतचित्तश्चक्रस्थं भ्रामयेद्धिया ग्रस्तम् ।
आविश्य सकलमुक्त्वा मुञ्चति दग्धोऽग्निना शुनाभिभुवा ॥४९॥
दीप्तं करालदहनप्रतिमं च चक्रं
यस्य स्मरेच्छिरसि कस्यचिदप्रियस्य ।
सप्ताहतोऽस्य दहनप्रतिमो ज्वरः स्या-
त्त्रिंशद्दिनैश्च स परेतपुरं प्रयाति ॥५०॥
कलावृतं चाहिपदाभिवेष्टितं
समक्षरं यच्छिरसि स्मरेत्सदा ।
दशाहतोऽसौ प्रति चाट्यते रिपु-
र्मृतिं तथा मण्डलतः प्रयाति ॥५१॥
सान्तं वायसवर्णं शत्रोः शिरसि स्मरेच्च सप्ताहम् ।
उच्चाटयति क्षिप्रं मारयतोवाधिवोऽस्य नैशित्यात् ॥५२॥
स्रवत्सुधार्विषणमिन्दुसप्रभं
समुज्ज्वलं यच्छिरसि प्रचिन्तयेत् ।
क्षणात्समाप्यायितसर्वविग्रहो
भवेत्स मत्र्यः सुचिरं च जीवति ॥५३॥
मध्ये तारं तदनु च मनुं वर्णशः कोण षट्के
बाह्ये चाङ्गं लिखतु करके रूप्यके वापि ताम्रे ।
पाषाणे वा विधिवदथ जप्याथ संस्थापितं त-
च्चक्रं चोरग्रहरिपुभयध्वंसि रक्षाकरं च ॥५४॥
स्थाने हृषीकेशविर्दिभतं च स्पष्टाक्षरं चाप्यभिजप्तमेतत् ।
रक्षां ग्रहादेः सततं विधत्ते यन्त्रं सुकॢप्तं च मनुत्रयेण ॥५५॥
अष्टाक्षरान्तरितपादचतुष्ककोष्ठं
कोष्ठत्रयालिखितसाध्यसुदर्शनं च ।
रेखाभिरप्युभयतः श्रुतिशः प्रबद्धं
तत्सप्तकोष्ठमिति यन्त्रमिदं प्रशस्तम् ॥५६॥
भूर्जे वा क्षौमपट्टे तनुमसृणतरे कर्पठे वास्य यन्त्रं
मन्त्री सम्यग्लिखित्वा पुनरपि गुलिकीकृत्य लाक्षाभिवीतम् ।
कृत्वा भस्मादिहोमप्रविहितघृतसम्पातपातात्तशक्तिं
जप्तं सम्यङ्निदध्यात्प्रतिशममुपयान्त्येव सर्वे विकाराः ॥५७॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः
कृतौ प्रपञ्चसारे एकविंशः पटलः ॥
N/A
References : N/A
Last Updated : January 21, 2026

TOP